________________
२१०
कातन्त्रव्याकरणम्
३२८. षडो णो ने [२।४।४३] [सूत्रार्थ]
षष्-घटित षकार के स्थान में होने वाले डकार को णकार आदेश होता है, विभक्तिसंबन्धी नकार के पर में रहने पर ||३२८ ।
[दु० वृ०] षडो णो भवति विभक्तौ ने परे। षण्णाम् । विभक्ताविति किम् ? षड्नयनम् ।। ३२८ । [दु० टी०]
षडो० । एकपदप्रस्तावाद् भिन्नपदे न भवतीत्याह - विभक्तौ न इति । विभक्तिविषये यो नकारः, तस्मिन्निति । वर्णग्रहणे तदादौ मतं वा । नकारादौ विभक्तावित्यर्थः । अत्र षष्ठीबहुवचन एव नकारः, पारिशेष्यात् । षड इति डान्तमनुकृत्य षष्ठी कृता इति कश्चिदाह । अत एव डत्वनिर्देशात् स्वरे डत्वं विज्ञायते । तेन षडिकः, षडियः, षडिन इति । तदयुक्तम् । इकः, इयः, इनश्च तद्धितः अनुकम्पायां लोकोपचाराद् यथा सिद्धस्तथा षषोऽपि डत्वं संज्ञाशब्दत्वादिति । षडङ्गुलिदत्तोऽपि षडित्युच्यते । यथा भीमसेनो भीम इति । षडादेर्बहुस्वरात् नृसंज्ञकाद् इक-इय-इनेषु द्विराद्यवयवस्य लोपो वा । स्वरे इवर्णस्य लोपे स्थानिवद्भावाड्डत्वमेवेत्यन्यः । षडङ्गुलिदत्तक इति पक्षे क एव ।। ३२८|
[वि० प०]
षडो० । नकारे परे "हशषछान्तेजादीनां ङः" (२।३।४६) इति डकारोऽस्त्येव । अतो डकारस्यैवायं णकार इति । डान्तमनुकृत्य षडः षष्ठीयं वक्ष्यमाणे सर्वत्रैकपदे एव कार्यं क्रियते । तत्प्रस्तावाद् इहापि एकपद एव भविष्यति । तच्च विभक्तिमन्तरेण न संभवतीत्याह - विभक्तौ न इति । विभक्तिविषये यो नकारस्तस्मिन्नित्यर्थः । षण्णाम् इति षष् + आम् । “संख्यायाःष्णान्तायाः"(२।१।७५) इति नुरागमः, "हशषछान्तेजादीनां डः" (२।३।४६) इति डकारः । तस्यानेन णकारः । “तवर्गश्चटवर्गयोगे चटव!" (२।४।४६) इति नस्य णत्वम् ।। ३२८ ।