________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२३३
लिङ्गानुशासनेभ्यश्च गम्यानीत्यर्थः । स्त्रियां वर्तमानत्वात् स्त्रियामभिधेयायां स्त्रियां समानाधिकरणायां वेति त्रयः पक्षाः। तत्राद्य एवादुष्टः पक्ष इत्याह - स्त्रियां वर्तमानादिति । तत् पुनर्धातोर्न संभवतीत्याह - लिङ्गाद् इति, प्रत्ययश्चात्र द्योतक इति । कुमारी देवदत्तेति सामानाधिकरण्यं द्विवचनबहुवचने च कुमार्यौ, कुमार्य इति । कामितरेत्यादौ प्रकर्षः स्त्र्यर्थद्योतकः पुनः प्रकर्षप्रत्ययान्ताद् आ भवति । देवदत्तिकेति संज्ञायां के विहिते तथा स्वभावादनेकप्रत्ययद्योतकत्वात् । अभिधेयवादी त्वाह - स्त्रीशब्दोऽयं विना भावप्रत्ययेन स्त्रीत्वे वर्तते । यथा गोशब्दो जातिपदार्थापेक्षया भावप्रत्ययाविहितो गोत्वे वर्तते, तथा स्त्रियामभिधेयायां स्त्रीत्वं प्रत्ययार्थ इति । कथन्तर्हि देवदत्तायाः स्त्रीत्वम् इति आप्रत्ययेनैव भावार्थोऽभिहित इति । सामानाधिकरण्यमेव स्यात् कुमारी देवदत्तेति, तद्वतोऽर्थस्य सामानाधिकरण्याभावश्च स्त्रीत्वस्य प्राधान्याच्च द्विवचनबहुवचने चाश्रयगते न स्त इति । अथ स्त्रीत्वेऽपि प्रत्ययो भवन्नाश्रयादभिन्नमेव स्त्रीत्वमाह स्वभावात् । अत उक्तदोषा न संभवन्ति । तर्हि प्रकृत्यर्थविशेषपक्षाद् विशेषणात् को भेद इति सामानाधिकरण्यपक्षः पुनरपपक्ष एव ।
स्तृणातेः स्त्रियां ड्रडिति कृते स्त्र्यर्थः खलु लिङ्गस्य सामानाधिकरण्याभावात् कथमीप्रत्ययो भवति । अथास्मादेव निर्देशादवसीयते, तथापि समानाधिकरणभिन्नाधिकरणभावो विभक्तिगम्य एव । विभक्तेश्च स्त्रीप्रत्ययः प्रागिति 'उष्णिहा, देवविशा, क्रुञ्चा' इति नाम्युपधात् के पचादित्वादचि वा स्त्रियामादा । क्विपि तु 'उष्णिक्, देवविट्, क्रुङ् स्त्री' इति भवितव्यमेव । दीर्घविधानमकारलोपः स्यादिति । प्रत्ययविधानं तु स्त्र्यर्थद्योतनार्थमिति । अजादेर्नदादित्वादीप्रत्ययो न स्यादाकृतिगणत्वादित्याह - अजेत्यादि । तथा ‘एडा, बाला, पाका, होडा, डिम्भा, वत्सा, मल्ला, कन्या, मन्दा, वयस्था, विडाला' इति अपश्चिमं वयः । 'पूर्वापहाणा, अपरापहाणा, प्रहाणा' इति युडन्तस्तत्रापिग्रहणाण्णत्वम् । अमूला, संफला, भस्त्राफला, अजिनफला, शणफला, पिण्डफला, त्रीणि फलान्यस्यामिति त्रिफला । सत्पुष्पा, काण्डपुष्पा, प्राकूपुष्पा, उदकपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, बहुपुष्पा । अतोऽन्यन्मूलफलपुष्पान्तं नदादि । शूद्र्येव भार्या शूद्रस्य जातिः शूद्रा । महत्पूर्वा जातिर्नदादिरिति महाशूद्री आभीरजातिः । आदित्यधिकारः प्रतिपत्तव्योऽविशेषे । नद इत्यकारान्तस्तप्रकारेभ्य इति वा ।। ३३४।