________________
१०
कातन्त्रव्याकरणम्
२२२ । ६९) इत्यात्वं न भवति । इह वाग्रहणम् अपञ्चम्या इति च न वर्तते, अधिकारस्येष्टत्वात् । न पुनरकारान्तनिवृत्तावनयोरपि निवृत्तिरिति शक्यते वक्तुम् । 'कार्यिणा हन्यते कार्यो कार्य कार्येण हन्यते, निमित्तं तु निमित्तेन तच्छेषमनुवर्तते' (कलाप० - पृ० २२०।२५) इति न्यायात् ।अन्योऽन्येतरेतरपरस्पराणां स्त्रीनपुंसकयोरम् वेति केचिद् आचक्षते ।
इमे स्त्रियावन्योऽन्यां भोजयतः अन्योऽन्यं भोजयतो वा । आभिरन्योऽन्यां भोज्यते, अन्योऽन्येन वा भोज्यते । इमे स्त्रियावन्योऽन्यां प्रयच्छतः, अन्योऽन्यस्मै वा प्रयच्छतः । इमे स्त्रियावितरेतरां भोजयतः, इतरेतरं वा भोजयतः, आभिः स्त्रीभिरितरेतरां भोज्यते, इतरेतरेण भोज्यते । इमे स्त्रियावितरेतरां प्रयच्छतः, इतरेतरस्मै प्रयच्छतः । परस्परां भोजयतः, परस्परं भोजयतः, परस्परां भोज्यते, परस्परेण भोज्यते । परस्परां प्रयच्छतः, परस्परस्मै प्रयच्छतः । एवं नपुंसके ‘अन्योऽन्यं भोजयतः, अन्योऽन्यं भोजयतः' इत्यादि सर्वासां विभक्तीनां स्थाने योज्यम् | पुंसि तु प्रयुज्यमाने न भवति-अन्योऽन्यं राजानौ सम्बध्येते, राजभ्याम् अन्योऽन्येन सम्बध्यते, राजानावन्योऽन्यस्मै प्रयच्छत इत्यादि । स्वभावाद् इमेऽन्योऽन्यादयः क्रियाव्यतीहारैकत्वविषयाः सर्वदा पुंस्त्वोपादाना इति ।।२८८।
[वि० प०]
अन्यस्मात् । ननु चाव्ययीभावस्य विशेष्यत्वेन प्रधानत्वात् तेनैवान्यशब्दस्य संबन्धः स्यात्, न अकारान्तशब्देन तस्य विशेषणत्वेनाप्रधानत्वात् । ततश्चाव्ययीभावाद् योऽन्यः समासस्तत्पुरुषादिस्तत एव स्यादिति । तदयुक्तम् । अव्ययीभावादकारान्ताद् योऽन्य इत्युक्तेऽव्ययीभाव एवेतरवर्णान्तः प्रतीयते । यथा 'लोहिताद् गोरन्यमानय' इत्युक्ते वर्णान्तरविशिष्टो गौरेवानीयते न त्वश्वादिरित्याह - अकारान्ता योऽन्योऽव्ययीभाव इति । 'उपवधु, उपकर्तृ' इति । वध्वाः समीपम्, कर्तुः समीपम् इति विग्रहः ।।२८८ ।
[क० च०]
अन्यस्माल्लुक्० । अकारान्ताद् इति सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाध इति स्वभावादिति न्यायादित्यर्थः । यथेत्यादि । अथ 'नीलघटातिरिक्तं गृहस्थितमानय' इत्युक्ते पटादेरप्यानयनप्रतीतेः कथं विशिष्टे विधि