________________
नामचतुष्टया याये पञ्चमः समासपादः
२८३ यद् वा तिसृणां पुत्रः 'त्रिपुत्रः' इत्यादौ समासे प्रकृतिश्च स्वरान्तस्येति प्रकृतिभावात् तिसादेशं प्रति नातिप्रसङ्गस्तत्साहचर्याच्चतम्रादेशं प्रति नातिदेशप्रवृत्तिः । यद् वा तत्र विभक्तिग्रहणं साक्षात् प्रतिपत्त्यर्थमिति व्याख्येयम् । अन्यथा यदि विकल्पनिवृत्तिरेव फलं तदा विभक्तिग्रहणमपास्य नित्यमिति कुर्यात् । अथ पुंस ईहा 'पुमीहा' इत्यादौ "मोऽनुस्वारं व्याने" (१।४।१५) इत्यनेन व्यञ्जनोक्तस्यानुस्वारस्य कथन्नातिदेश इति ? सत्यम् । सोरुकारोच्चारणेन प्रत्ययाश्रितकार्यस्यैवातिदेशात्, अन्यथा सभोरिति विदध्यात् । न चानुस्वारविधानं प्रत्ययव्यञ्जनोपाधिकम् । अतः प्रत्ययव्यञ्जनाश्रितस्याप्यनुषङ्गलोपादावतिदेशः । ननु ‘परमदण्डिनः, परमगोमन्तः, परमविद्वांसः' इत्यादौ लिङ्गान्तनलोपोऽनुषङ्गलोपः सकारस्य दकारश्च कथमतिदेशान्न स्युः, सत्यम् । भावकर्मणोरिति निर्देशाद् उत्तरपदे नातिदेश इति ।
[साक्षाद् व्यावृत्तिविषयस्य विभक्तिस्वरस्य विद्यमानत्वाद् अयमादेशो न प्रवर्तते इति । अर्थात् पूर्वपदस्यैवायमतिदेश इति पर्यवस्यति] |
अत्र वैयः- तत्तत्सूत्रोक्तव्यञ्जनादिग्रहणव्यावृत्तिबलादेव विभक्तिस्वरे न भविष्यति, अतोऽयमतिदेश उत्तरपदविषयो न्यायादेव भवितुं नार्हति, वृथैव "सुभोर्नोत्तरपदस्ये" (कात० परि०, स०-सू० ३३) इति सूत्र श्रीपतिराचष्टे, तदज्ञानविजृम्भितमेव युक्तार्थविषयं विहाय केवलं ‘दण्डिनः' इत्यादौ तत्तत्सूत्रीयव्यञ्जनादिग्रहणस्य व्यावृत्तिविषयत्वात् । एतेन सुभोर्नोत्तरपदस्येति सूत्रं वृथैवेति यदुक्तं तदवश्यं कर्तव्यम् । यदप्युक्तं लक्षणेऽस्मिन् दूषणं दृश्यते, तथाहि विद्वांसः, सुन्दराः पुत्रा अस्येति विद्वत्सुन्दरपुत्र इत्यत्रापि अतिदेशो न स्यात् । न ह्ययं विद्वच्छब्दः उत्तरपदे परतः, तन्मते समासान्तपदस्यैवोत्तरपदत्वेन रूढत्वात्, तस्मात् सुभोर्नोत्तरपदस्येति वक्तुमुचितमित्याचष्टे | तदप्यसङ्गतम् । उत्तरपदस्य निषेधे ‘सुविद्वत्पुत्रः' इति कर्मधारयगर्भतत्पुरुषेऽतिदेशाभावो न स्यात् कर्मधारयसमासापेक्षया तस्याप्युत्तरपदत्वात् । अत एव ‘परमसर्पिःकुण्डिका' इत्यादावुत्तरपदस्थत्वान्न षत्वम् । तथा च षत्वसूत्रे टीकायाम् अनुत्तरपदयोस्तु समासे नित्यं सर्पिष्पानम् अनुत्तरपदयोरित्येव ‘परमसर्पिः कुण्डिका' इत्युक्तमिति । यच्च “सुभोर्नोत्तरपदस्य" (कात० परि०, स०-सू० ३३) इति सूत्र तत्रोत्तरपदस्येति युक्तार्थान्तावयवपरत्वं बोध्यम्, न तु समासपरपदत्वम् । अत एव 'सुविद्वत्ता' इत्यादिकमपि सिध्यतीति दिक् ।