________________
५०८
कातन्त्रव्याकरणम्
३९५ .त्र सप्तम्याः [२।६।२९]
[सूत्रार्थ]
द्व्यादिभिन्न सर्वनामसंज्ञक तथा सप्तम्यन्त बहु शब्द से 'त्र' प्रत्यय विकल्प से होता है ।। ३९५ ।
[दु० वृ०]
"
अद्ध्यादेः सर्वनाम्नो बहोश्च सप्तम्यन्तात् त्रप्रत्ययो भवति वा । सर्वस्मिन् सर्वत्र । तस्मिन्, तत्र । यस्मिन्, यत्र । बहुषु, बहुत्र । अद्वयादेरिति किम् ? द्वयोः, त्वयि मयि । आद्यादिभ्यस्तस् वक्तव्यः। आदौ, आदितः । अन्ते, अन्ततः । पृष्ठे, पृष्ठतः । मध्ये, मध्यतः । अग्रे, अग्रतः । पार्श्वे, पार्श्वतः । मुखे, मुखतः । आकृतिगणोऽयम् || ३९५ | [दु० टी० ]
त्र सप्तम्याः। योऽयमाद्यादिः स इहाकृतिगण इति । तेन नानापक्षाश्रये षष्ठ्यन्तात् तस् वा । देवा अर्जुनतोऽभवन्, अर्जुनस्य पक्षेऽभवन् वा । दैत्याः कर्णतोऽभवन्, कर्णस्य पक्षेऽभवन्निति । रोगाच्च प्रतीकारे । प्रवाहिकातः प्रतिकुरु, प्रवाहिकायाः प्रतिकुरु । न वक्तव्यमिदम् - रूढिशब्दा हि तद्धिता इति || ३९५ |
[वि० प० ]
त्र सप्त० । आद्यादिभ्यस्तस् वक्तव्य इति । वक्तव्यो व्याख्येयोऽभिधानाद् अन्यविभक्तयन्तादपि पूर्वेण तस् भवतीत्यर्थः ।। ३९५ ।
[क० च०]
त्र सप्त० | अत्रापि “ङि : स्मिन् ” ( २/१/२७) इति वचनाद् विकल्पो लभ्यते इति । आद्यादिभ्य इति सप्तम्यन्तेभ्य इत्यर्थ । आद्यादिरयमाकृतिगणः, तेन नानापक्षाश्रयात् षष्ठ्यन्तात् तस् वा । देवा अर्जुनतोऽभवन् अर्जुनस्य वा । दैत्याः कर्णतोऽभवन् कर्णस्य वा । अर्जुनस्य कर्णस्य पक्षे इत्यर्थः । रोगाच्च प्रतीकारे । प्रवाहिकातः प्रतिकुरु, प्रवाहिकायाः प्रतिकुरु । रूढिशब्दा हीति टीका, अतः षष्ठ्याः पक्षाश्रयः इति न वाच्यम् ।। ३९५।