________________
कातन्त्रव्याकरणम्
विधाय ‘अनजः, अनश्वः' इति शब्दरूपं संसाधितम्, परं कातन्त्रे नकाराकारयोर्विपर्यासमात्रेणैव समीहितं सिद्धं भवतीति कातन्त्रप्रक्रिया सरलतामातनोति । ८. प्रत्ययादेशविधौ प्रत्ययविधौ च भेदः
'नाडायनः, वैनतेयः, आक्षिकः, शालीयः' प्रभृतिशब्दरूपसाधनाय पाणिनिः पूर्वं च्फञ्-ढक्-ठक्-छप्रत्ययान् विधाय पश्चात् फ् -द-ठ-छवर्णानाम् आयन्-एय्-इकईयादेशान्निर्दिशति ।परं कातन्त्रकारः साक्षादेव आयनण्-एयण-इकण्-ईयप्रत्ययान्निर्दिश्य प्रक्रियासारल्यं महदारचयति । ९. प्रत्ययगतमकारस्य वकारादेशविधाने वकारघटितप्रत्ययविधाने च भेदः
'वृक्षवान्, मालावान्, लक्ष्मीवान्, भास्वान्' प्रभृतिशब्दसाधनाय पाणिनिः मतुप्प्रत्ययम्, मकारस्य वकारादेशम्, नुमागमं च विदधाति, परं शर्ववर्मा “तदस्यास्तीति मन्त्वन्त्वीन्” (२।६।१५) इत्यनेन मन्तुप्रत्यययातिरिक्तं वन्तुप्रत्ययमेकं कृतवान्, यत्र वकारादेशस्य नुमागमस्य चावश्यकता नैव भवति ।
व्याख्याकाराणां कानिचिद् विशिष्टवचनानि विचारा वा १. कलापचन्द्रकारमते केचिदाचार्या मूर्खपदवाच्याः सन्ति
मूर्खास्तु बुद्धावकारान्तत्वमारोप्य प्रत्युदाहर्तव्यमित्याहुः, अन्ये तु ‘उपकुम्भकम्' इति चारुतरं प्रत्युदाहर्तव्यमिति (क० च०२।४।१)। २. वस्तुतः-प्रभृतिशब्दैः सिद्धान्तपक्षव्यवस्थापनम्
दुर्गसिंह-त्रिलोचनदास-सुषेणविद्याभूषणाचार्यैः पञ्चविंशतिस्थानेषु 'वस्तुतः' - पदव्यवहारेण, पञ्चस्थलेषु ‘परमार्थतः' पदेन, विंशतिस्थानेषु अस्यायमर्थः' इति शब्देन, पञ्चविंशतिस्थलेषु 'अयमर्थः' इति सङ्केतेन, पञ्चस्थानेषु 'अयमाशयः' इति शब्देन चतुर्षु स्थलेषु 'अयमभिप्रायः' इति प्रतीकव्यवहारेण, विंशतिस्थलेषु लोकोपचारादिति शब्देन च सिद्धान्तपक्षाः विचारणीयविषयस्य निष्कर्षा मननीयं वस्तु वा प्रतिष्ठापितं दृश्यते । ३. उक्तार्थानामप्रयोगविषये पक्षान्तरमप्यभिमतम्
उक्तार्थानामप्रयोगः कृत्त्यादितद्धितसमासेषु न्यायसिद्धः (दु० टी० २।४।१३)। उक्तार्थानामपि प्रयोगो दृष्टः । यथा 'द्वौ घटावानय' इति (दु० टी० २।४।१७)।