________________
नामचतुष्टयाध्याये चतुर्वः कारकपादः
२१७ इत्यादिना नङ् । विश्न इति । विछे: पूर्ववन्नङि कृते नित्यत्वादन्तरङ्गत्वाच्च "छवोः शूटौ पञ्चमे च" (४।१।५६) इति कृते नास्ति चवर्गयोगः ।।३३१ ।
[क० च०]
तवर्ग० । ननु ‘मधुलिट् तरति' इत्यत्रापि तकारस्यानन्त्यत्वसंभवात् कथम् अनन्त्यस्य व्यावृत्तिरिति ? सत्यम् । अनन्त्य इत्यस्य व्यावृत्तिबलादन्तशब्दस्य समीपार्थतया पदमध्य एव तात्पर्यं वर्णितमस्माभिरिति हेमकरस्याशयः । अन्ये तु यस्यैव पदस्य निमित्तम्, तस्यैव पदस्य कार्थी गृह्यते श्रुतत्वात् । तेनाभिन्नपदस्थकार्यिनिमित्तनिषेधपरमात्रमनन्त्यग्रहणम् | ननु तवर्गश्चटवर्गौ तद्योगे इति । तवर्गश्चटवर्गयोगे ताविति वा क्रियताम्, किं चटवर्गग्रहणेन ? सत्यम् । व्याप्त्यर्थं तदुपादानं तेन पदान्तेऽप्ययं विधिरिति । अतः ‘प्रशान्चरति' इत्यादौ नकारस्य ञकारः सिद्धः । यस्तु व्यवस्थितवास्मरणात् 'प्रशान् चरति' इति सनकारः प्रयोगः, स पुनः सन्धिप्रदर्शनार्थ एव । श्रीपतिरपि नकारस्य अकारविधानार्थं "प्रशामष्टठयोर्णः" (कात० परि०, सं० ६०) इत्यतः प्रशामोऽधिकारे "अश्चछयोः" (कात० परि०, सं० ६१) इति सूत्रं विदधाति स्म ।
स्वमते "जझशकारेषु' (१।४।१२) इत्यत्र तु जझञग्रहणं तस्यैव सूत्रस्याविर्भावार्थम् इति । नित्यत्वादन्तरङ्गत्वाच्च इति पनी। ननु कथमत्र नित्यत्वं यावता 'शब्दान्तरस्य विधिः प्राप्नुवन्ननित्यो भवितुमर्हति' (व्या० परि०- ७७) इति न्यायान्नित्यत्वस्याविषय इति । तथाहि नङ्प्रत्यये कृते तवर्गपञ्चमो निमित्तं अकारे च चटवर्गपञ्चमो निमित्तमिति शब्दान्तरता इत्याह - अन्तरङ्गत्वादिति हेमकराशयः । तन्न, नकारञकारत्वेन निमित्तत्वाभावात् किन्तु पञ्चमत्वेनैव तत्तु तवर्गचवर्गपञ्चमेऽप्यस्ति तस्मादियमाशङ्का । ननु विछेनङिति कृतस्य नङो नकारस्य अकारस्य प्रकारे सन्निपातलक्षणत्वात् शकार एव न प्राप्नोति, कथं नित्यत्वमुच्यते । वर्णग्रहणे निमित्तत्वादिति चेत्, अस्य न्यायस्य "भवतो वादेरुत्वम्" (२।२।६३) इति वचनेन ज्ञापितमनित्यत्वमित्यत आह - अन्तरङ्गत्वाचेति ।।३३१।
[समीक्षा]
'मस्ज् + अ + ति, लस्ज् + अ + ति, भ्रस्ज् + अ + ति, यज् + न, षड् + नाम्, अत्ट् + अ + ते' इस अवस्था में पाणिनि तथा कातन्त्रकार दोनों ही चवर्ग-टवर्ग