________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
वसतीति । केचित् तृतीयाषष्ठ्यौ सर्वनाम्नी हेतुप्रयोगे, निमित्तकारणहेतुषु सर्वासां प्रयोगदर्शनमिति आचक्षते ।। ३२२ ।
१८९
[क० च० ]
षष्ठी० । हेत्वर्थे तृतीयाप्राप्ते वचनमिति वृत्तिः । ननु हेत्वर्थे तृतीयायां प्राप्तायामिति युज्यते वक्तुम् । नैवम् । इत्थमपि वाक्यार्थसङ्गतेः । प्राप्तमिति भावे क्तः, ततस्तृतीयायाः प्राप्तं तृतीयाप्राप्तमिति क्ते वोभयोरित्यनेन षष्ठी, हेत्वर्थे तृतीयाप्राप्ता- वित्यर्थः । यद् वा तृतीयाप्राप्त इति हेत्वर्थस्य विशेषणं प्राप्त इत्यादिकर्मणि क्तः तृतीयां प्राप्तुमारब्धे हेत्वर्थ इत्यर्थः । वृत्तौ तृतीयेत्युपलक्षणम् । 'शतस्य हेतोर्बद्धः' इत्यादौ ऋणे हेतौ पञ्चम्यपि बाध्यते इति कुलचन्द्रः । तन्नेति महान्तः । अस्मन्मतेऽत्रापादानविहितायाः पञ्चम्याः कारकविभक्तित्वेन दुर्निवारत्वात् 'शताद् बद्ध ः ' इत्येव प्रयोग इत्याहुः ।
वस्तुतस्तु परमते परत्वात् परत्वात् षष्ठ्येव प्राप्नोति । “अकर्तर्वृणे पञ्चमी” (अ० २।३।२४) इति । तथा "विभाषा गुणेऽस्त्रियाम्" (अ० २। ३ ।२५ ) इत्यनयोर्योगयोः षष्ठी हेतुप्रयोग इत्यस्य पश्चात् पठितत्वात् । तस्मादस्मन्मतेऽपि पाणिन्यनुसारेण यत्र हेतुशब्दः प्रयुज्यते, तत्र ऋणेऽप्यवधिर्न विवक्ष्यते किन्त्वनेन षष्ठ्येव । ननु परमतेऽपि "विभाषा गुणेऽस्त्रियाम्" (अ० २। ३ । २५) इत्यतोऽस्मिन्नपि विभाषानुवर्तनाद् हेतुप्रयोगेऽपि तृतीयापञ्चम्यौ भवतः इति पाणिनिमतानुसारिणो वदन्ति । तेन 'वारिमध्ये स्थितं पद्मं कम्पते केन हेतुना, स्युर्ब्रह्मचरणाद्धेतोः’ इत्यादिप्रयोगः सिध्यति । अस्मन्मते तदभावात् किं स्यादिति चेत् ? उच्यते - " कर्तृकर्मणोः” (२।४।४१ ) इत्यत्र नित्यग्रहणे षष्ठीप्रकरणस्यानित्यतया विकल्पेनैवायं विधिरिति । अत एव नदादिसूत्रे पुरुषेण संबन्धाद्धेतोरिति टीकायाम् । 'अज्ञसंज्ञानहेतुना' इति पञ्जीप्रयोगः । अन्ये तु यत्रार्थे हेतुशब्दप्रयोगस्तस्मिन्नेवार्थे वर्तमानाल्लिङ्गात् षष्ठीति प्रत्यासत्तिव्याख्यानेन बहुव्रीहावन्यपदार्थस्य वाच्यत्वान्न भवति । ततश्च यथा दण्डहेतुकेन 'घटेन जलमानय' इत्यादौ न भवति, तथा अज्ञानां सम्यग् ज्ञानं तदेव हेतुरस्य वृत्तिग्रन्थस्येति बहुव्रीहौ हेत्वर्थस्य गौणत्वात् षष्ठी न भवतीत्याहुः || ३२२ |
[समीक्षा]
‘अन्नस्य हेतोर्वसति’ इत्यादि हेतुशब्दप्रयोग वाले स्थलों में दोनों ही आचार्य षष्ठी विभक्ति का निर्देश करते हैं । पाणिनि का भी यही सूत्र है - " षष्ठी हेतुप्रयोगे” (अ० २।३।२६) । अतः उभयत्र साम्य है ।
1