________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
तुल्यार्थाविति भावः । तन्न वक्तव्यम् - सहभावनायां तृतीया । देवदत्तेन समस्तुल्य इत्यर्थः, तथा लोके विवक्षादर्शनात् । संबन्धविवाक्षायां तु षष्ठ्येव, हितसुखाभ्यां चतुर्थी च स्यात् । हितं देवदत्ताय हितं देवदत्तस्य । सुखं देवदत्ताय, सुखं देवदत्तस्य । तादर्थ्यविवक्षायां संबन्धविवक्षायां च सिद्धेति । देवदत्तार्थं हितं सुखं चोत्पद्यमानं देवदत्तस्य स्यात् । तथा आयुष्यमद्रार्थकुशलार्थैराशिषि गम्यमानायाम् । आयुष्यं देवदत्तस्य । पक्षान्तरं तु आयुष्यं देवदत्ताय । एवं चिरजीवितं भद्रं मद्रम् अर्थः प्रयोजनं कुशलं क्षेमं भूयादिति सर्वत्र योज्यम् । एवं हितसुखपर्यायैरपि योज्यम् || ३१८ | [ क० च० ]
१७९
कर्त० । नन्वत्र चकारकरणं किमर्थम्, विशेषण इत्यस्यानुवर्तनार्थमिति चेत्, विशेषणे पूर्वेणैव तृतीयायाः सिद्धत्वात् । ननु विशेषणविषये यः कर्ता, तस्मिंस्तृतीयेत्यर्थः कथन्न स्यात् । तदा जटाभिस्तापसेन भूयते इत्यत्रैव तृतीया स्यात्, न तु देवदत्तेन भूयते इत्यादाविति ? सत्यम् । यद्येतदेव चकारस्य प्रयोजनं स्यात् तदा 'देवदत्तेन भूयते' इत्यादौ तृतीया न सिध्यतीत्यव्याप्तिः स्यात् । तस्माद् व्याप्त्यव्याप्त्योर्व्याप्तिरेव श्रेयसीति न्यायाद् यत् फलेन देवदत्तेन भूयते इत्यादावपि तृतीया स्यात् तदेव फलं कल्पनीयमिति । तच्च कालभावयोरित्यत्र विशेषण इत्यनुवर्तनार्थमेव । अत एव विशेषणभूतयोः कालभावयोरिति वक्ष्यति । ननु यदि चकारस्योत्तरत्र विशेषण इत्यस्यानुवनमेव प्रयोजनम्, तदा कर्तरीति प्रथमं विधाय पश्चाद् विशेषण इति सूत्रं विधीयताम् । ततश्चानन्तरत्वात् कालभावयोरित्यत्र विशेषण इत्यनुवर्तिष्यते, किं चकारकरणेन ? सत्यम् | चकारो हि वैचित्र्यार्थ इति केचित् ।
वस्तुतस्तु 'कार्यिणा हन्यते कार्यों' ( द्र०-कलाप०, पृ० २२१-२५) इति न्यायात् कालभावयोरिति निमित्तेन विशेषण इत्यस्य निवृत्तिरेव स्यादिति युक्तमेव चकारकरणमिति । तर्हि कालभावयोरित्यत्रैव चकारः क्रियतां ततश्चकारेण विशेषण इत्यस्यानुवृत्तिर्भविष्यति ? सत्यम् । चकारेण विशेषण इत्यस्यानुवर्तने सति "कालभावयोर्विशेषणे च सप्तमी (२।४ । ३२, ३४) इति वाक्यार्थद्वयं स्यात् । अव्यवहितकर्तरीत्यस्यानुवृत्तिश्च स्यात् । ननु तथापि किमर्थमिदं सूत्रं कर्तुरपि हेतुत्वात् " हेत्वर्थे” (२|४ | ३० ) इत्यनेनैव सिद्धेः । नैवम् । 'देवदत्तेन हेतुना पच्यते' इत्यत्र नित्यं हेतुशब्दप्रयोगदर्शनाद् हेतुशब्देन कर्ता नाभिधीयते । किञ्च हेत्वर्थ इत्यत्र ऋणे तृतीयापवादः पञ्चमीष्यते इत्युक्तमेव । ततश्चैतत्सूत्राभावे ' शतेन बन्धितः’ इत्यत्र हेतुकर्तरि पञ्चम्येव स्यात् || ३१८ |
1
""