________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३९७
न क्रामतीति नक्रः, क्रमेर्डः । नास्मिन्नकम् अस्तीति नाकः । कमिति सुखमुच्यते नकम्, अकं दुःखम् इत्यर्थः । " नभ्राडादिषु नञ् प्रकृत्या ” इति न वक्तव्यमेव |
रूढिशब्दा ह्येते यथाकथंचिद् व्युत्पाद्याः लोकोपचारादेव सिद्धाः । तथा न गच्छन्तीति अगाः पर्वताः, नगाः पर्वताः । नगा वृक्षाः, अगा वृक्षाः । न गम्यप्राणिनि वा । प्राणिनि तु अगो वृषलः शीतेन । “अन्यतोऽपि च " (४/३/४९) इति गमेर्ड: । तथा एकादिभ्यश्च नञ् प्रकृत्या एकस्य चान्त आत् । एकेन न विंशतिः एकान्नविंशतिः । एकेन न त्रिंशत् एकान्नत्रिंशत् नञ्समासे कृते पश्चादेकशब्देन योगः । ऊनार्थो नञ्, एकेनोना विंशतिरित्यर्थः । एकाद् न विंशतिरिति " पञ्चमे पञ्चमांस्तृतीयान्नवा" ( १/४/२) इति || ३६० । [वि० प० ]
स्वरे० | अनज इत्यादि । न अजः अजानामभावः । न विद्यतेऽजो यस्मिन्निति च विग्रहः || ३६० |
[क० च०]
स्वरे० । अक्षरमिह वर्णः स्वरो वा पौर्वापर्यव्यवहारः क्रमः, तद्विपरीतो विपर्ययः । तत्पुरुषाव्ययीभावबहुव्रीहीणां क्रमेणोदाहरणम् - अनज इत्यादि । अथ न भ्राजते इति नभ्राट् । “ क्विब् भ्राजि०" (४/४/५०) इत्यादिना क्विप् । न पततीति नपात् । पातेः शन्तृङ्, नपुंसकत्वान्नकारलोपः । न वेत्तीति नवेदाः । असत्सु साधवः असत्याः, न असत्याः नासत्याः । न मुञ्चतीति नमुचिः, औणादिकः किः । नास्य कुलमस्तीति नकुलः । नास्य खमस्तीति नखः । न स्त्री न पुमानिति नपुंसकम् । स्त्रीपुंसयोः पुंसकभावः । न क्षरति न क्षीयते वा नक्षत्रम्, निपातनम् । न क्रामतीति नक्रः, क्रमेर्डः । नास्मिन्नकमस्तीति नाकः । कं सुखम्, अकं दुःखमुच्यते । न गच्छतीति नगः पर्वतः इत्यादौ "नस्य तत्पुरुषे लोप्यः” (२/५/२२) कथन्न स्यात् ? सत्यम्, न भ्राजादिषु " नञ् प्रकृत्या ” इति न वक्तव्यम् | किं तर्हि रूढिशब्दा होते यथाकथंचिद् व्युत्पत्त्या लोकत एव वेदितव्याः । तथा एकादिभ्यः प्रकृत्या नत्र एकस्य चान्त आत् । एकेन न विंशतिः एकान्नविंशतिः । एकेन न त्रिंशत् एकान्नत्रिंशत् । नञ्समासे कृते पश्चादेकेन योगः । ऊनार्थो नञ् एकोनविंशतिरित्यर्थः । एकाद्नविंशतिरिति “पञ्चमे पञ्चमांस्तृतीयान्नवा” (१/४/२) इति टीका || ३६० |
1