________________
कातन्वव्याकरणम्
समम् । शोभनत्वं समस्येत्यादि वाक्यम् । तथा प्रमृगम्, प्ररथम्, प्रदक्षिणम् । अव्ययपूर्वादलिङ्गतैव प्राप्तेति वचनम् ।। ३५२ ।
[दु० टी०]
स नपुं० । स इह विशेष्यो नपुंसकलिङ्गमिति विशेषणं चेत् तत्र यदि नपुंसकं लिङ्गं यस्येति बहुव्रीहिस्तदा तत्र नपुंसकलिङ्ग इति भवितव्यम् । तच्छब्देनाव्ययीभावः पुंलिङ्ग उच्यते । अथ नपुंसकं च तल्लिङ्गं चेति कर्मधारयस्तदा तस्य नपुंसकलिङ्गमिति भेदात् षष्ठी स्यात् ? सत्यम् । नपुंसकलिङ्गयोगाद् अव्ययीभावोऽपि नपुंसकलिङ्गमुच्यते । स्वलिङ्गाभिधानं च यथा 'कुन्तान् स्त्रीः प्रवेशय' इति । कश्चिद् आह - अव्ययीभावो नपुंसकलिङ्गमापद्यते इति स्यादिति वक्ष्यमाणेन सम्बन्धः । एवमपि नात्रा-व्ययीभावो निवर्तते । किन्तर्हि धर्मान्तरेण युज्यते । अथैतदेव विवर्तनं तथापि न युक्त-रूपं न चाव्ययीभावो नपुंसकलिङ्गं प्रतिपद्यत इति युक्तम् । प्रतिपत्तिः कथमव्ययीभाव-स्यावबोधरूपस्य किं वा साधयितुम्, तस्मात् श्लोकबन्धस्य गमकत्वात् स्याच्छब्दोऽत्रैव पठितव्यः समंभूमीत्यादि । समत्वं भूमेः समत्वं पदातेरिति विग्रहः । समंशब्दोऽयमव्ययः समत्वे वर्तते न सहार्थेऽनभिधानात् ।
शोभनत्वं समस्येत्यादि इति । शोभनत्वं विगतत्वं निर्गतत्वं दुष्टत्वम् अपरत्वं समस्येत्यादि वाक्यम् । षत्वं च तत्रापिग्रहणात् । ननु च कथमपरसमम् इति नायम् अपरशब्दोऽव्ययः ? सत्यम् । यथा आयतीसममिति । आयतीत्वं समायाः संवत्सरस्य | आयतीसममिति अव्ययीभावःसिद्धस्तथात्रापीति |यस्मात् पूर्ववाच्यत्वमस्तीति प्रायेणाव्ययं पूर्वपदम् इत्यव्ययीभाव उच्यते । अत एव कैश्चित् समंभूनीति समशब्दस्यानव्ययस्यानुस्वारवर्णागम इष्यतेऽभिधानात् । एवं पापत्वं समायाः पुण्यत्वं समायाः पापसमम्, पुण्यसमम् ।" स्वरो ह्रस्वो नपुंसके"(२/४/५२) भवति ।अव्ययेत्यादि । अथालौकिकेऽपि अन्यपदार्थेऽभिधेयलिङ्गता प्राप्तेति भावः ।। ३५२ ।।
[वि० प०]
स नपुं० । नपुंसकं च तल्लिङ्गं चेति कर्मधारयः, नपुंसकलिङ्गयोगादव्ययीभावोऽपि तथोच्यते । तच्छब्देनाव्ययीभावो निर्दिश्यते । अतः पुंलिङ्गनिर्देश इत्याह - सोऽव्ययीभाव इति । समभूमीत्यादि । समंशब्दोऽयमव्ययः समत्वे वर्तते । यथा शोभनत्वं