________________
कातन्त्रव्याकरणम्
[वि० प०]
स्त्रिया० । स्त्रियां वर्तमानादित्यनेन प्रकृतिविशेषणं दर्शयति, प्रत्ययस्तु स्वार्थिकत्वाद् द्योतक इति दर्शितम् । अथ किमिदं नाम स्त्रीत्याह - स्त्रीपुंनपुंसकानि लोकेभ्यः शास्त्रकारेभ्यो लिङ्गानुशासनेभ्यश्च गम्यानीति भावः ।। ३३४।
[क० च०]
स्त्रिया० । ननु "स्त्रियामादा'' इत्यत्राकारे क्रियमाणेऽपि न दोषः ? सत्यम् । दीर्घकरणम् अन्यत्रापि आप्रत्ययः साध्यते । अकारलोपस्तु न स्यात्, विभक्तावित्यस्य उभयत्र संबन्धात् । नन्वत्र सूत्रे स्त्रीशब्दस्य शब्दसंस्कारानुगुणधर्मविशेष : शब्दविशेषवाच्यः स्त्रीत्वार्थः । न तु योन्यादिमत्त्वं स्त्रीत्वम् । 'कलत्रम्' इत्यादौ सत्यपि योन्यादिमत्त्वे स्त्रीत्वलक्षणकार्याभावात् । तटीत्यादाचसत्यपि योन्यादिमत्त्वे स्त्रीत्वलक्षणयोगात् । तथा च सति सर्वेषामर्थानां व्यक्तिशब्देनार्थशब्देन वस्तुशब्देन च स्त्रीत्वादयो धर्माः प्रतीयन्ते । ततः स्त्रीत्वविशिष्टेऽर्थे वर्तमानाल्लिङ्गाद् आप्रत्ययो भवतीति सूत्रार्थे कलत्रादिशब्दात् कथम् आप्रत्ययो न स्यात् । व्यक्तिशब्देन कलत्रशब्दस्यापि स्त्रीत्वावगमात् ? सत्यम् । यस्माच्छब्दात् प्रत्ययो विधातव्यः, प्रत्यासत्त्या यदि तेनैव शब्देन स्त्रीत्वं प्रतिपाद्यते, तदैवाप्रत्ययो भवति ।
कलत्रमित्यादौ तु कलत्रशब्दान्न स्त्रीत्वं प्रतीयते किन्तु नपुंसकत्वमिति । ननु यद्यर्थानां धर्माः स्त्रीत्वादयस्तदा तटादिशब्दवाच्यार्थस्य त्रिलिङ्गत्वात् लिङ्गत्रये एकशब्देनाभिधीयमानत्वात् । लिङ्गसङ्करदोषः । तदा किमाश्रितं कार्यं भवतीति ? सत्यम् । एकदा शब्देन लिङ्गत्रयं नाभिधीयते किन्तु क्रमेणैव स्वभावादिति च सङ्कर इति । तथा च श्रीपतिः
शब्दसंस्कारसिद्ध्यर्थमुपायाः परिकल्पिताः। सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः॥ ये तु योन्यादिसंबन्धाः प्राणिजातीयगोचराः। न ते छुपायाः संस्कारे कलत्रादितटादिषु ॥ त्रिलिङ्गत्वेऽपि वस्तूनां शब्दानामीदृशी गतिः। गृह्णन्ति यदमी लिङ्गमेकं द्वे त्रीणि वा न वा॥