Page #1
--------------------------------------------------------------------------
________________
॥ श्रीः अथ शब्दकौस्तुभः।
॥ श्रीगणेशाय नमः ॥
विश्वेशं सच्चिदानन्दं वन्देहं योखिलं जगत् ।। चरीकर्ति बरीभात संजरीहर्ति लीलया ॥१॥ नमस्कुर्वे जगद्वन्धं पाणिन्यादिमुनित्रयम् ॥ श्रीभतृहरिमुख्यांश्च सिद्धान्तस्थापकान्बुधान् ॥ २॥ नत्वा लक्ष्मीधरं तातं सुमनोवृन्दवन्दितम् ॥ फणिभाषितभाष्याब्धेः शब्दकौस्तुभमुद्धरे ॥ ३ ॥ परिभाव्य बहून् ग्रन्थान्योर्थः क्लेशेन लभ्यते ॥ तमशेषमनायासादितो गृहीत सज्जनाः ॥ ४ ॥ समर्प्य लक्ष्मीरमणे भक्तया श्रीशब्दकौस्तुभम् ॥ भट्टोजिभट्टो जनुषः साफल्यं लब्धुमीहते ॥५॥
प्रेक्षावत्प्रवृत्तये व्याकरणस्य विषयं भगवान् भाष्यकार: प्रादर्शयत् अथ शब्दानुशासनमिति । अथशब्दः प्रारम्भस्य द्योतकः न तु वाचकः निपातत्वात् उपसर्गवत् । न च तेपि वाचका एवेति वाच्यम् । उपास्यते गुरुरनुभूयते सुखमित्या
Page #2
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[१ अ० दौ धातोः सकर्मकक्रियापरत्वं विना कर्माण लकारायोगेन वाचकत्वे स्थिते उपसर्गाणां द्योतकत्वस्यैव युक्तत्वात् । ननूक्तयुक्तथा ऽस्तूपसर्गाणां द्योतकता निपातान्तरं तु वाचकमेवेति चेन्न । साक्षाक्रियते अलंक्रियते ऊरीक्रियतइत्यादौ कर्मणि लकारेण कर्मीभूतस्य गुर्वादेराभिधानसिद्धये धात्वर्थ प्रति कर्मत्वस्य वाच्यत्वात् । उपसर्गत्वापेक्षया निपातत्वस्याधिकवृत्तितया तदवच्छेदेनैव द्योतकताकल्पनाच्च । सामान्ये प्रमाणानां पक्षपातात् । निपातत्वं चाखण्डोपाधिरूपं जातिरूपं शब्दस्वरूपमेव चेति पक्षत्रयपि प्रादिचादिसाधारणमेव । प्रत्वादिप्रत्येकपर्यवसनं तदिति पक्षेपि प्रादीनां चादिभ्यो वैलक्षण्यानिरुक्तेः केवलानामप्रयोगेण अन्यलभ्यतापि तुल्यैव । विजयतइत्यत्र धातर्विशिष्टजयइव घटश्चत्यत्र समुच्चितघटे घटशब्दस्यापि लक्षणायाः संभवात् । किं च चादीनां वाचकत्वे समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इति व्युत्पत्तिनिपातेतरविषयकतया विना प्रमाणं संकोचनीया स्यात् । स्याच्च समुच्चयादिशब्दयोगइव चादियोगपि घटादेः षष्ठी । किं च समुच्चयादिपदैरुपस्थिते यथा विशेषणसम्बन्धस्तथा चादिभिरुपस्थिते स्यात् । द्योतकत्वपक्षे तु पदार्थैकदेशलान्न नत्र विशेषणान्वयः। अपि च शरैरुपैरिवोदीच्यानुद्धरिष्यन् रसानिघेत्यादौ उस्रसदृशैः शरैः रससदृशानुदीच्यानुदरिष्यनित्यादिरर्थः । स च उस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च तात्पर्यग्राहकत्वे सत्येव लभ्यते । अन्यथा प्रत्ययानां प्रकृत्य
न्वितस्वार्थबोधजनकतापि भज्येत । इवशब्दात्तु तृतीया दुर्लभा । असत्वार्थकतया कारकविभक्तययोगात् । एवमप्यु. स्रादिभ्यस्तृतीयाऽनन्वयस्यानुदाराच्च । नन्वेवं नञ्तत्पुरुषस्यो
Page #3
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । त्तरपदार्थादिप्राधान्यमित्यादिसिद्धान्ता भज्येरनिति चेन । पूर्वपदद्योत्यं प्रति प्राधान्यमिति तदर्थात् । द्योत्यार्थेनाप्यर्थवत्तेति प्रातिपदिकत्वसिद्धिः। अत एव येषां द्योत्योप्यर्थो नास्ति तु हि च स्म ह वै पादपूरणे इत्यमरकोशात् कमीमिद्विति पादपूरणार्था इति निरुक्ताच्च । तदर्थ निपातस्यानर्थकस्योति वार्तिकारम्भ इत्यवधेयम् । स्फुटश्चेदकैयटादिग्रन्थेषु । अत एवाकृत्यधिकरणे भट्टैरुक्तम् । चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते संशयोत्पत्ते!पसर्गनिपातयोः ॥ तयोराभिधाने हि व्यापारो नैव विद्यते । यदर्थयोतको तौ तु वाचकस्स विचार्यतइति ॥ यत्तु अर्थवत्सूत्रे अधीतइत्यादी धातोरनर्थकता उपसर्गविशिष्टस्य वाचकतेति कैश्चिदुक्तं तदभ्युच्चयमानम् । सर्वस्यद्वे इतिसूत्रे कैयटादिग्रन्थोप्येवमेव । पूर्वोत्तरमीमांसयोस्तत्रतत्र नः पर्युदासे लक्षणोत ग्रन्था अप्येवमेव, उक्तयुक्तः । अस्तु वा मतान्तरं निपाता वाचका इति सर्वथापि प्रादयो द्योतकाश्चादयस्तु, वाचका इत्यवरूप. मर्द्धजरतीयं नैयायिकाभ्युपगतमप्रामाणिकमेवेति दिक् । अनुपूर्वकः शासिर्विविच्य ज्ञापने दृष्टः । तद्यथा । अक्षेत्रवित् क्षेत्रविदं ह्यमाद् स प्रति क्षेत्रविदानुशिष्टः । यथा वा । “संपूषविदुषानययोअञ्जसानुशासति । य एवेदमिति. ब्रवत् " । अत्र हि गुणत्रयोपेतेन सद् गुरुणास्मान् शिक्षयेति पूषा प्रार्थ्यते तत्र अञ्जसेति शैन्यमुक्तम् । अनुशासतीति विविच्य बोधकत्वं बहुलञ्छन्दसीति शपो न लुम् । इदमित्यमेवेति यो ब्रूयादिति प्रमेयनिष्कर्ष उक्तः ब्रवदित्यत्र लेटोडाटावित्यत् । तथा च अनुशिष्यन्ते विविच्य असाधुभ्यो विभज्य बोध्यन्ते येनेति करणे ल्युट् । ततश्शब्दानामिति कर्मणि -
Page #4
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ० ष्टी तदन्तेन समासः । न च कर्म्मणिचेति सूत्रेण समासनिषेधः शङ्कयः । तंत्र चशब्दार्थतया कर्म्मणीति शब्दवता उभयप्राप्तावितिसूत्रेण या षष्ठी तदन्तं न समस्यतइत्यर्थात् । इयं तु कर्तृकर्मणोरिति विहिता षष्ठी न तूभयप्राप्ताविति । आचार्यस्य कर्त्तर्वस्तुतः सत्वेपीहानुपादानात् । चित्रं गवां दोहो ऽगोपेनेत्यत्र हि आश्चर्य प्रतिपाद्यं तच्च यद्यशिक्षितो दो
दुर्दोहा गावश्च दोग्धव्यास्तदैव निर्वहति न त्वन्यथा, अतः कर्तृकर्मणोर्विशिष्योपादानादस्त्युभयप्राप्तिः । इह तु शब्दानामिदमनुशासनं न त्वर्थानामित्यर्थनिवृत्तिपरं वाक्यं न तु कर्त्तविशेषानद्यात्तपरमतो नास्त्युभयप्राप्तिः । अस्तु वा यथाकथंचिदुभयप्राप्तिः तथापि न क्षतिः । उभयप्राप्तावितिसूत्रे अविशेषेण विभाषेति पक्षस्यापि वक्ष्यमाणतया नियमाप्रवृत्तिपक्षे आचार्यस्य शब्दानुशासनमिति प्रयोगसंभवात्, शेषलक्षणा षष्ठी वास्तु । तस्माद्वैदिका लौकिकाश्च साधवः शब्दा इह विषय इति स्थितम् । वेदे भवा वैदिका अध्यात्मादित्वाट्ठञ् । एवं लोके भवा लौकिकाः । यद्वा लोके विदिता लौकिकाः तत्र विदित इति वर्त्तमाने लोकसर्वलोकाछन् । प्रातिशाख्येविवं न वैदिकैकदेशमात्रमिह विषयः । न वा व्याकरणान्तरेष्विव छांदसपरित्याग इति सूत्रयितुमुभयोपादानम् ॥ ॥ इति विषयनिरूपणम् ॥
स्यादेतत्, गौरित्यादिः शब्द इह विषयः । तत्र च गare aard विसर्गश्च घटकः । व्युत्पाद्यते तु डौप्रत्यय सुप्रत्ययर्वादेशादिकम्, न चैतद्गौरिति बोधे भासते तथा चार्थान्तरता । गौरित्यनेन परिनिष्ठितेन सह डोमभृतीनां सम्बन्धविशेपस्तत्प्रतिपत्त्युपयोगिता चास्तीति तद्व्युत्पादनमिति चेन्न ।
Page #5
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । शब्दान्तरव्यावृत्तस्य सम्बन्धस्य उपयोगस्य च दुर्वचत्वात् । द्रव्यगुणादिपदार्थानामिह व्युत्पाद्यतापत्तेश्च । अस्ति हि तेषां गौरित्यनेन वाच्यवाचकभावादिः सम्बन्धः । अत एव शाब्दबोधे गवि समवायेन गोत्वमिव शक्तयाख्यसम्बन्धेन शब्दो विशेषणतया भासते । चाक्षुषबोधेपि व्यक्तथा स्मारितः शब्दो विशेषणमित्यभ्युपगमः । आह च, न सोस्ति प्रत्ययो लोके य: शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानामेते पृथगवस्थितइति॥यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्डएव हि दृष्टः सन् संज्ञा स्मारयितुं क्षम, इति च ॥ युक्तं चैतत् । गृहीतशक्तिकं प्रति शब्देनार्थस्येव अर्थन शब्दस्यापि स्मरणे बाधकाभावात् । अत एव गोत्वस्येव गोशब्दस्यापि व्यक्तिविशेषणत्वाविशेषात्संसर्गोपि तादात्म्यमेवास्तु । एवं गोमुणादिभिरपि तदभिन्नाभिन्नस्य तदभेदादित्याशयनाथ गौरित्यत्र का शब्द इति प्रघट्टके द्रव्यगुणकर्मसामान्यैः सह शब्दस्याभेदो भाष्यकृद्भिराशङ्कय निराकृतः । तत्र निराकरणग्रन्थस्यायमाशयः । समसत्ताकभेदाभेदी विरुद्धावेव । अन्यथा त्वदुक्तरीत्या सत्तागुणत्वाद्यभेदात्सुखदुःखस्वर्गनरकादेरप्यभेदापत्तौ प्रवृत्तिनिवृत्तिव्यवस्था न स्यात्, न स्थाच्च भेदग्रहाद्ममनिवृत्तिः । जातिव्यक्तयादिसम्बन्धस्त्वतिरिक्त एवेति । एवमेव शब्देनापि सहास्त्येव सम्बन्धो द्रव्यादीनामिति स्थितम् । आस्ति च द्रव्यादिव्युत्पादनस्य प्रकृते उपयोगोपि । अस्मिबर्थे ऽयं साधुरित्यर्थविशेष पुरस्कृत्यैव साधुत्वस्य वक्तव्यत्वात् । अत एव वाजिनि दरिद्रे च क्रमेण अश्वशब्दो अस्वशब्दश्च साधुव्युक्रमेण त्वसाधुरिति सिद्धान्तः । ननु यथा वैशे
Page #6
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । . [१ अ० षिकादीनामेतच्छास्त्रसिद्धमेव प्रकृतिप्रत्ययविभागमुपजीव्य पदार्थव्युत्पादनाय प्रवृत्तिः प्रकृतिप्रत्ययादिविचारस्तु काचित्कः प्रासङ्गिकस्तथेहापि लोकप्रसिद्ध दर्शनान्तरसिद्धं च पदार्थजातमुपजीव्य शब्दमात्रव्युत्पादनं न विरुध्यतइति चेत् । अस्तु तावदेव,न्तथापि डोप्रभृतिव्युत्पादनं निष्फलमेवेति चेत् । अत्रोच्यते । गौस्तिष्ठति देवदत्तः पचतीत्यादयः शृङ्गग्राहिकया तावज्जन्मसहस्रेणापि बोधयितुम्बोद्धं चाशक्याः । आनन्त्यात् । अतः प्रकृतिप्रत्ययविभागकल्पनारूपो लघुभूत उपायः समाश्रीयते लिपिवत् । आरोपित एव च तत्र संम्बन्धः । प्रसिद्धो हि. स्थूलारुन्धतीशाखाचन्द्रादिन्यायो लोके पञ्चकोशावतरणन्याय. श्चोत्तरमीमांसायाम् । तत्पार्यविषयावाधाच्च प्रामाण्यम् । एषैव त्द्यर्थवादेष्वपि गतिः । आत्मवपोखेदनप्रभृतीनां बाधेपि तात्पयविषयीभूतस्य प्राशस्त्यस्याषाधितत्वात् । उक्तं च हरिणा । उपायाः शिक्षमाणानां बालानामुपलालनाः । असत्ये वत्मनि स्थित्वा ततः सत्यं समीहतइति ॥ उपेयप्रतिपात्त्यर्थी उपाया अव्यवस्थिता इति च ॥ अत एव हि के चित्सुप्रत्ययं विदध. ति, अपरे सिं, तथा सूत्ररीत्या पाठितमित्यत्र इतप्रत्ययः भाष्यरीत्या तप्रत्ययः, सूत्ररीत्या तावानिति वतुप् डारतावर्थवेशेष्यादितिवार्तिकोक्तरीत्या डावतुरिति दिक् । एतेन पचतीत्यादौ आदेशैः स्मार्यमाणा लडादयो बोधका इति वदन्तः परास्ताः । तथा हि । वृद्धव्यवहाराच्छक्तिग्रह इति निर्विवादम्, ततश्च प्रयोगसमवायिनामेव तिप्रभृतीनां शक्तिः सिध्यति न त्वल्यैकिकानां लादीनाम्, एवं डुपचष् डुकृञ् इत्यादिप्रकृतयो विच्क्विबादिप्रत्ययाश्च न शक्ताः किं तु अपाक्षीत् पपाच पापच्यते करोति चर्करीतीत्यादिप्रयोगसमवायिनः अपाक् पपाच इत्या
Page #7
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । दय एव । श्रूयमाणेन डुपचष्प्रभृतीनां स्मारणं तेनार्थबोध इति चेन्न । लाघवाब्यवस्थितत्वाच्च श्रूयमाणानामेवार्थसंबन्धकल्पनात, औत्प्रेक्षिकस्य स्मरणकल्पने गौरवात, अव्यवस्थापत्तेश्च । पचंति देवदत्तः पचन्तं तं पश्येति तिप्शतृभ्यां स्मारितस्य लट एव बोधकत्वे एकत्र आधाराधेयभावेन संसर्गेण देवदत्ते आख्याताओं यत्नो विशेषणमितरत्र तु अभेदेन संसर्गेण कृदर्थः की विशेषणमिति त्वत्सिद्धांतभङ्गापत्तेश्च । एतेन कधिकरणे आख्यातार्थत्वं कर्तुनिरस्य जजभ्यमानाधिकरणे शानजर्थत्वं स्वीकुर्वन्तो मीमांसका अपि परास्ताः। यत्तु तैरुक्तं शानजंशे कतीर कृदितिव्याकरणं शक्तिग्राहकमस्तीति । तदप्यापाततः । कृद्वाक्यशेषोयमानर्दिष्टार्थेषु ण्वुलादिषपतिष्ठते न तु शत्रादिषु स्थान्यर्थेन निराकांक्षत्वादिति वक्ष्यमाणत्वात् । आकांक्षितविधानं ज्याय इति न्यायात् । अन्यथा क्रियमाण इति कर्मणि शानचो दौर्लभ्यापत्तश्च । किं च कर्तरि कृदिति यत्कर्तृग्रहणं तदेव लः कर्मणीत्यत्राप्यनुवृत्तं तत्कथं कृतां तिडां च वैलक्षण्यम् । अन्यलभ्यत्वादेरुभयत्र साम्यात् । यत्तु नामार्थयोरभेद एव संसर्ग इति हि शानजादौ कती वाच्य इत्युक्तम् । तत्तु पचतिकल्पं पचतिरूप देवदत्त इत्याद्यनुरोधात्तिक्ष्वपि तुल्यम्।तस्मात्पररीत्या न कश्चिच्छत्रन्तात्तिङन्ने वैषम्यहेतुः अस्मद्रीत्या तु भावप्रधानमाख्यातं सत्वप्रधानानि नामानीति निरुक्तकारोक्तःपत्ययार्थप्राधान्यमौत्सर्गिकतिषु त्यज्यते।प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वादितिसूत्राच्च । शत्शानविधौ रूपविधौ च भा. ष्येपि स्फुटमेतत् पाचकोबजतीतिवत्पचतिव्रजतीति प्रयोगोप्यत एव नोपपद्यते । पचतिभवतीत्यादि चोपपद्यते पचतोरूपं पचन्ति रूपमित्यादौ रूपवाद्यन्ते द्विवचनादि न भवति । तस्मातिषु
Page #8
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० कृत्सु च विशेषणविशेष्यभावव्यत्यासमात्रमस्तीति वक्ष्यते । यत्तु भट्टैरुक्तं । कर्तरि यदेकत्वं तत्रैकवचनं तिबिति लादिविधेद्वर्येकयोरित्यादेश्चैकवाक्यतया व्याख्यानान कर्तुर्वाच्यता सूत्रादायातीति,तदप्यापाततः। द्विवचनादिसंज्ञा ह्यादेशनिष्ठा ततश्च तद्विधिना द्वयेकयोरित्यस्य एकवाक्यता। न च तत्र कर्तरीत्यस्ति यत् द्वित्वादिविशेषणतया कथं चिद्योज्यतालविधितिबादिविध्योरप्येकवाक्यतास्तीति चेत्,सत्यम् । वाक्यैकवाक्यता सा न तु पदैकवाक्यता । आदेशविधेलविधिलभ्यलकारानुवादेन प्रवृत्तेः। लविधौ तु कर्तृग्रहणं स च द्विवचनादिसंज्ञाविनिमुक्त एव । अत एव आदेशस्मारिता लकारा बोधका इति पक्षे एकत्वादिभानायादेशा एव शरणीकर्तव्याः । एवं णलादौ तिवादिद्वारकं लिडादिस्मरणं कल्प्यमिति महदेव गौरवम् । न च परंपरासंबन्धेन णलेव बोधकः। वृत्तिशून्यत्वात् । अत एवापभ्रंशानां साधुस्मारकताभ्युपगमस्तवापीति दिक् । तस्मात्पूर्वत्रासिद्धमित्यादौ यथा आहार्यारोपेणैव व्याख्यानं सर्वसंमतं तथा शास्त्रीयप्रक्रियायां सर्वत्र । वस्तुतस्तु वाचकता स्फोटेकनिष्ठा । तत्र चाष्टौ पक्षाः ॥ वर्णस्फोटः १ पदस्फोटः २ वाक्यस्फोटः ३ अखण्डपदस्फोटः ४ तादृग्वाक्यस्फोटः ५ इत्थं पञ्च व्यक्तिस्फोटाः । वर्णपदवाक्यभेदेन त्रिविधो जातिस्फोट इति । तथा हि । किंचिद्वर्णव्यत्यासादिना शक्ततावच्छेदकानुपूर्वीभगस्य प्रतिपदमौत्सर्गिकत्वात्तत्र च केन चित्कचित्प्रथमं शक्तिग्रहात्केन कस्य स्मारणमित्यत्र विनिगमनाविरहादृशभो वृ. पभो वृष इत्यादाविव कर कार कुर चकर इत्यादीनां प्रयोगसमवायिनां सर्वेषामेव वर्णानां तत्तदानुपूर्व्यवच्छिन्नानां वाचकते. ति वर्णस्फोटपक्षः। कर्मभृतयो वाचका न वति चेह विपति
Page #9
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । पत्तिशरीरम् ॥ १ ॥ रामं रामेण रामाय हरये हरौ हरीनित्यादौ परिनिष्ठिते रूपे कियानशो द्रव्यादिवाचक कियांश्च कर्मत्वादेरित्यस्य विनिगन्तुमशक्यतया राममित्यादिपरिनिष्ठित पदमेव वाचकं कर्मवादिविशिष्टस्योत पदस्फोटपक्षः ॥ २ ॥ द. धीदं हरेव विष्णोवत्यादावपि विनिगमनाविरहतौल्यांद्वाक्यमेव विशिष्टार्थे शतमिति वाक्यस्फोटः ॥ ३॥ एका पट इति वदेकं पदं वाक्यं वेत्यबाधितप्रतीतेर्वर्णातिरिक्तमेव पदं वाक्यं वा अ. खण्डं वर्णव्यंग्यम् । एकत्वप्रतीतिरौपाधिकीति चेत् । पटेपि तथा त्वापत्तेः । कः पदार्थोसाविति चेत् । भावः । भावविशेषेषु क्वान्तर्भवतीति चेत् । त्वत्परिभाषितेषु द्रव्यादिषु मान्तर्भूत् । नत्थे. तावता प्रमाणसिद्धं प्रत्याख्यातुं शक्यते । अनियतपदार्थवादे गौरवमिति चेत् । व्यक्तीयत्ता तवापि नास्ति । उपाधीयत्ता तु सर्वैःसुवचा ।भावत्वाभावत्वाभ्यां नित्यत्वानित्यत्वादिना वा विभजनात्।भावविभाजकोपाधयस्तु घटविभाजकोपाधिवदेवानावश्यकाः । अस्मिंश्च पक्षद्वये वर्णा अप्यनावश्यकाः। नन्वनुभवसिद्धास्तइति चेत् । व्यञ्जकध्वनिविशेषोपहितस्फोट एव ककाराद्यात्मना व्यवह्रियतइत्यभ्युपगमात् । भाट्टमते तारो मन्दो गकार इतिवत् अद्वैतसिद्धान्ते विषयसंबन्धजन्यत्तिवैचित्र्येण व्यङ्गे स्वरूपसुखे वैचित्र्यवच्च । अत एव वाचस्पतिमिश्राः तत्त्वबिन्दौ वस्तुतः ककारादतिरिच्यमानमूर्तर्गकारस्याभावादिति स्फोटवादिमतमुपन्यास्थत् । यथा वा अखण्डेष्वपि ऋकारादिषु वर्णेषु वर्णान्तरसमानाकारैकदेशावभासः तथात्र पक्षे वर्णावभासोपि भविष्यति । उक्तं च वोपदेवेन । शक्यत्वइव शक्तत्वे जातेलाघवमीक्ष्यताम् । औपाधिको वा भेदोस्तु वर्णानां तारमन्दवत् इति । भर्तृहरिरप्याह । पदे न वर्णा विद्यन्ते वर्णेष्व
Page #10
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः। . [१ अ० वयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चनेति ॥ तस्मादखण्डं पदं वाक्यं वेति पञ्चापि व्याक्तस्फोटावान्तरभेदाः ॥५॥ जातिस्फोटवादिनस्तु घोत्तरटत्वादिकं शक्ततावच्छेदकतया आद्यपक्षत्रयपि यथायथं वाच्यम् । अन्यथा सरोरस इत्यादावविशेषप्रतीत्यनापत्तेः । तच्च उपाधिरूपम् । उपाधिश्च परंपरासंबद्धा जातिरेव । सा च सर्वाधिष्ठानब्रह्मस्वरूपात्मिका । तथा च शक्यांशइव शक्तांशेपिन्यायसाम्येनाकृत्यधिकरणरीत्या ब्रह्मतत्वमेव तत्तदुपहितं वाच्यं वाचकं च । अविद्याविद्यकधर्मविशेषो वा जातिरिति पक्षे तु सैव वाचिकास्त्वित्याहुः ॥ ८ ॥ अष्टावयेते पक्षाः सिद्धान्तग्रन्थेषु तत्रतत्रोपनिबद्धाः। तथा हि । स्थानिवत्सूत्रे सर्वे सर्वपदादेशा इतिभाष्यग्रन्थः । पद्यतेर्थो ऽनेनेति अर्थवदिह पदं न तु मुप्तिङन्तमेव । तथाच एरुरित्यस्य तेस्तुरित्यर्थ इति टीकाग्रन्थश्च वर्णस्फोटेनुकूलः । तथा स्थान्याभिधानसमर्थस्यैवादेशत्त्वमिति स्थानेन्तरतमपरिभाषयैव तस्थस्थमिपामित्यादिषु निर्वाहात्तदर्थ यथासंख्यसूत्रं नारब्धव्यमिति भाज्यमपि । पदस्फोटवाक्यस्फोटौ तु इहैव प्रघट्टके येनोचारितेनेति भाष्यप्रतीकमुपादाय कैयटेन भाष्यार्थतया वर्णितौ । वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वेति वदता तयोरखण्डताप्युक्ता । नित्येषु शब्दषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमिति तत्रतत्र भाष्ये सखण्डतोक्ता। मायानिश्चलयन्त्रेषु कैतवानृतराशिषु । अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियामित्यमरः । पस्पशायामेव प्रघट्टकान्तरे किंपुनरित्यादि भाष्यमुपादाय के चिद्वर्णस्फोटमपरे पदस्फोटं वाक्यस्फोटं चाहुरितिं वदता कैयटेन अइउण्इत्यत्र व्यक्तिस्फोटजातिस्फोटयोर्बलाबलं चिन्तयता प्रत्याहारान्हिकान्ते अक्षरं न क्षरं विद्यादिति भाष्यव्याख्यावसरे व्यव
Page #11
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । • हारनित्यता तु वर्णपदवाक्यस्फोटानां नित्यत्वं तु जातिस्फोटस्पेति प्रतिपादयता अनुपदमेव ब्रह्मतत्त्वमेव हि शब्दरूपतया प्रतिभातीत्यर्थ इति व्याचक्षाणेन सर्वे पक्षाः सूचिता एव । यदा तु अविद्यैव जातिरिति पक्षस्तदभिप्रायेण जातिस्फोटस्यापि व्यवहारनित्यतेति अक्षरं न क्षरं विद्यादित्यस्य कैयटीये पाठान्तरम् । आयन्तौटकितावितिसूत्रे च भाष्यएव वर्णस्फोटपदस्फोटावुक्तौ । असत्यमेव प्रकृतिप्रत्ययविभागं तदर्थ चाश्रित्य रेखागवयन्यायेन सत्यस्य पदस्फोटस्य व्युत्पादनमभिप्रेतमिति तत्रैव कैयटः । अर्थवदधातुः, स्वंरूपंशब्दस्य, तपरस्तत्कालस्येत्यादि सूत्रेष्वपि स्पष्टमिदं भाष्यकैयटादावित्यलं बहुना । जातेश्च ब्रह्मात्मकत्वमुक्तं हरिणा । सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः॥ तां प्रातिपदिकार्थ च धात्वर्थ च प्रचक्षते। सा नित्या सा महानास्मा तामाहुस्त्वतलादय इति ॥ जातेः स्फोटत्वमपि प्रघट्टकान्तरे स एवाह । अनेकव्यक्तयभिव्यंग्या जातिः स्फोट इति स्मृता। कैश्चिद्वयक्तय एवास्या ध्वनित्वेन प्रकल्पिता इति ॥ यद्यपीहाष्टौ पक्षा उक्तास्तथापि वाक्यस्फोटपक्षे तात्पर्य ग्रन्थकताम् । तत्रापि जातिस्फोटइत्यवधेयम् । पूर्वपूर्वोपमर्देनैवोत्तरोत्तरोपन्यासात् । तथा च प्रथमव्युत्पत्तेर्व्यवहाराधीनतया संपूर्णस्य वाक्यस्य विशिष्ट प्राथमिकः शक्तिग्रह इति निर्विवादम् । स चावापोद्वापाभ्यामवयवानां शक्तिरिति न्यायोपष्टम्भेन त्यज्यतइति दर्शनान्तराणां पन्थाः। एकादेशादिस्थले उक्तरीत्या विनिगमनाविरहेण कैश्चित्पररूपादिस्थले पूर्वलोपाद्यभ्युपगमेन च व्याकरणानां कलहे सति अवयवशक्ते?रुपपादतया प्राथमिकशक्तिग्रह एव प्रमारूप इति तु सैद्धान्तिकः प
Page #12
--------------------------------------------------------------------------
________________
१२ शब्दकौस्तुभः ।
[१ अ० न्थाः । उक्तं च हरिणा । तत्र यन्मुख्यमेकेषां तत्रैतेषां विपर्यय इति । ब्राह्मणार्थो यथा नास्ति कश्चिद्ब्राह्मणकम्बले । देवदसादयो वाक्ये तथैव स्युरनर्थका इति च । एवंस्थिते निपाता द्योतका विकरणा अनर्थका इत्यादिविचारोपि प्रक्रियादशायामेव । आह च । अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव तु तादृश इति ॥ तादृशो ऽखण्ड इत्यर्थः। एवं च नामार्थयोरभेद एव संसर्गः प्रत्ययार्थः प्रधानमित्यादिव्युत्पत्तयोपि प्रक्रियाश्रया एव । उक्तं च । किंगजन्ये किंग कीदृग्भातीति नो मते । विचारः फलितः सर्वः प्रकृतिप्रत्ययाश्रय इति । आरोपितस्यापि परिमार्थिके उपायता न विरुद्धा । लिपिस्थूलारुन्धतीशाखाचन्द्रादीनां लौकिकदृष्टान्तानामर्थवादवाक्यपञ्चकोशावतरणादीनां तन्त्रान्तरसिद्धानां पूर्वत्रासिद्धादीनां चैतच्छास्त्रसिद्धानां प्रागेव दर्शितत्वात् । तदेवं पक्षभेदेन अविद्यैव ब्रह्मैव वा स्फुटत्यर्थो ऽस्मादिति व्युत्पत्त्या स्फोट इति स्थितम् । आह च । शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यतइति । समारम्भस्तु भावानामनादि ब्रह्म शाश्वतमिति च । तदेवं वराटिकान्वेषणाय प्रवृत्तश्चिन्तामाणं लब्धवानिति वासिष्ठरामायणोक्ताभाणकन्यायेन शब्दविचाराय प्रवृत्तः सन् प्रसङ्गादद्वैते औपनिषदे ब्रह्मण्यपि व्युत्पद्यतामित्यभिप्रायेण भगवान्भर्तृहरिविवर्त्तवादादिकमपि प्रसङ्गाद् व्युदपादयत्, तत्तु तन्त्रान्तरे स्फुटं प्रकृते नातीवोपयुक्तं चेति नेह तन्यते ।
... इति स्फोटस्वरूपव्युत्पादनम् ॥ ... स्यादेतत् । चं लिख चकारस्त्रुटित इत्यादिव्यवहाराल्लिपावेव शब्दभूमवतां तत्रैव वाचकत्वाभिमानजुषां बालानां पुस्तकमुपयुज्यते यथा तथैव भेदग्रहवतामपीति वस्तुस्थितिः । एवमिहा
Page #13
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । . .. १३ पि प्रकृत्यादिविभागे परिमार्थिकत्वाभिमानवतामपि उपयुज्यतएव शास्त्रं तकिमर्थ कल्पनाव्युत्पादनक्लेशः । अत एव हि भाष्यकारोपि शब्दो नित्यो ऽनित्यो वेति विकल्य उभयथापि व्याकरणारम्भस्य निष्पत्यूहत्वायथातथास्त्वित्युदासिष्यतेति चेत् । सत्यं, व्युत्पत्त्यर्थ प्रस्तुस्थितिः कथिता । पक्षभेदेषु हि गौणमुख्यषु व्युत्पादितेषु तत्र परस्परविरुद्धतया भासमाना अपिसिद्धान्तग्रन्था व्यवस्थापयितुं शक्यन्ते।स्वार्थद्रव्यादीनां पंचना क्रमेण भानमित्यादिवक्ष्यमाणमपि कल्पनयैवोपपादयितुं शक्ष्यतइति दिक् । नन्वस्तु साधुशब्दो विषयः।अस्तु चप्रकृतिप्रत्ययादिकल्पनया तव्युत्पादनोपपत्तिः नथापिव्याकरणाध्ययनस्यानुष्ठापर्ककिमिति चेत् । नित्याध्ययनविधिरिति गृहाण ।श्रूयते हिब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदो ध्येयो ज्ञेयश्चेति । निष्कारणो दृष्टकारणनिरपेक्षो नित्य इति यावत् । कार्यतेनुष्ठाप्यतेनेनेति कारणं फलम् । ब्राह्मणेन षडङ्गो वेदो ध्येयो शेयश्चेत्यन्वयः । तथा च साङ्गवेदाध्ययनतदर्थज्ञानरूपोयं धर्मो नित्यः सन्ध्योपासनादिवदित्यर्थः । श्रुतिरेषेति हरदत्तादयः । स्मृतिरिति तु भट्टाचार्याः । तत्र यदि स्मृतिरेवेति प्रामाणिकं तार्ह आगमः खल्वपीति भाष्येप्यागममूलकत्वादागमः स्मृतिरेवेति व्याख्येयम् । अङ्गत्वं चाङ्गत्वेन संस्तवात् । उक्तं हि शिक्षायाम् । मुखं व्याकरणं. तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्र.. मुद्दिष्टं छन्दसां विचितिः पदे ॥ शिक्षा घाणं तु वेदस्य हस्तौ कल्यान्मचक्षतइति ॥ उपकारकतयाप्यत्त्वम् । व्याकरणं हि अर्थविशेषमाश्रित्य स्वरविशेषादीन् विदधत् पदार्थविशेषनिर्णये उपयुज्यते । ज्योतिषमपि स्वाध्यायोपयोगिनमनुष्ठानोपयोगिनं च कालविशेष प्रतिपादयति । निरुक्तं तु व्याकरणस्यैव प.
Page #14
--------------------------------------------------------------------------
________________
१४
शब्दकौस्तुभः । [१ अ० रिशिष्टप्रायं बाहुलकादिसाध्यानां लोपागमविकारादीनां पायशस्तत्र संग्रहात् । छन्दोविचितिरपि गायत्र्यादिलक्षणद्वारा गायच्या यजतीत्यादिविध्यर्थनिर्णये उपयुज्यते । शिक्षापि वर्णोच्चारणपकारं दर्शयति । कल्पसूत्राण्यपि प्रकरणान्तरपठितस्य न्यायलभ्यस्य शाखान्तराधीतस्य चाङ्गजातस्योपसंहारेण प्रयोगं दर्शयन्ति । तस्मात्पडङ्गानि । तेष्वपि प्रधानं व्याकरणम् । पदपदार्थावगमस्य व्याकरणाधीनत्वात् । वाक्यार्थज्ञानस्य तन्मूलकत्वात् । अत एव तस्य शिक्षायां मुखत्वेन निरूपणं कृतम् । मन्वादिस्मृतिष्वपि अगाध्ययनविधयः प्रसिद्धा एव । तथा चाध्ययनविधिव्याकरणाध्ययनस्यानुष्ठापक इति स्थितम् । तथा च सन्थ्योपासनादेरभावे प्रत्यवायो ऽनुष्ठाने च पापक्षय इति यथाभ्युपेयते तथा व्याकरणाध्ययनस्याप्यननुष्ठाने अनुष्ठाने च बोध्यम् । रक्षाप्रभृतीनि फलान्तराण्यापि सन्ति । तथा च भाष्यम् । कानि पुनरस्य प्रयोजनानि । रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति। अत्र प्रयुज्यते प्रवर्त्यते ऽनेनेति करणल्युडन्तः । प्रयोजयतीति कतृव्युत्पत्त्या बाहुलकात्कतेल्युडन्तो वा । उभयथापि प्र. वर्तकविधिपरः पुल्लिङ्गः प्रयोजनशब्द एकः । फलपरः क्लीबो ऽपरः । उभयोनपुसकमितिनपुंसकैकशेषे एकवद्भावस्य वैकल्पिकतया प्रश्ने बहुवचनमुत्तरे एकवचनं च बोध्यम् । तत्र आगम: प्रवर्तकः । रक्षोहलाघवासन्देहास्तु फलानीति विवेकः । तत्र प्रवर्तक आगमो व्याख्यातः । फलानि व्याख्यायन्ते । तत्र रक्षा वेदसंरक्षणम् । तथाहि । भाषायामदृष्टा लोपागमवर्णविकाराश्छन्दसि दृश्यन्ते । ते केवलप्रयोगशरणैः प्रामादिकाः सम्भाव्येरन् । वैयाकरणस्तु लक्षणदर्शी तदेव रूपं स्थापयति । तत्र लोपोदाहरणम् । त्मना देवेषु विविदे मितद्रुः। त्मना, आत्मनेत्यर्थः ।
Page #15
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । मन्त्रेष्वाङयादेरात्मन इत्याकारलोपः। आगमो यथा । देवासः ब्राह्मणासः । आज्जसेरसुगित्यसुगागमः । लोपागमौ यथा । देवा अदुहू । अदुहतेत्यर्थः । दुहेर्लङो झस्यादादेशे कृते लोपतआत्मनेपदेष्विति तलोपः। बहुलंछन्दसीतिरुडागमः । एतेन नाशिरं द्रुहेविश्वाइत्ते धेनवो दुहू इत्यादिलडन्तमपि व्याख्यातम् । वर्णविकारो यथा । गृभ्णामितेसौभगत्वाय । हग्रहोर्भश्छन्दसि हस्येति वक्तव्यमिति भकारः । प्रत्ययोपि छान्दसो. स्ति, यथा । उदाभं च निग्राभं चेति । उदिग्रह इतिसूत्रे उदा. भनिग्राभौ च च्छन्दसि सुगुद्यमननिपातनयोरिति वचनादुन्निपूद्हेिन् । तत्र उत्पूर्वात्सूत्रेण लोकेपि सिद्धो घम् । निपूर्वात्तु वार्तिकोक्तश्छन्दस्येव । सनिवेशविशेषयुक्ताः पात्रविशेषाः सुचः । इह तु जुहूपभृतोरेव ग्रहणम् । उदाभं चेति जुहूमुद्यच्छति, निग्राभञ्चेत्युपभृतं नियच्छतीति वचनात् । भकारादेशः प्राग्वत् । ऊहोपि प्रयोजनम् । तथाहि । यत्रागजातं सम्पूर्णमुपदिष्टं सा प्रकृतिः । यथा दर्शपूर्णमासौ । यत्र नोपदिष्टं सा विकृतिः । यथा सौर्य चळं निर्वपेद् ब्रह्मवर्चसकाम इति विहितो यागः । तत्र वैकृतस्य विधेविषयभूतायां भावनायां करणीभूते यागे उपकारकाकांक्षायां तन्मुखेन प्राकृतमङ्गजातं प्राप्यते । वैदिके करणेतादृशानामेवानानामपेक्षितत्वात् । तेषामेव प्रकृतौ क्लतसामर्थ्यात् । तद्विशेषस्य चैकदेवतात्त्वादिना शक्यज्ञानत्वात् । तस्मात्प्रकृतिवद्विकृतिःकर्त्तव्येति पूर्वमीमांसायां स्थितम् । तत्र यस्याङ्गस्य प्रकृतीय उपकारः क्लुप्तस्तस्य विकृतावसंभवे निवृत्तिः। यथा प्रकृताववघातस्य वैतुष्यमुपकारतया क्लुप्तं तस्य कृष्णलेवसंभवादवघातस्य निवृत्तिः । मन्त्रा अप्यङ्गम् । तेषां चानुष्ठेयार्थप्रकाशनं कार्यम् । तत्र प्रकृवौ यस्य मन्त्रस्य यदभिधेयं तच्चे
Page #16
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । - [१ अ० द्विकृतौ साकल्येन नास्ति तदा कृत्स्नस्य मन्त्रस्य निवृत्तिः । यथा । अवरक्षो दिवः सपत्नं वध्यासमित्यवघातमन्त्रस्य कृ. ष्णलेषु । यस्य त्वेकदेशस्याभिधेयं नास्ति तस्य तावन्मात्रं निवर्तते । यथा । अग्नये त्वा जुष्टं निर्वपामीत्यस्य मन्त्रस्यावयवभूतं देवताभिधायि पदमौषधद्रव्यकत्वेन एकदेवताकत्वेन चाग्नेयविकारभूते सौर्ये निवर्तते अग्निशब्दे च लुप्तद्वारकतया निवर्तमाने एकारोपि निवर्त्तते । अकारान्तेतरप्रकृतिसन्निधानेनैव हि एकारस्य सम्पदानं वाच्यम् । अकारान्तात्तु यशब्दस्य । ततश्चतुर्थ्यन्तसूर्यायेत्यायुदात्तम् अग्नयइत्यस्य मध्योदात्त'स्य स्थाने ऊह्यम् । सोयं प्रकृत्यूहः। लिङ्गस्य कचिदूहः। यथा। दे. वीरापः शुद्धाः स्थेत्यप्सु विनियुक्तो मन्त्रः तस्याज्ये ऊहः । देवाज्यशुद्धमसीति । प्रत्ययमात्रस्य क्व चिदूहः । यथा । माभेमासं विक्था इति पुरोडाशेवदानमन्त्रः तस्य धानासूहः । माभैष्टमासंविजिध्वमित्यादिरित हरदत्तादयः । याज्ञिकास्तु संविग्ध्वमित्यूहमाहुः । युक्तं चैतत् । प्रकृतावनिदकतया विजिरपृथग्भावइत्यस्य प्रयोगो न तु ओविजी भयचलनयोरित्यस्येत्यवधारणात् । लाघवमपि प्रयोजनम् । तथाहि । अध्यापनं ब्राह्मणस्य वृत्तिः । तन्निर्वाहश्च वैदुष्याधीनः । वैदुष्यं च साध्वसाधुविवेकः । स च न प्रतिपदपाठादिना सम्भवति । शब्दानामानन्त्यात् । तस्मादुत्सर्गापवादरूपलक्षणद्वारा तबोधने लाघम् । अन्यथा तु गौरवम् । असन्देहोपि प्रयोजनम् । तथाहि । स्थूलपृषतीमनड्वाहीमालभेतेति श्रूयते । तत्र सन्देहः कर्मधारयोयं बहुव्रीहिर्वेति । तत्र कर्मधारयपक्षे पृषतीशब्देन मत्वर्थलक्षणया पृषत्त्वतीबिंदुमती गौरेवाभिधीयते स्थूलापि सैव बिन्दुना स्थौल्यं तानवं वा यथा तथास्तु । बहुव्रीहौ तु स्थौल्यं पृषत्स्वे
Page #17
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः ।
१७ वेति । गौस्तु स्थूला कृशा वेत्यत्रानादरः । तत्र लकाराकारे उदात्तत्वं दृष्ट्वा पूर्वपदप्रकृतिस्वरेण बहुव्रीहिं वैयाकरणो निश्चिनोति । ततश्च निश्चयेन प्रतिबन्धात्संशयानुत्पादः । स एवासन्देहः । अर्थाभावेव्ययीभावादसन्देहमिति स्यादिति चेन्न । पोयेणाव्ययीभावतत्पुरुषसंज्ञाद्वयमपीह भवतीति द्वितीये उपपादयिष्यमाणत्वात् । अत एवोभयथा मुनिप्रयोगः । अद्रुतायामसंहितमिति, अथासंहितयेति च । एवं इन्द्रपीतस्योपहूतो भक्षयामीत्यादावपि स्वरेणैव बहुव्रीहिनिर्णये इन्द्रपीताधिकरणमवैयाकरणान्पति सार्थकम् । कृत्वाचिन्तान्यायेन वा नेयमिति दिक् । तदेवं रक्षोहलाघवासन्देहाख्यानि चत्वारि फलानि व्याख्यातानि । आगमस्तु प्रवर्तक इत्युक्तम् । भाष्ये तु. सन्दर्भशुध्यर्थं फलचतुष्टयस्य प्राक् पश्चाद्वा प्रवर्तके वक्तव्ये मध्ये तदुक्तया फलसन्दंशेन नित्यानामपि फलपर्यवसानमस्तीति सूचितम् । फलं तु पापक्षयः प्रत्यवायानुत्पत्तिा । धर्मेण पापमपनुदति । विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अ-.. निग्रहाचेन्द्रियाणां नरः पतनमिच्छतीत्यादिवचनानीह साधकानीति दिक् । इमानि च भूयइत्यादिभाष्येण प्रवर्तकवचनान्तराणि उदात्त्य व्याख्यातानि । तद्यथा । ते सुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुस्तस्माद् ब्राह्मणेनें न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्द इति ब्राह्मणम् । अत्र न म्लेच्छितवा एतस्य विवरणं नापभाषितवै इति । उभयत्रापि कृत्याथे तवैकेनकेन्यत्वन इति तवैप्रत्ययः । धातूनामनेकार्थतया निन्दावचनान्मेच्छधातोः कर्मणि घञ् । तेनापशब्दसामानाधिकरण्यं न विरुध्यते । अत्र न म्लेच्छितव्यमितिनिषेधस्य ते सुरा इत्यर्थवादः । न चेह रात्रिसत्रन्यायेन आर्थवादिकं फलमस्त्वि
Page #18
--------------------------------------------------------------------------
________________
१८
शब्दकौस्तुभः ।
[ १ अ०
ति वाच्यम् । द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यादिति न्यायेन अपाप श्लोक श्रवणवत्प्राशस्त्यमात्रपरत्वात् । प्रकरणात्त्वङ्गो ह्ययन्निषेध इति यर्वाणस्तर्वाणो नामेत्यादावुत्तरग्रन्थे माष्यकारैरेव स्फुटीकरिष्यते । अत एव इहापि पराभूता मा भूत्यध्येयं व्याकरणमिति नोपसंहृतम् । किं तु म्लेच्छा मा भूमेत्येव । म्लेच्छा निन्द्याः । शास्त्रबोधितविपरीतानुष्ठानादिति भावः । अत्र है प्रयोगे हैहयोरितिप्लुते प्लुतत्वप्रयुक्ते प्रकृतिभावे च कर्त्तव्ये तदकरणं म्लेच्छनमित्येके । ननु सर्वः प्लुतः साहसमनिच्छता विभाषा कर्त्तव्य इति भाष्यकृता वक्ष्यमाणत्वान्नैष दोष इति चेत् । सत्यम् । अत एवापरितोषाद्वाक्यद्विर्वचनं म्लेच्छनमित्य परैर्व्याख्यातम् । सर्वस्य इत्यत्र पदग्रहणस्य चोदितत्त्वादिति तेषां भावः । ननु नेदं शास्त्रीयं द्विर्वचनं किं तु तात्पर्यद्योतनार्थमैच्छिकः पुनः प्रयोगः । अनावृत्तिः शब्दादिनावृत्तिः शब्दादिति वदिति चेत्, तह्यम्रेडितस्वरानुपपत्तिः । यदि तु तत्राम्रेडितस्वरविनिर्मुक्त एव पाठस्तर्हि अरिशब्दे रेफस्य लत्वमपशब्द इत्यवधेयम् । इदं च भाष्यादिषु प्र सिद्धं श्रुतिपाठमनुसृत्य व्याख्यातम् । अयं च पाठः क्व चिच्छाखायामन्वेषणीयः । माध्यन्दिनानां शतपथब्राह्मणे तु हेलवो हेलव इति वदत इति पठित्वा तस्माद् ब्राह्मणो न म्लेच्छेदिति पठ्यते । तत्र यकारस्थाने वकारोपशब्द इति स्पष्टमेव । तथा शिक्षासु पठ्यते । मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । सवाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधादिति । स्वरेण स्वरतः । हीयमानपापयोगाच्चेति तसिः । मिथ्याप्रयुक्तः । यदर्थप्रतिपादनाय प्रयुक्तस्ततोर्थान्तरं स्वरवर्णदोषात्प्रतिपादयन् । अत एव तमर्थं नाहेत्यर्थः । वागेव वज्रः हिंसकत्वात् । य
Page #19
--------------------------------------------------------------------------
________________
१ पा. १ आ.
शब्दकौस्तुभः ।
१९
.:
जमानं हिनस्तीति । यथाध्वर्युकृताद्धोमाद्यजमाने धर्मोत्पत्तिः एवमध्वर्युकृतादप शब्दप्रयोगाद्यजमाने प्रत्यवाय इत्यर्थः । यथेत्युदाहरणे | इन्द्रशत्रुः । इन्द्रशत्रुशब्दः पुरा किल विश्वरूपाख्ये स्वष्टुः पुत्रे इन्द्रेण हते सति कुपितस्त्वष्टा इन्द्रस्य हन्तारं वृत्राख्यं पुत्रान्तरमुत्पिपादयिषुराभिचारिकं यागं कृतवान् । तत्र च इन्द्रस्य शातयिता शत्रुः हिंसक इति यावत् तथाभूतः सन् वर्षस्वेतिप्रतिपादितुं इन्द्रशत्रुर्वर्धस्वेतिं प्रयुक्तम् । प्रयन्ताच्छदरौणादिकः क्रुन्प्रत्ययः । प्रज्ञादिगणे निपाताद् ह्रस्वः । इन्द्रशत्रुत्त्वस्य विधेयत्वान्न सम्बोधनविभक्तिः । तस्या अनुवाद्यविषयक - त्वात् । अत एव राजन् युध्यस्व राजा भव युध्यस्वेत्यनयोर्व्यवस्थयैव प्रयोगः । राजत्वस्य सिद्धत्वे सम्बोधनविभक्तिर्न तु विधेयत्वेपीति । एवं स्थिते इन्द्रशत्रुशब्दे तत्पुरुषसमास प्रयुक्तेन्तोदात्ते वक्तव्ये प्रमादादाद्युदात्तः किलोक्तः । तथा च पूर्वपदप्रकृतिस्वरेण बहुव्रीह्यर्थो लब्धः । इन्देहि धातोरौणादिके ऋजे-: न्द्रेत्यादिना रन्प्रत्यये कृते इन्द्रशब्द आद्युदात्तो व्युत्पादितः । तेनेन्द्र एवास्य हिंसकः सम्पन्न इति श्रुतीतिहासपुराणादिषु प्र-: सिद्धम् । तदिहोदाहरणतयोक्तम् । स्यादेतत्, यज्ञकर्मणीह्येकश्रुत्येह भवितव्यम् । सा च तत्पुरुषबहुव्रीह्योरविशिष्टेति । अत्राहुः । जपादिपर्युदासेन मन्त्रेष्वेव एकश्रुतिर्विधीयते । स्वेच्छया प्रयुज्यमानश्च मन्त्रो न भवति । तदुक्तं भेदलक्षणे जैमिनि -: ना । अनाम्नातेष्वमन्त्रत्वमिति । आपस्तम्बवाह | अनाम्ना-: ता अमन्त्रा यथा प्रवरोहनामधेयग्रहणानीति । अत एव मन्त्रो हीन इति पाठस्य शिक्षायां प्रसिद्धेत्वपि ऊह्यमानस्यामन्त्रतया यथन्द्रेशत्रुरिति वाक्यशेषो ऽसङ्गतः स्यादतो मन्त्रशब्दः शब्दमापर इत्याशयेन भाष्ये दुष्टः शब्द इति पठितम् । ननु स्वाहें
Page #20
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० द्रशत्रुद्ध स्वेति वेदे पठ्यतएवेति । सत्यम् । अहितं यदमन्त्रभूतं अनुकार्य तदनुकरणस्य पाठेपि अर्थपरस्यानुकार्यस्य लौकिकवानपायात् । नन्विन्द्रशत्रुशब्दस्य लौकिकत्वे कथं स्वरप्रयुक्तयोगुणदोपयोः प्रसक्तिः स्वरस्य वेदमात्रविषयकत्वादिति चेन्न । स्वरविधौ छन्दोधिकाराभावात् । एतावानेव हि भेदः । यच्छन्दसि त्रैस्वयमेकश्रुतिश्च व्यवस्थया ऽऽश्रीयते । लोके त्वैच्छिको विकल्पः । अत एव एकश्रुत्या सूत्रपाठस्वैस्वर्येण वेति पक्षद्वयमपि तत्रतत्रोपन्यस्तमिति वक्ष्यामः । नन्वेवं उच्चस्तरांवेतिसूत्राद्विकल्पानुवृत्त्यैव सिद्धौ विभाषाछन्दसीत्यत्र विभाषाग्रहो व्यर्थः स्यात् । प्रसज्यप्रतिषेधे तु नायं दोषः । यज्ञकर्मणीत्यस्य निवृत्तये पुनर्विभाषाग्रहणात् । न च पर्युदासपक्षेप्येवमेवास्त्विति वाच्यम् । नित्यविकल्पविध्योर्विषयभेदस्यावश्यकतया आरम्भसामर्थ्यादेव तनिवृत्तिसिद्धः । प्रसज्यप्रतिषेधे तु नारम्भसामर्थ, ऊहादिष्वमन्त्रेषु चरितार्थस्य पूर्वविधैरुत्त. रेण छन्दोमात्रविषयकेण बाधसम्भवात् । नराहादीनां छन्दस्त्वमस्ति । मन्त्रब्राह्मणेतरत्त्वात् । तस्मादसमर्थसमासमाश्रित्यापि प्रसज्यप्रतिषेध एवागत्या स्वीकर्तुमुचित इति चेन्न । पर्युदासपक्षेपि मन्त्रे नित्यं ब्राह्मणे वेति विषयविभागसंभवेन यज्ञकर्मनिवृत्तये विभाषाग्रहणसम्भवात् । उक्तापरितोषादेव तु के चिजपादिषु प्रसज्यप्रतिषेधमाश्रित्य इहाप्येकश्रुतेः प्राप्तौ सत्यांतदकरणं बहुव्रीहिस्वरकरणं च स्वरतोपराधादित्यस्यार्थ इत्याहुः । श्रूयते च यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनमाविव शुष्कैथो न तज्ज्वलति कर्हि चित् ॥ निगदेन, पाठमात्रेण । शुष्कैवइति सान्तेन क्लीबेन एधशब्देन अकारान्तेन वा पुल्लिंगेन निर्वाह्यम् । न ज्वलति, न प्रकाशते निष्फलं भवतीत्य
Page #21
--------------------------------------------------------------------------
________________
१ पा. १ आ.
शब्दकौस्तुभः ।
र्थः । निरुक्ते तु । अथापि ज्ञानप्रशंसा भवत्यज्ञाननिन्दा चेत्युपक्रम्य स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योर्थ योर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मेति मन्त्रमुदात्त्य यद्गृहीतमविज्ञातमित्यादि पठितम् । तत्रापिगृहीतं शब्दतः, अविज्ञातं तु अर्थतः । प्रकृतिप्रत्ययादिविभागेन वेत्यादि शेषं प्राग्वत् । अन्यत्रापि श्रूयते । एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति । एतच्च एकः पूर्वपरयोरिति सूत्रे भाष्यकृद्वक्ष्यति । एतन्मूलकमेव कात्यायनप्रणीतेषु भ्राजाख्येषु श्लोकेषु स्मर्यते । यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोनन्तमानोति जयं परत्र वाग्योगविदुष्यति चापशब्दैरिति ॥ दुष्यति चापशब्दैरित्यत अवैयाकरणः कर्त्ता सामर्थ्याद्बोध्यः । तथा । अविद्वांसः प्रत्यभिवादे नाम्नो येन प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ॥ अयमहमित्यस्य अनुकरणं चानिति परमिति गतिसंज्ञा । ततो गतिसमासेपि अस्य वामीयमित्यादाविवानुकरणत्वादेव विभक्तेर्लङ्न । याशिकाः पठन्ति प्रयाजाः सविभक्तिकाः कार्या इति ॥ यद्यपि प्रकृतौ प्रयाजमन्त्राः सविभक्तिका एव पठ्यन्ते । तथापि यदि आधानादनन्तरं यजमान उदरव्यथावान् स्याद्यदि वा संवत्सरमध्ये तस्य महती विपत्स्यात्तदा नैमित्तिकीं पुनराधेयेष्टि विघाय तत्रेदमानातं प्रयाजाः सविभक्तिका इति । तत्र केवलविभक्तेः प्रयोगानईत्वात्प्रकृतिराक्षिप्यते सा चाग्निशदरूपा न तु या को चित् । निरुक्ते देवताकाण्डे, अथ किं देवताः प्रयाजानुयाजा इति प्रश्नमवतार्य मन्त्रवर्णादीनुदात्त्य आया इति तु स्थितिरित्युपसंहारात् । तस्मा
Page #22
--------------------------------------------------------------------------
________________
२२
शब्दकौस्तुभः । [१ अ० दादितश्चतुर्पु प्रयाजेषु चतस्रो विभक्तयोऽग्निशब्दप्रकृतिकाः पज्यन्ते इत्यादिश्रौतग्रन्थेषु द्रष्टव्यम् । तथान्यत्रापि यो वा इमां पदशः स्वरशो ऽक्षरशो वाचं विदधाति स आत्विजीन इति । पदंपदमिति संख्यैकवचनाच वीप्सायामिति शम् । स्वर उदात्तादिः । अक्षरं व्यञ्जनसहितोच । ऋत्विनमहतीत्याविजीनो य• जमानः । ऋत्विकर्माहितीत्यात्विजीनो याजकः । यज्ञविग्भ्यां घखत्रावितिसूत्रेण यज्ञविग्भ्यां तत्कर्माहतीति चोपसंख्यानमितिवार्तिकेन च खञ् । यजने याजने च विदुष एवाधिकार इति भावः । ऋग्वेदोपि बहवो मन्त्रवर्णाः । चत्वारिशृङ्गा, चत्वारिवाक्, उतत्वः पश्यन् , सक्तुमिवेत्यादयः । तितउपरिपवनं भवतीति भाष्यम् । चालनी तितउः पुमानिति तु अमरस्य प्रमाद इत्येके। वस्तुतस्तूक्तभाष्यानुरोधादमरग्रन्थे पुंस्त्वायोगमात्रं व्यवच्छेद्यं न त्वन्ययोगोपि । तथा च पुनपुंसकवर्गे, स्यावास्तु हिंगु तितउ इतित्रिकाण्डशेषः । अत एव तितउमाचष्टे तितापयतीत्यभियुक्तग्रन्था अपि संगच्छन्तइति दिक् । याशिकाः पठान्ति । आहितानिरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निवेदिति । सथा । दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्यादोषवदाघन्तरन्तस्थमवृद्धं त्रिपुरुषानूकमनरिमतिष्ठितं तद्धि प्रतिष्ठिततमं भवति व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितमिति । ना. मकरणे अधिकारिणः पितुर्ये त्रयः पुरुषास्ताननु कायति अभिधत्ते इति त्रिपुरुषानूकम् । अन्येषामपि दृश्यतइति दीर्घः । त्रिपुरुषत्यत्र पात्रादित्वात्स्त्रीत्वाभावः । मूलविभुजादित्वात्कः । यत्तु उपपदाविवक्षया आतश्चापसर्गइति कं कृत्वा ततः षष्ठीत त्पुरुष इति । तत्तु कर्मण्यणितिसूत्रे अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेनेति वार्तिकस्य नदीसूत्रे स्वयाख्यावितिमूलाविभुजा
Page #23
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुमः । दित्वात्क इति भाष्यस्य च अननुगुणम् । अत एव गङ्गाधरादिशब्दानां संज्ञाशब्दत्वमिति प्राञ्चः । वस्तुतस्तु प्रथमं कर्याविवक्षायामनकपदं व्युत्पाद्य पश्चात्कर्मसंबन्धेप्यदोषः वार्तिकादिकं तु प्रथममेव कर्मविवक्षामभिप्रेत्य, अन्यथा कृतपूर्व्यादिषु का गतिः । अत एव शक्यं चक्षुरुपहन्तुमिति भाष्यव्याख्यायां बहिरङ्गस्त्रीत्वप्रतीत्या अन्तरङ्गः पदसंस्कारो न विहन्यतइति कैयटोपि वक्ष्यति । विवक्षा च लोकप्रसिद्धयनुसारिणी न तु स्वायत्ते. ति विपराभ्यांजेरित्यादावपि पूर्व धातुः साधनेन युज्यतइति पक्षमुपष्टभ्य विजयतीत्यादि नापादनीयमिति दिक् । तथा च ऋग्वेदएव पठ्यते । सुदेवो असि वरुण यस्य ते सप्तसिन्धवः । अनुक्षरन्ति काकुदं सूर्य सुषिरामिवेति । अस्यार्थः । हे वरुण सत्यदेवोसि यस्य ते काकुदं तालु काकुर्जिव्हा सा उद्यते उ. क्षिप्यते ऽस्मिन्निति काकुदं वदेरुक्षेपणमर्थः। धातूनामनेकार्थत्वात् । ततो घबर्थे कविधानमित्यधिकरणे कः सम्प्रसारणं षष्ठीतत्पुरुषे शकन्धवादित्वात्पररूपम् । नुद प्रेरणे इत्यस्मादाधिकरणे कः पृषोदरादित्वान्नुशब्दस्य लोप इत्यन्ये । निरुक्तस्वरसोप्येवम् । सप्तसिन्धव इव सिन्धवो विभत्तयः । अनुक्षरन्ति तालु मा. प्य प्रकाशन्तेइत्यर्थः । अत्र दृष्टान्तः । यथा सच्छिद्रां लोहमयीं प्रतिमां प्रविश्याग्निः प्रकाशते तथेति । अग्निहि तत्रत्यं मलं भस्मीकृत्य प्रतिमां शुद्धां करोति तथा विभक्तयोपि शारीरं पापमपाकुर्वन्तीति भावः । सूर्मी स्थूणा ऽयम्प्रतिमेत्यम: सः । स्मर्यते च । सूर्मी ज्वलन्तीमालिङ्गेन्मृत्यवे गुरुतल्पग इति । अमिपूर्व इत्यत्र वाछन्दसीत्यनुत्तेर्यणादेशः । सुषिरामित्यत्रार्शआयच् अभेदोपचारो वेत्याहुः । वस्तुतस्तु ऊषसुषिमुष्कमधोर इति मत्वर्थीयो रमत्ययः । रन्धुं श्वभ्रं वपा
Page #24
--------------------------------------------------------------------------
________________
२४ शब्दकौस्तुभः ।
[१ अ० सुषिरित्यमरः । सरन्धे सुषिरं त्रिष्विति च सुष्टु स्यतीति सु. पिरिति क्षीरस्वामी । गर्ने गर्नान्विते वाद्ये विशेषे मुषिरं त्रिविति शाश्वतः ॥ इति प्रयोजनप्रपञ्चः ॥ इत्येवं विषयप्रयोजनयोरुक्तयोः सम्बन्धाधिकारिणावुक्तमायावेवेति पृथङ्नोक्तौ। इह येन प्रयोजनं पृष्ठन्ततोन्य एव तटस्थ इत्थम्प्रत्यवतिष्ठते । ननु यथा धीष्वेत्याचार्येणोक्ते प्रयोजनप्रश्नमकृत्वैव वेदमधीयते । तदङ्गभूतं व्याकरणमप्यध्येष्यन्ते तत्कि प्रयोजनवर्णनक्लेशेनेति । अत्रेदमुत्तरम् । प्रायेणेदानीन्तनानामल्पायुष्कत्वाद्विघ्नबहुलत्वाच प्रधानभूतो वेदस्तावत्पाठ्यते । तदध्ययनकाले च बाल्यात्मयोजनादिकं प्रष्टुमसमर्थाः शिष्या गुरुणा उपदिश्यमानं वेदं गृहन्तीति युक्तम् । ततो गृहीतवेदाः प्रौढिमापन्ना विवाहार्थ त्वरमाणा व्याकरणाध्ययनाय गुरुणा प्रेर्यमाणा अपि न सहसा प्रवर्त्तन्ते । वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः । अनर्थकं व्याकरणं, इति प्रत्यवतिष्ठन्ते । तान्प्रति युक्तमेव प्रयोजनादिवर्णनम् । पूर्वकल्पेषु व्याकरणशिक्षादीनि लक्षणानि प्रथमं पाठयित्वा तत्तल्लक्षणानुसन्धापनपूर्वकं लक्ष्यभूतं वेदं ग्राहयन्तः स्थिताः । तदा परं बाल्यावस्थायां व्याकरणपाठात्पयोजनप्रश्नविरहे तत्प्रतिपादनमपि न कर्त्तव्यमेवेति । यद्यपि, श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विपोर्टपञ्चमान् ॥ ततः परं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि रहस्यं च कृष्णपक्षेषु सम्पठेदिति मनुवचनस्य इत ऊर्ध्वमनध्यायेष्वङ्गान्यधीयीतेत्यादिस्मृत्यन्तराणां च पर्यालोचनया वेदवेदाङ्गाध्ययनसमकालता लभ्यते । तथापि ऋषिवचनत्वाविशेषाद्भाष्यकारोक्तेर्मानवादेश्च वीहियववाद्विकल्पएवेति तत्वम् । तदेवमनुबन्धचतुष्टयस्य सुस्थत्वात्साधुशब्दव्यु
Page #25
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । :
२५ त्पादनं कर्त्तव्यमिति स्थितम् । ननु किमिदं साधुत्वम् । साधयति बोधयतीति साधुरिति व्युत्पत्त्या बोधकत्वं तदिति चेन्न । गाव्यादावपि तत्सत्त्वात् । शक्तत्वं तदिति चेन्न । पचतीत्यादौ विकरणानामसाधुतापत्तेः । तेषामनर्थकत्वात् । डुपचप्लदइत्यादीनां साधुतापत्तश्च । लाक्षणिकेष्वव्याप्तेश्च । तेषामपि लक्ष्येर्थे ऽशक्तः । क्व चिच्छक्ततायास्तु अवास्वादिष्वतिप्रसक्तेः । - त्तिमत्वं तदिति चेत् । न । द्योतकेषु निपातेष्वव्याप्तेः । औपसंदानिकी शाक्तिरेव द्योतनेति चेत् । न । प्रोत्तरजित्वघोत्तरटत्वयोरविशेषेण विनिगमनाविरहाच्छक्ततापत्तौ व्यासज्यवृत्तिशक्तौ विश्रान्तेः । ततश्च अद्विवचनाद्यव्यवस्थापत्तिः । न च जातिविशेष एव साधुतेति वाच्यम् । कत्वादिना सङ्करापत्तेरिति । अत्राहुः। अनपभ्रष्टतानादियद्वाभ्युदययोग्यता। व्याक्रि. या व्यञ्जनीया वा जातिः काऽ पीह साधुतति । अस्यार्थः । शक्तिवैकल्यादिप्रयुक्तमन्यथोच्चारणमपभ्रष्टता तद्विरहोऽनपभ्रटता ॥ सैव साधुता सा चार्थविशेषान्तर्भावेणैव । तथाहि । यमर्थ शक्तया लक्षणया वा बोधयितुं द्योतयितुं वा याक्शब्दोनादिः प्रयुक्तस्तस्मिन्नर्थे दोषादन्यथात्वं प्राप्तः सोसाधुः । अन्यथा तु साधुरिति । येपि गाव्यादिष्वेव प्रथमं व्युत्पन्नाः सन्तस्तान्प्रयुञ्जते तेषामपन्यथोचारणमस्त्येव । तत्र च दोषणयोज्यतास्त्येव । मूलप्रयोक्तुभ्रेमाद्यन्यतमत्वात् । यद्वा अनादिता साधुता । अनादिरति तु श्लोके भावप्रधानो निर्देशः। आदेरभावो ऽनादिरिति वा । असन्देह इतिवत्तत्पुरुषः । अभ्युदययोग्यता वा ऽस्तु साधुता । रत्नतत्त्ववच्छास्त्रपरिशीलनशालिभिर्गम्यो जातिविशेषो वेति । यत्तु जातिसङ्कर इत्युक्तं, तन्न । गुणगतजातौ तस्यादोषत्वात् । तथाहि । यस्य देवदत्तादरेनो
Page #26
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[१ अ० ठया वर्णा एव पूर्व श्रुतास्तस्य कुड्यादिव्यवहितस्य ओष्ठयवणेषु श्रुतेषु यदनुमान जायते तदोष्ठयानोष्ठ्यसाधारणतदनुमापकजात्यंगीकारे सत्येव घटते न तु तत्तद्वयाप्यनानाजातिस्वीकारे।
ओष्ठयवर्णवृत्त्यसाधारणजातेः प्रागगृहीतत्वेनानुमितिसामग्रीवैकल्यात् । वस्तुतस्तु उपाधिसङ्करवदेव जातिसङ्करोपि सर्वत्रास्तु । दूषकताबीजानिरुक्तेः । विनिगमकाभावेन भूतत्वमूर्त्तत्वयोरिव शरित्वपृथिवीत्वयोयोरपि नातित्वभङ्गापत्तेश्च । तस्माचतुर्विधमपि साधुत्वं निर्दोष व्याकरणैकगम्यं च । एवमसाधुत्वमपि चतुर्दा । अपभ्रष्टता, सादिता, प्रत्यवाययोग्यता, तदवच्छेदकजातिविशेषो वेति । टिघुभादिसंज्ञासु यद्यपि पुण्यपापजनकतारूपे साधुत्वासाधुत्वे न स्तस्तथापि अनपभ्रष्टत्वरूपं साधुत्वमस्त्येव । तदेवानुशासनप्रवृत्तावुपयोगि । भस्येत्यादिसौत्रनिदेशात् कुत्त्वं कस्मान भवतीत्यादिभाष्याचेत्याहुः। एवं चानादित्वमभ्युदययोग्यत्वं वा अनपभ्रष्टतामात्रेण न सिध्यति । किं तु पौरुषेयसङ्केतविरहविशिष्टेनेत्यवधेयम् । तदेतदुक्तम् । यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः । कथं नु तासां सा. धुत्वं नैव ताः साधवो मताः । अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता । हस्तचेष्टा यथा लोके तथा सङ्केतिता इमाः। ततश्च, नासां प्रयोगे ऽभ्युदयः प्रत्यवायोपि वा भवेत् । लाघवेनार्थबोधार्थ प्रयुज्यन्ते तु केवलमिति । तदयं निर्गलितोर्थः। यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्तइति पक्षे । अनिदंप्रथमाः शब्दाः साधवः परिकीर्तिताः । तएव शक्तिवैकल्यप्रमादालसतादिभिः। अन्यथोच्चारिताः पुम्भिरपशब्दा इतीरिता, इति च साध्वसाधुलक्षणे आश्रीयमाणे टिघुमादीनां साध्वसाधुबहिर्भावः स्पष्ट एव । तेपामप्यनादितोत पक्षे तु चतुर्विधापि प्रागुक्ता साधुतास्त्येव । उ
Page #27
--------------------------------------------------------------------------
________________
२७
१ पा. १ आ. शब्दकौस्तुभः ।क्तश्च । व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित् । नित्यएव तु सम्बन्धो डिस्थादिषु गवादिवत् । वृद्धयादीनां च शास्त्रेस्मिञ्छक्त्यवच्छेदलक्षणः । अकृत्रिमोभिसम्बन्धो विशेषणविशेष्यवदिति। पक्षद्वयेप्यनुशासनविषयता निर्विवादेति । नामकरणे त्वयं विशेषः। कृतं कुर्यान तद्धितमित्यादिगृह्यसूत्राविरोधिनामेव साधुता । तद्विरोधिनां तु देशभाषानुसारेण क्रियमाणानां कूचीमञ्चीत्या- .. दिनामधेयानामसाधुतैव । तदेतदृलसूत्रे वार्तिकव्याख्यावसरे स्फुटीकरिष्यते ॥ इति साधुत्वनिर्वचनम् ॥ व्युत्पादनं च प्रकृतिप्रत्ययादिकल्पनया उत्सर्गापवादरूपलक्षणैरेव । न तु साध्वसाध्वोर्वा अन्यतरस्य वा प्रतिपदपाठेन । शब्दानामानन्त्येन तदसम्भवादित्युक्तम् । स्यादेतत्, लक्षणप्रणयनमापि कि जातिपक्षमाश्रित्य उत व्यक्तिपक्षम् । आये सकृद्गतौ यद्बाधितं तद्बाधितमेवेति न सिध्येत् । तथाहि । जातौ पदार्थे द्वयोर्विध्योः परस्परपरिहारण तत्तज्जात्याक्रान्तव्यक्तिविशेष चरितार्थयोः क्वचिदेकत्र प्रसङ्गे परस्परमतिबन्धादप्रातिपत्तिरेव स्यात् सत्प्रतिपक्षकव । तथा च वक्ष्यति । अप्रतिपत्तिर्वोभम्तल्यबलत्वादिति । तत्र च विप्रतिषेधसूत्रं विध्यर्थ परं तावद्भवतीति । तस्मिश्च कृते यदि पूर्वस्य निमित्तमस्ति तर्हि भवत्येव तत् । यथा भि. न्धकीत्यत्र भिनद् हि इति स्थिते परत्वाद्धिभावे कृते पुन:प्रसङ्गविज्ञानादकज्भवति । तदेवं जातिपक्षे पुन: प्रसङ्गविज्ञानं यद्यपिसिध्यति तथापि सकृद्ताविति न सिध्यति । तथा च जुहुतात्त्वमित्यत्र जुहु हि इति स्थिते धिभावं बाधित्वा परत्वात्तातङि कृते स्थानिवद्भावन स्यादेव धिः। व्यक्तिपक्षे तु सकलव्यक्त्युद्देश्यकस्य शास्त्रस्य व्यक्त्यन्तरे चरितार्थत्वासम्भवाद्विकल्पप्रसङ्गे नियमार्थ सूत्रं परमेव भवति न तु पूर्वमिति । तथा चैतत्सूत्रबलेन तत्र
Page #28
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
पूर्वलक्षणस्य व्यक्त्यन्तरमात्रविषयकत्वं कल्प्यतइति एतद्व्यक्तिविषयकलक्षणाभाव एव पर्यवस्यति । तथा च जुहुताच्चभित्यादेः सिद्धावपि भिन्धकीत्यादि व्यक्तिपक्षे न सिध्यति । तस्मादशक्यमन्यतरपक्षाश्रयणेन लक्षणप्रणयनमिति चेत् । सत्यम् । अत एव लक्ष्यानुरोधात्पक्षद्वयमप्याश्रीयते । क्व चित्कश्चित्पदार्थ इति । तत्र जातिवादिनामयं भावः । लाघवाज्जातिर्वाच्या । व्यक्तीनामानन्त्येन तासां वाच्यत्वे गौरवम् । वाइदोहाद्यन्वयस्तु लक्षितायां व्यक्ताविति । व्यक्तिवादिनस्त्वाहुः । अनुपपत्ति वि नापि व्यक्तिप्रतीतेरनुभवसिद्धतया व्यक्तिरेव वाच्या । त्वप्रत्ययादिकं विना जातेः प्राधान्येनाप्रतीतेश्व | वाहाद्यन्वयोप्येवं समञ्जसः । यत्तूक्तं व्यक्तीनामानन्त्यमिति, नैतद्वाधकम् । शक्यतावच्छेदिकाया जातेरैक्यात् । नन्वेवं जातेरपि वाच्यत्वमायातमिति चेन्न | अकार्यत्वेपि कार्यतावच्छेदकत्ववदशक्यत्वेपि शक्यतावच्छेदकत्वसम्भवात् । अत एव लक्ष्यतावच्छेदके लक्षणा नेति नैयायिकाभ्युपगमः । तस्माज्जातिरुपलक्षणं व्यक्तिमात्रं तु वाच्यमिति । यत्तु सरूपसूत्रे भाष्ये वक्ष्यते । नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थ इत्यादि । तत्तु जातिव्यक्त्योरन्यतरेण विशिष्टस्यापरस्य वाच्यतेत्येवंरूपं मतान्तरम्। तथा चाकत्यधिकरणे भट्टैरुक्तम् । नियोगेन विकल्पेन द्वे वा सह समुच्चि - ते । सम्बन्धः समुदायो वा विशिष्टा वैकयेतरेति । तत्र जातिरेव व्यक्तिरेव वा वाच्येति इहत्यं मतद्वयं नियोगेनेत्यनेनोपनिबद्धम् । चतुर्थचरणेन तु सरूपसूत्रोक्तं मतद्वयमुपनिबद्धमिति विवेकः । यद्यपि जातिव्यक्तिपक्षयोरन्यतरस्य न्यायेन बाध आवश्यकस्तथापीह शास्त्रे संज्ञापरिभाषादिवल्लक्ष्यसिद्ध्युपायतया उभयाश्रयणे किमपि बाधकं नास्तीत्यवधेयम् । वस्तुतस्तु भट्टोक्ताष्टप -
२८
Page #29
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । क्षीमध्ये विकल्पेनेति तृतीयः पक्षोत्र प्रक्रियादशायां स्थितः । विकल्पश्च लक्ष्यानुरोधाद्व्यवस्थितो न स्वैच्छिक इत्यन्यदेतत् । समुच्चयपक्षं चतुर्थमाश्रित्यापि क्व चित्कस्य चिद्विवक्षा अपरस्य त्वविवक्षेति गृहीत्वा प्रक्रियानिर्वाहः सुकर इति दिक् । यदि हि व्यक्तिरेवेत्येतत्सार्वत्रिकमभिमतं स्याहि जात्याख्यायामिति सूत्रं नारभेत । यदि, च जांतिरेवेति ताई सरूपसूत्रं नारभेतेति भाष्यम् । ननु यस्मिन्वने एक एवाम्रवृक्षस्तत्रापि लक्ष. णया जातिपरत्वे इह आम्राः सन्तीति प्रयोग साधयितुं जात्याख्यायामिति सूत्रमस्तु । तथा जातिपक्षेपि नानार्थानुरोधात्सरूपसूत्रमस्तु । वक्ष्यति हि वार्तिककृत् । व्यर्थेषु च मुक्तसंशयमिति । सत्यम् । लक्ष्यानुरोध एव पक्षद्वयाश्रये शरणम् । अत एवोदाहृतसूत्रयोर्भाष्यकृता प्रत्यारव्यास्यमानत्वेप्यदोषः।इदानीं वार्तिककारः शास्त्रस्य नियमविधिरूपतया सार्थक्यमाह । सिद्धे शब्दार्थसम्बन्धेलोकतोर्थप्रयुक्त शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिकवैदिकेषु । लोकादेव हि प्रथमव्युत्पत्तिः । अव्यु. त्पन्न प्रति व्याकरणादीनामप्रवृत्तेः।अर्थवदधातुरित्यादि हि व्याकरणं शक्तिग्रहोपजीवकम् । तथा च समर्थसूत्रेपि वार्तिकम् । "अर्थानादेशनादिति" । अनेकमन्यपदार्थ इत्यादिकं हि लोकसिद्धमर्थमनूय साधुत्वान्याख्यानपरम् । ततश्च लोकादेव शब्दे अर्थे तयोः सम्बन्धे च सिद्धे अर्थबोधनाय शब्दप्रयोगपि प्रसक्ते गवादय एव प्रयोक्तव्या न तु गाव्यादय इति नियमार्थ शास्त्रम् । नियमफलं तु धर्मः । तत्र स्मात्तॊ दृष्टान्तः । प्राङ्मुखोमानि भुञ्जीतत्यादिलौकिकशब्देनोक्तः । ब्राहीनवहन्तीत्यादिच वैदिकशब्देनोक्तः । धर्मनियम इति च षष्ठीतत्पुरुषः । अश्वघासादिवत् । न तु चतुर्थीतत्पुरुषः । प्रकृतिविकृतिभावविरहा
Page #30
--------------------------------------------------------------------------
________________
३०
शब्दकौस्तुभः ।
[ १ अ०
-
त् । ननु यदि प्रयुक्तानामिदमन्वाख्यानं तार्ह किमर्थमप्रयुक्ता अपि ऊष तेर चक्र पेचेत्यादयो व्युत्पाद्यन्तइति चेन्न । आज्ञानं विना अप्रयुक्तताया दुरवधारणत्वात् । महान्हि प्रयोगविषयः । तथा च भाष्यम् । सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदाः सांगाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः सहस्रव सामवेद एकविंशतिधा बाच्यं नवधाथर्वणो वेदः वाको वाक्यमितिहासः पुराणं वैद्यकमित्येतावान् प्रयोगस्य विषय इति । बचानामाम्नायो वाह्च्यम् । छन्दोगौक्थिकयाज्ञिकवचनटाज्ञ्य इति यप्रत्ययः । चरणाद्धर्मानाययेोरित्युक्तत्वादाम्नाये । अथर्वणा प्रोक्तो वेदो अथर्वा उपचारात्प्रयोग इत्येके । वसन्तादिषु अथर्वन् आथर्वण इत्युभयोः पाठसामर्थ्यात्मोक्तप्रत्ययस्य वैकल्पिको लुगिति तु तत्त्वम् । अत एव भाष्ये वक्ष्यते । तेन प्रोक्तमिति प्रकृत्य ऋषिभ्यो लुग्वक्तव्यः । वसिष्ठोनुवाकः । ततो वक्तव्यमथर्वणो वेति । तमधी आथर्वणिकः वन्सतादिवाक् । दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । आथर्वणिकस्यान्नाय आथर्वणः आथर्वणिकस्येकलोपश्चेति आथर्वणिकादण् तत्सन्नियोगेनेक लोपश्च । प्रकृतमनृसरामः । एतावन्तं प्रयोगविषयं पर्यालोचयितुमशक्तैरप्यस्मदादिभिर्लक्षणानुगतानां प्रयोगोस्तीत्यनुमेयम् । अस्ति चत्वयोदात्तानामपि वेदे प्रयोगः । सप्तास्ये रेवती रेव दूष । यन्मे नरः श्रुत्यं ब्रह्म चक्र । यत्रानश्चक्राजरसं तनूनामिति । ननु यदि लक्षणेनानादितासिद्धिस्तार्ह वचन्त्यादीनामपि स्यादिति चेत्, न । नहि वचिरन्तिपरः प्रयुज्यतइत्यभियुक्तानामविगीतव्यवहारेण सामान्यशास्त्रस्य सङ्कोचात् | अभ्युपगतो हि विशेपविषयिण्या पतितस्य कर्मानधिकारस्मृत्या अग्निहोत्रादिश्रुती
1
1
Page #31
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः ।" नां सङ्कोचः विशेषविषयेण शिष्टाचारेण सामान्यस्मृतेः सङ्कोच. श्च । तदुक्तम्,आनर्थक्यमातहतानां विपरीतं बलाबलमिति । य. अ तु अप्रयोगः सन्दिग्धः शास्त्रानुगमश्च तत्र निष्पत्यूहमनुमानम् । तदुक्तम् । यथालक्षणमप्रयुक्त इति । अप्रयुक्ते अनिश्चितप्रयोगे इत्यर्थः । निश्चितापयोगे तु लक्षणं न प्रवर्ततएवेति निष्कर्षः । न चैवं ब्राह्मणोब्रवणादिति कल्पसूत्रप्रयोगरूपेणापि विशेषविषयकाचारेण ब्रुवोवचिरित्यादीनां सङ्कोचापत्तिः । त्रिशवाद्ययाज्ययाजनेनापि स्मृतिसङ्कोचापत्तेस्तुल्यत्वात् । तत्र धर्मबुद्धयानुष्ठानं नास्तीति चेत् । इहापि साधुत्वबुद्धया प्रयोगो नास्तीति तुल्यम् । यणिस्तर्वाण इति वदभियुक्तानामपि असाधुप्रयोगस्य ऋतोर्बहिरुपपत्तेश्च । अत एवेतिहासपुराणादिष्वपशब्दा अपि सन्तीति हरदत्तः । नदीसंज्ञासूत्रे भाष्येपि स्पष्टमेतत् । के चित्तु आर्षग्रन्थेष्वपि छन्दसि विहितस्य व्यत्यय स्य प्रवृत्त्या साधुतां समर्थयन्ते । न च गौणमुख्यन्यायेन मुख्ये छन्दस्येव तत्मवृत्तिः । स्वस्तित्वप्रतिज्ञया तबाधात् । वक्ष्यात हि स्वरितेनाधिकार इति सूत्रे ऽविशेषायाधिक कार्यमिति । गौणमुख्यन्यायो हि स्वरितत्वपातज्ञास्थले न प्रवर्तते इ. त्यर्थः । उपपादयिष्यते चेदम् । अत एवार्षत्वात्साधुतेति तत्र तत्रोद्घोषः सङ्गच्छतइति दिक् । यद्यपि अप्राप्तांशपूरणफलको नियमविधिः । इतरव्यावृत्तिफलकस्तु नित्यपाप्तिविषयकः परिसंख्याविधिरिति पूर्वोत्तरमीमांसयोर्व्यवहारस्तथापीह शास्त्रे परिसंख्यापि नियमशब्देन व्यवह्रियते । तेन पञ्च पश्चनखा भक्ष्या इत्यस्य नियमोदाहरणतयां उपन्यासो न विरुद्धः । न चासौ मीमांसकरीत्यापि नियमो भवत्विति वाच्यम् । पञ्चातिरिक्तभक्षणे प्रायश्चित्तविधरसङ्ग
Page #32
--------------------------------------------------------------------------
________________
३२ शब्दकौस्तुभः ।
[१ अ० तत्वापत्तेः । पञ्चानामभक्षणे प्रायश्चित्तापत्तौ गृहेपि निवसन् विप्रो मुनिर्मासविवर्जनादित्यादिस्मृतिव्याकोपाच्च । अत एव त्रिदोषापि परिसंख्यैव तत्राश्रितेति दिक् । अत्रेदमवधेयम् । नियमातिक्रमे कृते अपूर्व परं न भवति । दृष्टस्त्वर्थावबोधो भचत्येव । अवहननातिकमे कृतेपि वैतुष्यवत् दिगन्तराभिमुखभोजने तृप्तिवच्च । न चापभूशानामवाचकतया कथमर्थावबोधइति वाच्यम् । शक्तिभूमवतां बाधकाभावात् । विशेषदर्शिनस्तु द्विविधाः । तत्तद्वाचकसंस्कृतविशेषज्ञानवन्तस्तद्विकलाश्च । तत्र आ. द्यानां साधुस्मरणद्वारा अर्थबोधः । द्वितीयानां तु बोध्यार्थसंबद्धार्थान्तरवाचकस्य स्मृतौ सत्यां ततो लक्षणया बोधः । सर्वनामस्मृतेर्वा । तदर्थज्ञापकत्वेन रूपेण साधुस्मृतेर्वा । अर्थाध्याहारपक्षाश्रयणाद्वति यथायथं बोध्यम् । अपरे त्वाहुः । अपभ्रंशा अपि वाचका एव । तथाहि । अस्मात्पदादयमों बोद्धव्य इतीश्वरेच्छाशक्तिरिति मते भगवदिच्छायाः सन्मात्रविषयकत्वादपभूशैस्तु बोधजननस्य शक्तिभूमदशायां तेनाप्यभ्युपगमाहुर्वारा शक्तिः। पदार्थान्तरं तादति मतेपि कल्पकं साध्वसाध्वोस्तुल्यमेव । असाधुस्मरणद्वारा साधुर्बोधक इति वैपरीत्यस्यापत्तेश्च । स्वीकृतं हि परेण तिवादिस्मारितानां लादीनामसाधूनामपि बोधकत्वम् । ननु साधूनामल्पत्वात्तत्रैव लाघवाच्छक्तिः कल्प्यतइति चेत् । न बयमपूर्व किंचित्कल्पयामः । किं तु यथा घटजननसामर्थ्यमेव दण्डादेः शक्तिः तथा घटबोधजननसामर्थ्यमेव घटादिपदानां शक्तिः । सा च कारणत्वापरप
या शक्तिभूमाद्बोधं वदतां त्वयाप्यभ्युपेतैव । शक्तिग्रहस्य भ्रमत्वं परं त्यज्यतां विषयाबाधादिति ब्रूमः । नन्वेवं गौणमुख्यविभागोच्छेदः सर्वे सर्वस्य वाचका इति पर्यवसाना
Page #33
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः । . दिति चेत् । त्वत्पक्षेपीश्वरेच्छाया गौणादावतिप्रसङ्गस्य तुल्यत्वात् । मुहद्भावेन पृच्छामीतिचेत् । प्रचुरतरप्रयोगतद्विरहाभ्यां गौः णमुख्यविभाग इति गृहाण । ननु जनकत्वेनागृहीतादपि तर्हि कारणात्कार्योदयः स्यादेवेति चेत् । पदार्थस्मृतिरापाद्यते वा. क्यार्थबोधो वा । नायः । सम्बन्धग्रहं विना तदयोगात् । ना. न्त्यः । द्वाराभावात् । पदार्थस्मरणं हि द्वारम् । एवं च महदेव लाघवम् । साधुस्मारणकल्पनाक्लेशश्च न भवतीति । साधुत्वं तु जातिविशेषात्मकामित्युक्तमेव । समानायामविगतौ शब्दैश्वापशब्दैश्चेतिभाष्यमप्येतत्पक्षपातीति दिक् ॥
इति अपशब्दानां वाचकत्वावाचकत्वविचारः। प्रयोगशब्दमुपाददानो वार्तिककारःप्रयोगाद्धर्मो न तु ज्ञानमात्रादिति सूचयति । युक्तं चैतत् । एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्त इत्यत्र ज्ञानप्रयोगयोरुपादानस्याविशेषेपि प्रतिपदाधिकर णन्यायेन यदैकस्मादपूर्व तदेतरत्तदर्थमितिप्रयोगात्फलं ज्ञानं तु तदङ्गमित्यभ्युपगमात् । प्रयोगस्य फलम्पति सन्निहितत्वाच । ज्ञानस्य तु व्यवहितत्वात् । ज्ञानस्य प्रयोगाङ्गतायां दृष्टार्थतालाभाच्च । उक्तं च भट्टैः । सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गं चात्मविज्ञानादन्यत्रत्यवधार्यतामिति । अत एव तरति ब्रह्महत्यां योश्वमेधेन यजते य उ चैनमेवं वेदेत्यादिष्वपि ज्ञानपूर्वकानुष्ठानात्फलमित्येव सिद्धान्तः । तदुक्तं वार्तिककृता । तत्तुल्यं वेदशब्देनेति । वेदः शब्दो विधायको यस्यार्थस्य अश्वमेधादेस्तेनेदं तुल्यमित्यर्थः । तेन वैदिकशब्दानामपि पक्षकोटिम विष्टतया दृष्टान्तासङ्गतिरिति नाशङ्कनीयम् । ते सुरा इति पूर्वोदाहृतश्रुतिरपि अपशब्दप्रयोगात्मत्यवायं बोधयन्ती साधुप्रयोगाद्धर्म गमयनि । वाजसनेयिनां ब्राह्मणे-तस्मादेषाव्याकृता वा
Page #34
--------------------------------------------------------------------------
________________
२४
शब्दकौस्तुभः ।
[१ अ० गुद्यत इति श्रुतिरप्येवम् । भाष्ये तु अभ्युपेत्यवादेन साधुज्ञानात्फलमित्ययमपि पक्षः समार्थतः । नचैवमपशब्दज्ञानादधमोपि स्यादिति वाच्यम् । यावद्वचनं वाचनिकमित्यभ्युपगमात् । नम्लेच्छितवाइत्यादिना असाधुप्रयोगस्यैव निषेधाच्च । न च व्याकरणाध्ययने प्रवृत्तस्य परिनिष्ठितपचत्यादिबोधार्थे दुपचष्पभृतीनां प्रयोगोप्यावश्यक एवेति वाच्यम् । तदीयज्ञानमात्रेण निर्वाहात् । अत एवालौकिकम्पक्रियावाक्यमूहमात्रस्य गोचर इति नित्यसमासेष्वस्वपदविग्रहाभ्युपगमः । अथ व्युत्पादनार्थ तत्पयोग आवश्यक इत्याग्रहस्तथापि न क्षतिः । अनपभूष्टत्वेन तेषां प्रत्यवायाजनकत्वात् । न ते शक्तिवैकल्यादिप्रयुक्ताः येन गाव्यादिसाम्यं भजेरन् । अथ सादित्वादसाधुतेत्याग्रहस्तथापि न क्षतिः । शब्दस्वरूपपरत्वात् । अनुकरणानां सर्वत्र साधुताभ्युपगमात् । नहि हेलयो हेलय इति श्रुतिपाठोप प्रत्यवायजनकः । शब्दस्वरूपपात्रपरा एते भिन्ना एव साधवश्चेति तु तु. ल्यम् । अत एव स्वाहेन्द्रशत्रुर्वर्द्धस्वेतिश्रुतावाद्युदात्तस्य पाठोप तत्प्रत्याय्यस्यार्थपरस्य हितस्यानाम्नानादमन्त्रतया जपादिपर्युदासेन मन्त्रे विधीयमाना एकश्रुतिर्न प्रसक्तोति प्रागुक्तम् । अत एव साधुत्वासाधुत्वयोरेकस्मिन् सद्भावो अभावश्चेति विरुद्धस्य दुरुपपादतया अर्थभेदाच्छब्दभेदइति दर्शनं प्रवृत्तम् । न च प्रकृनिवदनुकरणमित्यतिदेशेन अपशब्दानुकरणस्य असाधुता शङ्कया । असाधूनां शास्त्रीयप्रकृतित्त्वाभावात् । असाधुत्वस्य शास्त्रीयकार्यत्वाभावाच । नत्यशास्त्रीयमप्यतिदिश्यतइति ऋलक्सूत्रे भाष्ये स्फुटमेतत् । डुपचष्प्रभृतिप्रयोगादपशब्दज्ञानाद्वा प्रत्यवायो नास्तीति प्रागुक्तरीत्या स्थितेपि अभ्युपेत्यापि प्रत्यवायं भाष्ये कूपखानकन्याय उदात्दृतः । तथाहि । कू
Page #35
--------------------------------------------------------------------------
________________
१ पा. १ आ.
शब्द कौस्तुभः ।
३५
पं खनन् यद्यपि कर्द्दमेन लिप्यत एव तथापि ततो लब्धेन जलेन तं मलं दूरीकरोति फलांतरं च लभते तथेहापि परिनिष्ठितरूपज्ञानात्पूर्वोत्पन्नप्रत्यवायनिरासं फलान्तरं च लभतइति । सोयं कूपखानकन्यायः । कूपं खनतीति विग्रहे कर्मण्यणि प्राप्ते वासरू - पन्यायेन वुल् । नित्यसमासत्वाभावात्कूपस्य खानक इति स्वपदविग्रहः । न च शिल्पिनिष्बुना सरूपेण ण्वुलो बाधः स्यादिति वाच्यम् । इह खननकर्त्तृत्वमात्रस्य विवक्षया शिल्पित्वस्याविवक्षितत्वात् । तस्मात्सर्वथापि गाव्यादिप्रयोगे प्रत्यवाय इति स्थितम् । तत्रेदं भाष्ये सिद्धान्तितम् । याज्ञे कर्मण्येवायम् । न म्लेच्छितवायित्यस्य ऋतुप्रकरणे पाठात् । ऋतुप्रयोगाद्वाहिस्तु अपशब्द प्रयुञ्जानो न दुष्यति । एवं हि भूयते । यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परावरज्ञा इति । प्रत्यक्षर्माणो योगजधर्मबलेन साक्षात्कृतधर्माः । अत्रायं श्रुतेराशयः । योगिन एते विरक्तयतिशयाल्लौकिकेष्वर्थेष्वाग्रहविरहेण यथा तथास्माकं भवत्वितिविवक्षवो यद्वानस्तद्वान इति वक्तव्ये यवणस्तर्वाण इत्यूचुः । याज्ञे कर्मणि पुनः साधूनेत्र प्रयुक्तवन्तस्तेन यर्वाणस्तर्वाणइत्येवंरूपामेव संज्ञां मुनयो लेभिरइति । भट्टाचाहुः । स्त्र्युपायमांसभक्षादिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरंगमिष्टः प्रकरणाश्रवादिति । अपरे वाहुः । ऋतोर्बहिः प्रयोगेपि पुरुषः प्रत्यवैतीति । तेषामयमाशयः । नानृतं वदेदित्यनारभ्याधीतः पुरुषार्थोपि निषेधस्तावदस्तीति निर्विवादम् । तत्र निषेध्यमनृतं द्विधा । शब्दानृतमर्थानृतं चेति । शब्दस्यार्थ - स्य वा विपरीतप्रतिपत्तिहेतुभूतमुच्चारणमनृतवदनम् । एवं च य थार्थानृतं वदतः प्रत्यवायस्तथा शाब्दानृतमपीति तुल्यम् । ऋतुमध्ये पुनरपभाषणे पुरुषोपि प्रत्यवैति ऋतुरपि विगुण इति
I
Page #36
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
वचनद्वयबलात्सिध्यतीतिदिक् । यथा च प्रयोगे साधूनां निय मस्तथा साधुत्वज्ञानेपि व्याकरणस्य नियम एवेत्यवधेयम् । व्याकृता वागुद्यतइतिप्रागुक्तश्रुतेः । व्याकृता व्याकरणसंस्कृतोति हि तदर्थः । व्याकरणशब्दश्च योगरूढ्या लक्ष्यलक्षणसमुदा'यपरः सूत्रमात्रपरो वेति पक्षद्वयमपि भाष्ये स्थितम् । तत्राद्ये पक्षे सूत्रमात्रमधीयाने वैयाकरणशब्दप्रयोगो भाक्तः समुदायवाचका हि शब्दाः कचिदवयवेपि प्रयुज्यन्ते । यथा पूर्वे पञ्चाला उत्तरे पञ्चाला इति । द्वितीयपक्षे त व्याकरणस्य सूत्रमितिप्रयोगो राहोः शिर इतिवन्भेयः । अष्टाध्याय्या एकदेशः सूत्रमित्यवयवा वयविभावे षष्ठीति वास्तु । अस्य वनस्यायं वृक्ष इत्यादिवत् । चैत्र सूत्रमात्राच्छन्दाप्रतिपत्तेर्नियमानुपपतिः । पदच्छेदविग्रहयोजनादिभिः सूत्रार्थस्यैवाभिव्यञ्जनात् । अत एव छुत्सूत्रमुच्यमानमप्युपेक्ष्यते । यत्रैव तु सूत्रस्य तात्पर्य लेशोप्यस्ति तदेव तु गृह्यते । तदुक्तम् । सूत्रेष्वेव हि तत्सर्वं यद् हृतौ यच्च वार्त्तिकइति । अत एव बहुलग्रहणादिकं सार्थकमिति दिक् । नन्वेवं किं वर्णोपदेशेन । न हि तद्वलेन कस्य चिच्छन्दस्य साधुत्वमवगम्यते । न च कलध्मातादिदो परहितवर्णस्वरूपप्रतिपत्तिरेव त त्फलमिति वाच्यम् । लोकत एवाविप्लुतवर्णप्रततिरवश्यं वाच्यत्वात् । अन्यथा प्लुतादिपाठस्यापीह कर्त्तव्यतापत्तेः । तदुक्तम् । इष्टबुद्धयर्थ वेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेश इति । एकश्रुत्या सूत्रपाठादुदात्तादिस्वरत्रयस्यापि . कर्त्तव्यः पाठ इत्युक्तम् | त्रैस्वर्येण पाठे हि अन्यतमस्य उच्चा रणादेव सिद्धौ द्वयोरेव कर्त्तव्यतां ब्रूयात् । अत एव च लोके
स्वर्थमेकत्या सह विकल्प्यत इति ज्ञाप्यते । एतच्च विभाषा छन्दसीत्यत्र स्फुटीकरिष्यामः । ननु निर्देशस्य जातिपरत्वा
३६
Page #37
--------------------------------------------------------------------------
________________
१ पा. १. आ. शब्दकौस्तुभः । प्लुतादिसंग्रहः सेत्स्यतीतिचेम । संवतकलप्रभृतीनामपि संग्रहापत्तेः । तदुक्तम् । आकृत्युपदेशात्सिद्धमितिचेत्संतादीनां प्रतिषेध इति । तत्र हस्वस्य अवर्णस्य संवृतगुणकत्वपि तदितरेषामचा संवृतत्वं दोषः । आदिशब्दात्कलः । स च स्वोचितस्थानभ्रष्टः । तथा श्वासभूयिष्ठतया हस्वोपि दीर्घवल्लक्ष्यमाणो ध्मातः। एवं दीर्घोपि -हस्ववत्कालसंकोचेनोच्यमानोर्धकः । एवं करणादिभूशादपि बहवो दोषाः शिक्षाप्रातिशाख्यादिषु प्रसिद्धाः । तत्तद्दोषविशिष्टानामपि अत्वादिजात्याक्रांतत्वाज्जातिपरनिर्देशपक्षे तेष्वनिव्याप्तिरितिस्थि. तम् । न च गर्गादिविदादिपाठस्य तंत्रेणोभयार्थतया वर्णशुद्धिलाभः । अपठितेषु प्रातिपदिकेषु तथाप्यगतेः । स्यादेतत् । सर्वा अव्यक्तयो हव्यक्तयश्च शास्त्रान्ते शुद्धाः पठिष्यन्ते । अ अ इतिवत् । नचैवं गौरवम् । तद्वलेन सर्वेषामनुबंधानां प्रत्याख्यानात् । इत्संज्ञालोपयोरपि त्यागात् । तथाहि । शीधातोर्डकारं परित्यक्ष्यामः । ईकारं च कलं पठिष्यामः । ङित. आत्मनेपदमित्यस्य स्थाने कलादात्मनेपदमिति पठिष्यामः । कलश्व प्रक्रिगादशायामेव । यथा डकारः। प्रयोगे तु श्रुद्ध एव । प्रत्यापत्तेः शास्त्रान्ते करणमपि शास्त्रीयसकलकार्य प्रत्यसिद्ध. तालाभाय । एवं च प्रक्रियायां दोषस्य कलादराश्रयणेपि परिनिष्ठितरूपे न कश्चिद्दोषः। यथा यथान्यासपक्षेपि अकारस्य विवृतता प्रक्रियामात्राविषया न तु प्रयोगसमवायिनी तदिह पक्षे कलादयोपीति न कश्चिद्विशेषः । धार्मिकल्पनात इति न्यायचेह.बोध्यः। कारादयो हि धर्मिण एव त्वया पाठ्याः । मया तु उभयपठनीयस्य ईकारस्य कलत्वमात्र कल्प्यमिति । नन्वस्मिन्यले स्वरितषितइत्यत्र कथं कार्यमिति चेत् । ध्मातात्कर्षभिप्राय इति ।
Page #38
--------------------------------------------------------------------------
________________
३८
शब्दकौस्तुभः ।
[१ अ० एवमायन्तौ टकितावित्यत्र आयन्तौ कलध्माताविति । इडाघागमाश्च निरनुबन्धाः कलाः पाठ्याः । आनुगादयो ध्माताः । डुकृत्रित्यस्य स्थाने क इति द्विदोष पाठ्यम् । आदिरन्त्येनेत्यत्रापि आदिकलौ सहेत्युक्त्वा अउइत्यादिकाः संज्ञाः करिष्यन्ते । कलेनेति तृतीयानिर्देशे सति तु अप्राधान्यात्सिद्धान्तइव चरमवर्णस्य संज्ञा न स्यात् । दूलोपइत्यादौ अणइत्यपनीय अ. ओरिति करिष्यते । स्वरसन्धिस्त्वसन्देहाय न करिष्यते । तस्मात्सर्वमनुबन्धकार्यादिकङ्कलादिभिरेव सिध्यतीति चेत् । सत्यम् । सिध्यत्येवम् । अपाणिनीयं तु भवतीति चेत् । अत्रोच्यते । इष्टसिद्धयर्थो वर्णोपदेशः । एवं चाकृत्युपदेशादेव उदा. त्तादिसिद्धिमङ्गीकृत्य कलादिष्वतिप्रसङ्ग इत्थं परिहार्यः । आगमाश्च विकाराश्च प्रत्ययाः सह धानुभिः । उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादय इति । यत्तु अग्रहणेषु प्रातिपदिकेषु प्राप्ता एवेति । तन्न । त्वयापि प्रतिपदपाठस्यावश्याश्रयणीयत्वात् । अन्यथा शशइत्यत्र षषइत्यपि स्यात् । मञ्चके मञ्जक इति । पलाशे पलाष इति स्यादेतत्। स्वरवर्णानुपूर्वीनिर्णयाय यदि पतिपदपाठस्तर्हि कलादिनिवृत्तिरपि तत एवास्तु । उणादिसूत्रात्पूपोदरादिसूत्राद्वा साधुत्वाभ्यनुज्ञानं विशेषावधारणं तु निघण्ट्वादिनेति चे,त्कलादिनिवृत्तिरपि शिक्षादिग्रन्थेनास्तु । सत्यम् । आनुषङ्गिकी कलादिनिवृत्तिः । वर्णोपदेशस्य मुख्यं फलं तु प्रत्याहारनिष्पत्तिः । प्रत्याहारशब्दस्तु अणादिसंज्ञापरः । प्रत्याहियन्ते वर्णा एष्विति व्युत्पत्तेः। न च ग्रहणक शास्त्रेण निष्पादितासु अकारादिसंज्ञास्वतिप्रसक्तिः । योगरूढ्यभ्युपगमात् । तस्मादादिरन्त्येनेत्यतत्सूत्रसिद्धाः संज्ञाः प्रत्याहारशब्दवाच्यास्तनिष्पत्तये च वर्णोपदेश इति स्थितम् ।
Page #39
--------------------------------------------------------------------------
________________
१ पा. २ आ.
शब्दकौस्तुभः ।
इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमपादे प्रथममान्हिकं समाप्तम् ।। १ ।। अइउण् । संज्ञासूत्रमिदम् । आदिरन्त्येन सहतेत्यनेन सहैकवाक्यत्वात् । अइउणित्येषामादिरकारः अन्त्येन णकारादिना सहितः सन् आद्यन्ताभ्यामाक्षिप्तानां मध्यगानां स्वस्य च संज्ञेति हि वाक्यार्थः । अत्र अकारादीनां स्वरूपेण अनुकार्येण वा सतोप्यर्थवत्वस्याविवक्षितत्वात्मातिपदिकत्वं नेति गवित्ययमाहेत्यादाविव विभक्तेरनुत्पत्तिः सुपां सुलुगिति लुग्वा । छन्दोवत्सूत्राणीति भाष्यकारेष्ट्या छन्दोगेषु व्याकरणसूत्रेष्वपि छान्दसकार्यातिदेशात् । यूस्त्र्याख्यावितिसूत्रे छन्दः प्रदेशेषु गौणमुख्यन्यायो न प्रवर्त्तते इति वक्ष्यमाणत्वाद्वा । स्यादेतत् । स्वरसन्धिनेह भाव्यम् । तत्र अ इत्यत्र विभक्तेः रुत्वयत्वलोपेषु वृक्षइहेत्यादाविव लोपासिद्धया सन्धिर्नेति समाधानेपि इकारस्य इकोसवर्णइति ऋकारस्य ऋत्यक इतिप्रकृतिभावसम्भवेपि एदै - तोरयायौ दुर्वारौ । यत्तु वर्णोपदेशकाले अजादिसंज्ञानामानेष्पादात्सन्धिर्नेति । तश्चिन्त्यम् । वर्णोपदेशे इत्संज्ञायामच्मत्याहारे च तिष्पन्ने प्रवर्त्तमानानां यणादीनां सुध्युपास्यइत्यादौ तटस्थइव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेरावश्यकत्वात् । अन्यथा तुल्यास्यप्रयत्नमित्यादौ सवर्णदीर्घो न स्यात् । तथार्थवत्सूत्रान्तर्गतानां प्रातिपदिकत्वं प्रत्ययः परश्चेत्यादौ सुप्रत्ययो ङयाप्प्रातिपदिकात् द्व्येकयोर्द्विवचनैकवचने बहुषु बहुवचनमित्यादौ तत्तद्विभक्तिः ससजुषोरित्यत रुः खरवसानयोरितिसूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात् । स्वाध्यायोध्येतव्य इत्यस्य नेह नानेत्यादिश्रुतेश्च स्वस्मिअपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चे, तुल्यं यणादाव
३९
Page #40
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ. पि । नन्वेवं ग्रहणकशास्त्रमपि अणोप्रगृह्यस्येत्यादौ तटस्थइव स्वस्मिन्नपि प्रवर्तेत । ततश्च दीर्घाणामनण्त्वेन सवर्णग्राहकत्वं नास्तीतिसिद्धान्तोपि भज्यतेति चेन्न । वैषम्यात् । पदार्थसंसर्गो हि वाक्यार्थः । तद्बोधश्च पदार्थबोधोत्तरभावी। तथा च अण्शब्देन ये उपस्थितास्तेषां सवर्णग्राहकत्वं सूत्रार्थः। अणशब्दश्च आदिरन्त्येनेतिसूत्रेण अक्षरसमाम्नायपठितेषु संकेतितइति तानेवात्रोपस्थापयति । तथा च अष्टादशानामपि अकारः संज्ञेति पर्यवसम्ने सूत्रांतरेष्वस्य च्चावित्यादिषु अकारोष्टादशानामुपस्थापक इत्युचितम् । नतु ग्रहणकसूत्रपि । एतद्वाक्यार्थबोधात्मागष्टादशस्वगृहीतशक्तिकत्वात् । नहि सिचि वृद्धिरित्यादावादैचामुपस्थापकोपि वृद्धिशब्दो वृद्धिरादजितिसंज्ञासूत्रे तानुपस्थापयति । किन्तु स्वरूपमेव । संज्ञासूत्रे च सामानाधिकरण्यादादैचां वृद्धिशब्दवाच्यत्वावधारणे सू. त्रान्तरेषु संज्ञिनामुपस्थितिनिधेिति दिक् । तस्मादइरणित्यादौ स्वरसंधिः प्रामोत्येवोत चेत् । सत्यम् । संहिताविरहान यणादयः । अनित्या हि वाक्ये संहिता । उक्तञ्च । संहितेकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षत इति । समासस्य पृथग्रहणं गोवलीवईन्यायेन । एकपदइत्यनेनैव तत्सङ्ग्रहसिद्धेः । इयं च प्राचां परिभाषा एकदेशानुमतिद्वारा संहिताधिकारेणैव ज्ञापिता । अ. संहितायां यणादिनिवृत्यर्थो हि संहिताधिकारः । अत एव । हे रोहिणि त्वमसि शीलवतीषु धन्या एनं निवारय पतिं सखि दुर्विनीतम् । जालान्तरेण मम वासगृहं प्रविष्टः श्रोणीतटं स्पृशति किं कुलधर्म एष इत्यत्र धन्या एनमित्यस्य नासाधुता । अत एव आलङ्कारिकै च्युतसंस्कृतित्वापेक्षया पृथगे
Page #41
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । .. व विसंधितानामदोषान्तरङ्गणितम् । तच्चेहास्तीत्यन्यदेतत् । नन्वेवमप्यसंहितायां कालव्यवायादेव यणादेरमाप्तौ कि संहिताधिकारेणेति चेन्न । संहिताधिकारबहिर्भूतानां कालव्यवायेपि प्रवृत्तिं ज्ञापयितुं तदारम्भात् । तेन अग्नाविष्णू इत्यग्ना विष्णू इत्यादाववग्रहेप्यानडादयः । अग्निमीळे इत्यत्र पदविभागेपि निघातः । ते नोरासंतामित्यादौ नसादयश्च सिद्धयन्ति । नन्वेवं पुरः हितमित्यवग्रहे हितशब्दस्य स्वरितत्वं बढचैः पव्यमानमसङ्गतं स्यात् । तयोर्वावचीति संहिताधिकार आशास्त्रसमाप्तेरिति सिद्धान्तात् । स्वरितविधेश्च तदन्तर्भूतत्वात् । अत एव तैत्तिरीया अवग्रहे हितशब्दमनुदात्तं पठन्ति । अत एव बचा अप्यग्निमीळइत्यस्य पदविभागपाठे निघातमेव कुर्वन्ति न तु स्वरितनपीति चेत् । सत्यम् । प्रातिशाख्ये विशेषविधानात्स्वरितसिद्धिः । उक्तं हि । यथा संधीयमानानामनेकीभवतां स्वरः । उपदिष्टस्तथा विद्यादक्षराणामवग्रह इति । तदेवमइउणित्यादौ संहिताविरहान्न संधिरिति स्थितम् । के चित्त चादिषु पाठान्निपातसंज्ञा । निपातएकाजितिप्रगृत्यत्वम् । ततः प्रकृतिभावः । यद्यपि अनिपातानामपीह ग्रहणामिष्टं दध्यश्वों दाक्षिः प्लाक्षिरित्यादिसिद्धये तथापि न सर्वा व्यक्तयः साक्षानिर्देष्टव्याः । आनन्त्यात् । किं तु काचियक्तिनिर्दिश्यमाना स्वसदृशीरितरा अपि गृहातीति वक्ष्यते । तत्र किं निपातव्यक्तिरेव निर्दिश्यतामुत तदितरोत संशये आद्यकोटिरेव युक्ता । संहिताकार्यविरहेण निर्दिश्यमानरूपस्य स्फुटप्रतीतिसिद्धरित्याहुः । कारप्रत्ययस्तु न भवति बहुलग्रहणात् । स हि रोगाख्यायां ण्वुल् बहुलमित्यत्रोपसंख्यातः । अन्ये तु इश्तिपो धातुनिर्देश इत्यतो निर्देशशब्दः ययातिधावनुवर्तते । नि..
Page #42
--------------------------------------------------------------------------
________________
४२
शब्दकौस्तुभः । [१ अ. देशश्च प्रतिपादनम् । तेन प्रयोगविशेषनिष्ठानां वर्णानां प्रतिपादने प्रत्यय इह तु आनुपूर्वीसंपादनमात्रे तात्पर्य न तु कविपुइत्यादौ दृष्टानामकारादीनां प्रतिपादने, अतः कारप्रत्ययाभाव इत्याहुः । अनुकार्यानुकरणयोरभेदविवक्षापक्षे तु अर्थवत्वस्याविवक्षिततया वर्णवाचित्वाभावात्कारप्रत्ययाभावः । अत्रेदमवधेयम् । अकारः संवृतः । विवृतकरणाः स्वराः तेभ्य एओ विवृततरौ ताभ्यामैऔ विवृततरतरौ ताभ्यामप्याकारः संवृतोकार इति शिक्षावाक्यात् । विवृतसंवृतादयः शब्दाः शुक्लादिवधर्मे धर्मिणि च प्रयुज्यन्ते तेन विवृतं करणं प्रयत्नो येषां ते तथाभूसाः स्वरा इकारादय इत्यर्थः । यत्तु छन्दोगविशेषैरिव!वर्णऋकाराणां संवृततामिच्छद्भिक्तं कृतः संहता अन्यत्राभवसाम्न इति । तत्तु तदीयशाखाविशेषमात्रपरं न तु सार्वत्रिकम् । यथा सात्यमुनिराणायनीयानामेव सुजाते ए अश्वसुनते अध्वयों ओ अदिभिः सुतमित्यादावेकमात्र एकारओकारश्च न त्वनेकेषां, तद्वत् । इकारादौ वा यथा तथास्तु । अकारस्य संवृतत्वं तु निर्विवादमेव । तथाप्यसौ प्रक्रियादशायामाकारेण दीर्पण प्लुतेन च सह सावर्ण्यसिद्धये विवृततरोस्मिन्सूत्रे निर्दिश्यते । विवृततरत्वं च प्रयोगदशायां मा भूदित्येतदर्थ शास्त्रांते अ अ इति सूत्रं कृतम् । तेन हि विवृततरमन्द्य संवृतो विधीयते । न चानुवाद्यसमपैकेणाकारेण दीर्घप्लुतयोरपि ग्रहणकशास्त्रवलात्सङ्ग्रहः स्यादिति वाच्यम् । अद इति तपरनिर्देशस्य एकशेषेण इस्वषट्कनिर्देशस्य वा सिद्धांतयिष्यमाणत्वात् । वक्ष्यति हि तत्र वार्तिककारः । सिद्धं तु तपरनिर्देशाद, एकशेषनिर्देशाद्वा स्वरानुनासिकभिन्नानां भगवतः पाणिनेः सि. द्धमिति । शास्त्रान्ते च विधीयमानं प्रत्यापत्तिवचनमेव ज्ञापक
Page #43
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । मिह विवृततर उपदिष्ट इत्यस्यार्थस्य । यत्तु अत्रत्यं वार्तिकम. कारस्य विवृतोपदेश आकारग्रहणार्थ इति । तत्र विवृतशब्दो विवृततरत्वपरः उदाहृतशिक्षानुरोधात् । ननु शुक्लतरोपि शुक्लो भवत्येव यथा तथेह विवृततरस्याकारस्य विवृत. त्त्वानपायात्सावयं यथाश्रुतपि सेत्स्यतीति चेत् । न । सवर्णसंज्ञायां तुल्यप्रयत्नत्वस्य विवृततरत्वाद्यवान्तरधर्मपुरस्कारेणैव वक्तव्यत्वात् । अन्यथा ओदौतोरपि सावापचौ गां गाइत्यत्रेव नावं नावः ग्लावं ग्लाव इत्यादावपि औतोम् शसोरित्यात्वं प्रवर्तेत । ईदेदित्येकारान्तस्य विधीयमाना प्रगृह्यसंज्ञा करवावहै इत्यादावपि प्रक्र्तेत । एङ: पदान्तादतीति पूर्वरूपं कस्मै अदान् विष्णौ अस्तीत्यादावपि स्यान् । किंचैवं हकारादीनामीषद्विवृतत्वादकारादीनाञ्च विवृतत्वात्सावाप्रसक्ते ज्झलाविति सूत्रं न कर्त्तव्यमिति भाष्यसिद्धान्तो व्याकुप्येत । एओङित्यादिसूत्रद्वये उकारचकाररूपानुबन्धद्वयकरणं चेह लिङ्गम् । अन्यथा हि अन्यतरेणैव स. वत्र व्यवहरेत् । किम्बहुना ऐकारौकारावपि न निर्दिशेदाकारा. दीनामिव सावर्येन सिद्धेरिति दिक् । तस्मादत्रत्यभाष्यवार्तिकयोोर्ववृतशब्दो विवृततरं लक्षयतीत्येव तत्त्वम् । यद्वा । विवृतप्रतिज्ञानसामाद्विवृततरेण सह सावर्ण्य सेत्स्यतीत्यवधेयम् । एवं च भाष्यादिग्रन्यो यथाश्रुत एवास्तु । एतच्च न्यासकारहरदत्तयोर्ग्रन्थमनुसृत्य उदाहृतशिक्षावाक्योपष्टम्भेन व्याख्यातम् । परमार्थतस्तु । आकारो विकृत इत्येव भाष्य वार्तिकस्वरससिद्धं न तु निवृततरइति । तथा च पाणिनीप्रशिक्षा । स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योपि विवृतावेडी ताभ्यामचौ तथैव चेति । प्रामुक्तं तु मता-:
Page #44
--------------------------------------------------------------------------
________________
४४
शब्दकौस्तुभः ।
[ १ अ०
तरं न तु पाणिनीयम् । अत एव एओसूत्रे भाष्यकैयटादौ अकारस्य विवृतत्वाद्विवृततराभ्यां संध्यक्षरभागाभ्यां न सावर्ण्यमित्युक्तम् । एवं च वृत्तिग्रन्थस्यापि यथाश्रुतस्य सौष्ठ - वे न्यासकारहरदत्ताभ्यां कृतं भक्त्वा व्याख्यानमनादेयम् । अथ वा नाज्झलाविति पठतः सूत्रकृतो मते विवृततरस्यापि विवृतत्वमात्रेण सावर्ण्यमस्तु । चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामा श्रीयंत इति वृत्तिग्रन्थस्वरसात् । नं चैवमेचोरतिप्रसंग ः । वर्णसमाम्नाये पृथक् निर्देशसामर्थ्यात् अनुबंधद्वयसामर्थ्याद्वा तत्र सावर्ण्यप्रवृत्तेरिति दिक् । ननु दंडाढकमित्यादौ दीर्घेण सह दीर्घ एकादेशः सावर्ण्यस्य फलमित्यस्तु प्लुतेन तु सावर्ण्य किं फलमिति चेत् । इह अग्निदतेति गुरोरनृत इति लुते कृते तेन सह पूर्वस्य दीर्घ एकादेशः फलमिति गृहाण । न च दीर्घे कर्तव्ये प्लुतस्यासिद्धत्वं शंक्यम् । प्लुतप्रगृह्याअचीतिज्ञापकेन सिद्धः प्लुतः स्वरसंधिध्वितिवक्ष्यमाणत्वात् । स्यादेतत् । आक्षरसमाम्नायिकस्य अकारस्य कृतेपि विवृतत्वे धातुप्रातिपदिकप्रत्ययनिपातस्थस्य संवृतत्त्वादच्त्वं न स्यात् । आक्षरसमाम्नायिकेन भिन्नप्रयत्नानाममीषामग्रहणात् । ततस्या
श्च शमामष्टानामितिदीर्घोलोन्त्यपरिभाषयान्त्यस्यैव न स्वकारस्य | अचश्चेतिपरिभाषाया बाधादनुपस्थितेः । तथा दृषदित्यत्र प्रातिपदिकस्यान्त उदात्तो भवतीत्येतन्न स्यात् । नायक इत्यत्र प्रत्ययाकारस्यानचत्वादायादेशो न स्यात् । अव - नमतीत्यत्र निपाता आद्युदात्ता उपसर्गीश्चाभिवर्जमित्याद्युदात्तत्त्वं न स्यात् । किं च । अस्य च्वावित्यादौ अकारस्य संवृतत्त्वेनानत्वादसति ग्राहकत्वे शुलीभवतीत्यादावेवेत्वं स्यान्न तु मालीभवतीत्यादौ । न चाक्षरसमाम्नायिकस्य विवृतत्वप्रतिज्ञासा
Page #45
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । मर्थ्यात्तत्सदृशेषु धात्वादिस्थेष्वपि तत्कार्यप्रवृत्तिरितिवाच्यम् । खवाढकमित्यादौ दीर्घसम्पादनेन विवृतत्वप्रतिज्ञायाः साफल्ये सति सामर्थ्यविरहात् । तथाहि । अकः सवर्ण इत्यत्र आ. दिरन्त्येनेतिवचनादनयोरेवाकारककारयोरनुकरणमितिनिर्णीतंते न प्रत्याहारगतेन . विवृतेनाकारेण सावादीर्घप्लुतयोग्रहणे खवाढकमित्यादि सिध्यति । असति तु विवृतत्वे अस्य
चावित्यादिष्विव प्रत्याहारेष्वपि संवृतस्य इस्वस्यैव कार्य स्यान तु दीर्घप्लुतयोरितिफलभेदस्य स्पष्टतया क्व विवृतत्वप्रतिज्ञायाः सामर्थ्यम् । अथोच्येत । प्रत्यापत्या ऽऽक्षरसमाम्नायिकस्यैव विवृतत्वं ज्ञाप्यते इति न ब्रूमः । किं तु सामान्यापेक्षं ज्ञापकम् इह शास्त्रे यावानकारः स सर्वोपि प्रक्रियायां विवृ. तो बोद्धव्य इति । एवमपि प्रत्युच्चारणं वर्णानां भेदेनास्य च्चावित्यादावुच्चारितस्यानण्त्वेन सवर्णग्राहकता न स्यात किं त्वकः सवर्णइत्यादौ प्रत्याहारएव सवर्णग्राहकत्वं स्यात् । एवमिकारादयोपीकोयणचीत्यादावेव ग्राहकाः स्युन तु एरनेकाचो यस्योतिचेत्यादौ । ननु एक एवाकारः तत्कस्यानणत्त्वमाशंक्यते । नचैवमुदात्तानुदात्तत्वादिविरुद्धधर्मानुपपत्तिः । तेषां व्यञ्जकध्वनिधर्मत्वात् । अनुबन्धव्यवस्थापि लोकवद्भविष्य. ति । लोके हीह मुण्डो भव इह जटिलो भवेत्यादिक्रमेण एकस्यानेकधर्मोपदेशेपि तत्तदेशभेदेन धर्मा व्यवतिष्ठन्ते तथेहापि कर्मण्यणित्यत्रैव णित्वं चरेष्ट इत्यत्र टित्त्वं गापोथगित्यत्र टित्वकित्वे असाम्प्रतिकइत्यादौ तु नैकमप्यनुबन्धकार्यमिति व्यवस्था।अत एव प्राग्दीव्यतोण शिवादिभ्योणित्यादौ पुनःपुनर्णित्करणं सार्थकम् । कथं तर्हि घटेन तरतीति घटिकः । तरतीत्यधिकारे नौ व्यचष्ठन्निति ठन् । कथं च धनस्य निमित्तं संयोग उत्पातो वा
Page #46
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० धन्यः । तस्य निमित्तं संयोगोत्पातावित्यधिकारे गोव्यचो संख्यापरिमाणावादेर्यदितिचेत् । आवृत्तिकृताद्व्यज्व्यपदेशाद्भविष्यति । न च बाहुक इत्यादौ मुख्यद्यचि चरितार्थत्वाद्गौणे कार्यासम्भव इंति वाच्यम् । अश्वादिप्रतिषेधेनेह गौणस्यापि मुख्यसमकक्षताया ज्ञापनात् । अत एव किरिणत्यादौ सावे. काचइतिविभक्तेरुदात्तत्वं न भवति । आत्तिकृतेन व्यज्यपदेशेन स्वाश्रयस्य एकाव्यपदेशस्य निवर्तितत्वात् । नहि त्रि. पुत्रो द्विपुत्रव्यपदेशं लभते । तस्मादुक्तरीत्या बाधकामावाल्लाघवरूपसाधकबलाच्चाकारव्यक्तिरेकैवेति सर्व सुस्थमितिचेन्न । उदात्तत्वादिविरुद्धधर्माध्यासेन व्यक्त्यैक्यस्य बाधात् । ध्वनिधर्मा एवैतइत्युक्तमितिचेहि कत्त्वगत्वादिकमपि तस्यैवास्त्विति अकारेकारादीनामप्यैक्यप्रसङ्गः । तदेतदुच्यते । अखण्डं पदं वाक्यं वा वाचकमिति । किं बहुना मास्त्वेव व्यंग्यो वर्णः व्यजकत्वाभिमनैर्ध्वनिभिरेव सर्वनिर्वाहात् । उक्तं च हरिणा । अनेकव्यक्त्यभिव्यंग्या जातिः स्फोट इति स्मृता । कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिता इति । तस्माद्यदि ध्वनिभिरेव निर्वाहस्तहि जातिस्फोट एव,नो चेत् कखयोरिवोदात्तानुदात्तादीनामपि भेद एवेति न्यायतः परिनिष्ठिते सति एवं ध्वनिगतान् मेदानुदात्तस्त्ररितादिकान् । वर्णा अनुपतन्तः स्युरावगतिहेतव, इतिमामांसकमतमद्धजरतीयत्वादुपेक्ष्यमितिस्थितम् । एवं च अनन्ता वर्णा इतिनैयायिकाद्यभ्युपगतरीत्या यद्ययं जातिपरो निदेशस्तार्ह अस्य चावित्यत्रापि तथैवास्त्विति किं ग्रहणकशास्त्रेण । तदुक्तम् । सवर्णेण्ग्रहणमपरिभाष्यमाकृतिग्रहणादिति । नपरसूत्रं तु जातिनिर्देशप्रयुक्तस्यैवातिप्रसङ्गस्य भङ्गाय । त्यदादीनाम इत्यादौ तु एकमात्रव्यक्तिरपि जातिविशेषणतया विवक्ष्य
Page #47
--------------------------------------------------------------------------
________________
१ पा. २ आ.
शब्दकौस्तुभः ।
ते । विधेयविशेषणत्वात् । पश्वेकत्ववत् । अस्य चारित्यादी तु अनुवाद्यविशेषणत्वान व्यक्तिर्विवक्षिता । ग्रहकत्ववत् । किं तु अण्ग्रहणं कुर्वतः सूत्रकृतो नायं पक्षोभप्रेतः । एका अवर्णव्यक्तिरिति पक्षस्तु दूषित एव । अष्टादश अवर्णव्यक्तय इतिपक्षेतु अइउणिति यदि जातिपरो निर्देशस्तार्ह पुनरण्ग्रहणवैयर्थ्यम् । व्यक्तिनिर्देशे तूक्तरीत्या अस्य च्चावित्यादौ सवर्णग्रहणानु पपत्तिरिति महत्सङ्कटम् । तस्मादिह सूत्रकारस्याशयो दुर्वच इति चेत् । उच्यते । त्रिष्वपि पक्षेष अस्त्येव सूत्रस्योपपत्तिः । तथा हि । स एवायमकार इतिप्रत्यभिज्ञाबलादकार एक एवेति पक्षे धर्मव्यवस्थायास्त्वयैवोपपादनाद्यथा के अण्कार्य न भवति यथा चामत्ययादिविधिस्थले न दीर्घादिप्रवृत्तिः । तथास्य च्चावितिविधिरपि मालीभवतीत्यादौ न प्रवर्तेतेति ग्रहणकशास्त्रं क्रियते । तच्च सावाधीनमिति इस्तस्य विवृतत्त्वं प्रतिज्ञायते । तत्तु आक्षरसमाम्नायिकस्यैव चेत्पुनरपि न व्यवतिष्ठतेति सार्वत्रिकी प्रतिज्ञा । एवमपि अस्य च्चावित्यादौ अनण्त्वादेव ग्रा. हकत्वं न स्यादिति चेत् । विवृतहूस्वत्वादेरविशेषेण तस्याप्यणन त्वात् । नहि मुण्डत्वजटिलत्यादिवद्देशभेदेनानुपात्ताः स्वरूपमा त्रानुवादेन विहिता अपि श्यामो दीर्घश्चतुर्बाहुरित्यादयो व्यवतिष्ठन्ते । उदात्तानुदात्तस्वरितागुनासिकत्वगुणास्तु शब्देनानुपात्ता न भेदका इति वृद्धिसूत्रे वक्ष्यते । अनन्ता एव व्यक्तय इ. ति पक्षे अष्टादशअवर्णव्यक्तयइतिपक्षे च यद्यपि इखदीर्घप्लुतः साधारणी एका जातिः कण्ठादिजन्यतावच्छेदिका तज्जन्यध्वनिव्यंग्यतावच्छेदिका वास्त्येव तथापि तद्व्याप्यहूस्वमात्रवृत्तिरपि जातिरास्ति । तथा च । अइउणसूत्रे व्याप्यजातिपरो निर्देशः तेन तज्जातीये एकत्र कृतं विवृतत्वं सर्वेष्वपि सिध्यति । अत
Page #48
--------------------------------------------------------------------------
________________
४८
शब्दकौस्तुभः ।
[ १ अ०
-
एव सर्वेपि ह्रस्वा अणो भवन्त्येवेति अस्यच्चावित्यादौ न कश्चिद्दोषः । अवात्तामित्यादिष्वपि ह्येषैव गतिः । अन्यथा अवात्स्तामिति स्थिते सिचः पूर्वपरयोस्तकारयोर्मध्ये अन्यतरस्यैव झलत्वं स्यान्न तूभयोः। अक्षरसमाम्नाये उभयोरपाठात् । ततश्च झलोझलीति न प्रवर्तेत सूत्रस्यावकाशस्तु अभित्था इत्यादिः स्यात् । एवं च दीर्घाणामनण्त्वेन सवर्णग्राहकत्वं नास्तीत्यपि सिद्धान्तः सगच्छते । अथ व्यापकजातिपरमेव निर्देशं स्वीकृत्य अण्ग्रहणं त्यज्यतामिति चेत् । एवमपि उपसर्गादृतीत्यादौ ऌवर्णग्रहणाय ग्रहणकशास्त्रस्यावश्यकत्वात् । न च ऋलुवर्णयोरिति सावर्ण्यविधानसामर्थ्यातद्ग्रहः । अकः सवर्णइत्यादौ चारितार्थ्यात् । किञ्च । अस्य च्वावित्यादौ व्यापकजातिनिर्देश: त्यदादीनाम इत्यादौ तु व्याप्यजातिनिर्देश इत्यस्य नियामकाभावे सङ्करोपि स्यात् । न चानुवाद्याविशेषणं विधेयविशेषणं च ग्रहपश्येकत्ववद्विवक्षितमविवक्षितं चेतिमीमांसकमर्यादा वैयाकरणैः स्वीकर्त्तुं शक्या । उपेयिवाननाश्वाननूचानश्वेत्यत्र उपेत्यविवक्षितं नष्प्रभृति तु विवक्षितमिति स्वीकारात् । आर्द्धधातुकस्येवलादेरित्यादावनुवाद्यविशेषणस्यापि बहुशो विवक्षणाच्च । तस्माद्वयाख्यानतो विशेषप्रतिपत्तिरिति परिभाषैव सिद्धांते शरणम् । व्याख्यानं तु लक्ष्यानृरोधीति यद्यप्यगत्या तत्र तत्राश्रयिते तथापि नैतद्बलेन ग्रहणकशास्त्रस्य म त्याख्यानं चमत्कारमावहते । ग्रहणकशास्त्रवलेन हि अप्रत्ययो ऽविधीयमानः सवर्णग्राहक इति स्फुटतरं प्रतीयते । उल्लंघिता चेयं मीमांसक मर्यादा धर्मशास्त्रेपि बहुशः श्रेयांसं न प्रबोधयेदि - त्यादिषु । एकः पूर्वपरयोरितिसूत्रे एकग्रहणमपीह ज्ञापकम् । अन्यथाद्गुणइत्येकत्वस्य पश्वेकत्ववद्विवक्षासंभवात्किं तेनेति
Page #49
--------------------------------------------------------------------------
________________
१ पा. २ आ.
शब्दकौस्तुभः ।
४९
दिक् । अथवार्थवत्त्वस्याविवक्षायामपि इहोच्चारितो ऽकारादिः स्वसदृशीः षड् व्यक्तीः सादृश्याख्यसम्बन्धेनोपस्थापयति । नचैवमपि वृत्या अनुपस्थितानां शाब्दबाधे ऽन्वय प्रतियोगितानुपपत्तिः । अर्थाध्याहारवादे बाधकाभावात् । अतिप्रसंग भंगस्तु तात्पर्य ग्राहकबलेनैव । अन्यथा तवापि लक्षणाध्याहारादेरतिप्रसङ्गस्य तदवस्थत्वात् । स्पृहेरीप्सितइत्यनुशासनबलात्पुष्पेभ्य इत्यादौ पदाध्याहारः क्लृप्त इति चेन्न । ल्यब्लोपे कर्मणि क्रियार्थोपपदस्य च कर्मणि स्थानिन इत्याद्यनुशासनादर्थाध्याहारस्यापि स्थलविशेषे क्लृप्तत्वात् । अन्यथा गवित्ययमाहेत्यादावगतेश्चेति वक्ष्यते ॥
ऋलृक् । ननु विधिवाक्येषु ऋकारो ग्रहणकशास्त्रबलेन ऋकारादीनष्टादश यथा गृहाति तथा लवर्णानपि द्वादश ग्रहीष्यति तकि पृथग्लुकारोपदेशेन । न च भिन्नस्थानतया सावर्ण्यविरहादग्रहणमिति वाच्यम् । ऋकारलकारयोः सवर्णविघिरिति वार्त्तिकवलेन वाचनिकस्य सावर्ण्यस्यावश्यं वाच्यत्वात् । अन्यथा इहोपदिष्टेपि लृकारे माल्कारयतीत्यादौ उपसर्गाहति धातौ वासुप्यापिशलेरित्यस्याप्रवृत्तिप्रसंगात् । ननु क्लृपिस्थस्य लृकारस्येदमनुकरणम् । तस्य च स्वरकार्येष्वसिद्धत्वादृकार एवायमिति उपसर्गावृतीत्यादि सेत्स्यतीति चेन्न । कृपोरोल इति विहितस्यासिद्धत्त्वेपि तदनुकरणस्यास्यासिद्धत्वविरहात् । स्यादेतत् । प्रकृतिवदनुकरणमित्यतिदेशादयमव्यसिद्ध एव । स चातिदेशोवश्याश्रयणीयः । द्विः पचन्त्वित्याहेति तैत्तिरीयवाक्ये यद्यपि पचन्त्वित्याद्युदात्तं पठ्यते तथापि भाष्योदाहृते शाखान्तरीये पचन्तुशब्दस्य तिङ्ङतिङ इति निघातो यथा स्यात् । नह्येतत्तिङन्तम् । तिङन्तपदार्थक
:
-
•
Page #50
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [ १ अ० त्वात् । स्वाद्युत्पत्तिस्त्विह विवक्षाभेदेन वैकल्पिकीत्यर्थवत्सूत्रे वक्ष्यते । अग्नी इत्याहेत्यादौ प्रगृह्यत्वमप्यतिदेशादेव । अतिदेशे ज्ञापकं तु यत्तदेतेभ्यः परिमाणइति सौत्रनिर्देशः । नह्यत्रातिदेशं विना त्यदायत्वं लभ्यते । अभिव्यक्तपदार्था ये इति न्यायेन लोकप्रसिद्धार्थपरतायामेव तत्मवृत्तेः । तथा च प्रयुज्यते, यत्तदोनित्यसम्बन्ध इति । नन्वनेनैवातिदेशेन अत्वस्यावश्यकत्त्वादुदाहृतप्रयोगोनुपपन्न एवेति चेत् । न । उदाहतज्ञापकसूत्रएव त्यदादीनि सर्वैरित्येकशेषस्याकरणेन एतत्तदोः मुलोप इत्यादिनिर्देशैश्चातिदेशस्यानित्यताज्ञापनात् । अथवा प्रावृदशरत्कालदिवां जइति सूत्रे ऽपोयोनियन्मतुषु चेति वार्तिकनेयं परिभाषा अस्या अनित्यता चेत्युभयमपि ज्ञाप्यते । तथाहि । कारीर्यामप्सुमन्तावाज्यभागाविति श्रुतम् । अप्सुमे सोमः, अपवग्ने सधिष्टवति हि तत्र मन्त्री । तत्राप्सुशन्दादनुकरणभूतान्मतुप्यस्यवामीयमित्यादाविवानुकरणस्य विभक्तित्वाभावादेव लुको प्रसङ्गादलुग्विधानमुक्तपरिभाषां ज्ञापयति । मतुबुत्पत्तेश्च प्रथमान्ततां विना दुर्लभत्वात्मातिपदिकताप्यावश्यकी सा च प्रत्ययान्तत्वे सति दुर्लभेति प्रातिपदिकसंज्ञायामतिदेशप्रवृत्तिविरहाभ्यनुज्ञानादनित्यतापि सिद्धा । एतेन युष्मदस्मत्प्रत्ययगोचरयोरित्यादिप्रयोगा व्याख्याताः । प्रकृतमनुसरामः । लकारानुकरणस्याप्यतिदेशेनासिद्धत्वात्माल्कारीयतीत्यादावुपसर्गादृतीत्यस्य प्रवृत्तिसिद्धौ किं सावण्येनेति चेन्न । तथा सति रेफपरत्वप्राप्तावपि लकारपरत्वासिद्धया प्रकृते ऽनित्यत्वेनातिदेशाप्रवृत्तेरेव त्वयापि वाच्यत्वात् । ननु रेफपरत्वे सिद्धे ऽतिदेशाद्रेफस्य लकारो भविष्यतीति चेन्न । एवमपि गम्लुसृप्लुइत्यादिस्थस्य लकारस्यानुकरणे त्वदुक्ताति
Page #51
--------------------------------------------------------------------------
________________
१ पा. २ आ.
१
शब्दकौस्तुभः । देशादेरुक्तिसम्भवाभावात् । तस्मात्सवर्णत्वस्यावश्यके ल कारोपदेशो व्यर्थ एवेति चेत् । अत्रोच्यते । न तावद्वार्त्तिकं दृष्ट्वा सूत्रकृतः प्रवृत्तिः । आस्न्धे ऽपि वार्त्तिके ऋकारका रयोः सावर्ण्यस्यानित्यतां ज्ञापयितुं कर्त्तव्य एवं लृकारोपदेशः । तेन क्लृ ३ शिखेत्यत्र गुरोरनृत इति प्लुतः सिध्यति । अन्यथा ऽनृत इति निषेधः स्यात् । ऋकारेण लकारग्रहणात् । क्लूप्यमानश्चलीक्लृप्यमान इत्यादौ ऋवर्णान्नस्येत्यौषसंख्यानिकणत्वस्याप्रवृत्तिस्तु क्षुम्नादित्वेनापि सुवचा 1 अन्यथा प्रक्लृप्यमानादौ कृत्यच इति णत्वस्य दुरात् । इदं त्ववधेयम् । वार्त्तिकमते सवर्णेण्ग्रहणमपरिभाष्यमितिसि द्धांतादृकारे ऌकारसाधारणजातिविरहेणाकृतिग्रहणासंभवाच्च प्राल्कारीयतीत्यत्र कार्यानिर्वाहस्तदवस्थः । सावर्ण्यविधिस्तु सवर्णदीर्घे होतृ ऌकार इत्यत्र इकोसवर्णइत्यस्य प्रवृत्तिप्रतिबन्धेनं चरितार्थः । न च ऋत्यक इत्यस्य प्राप्तिः । ग्रहणकशास्त्राभावादेव । एवं च दीर्घ संपाद्य कृतार्थ लकारपाठः सावयनित्यत्वमपि कथं ज्ञापयेदिति । तस्मादण्ग्रहणं प्रत्याचक्षाणस्य तत्स्थाने ऋग्रहणं कर्त्तव्यम्, अप्रत्ययग्रहणं च न कार्यमित्याशयः कल्प्यः । यद्यप्यें पत्ऌमभृतीनां लृदितां नाग्लोपीत्युदित्कार्य प्रामोति, पृथगनुबन्धकरणं तु लुदित्वप्रयुक्तस्य अङादेशस्य ऋदित्स्वप्रवृत्या चरितार्थत्वादसङ्करं ज्ञापयितुमसमर्थं तथापि सावर्ण्यस्यानित्यतयैवेदमपि समाधेयम् । यद्वा । स्वरसन्धिप्रकरणे लवर्णस्य ऋत्रद्भाव एव वाच्यः । सावर्ण्य च नोपसंख्येयं प्लुतस्तु प्रकरणांतरस्थ इति न तत्रातिदेशप्रवृत्तिः । उरणपरइतिपरिभाषा तु कार्यकालतया स्वरसन्धिप्रकरणस्थेति उरित्यनेन लुवर्ण ग्रहणोपपत्तिः । अस्मिन्नपि पक्षे ऌकारोपदेश इह कर्त्तव्य एव । क्लू ३
Page #52
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः । [१ अ० सशिख इत्यत्र प्लुतो यथा स्यात् । क्लृप्त इति च द्वित्वम् । प्रक्लुप्स इति च स्वरितः । अत्र ह्यन्तर्भावितण्यर्थात् कर्मणि क्तः । तेन गतिरनन्तर इतिपूर्वपदप्रकृतिस्वरः । कर्मणि यः क्तस्तदन्ते उत्तरपदे तद्विधानात् । ततः शेषनिघाते कृते उदात्तादनुदात्तस्य स्वरितः । न चात्र कृपोरोलइत्यस्यासिद्धत्वाशङ्कापि । पूर्वत्वात् । परं हि पूर्व प्रत्यसिद्धं न तु परं प्रति पूर्वम् । एवं च गम्लुप्रभृ. तीनां लकारस्येत्संज्ञाप्यनायासेन सिध्यति । अन्यथा तु पुपादिद्युतालुदितइति लुकारे परतः कृतेन यणादेशेन इत्संज्ञानुवादेन च ज्ञापकेन कथंचित्साधनीया स्यात् । एवम् इदितोनुमित्याद्यनुवादानाम् ऋत्यक इत्यादिनिर्देशानां च साम्यादिकारादयोपि न निर्दिश्येरन् । यथाश्रुतसूत्ररीत्या तु ब्रूमः । ऋकारमुच्चारयितुं प्रवृत्ता कुमारी करणापाटवाद्यदा लकारमुच्चारयति तदनुकरणस्याप्यच्कार्यसिद्धिः फलम् । अनुकरणानामनुकार्येणार्थवतां सर्वत्र साधुताभ्युपगमात् । नन्वेवं लुवर्णस्य दीर्घा न सन्तीति व्याहन्येत । अनुकरणस्य तत्रापि सुलभत्वादिति चेन्न । न्यायप्राप्तस्यापि वचनेन वाधात् । इदञ्च न्याय्यभावात्कल्पनं संज्ञादिष्वितिवार्तिकालभ्यते । तथाहि । लकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थ इति पूर्ववार्तिकेन लुकारोपदेशस्य प्रयोजनत्रयमुक्तम् । दध्य्लुतकाय देहीति यदृच्छाशब्दः।कुमारीलु. जु इत्याहेत्यशक्तिजानुकरणम्। प्लुतद्विर्वचनस्वरिताश्च प्लुत्यादयः। एतदर्थ लूकारोपदेश इति हि तस्यार्थः। तत्र प्रथमप्रयोजननिराकरणायेदं वार्तिकम् ।न्याय्यभावादिति । अस्यार्थः । ऋतिस्तावदृतेरोयङितिनिर्दिष्टः सौत्रो धातुस्तस्मादौणादिकः क्युन् । तत्र ह्येवं मूत्रितम् । क्युन् शिल्पिसंज्ञयोरपूर्वस्यापीति । शिल्पिन्यभिधेये संज्ञायां च सोपपदानिरुपपदाच्च धातोः क्युन् स्यादित्यर्थः ।
Page #53
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । रजक तक्षक इत्यादि शिल्पिनि । चरकः भषक: कटकं कनकमित्यादि संज्ञायामुदाहरणम् । तथा च ऋतकशब्दः शास्त्रानुग. वत्वान्न्याय्यः । तत्सद्भावात्स एव संज्ञा तथा च कृतं कुर्यान तद्धितमित्यादि गृह्यस्मृतिरप्यनुकूलिता भवतीति । एवं वदता शास्त्राननुगतन्देशभाषया यत्कूचीत्यादि नाम क्रियते तदसाध्विति स्फुटीकृतम् । आदिशब्दादनुकरणेपि शिष्टानुरोधं दर्शयता लुवर्णस्य दीर्घा न सन्तीति शास्त्रमर्यादामुल्लंघ्य क्रियमाणस्य दीर्धानुकरणस्याप्यसाधुता दर्शिता । तस्मादृिघुभादिभ्यः कूचीमञ्च्यादीनामिव गावीगोण्याद्यनुकरणेभ्यो दीर्घलुवर्णानुकरणस्यापि न्यायतो न किं चिद्वैलक्षण्यं किन्तु वाचनिकमिति स्थितम् । मन्त्रशास्त्रे तु मातृकान्यासादौ दीर्घ लुवर्णो यद्यपि स्वीकृतस्तथापि प्रातिशाख्यन्यायेन अन्यत्रासौ नोपयुज्यतएवेत्यवधेयम् । एवं वचंत्यादीनामपि शिष्टैरनङ्गीकृतानां न्यायसा. म्यादसाधुतोक्ता । तथा चाहुः । नहि वाचरन्तिपरः प्रयुज्यतइति । एवं च न्याय्यभावादिति वार्तिकेन पूर्ववार्तिकोक्तप्रयोजनत्रयमध्ये प्रथमप्रयोजनं निराकृतम् । लुतकश्चासाधुरेव । इदं च त्रयीशब्दानां प्रवृत्तिर्न संति यदृच्छा शब्दा इति पक्षेणोक्तम् । पक्षान्तरैरपि हि परिहारा भवतीति भाष्यकारः । एतद्ग्रन्थपर्यालोचनया तु चतुष्टयाति पक्षे तृतकादयोपि टिषुभादिवत्साध्वसाधुबहिर्भूताः साधव एव न तु टिघुभादिविलक्षणा इति लभ्यते । अन्यथा हि पक्षांतरौरीति न ब्रूयादिति । न च गृह्यस्मृतिविरोधः । तावतापि कृतं कुर्यान्न तद्धितमिति गृत्यमुलंध्य कृतस्याप्यौपगवादेरिव शब्दसाधुताभ्युपगमे बाधकामावात् । पुरुषस्तु साधूनपि प्रयुंजानो देवब्राह्मणादिनिन्दकवद्धर्मशास्त्रोल्लंघनात्मत्यवैतत्यिन्यदेतत् । यतु द्वितीयप्रयोजननिराक
Page #54
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[१ अ० रणार्थ वार्तिकम् अनुकरणं शिष्टाशिष्टाप्रतिषिद्धेष्विति । तस्यायमर्थः । शिष्टस्य साधोरनुकरणं साध्वेव । आशिष्टं च तदप्रति षिद्धं च साध्वसाधुबहिर्भूतं टिषुभादि तस्यानुकरणमापि ताह. गेवाऽऽर्थादसाधोरनुकरणमप्यसाध्वेवेति । इदं तु भाष्ये दूषितमेव । हेलयो हेलय इत्यादीनां शिष्टपरिगृहीतानामसाधुतायां बीजाभावात् । नत्यपशब्दवाचकत्वमात्रेण तथात्वम् । अपशब्द इत्यस्याप्यसाधुतापत्तेः । न च प्रकृतिवदनुकरणमित्यनेन साधुतातिदेशः । अशास्त्रीयस्यातिदेशायोगादिति दिक् । तस्माद्वार्तिककृता दूषितमपि द्वितीयप्रयोजनं भाष्यरीत्या स्थितम् । यदपि तृतीयप्रयोजननिराकरणपरं वार्तिकम् । एकदेशविकृतस्थानन्यत्वात्प्लुत्यादय इति, तस्यायमर्थः । नुड्विधिलादेशविनामेषु प्रतिविधानमितिवक्ष्यमाणत्वाकारैकदेशस्य रेफस्य ल. त्वे कृते एकदेशविकृतन्यायेनाकार्यसिद्धिरिति । न चैवमनृत इति प्रतिषेधापत्तिः । अरवत इति न्यासात् । नोकदेशविकृतन्यायेन रेफवत्ताप्यायाति । लोकेपि हि छिन्नपुच्छस्य पुच्छयत्त्वप्रयुक्तकार्य नायात्येव । न चैवं होतृकारादेर्दीर्घस्याप्यरवत इति प्लुतप्रतिषेधापत्तिः, -हस्वस्य रवतो नेति न्यासात् । किं त्वे. वं सति एकस्य लुकारस्य प्रत्याख्यानाय सूत्रभंगाश्रयणे विप. रीतमेव गौरवमिति तदेतदाह भाष्यकारः । सेयं महतो वंशस्तम्बाल्लट्वानुकृष्यतइति । लट्वा पक्षिविशेषः फलविशेषो वा । लठलौल्ये इति धातोरशूरुषिलटिकणिखटिविशिभ्यः का. नित्यौणादिकः क्वन् । नेड्वशिकृतीतीडभावः । लदवा करञ्जभेदे स्यात्फले ऽवद्ये खगान्तरे इति विश्वः । ननु कृपोरोलइति मूत्रम् अअइत्यस्मात्पूर्वमस्तु । एवं च लत्वस्यासिद्धत्वादेव प्ल. त्यादयः सेत्स्यन्तीति चेन्न । एवं हि सति ग्रायङत्यिस्याप्यु
Page #55
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुमः । त्कर्षः स्यात्ततश्च लत्वस्यासिद्धतया निगिल्यतइत्यत्र हलि चेति दीर्घः स्यात् । ननु बचप्रातिशाख्ये ऋकारलृकारावथ षष्ठोष्मा जिह्वामूलीया इति ऋलवर्णयोः स्थानसाम्योक्तस्तद्रीत्या ग्रहणकशास्त्रेणैव निर्वाहाद् लकारोपदेशो मास्त्विति चेन्न । उक्तरीत्या ऋलवर्णयोः सावर्योपसंख्यानं परं प्रत्याख्यायतां लकारोपदेशस्तूक्तरत्यिा क्लुप्तशिखे प्लुतसिद्धये सावानित्यतां ज्ञापयितुं कर्त्तव्य एवेति दिक् ॥
. एओङ् । ऐऔन् । यद्यपि छन्दोगानां मध्ये सात्यमुनिराणायनीया अर्द्धमेकारम् अर्द्धमोकारं चाधीयते सुजाते एअश्वसूनृते अध्वर्यो ओअद्रिभिः सुतमिति अन्तःपादस्यस्याव्यपरस्य तदीयप्रातिशाख्ये ऽर्द्धमेकारमोकारं च विदधति तथापि प्रातिशाख्यसमाख्याबलादेव सर्वशाखासाधारणे ऽस्मिन् शास्त्रे तस्य न ग्रहणम् । ज्ञापकाच्च । यदि हि अकारादिभिरष्टादशानामिव एभिरपि एकमात्राणां ग्रहणं संमतं स्यात्तीह लाघवार्थमेकमात्रावेव एङावुपदिशेत् । अकारादिवत् । न चैवमदेङ् गुण इत्यत्र तपरत्वान्मात्रिकयोरेव गुणसंज्ञा स्यादिति वाच्यम् । तत्र एओइतिस्वरूपेणैव दीर्घयोनिर्देशे ऽनण्त्वेन सव|ग्रहणोपपत्तेः । एवमप्यर्द्धमात्रालाघवात् । तव हि वर्णोपदेशे एओइतिदीर्घयोमात्राचतुष्टयम् । गुणसंज्ञायां तु एङितिसार्द्धद्वयम् । संकलनया सार्धाः षण्मात्राः मम तु वर्णोपदेशे मात्राद्वयम् । गुणसंज्ञायां तु चतम् इति मिलिताः षडेव मात्राः। तस्माद् द्विमात्र निर्देशसामर्थ्यादप्येकमात्रयोरनभिमतत्वं निर्णीयते । नन्वेवं एच इग्घूस्वादेशइति व्यर्थ स्यात् । तद्धि स्थानेन्तरतमपरिभाषया प्राप्नुवतारर्दैकारादौंकारयोनिवृत्त्यर्थ क्रियतइतिचेन्न । वैकल्पिकप्राप्तिमतो ऽकारस्य व्यावृत्तये तदारम्भात् । एचां हि
Page #56
--------------------------------------------------------------------------
________________
५६
शब्द कौस्तुभः ।
[ १ अ०
पूर्वी भागो sकारसदृश उत्तरस्तु इवर्णोवर्णसदृशः तत्र उभयांतरतमस्य -हस्वस्याभावात्पर्यायेणाकारः स्यात् । इकारोकारौ च स्यातां तस्मान्मा कदाप्यवर्ण भूदिति सूत्रारम्भः । वस्तुतस्तु प्रत्याख्यास्यते सूत्रम् । तथा च तत्र वार्तिककारो वक्ष्यति । सिद्धमेङ: सस्थानत्वात् । ऐचोश्चोत्तरभूयस्त्वादिति । अस्यार्थः । शब्दपरविप्रतिषेधेन एङ उत्तरभागान्तरतमौ इवर्णावति सि द्धम् । यद्वा । एकारः शुद्धतालव्यः औकारस्तु शुद्धौष्ठय इति मते सिद्धमित्यर्थः । तथा च बह्वृचानां प्रातिशाख्यम् । तालव्यावेकारच विकारैकारौ यकारः शकार इति । शेष ओष्ठ्योपपाद्य इति च । पूर्वोक्तेभ्यः शेषो वर्णराशिरोष्ठाभ्यामुपपादयितव्यः । उवर्णः पवर्ग: ओ औ उपध्मानीयश्च ओष्ठ्य इति सूत्रार्थः । इदं च प्रातिशाख्यवृत्तिकृता व्याख्यातम् । तद्भाष्ये तु शेष ओष्ठयोपवाद्येति पाठः । तत्र अपवाद्यत्यस्य उत्तरसूत्रे वक्ष्यमाणान् विद्यायेत्यर्थः न्यायसिद्धस्यैव वाध्यबाधकभावस्य स्फुटीकरणार्थ चेदं सूत्रम्। तदेवं शब्दपरविप्रतिषेधान्मतभेदेन स्थानसाम्याद्वा सिद्धमिति समाधानद्वयं एङ्क्षु फलितम् । एतच्च यद्यप्यैक्ष्वपि तुल्यं तथापि तत्र समाधानान्तरमप्यस्तीत्याह । ऐचोश्चेति । चकाशे भिन्नक्रमः । हेतोरनन्तरं बोध्यः । अर्द्धमात्रा वर्णस्य । अध्यर्द्धमात्रा इवगोवर्णयोरितिपक्षे मल्लग्रामादिवद्भूयसा व्यपदेशादपि इकरोकारौ भविष्यत इत्यर्थः । समप्रविभागपक्षोप्यस्तीत्यष्टमे वद । तत्र तु पूर्वोक्तसमाधानद्वयमेव शरणम् । तत्रापि शब्दपरविप्रतिपेपरं प्रथमव्याख्यानं यद्यपि विवरणे स्थितम् । तथापि तदभ्युपगमे ऽप्रतिपत्तिमयोरित्यादिविप्रतिषेधे परमितिसूत्रे वार्त्तिकं भाष्यं च विरुध्येत । नहि गोस्त्रियोरितिसूत्रेण गोशब्दे विधीयमानो -हस्वोन्यत्र चरितार्थः । येनाप्रतिपत्तिः स्यात् ।
I
Page #57
--------------------------------------------------------------------------
________________
१ पा. २ आ.
शब्दकौस्तुभः ।
ननु प्रतिलक्ष्यं लक्षणभेदेन विकल्पे प्राप्ते परमेवेति नियमोस्त्विति चेन्न । एवं हि सति अचः परस्मिन्नितिसूत्रे नित्यः परयणादेशः परश्वासौ व्यवस्थया । युगपत्सम्भवो नास्ति बहिरङ्गेण सिध्यतीत्यादिभाष्यसन्दर्भों विरुध्येत । तद्बलेन हि लक्षणवाक्ययोः पूर्वापरीभाव एव विप्रतिषेधसूत्रस्य विषयो ऽन्यस्तु अन्तरङ्गम्बलवदित्तास्येति लभ्यते । इदं च तत्रैव स्फुटीकरिष्यामः । द्वितीयव्याख्यानमपि अकारादिवत्मातिशाख्योक्तस्य प्रायेणानादराद्दुर्बलम् | अथ छन्दोगाभिमतस्यापि चतुर्मात्रस्य तपरकरणव्यावर्त्त्यतो के स्तद्वदि हाप्यभ्युपगमस्ता ऋऌक्सूत्रोक्तरीत्या ऋकारटुकारयोः सवर्णविधिरितिवार्त्तिकमपि प्रत्याख्यातुं शक्यम् । अथ शिक्षान्तरानुसारेण वार्त्तिकारम्भस्तर्हि एचइगितिसूत्रारम्भोपि तथैवास्त्विति दिक् । तस्मादेच इगितिसूत्रबनार्दै काराकारौ न लभ्येते इति स्थितम् । ननु प्रातिशाख्योक्तावपि ताविह गृह्येते चेत्तदा किमनिष्टमापद्येत येन तयोरग्रहणं यत्नतः प्रतिपादयसीति चेत् । न । एचो ह्रस्वविधौं अन्तरतमत्वेन तयोरेव प्रसङ्गात् । एच इगिति सूत्रं तु प्रत्याख्या - तमेव । एतदर्थमेव सूत्राभ्युपगमे तु गौरवमेव दोषः । स्यादेत - त् । एत् ओत् ङ् इत्यादिक्रमेण तपरानेव निर्देक्ष्यामः । तथा च ऊकालसूत्रे अच्शब्देन तपराणामेवोपस्थितौ सत्यां तत्कालग्रहणादर्ध एकार ओकारो वा स्वसंज्ञां न लभेत तेन ह्रस्व विधिविधेयोप्यसौ नेति । मैवम् । त्रिमात्राणामप्यनच्त्वापत्तेः । ततश्च गो ३ त्रात इत्यत्र अनचिचेत्यचः परस्य विधीयमानं द्वित्वं तकारस्य न स्यात् । प्रत्यङ्ङेतिकायन उदङ्ङौपगव इति ङमुद् न स्यात् । प्लुतसंज्ञाविरहात् प्लुतविधिर्न प्रवर्त्तेत । न च ओमभ्यादानइत्यादिविधिसामर्थ्यातत्सिद्धिः ।
५७
Page #58
--------------------------------------------------------------------------
________________
५८
शब्दकौस्तुभः । [१ ० उवर्णविधानेन चरितार्थत्वापत्तोरति दिक् । तदतदाह वार्तिककारः । सन्ध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणम्, प्लुत्यादिष्वविधिः । प्लुतसंज्ञा च । अतपर एच इग्यूस्वादेशे एकादेशे दीर्घग्रहणमिति । अस्यार्थः । श्लिष्यमाणवर्णद्वयसदृशावयवत्वासंधीयमानमक्षरं सन्ध्यक्षरमित्यन्वर्था पूर्वाचार्यसिद्धा एचा सं. ज्ञा । तपर उपदिश्यतेनेनेति करणव्युत्पत्त्या प्रयोजनमुच्यते । तथा च एचा तपरत्वोच्चारणे फलमस्ति चेत्तर्हि तपरोच्चारणं तावत्कर्त्तव्यम् । प्लुतत्त्वे सत्यप्यविधित्विङमुडादिर्न सिद्धयति । तत्र प्लुतस्यैव ङमुडादिः, तस्मात्परस्य द्वित्वमिति सूचयितुमादिशब्दः । प्लुते तदुत्तरवर्णेषु चेष्टकार्य सिध्यतीत्यर्थः । अभ्युपत्येवादो ऽयम् । वस्तुतस्तु अनच्त्वात्प्लुतसंज्ञैव न सिध्यति । तस्माद्दुष्टस्तपरनिर्देश इति वार्तिकत्रयेणोक्तम् । यथान्यासपाठे त्वाह । अतपर इति । सूत्रं कर्त्तव्यं स्यादकारादिनिवृत्तये इत्यर्थः । वस्तुतस्तु उभाभ्यामपि सूत्रं कर्त्तव्यम् । उभाभ्यामपि वा न कर्त्तव्यमिति समनंतरमेवोपपादितम् । तस्मानायं दोष उद्भावनाहः पक्षद्वयसाधारण्यात् । स्यादेतत् । तपरत्वाभावपक्षे गङ्गोदकं रमेश इत्यादौ त्रिमात्रचतुर्मात्राणां स्थाने त्रिमात्रचतुर्मात्रा एवादेशाः स्युः । आन्तरतम्यात् । नचाकः सवर्ण इति सूत्रे दीर्घ इति योगं विभज्य एकः पूर्वपरयोरित्यधिकारे यो विहितः स दीर्यों भवतीति व्याख्यानान त्रिमात्राद्यादेश इति वाच्यम् । पशुं विद्धं पचंतीत्यत्र दोषप्रसंगात् । ननु अमीत्येव सूत्रमस्तु । प्रथमयोरिति सूत्रात्पूर्वसवर्णोनुवर्तते । एकः पूर्वपरयाोति च । एवं सिद्ध पूर्वग्रहणं यथाजातीयकः पूर्वः स एव यथा स्यात् दीर्घो मा भूदिति । तेन पशुमिति तावत्सिद्धम् । सम्प्रसारणाच्चेत्यत्रापि स एव पूर्वश
Page #59
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । दोनुवर्त्तते । हल इति सूत्रारंभसामर्थ्याद्वा संप्रसारणाच्चत्यनेन दी? न विधीयते । तेन विद्धमित्यपि सिद्धम् । अतो गुणइत्यत्रापि पर इत्येव सिद्ध रूपग्रहणसामाधादृशः परस्ताहश एवादेशो न तु तद्विलक्षणः । तेन पचन्तीत्यपि सिद्धम् । तस्माद्योगविभागेन एकादेशो दीपों भवतीति पक्षो निर्दोष एवे. ति चेन्न । एवं सति कृष्णार्द्धस्तवल्कार इत्याद्यासद्धिप्रसंगात् । . इह हि दीर्घवचनादकारो न । अनान्तर्यादेदोतौ न । तस्मादीर्घ इति योगविभागो दुष्ट एव । तेन गङ्गोदकं रमेश इत्यत्र त्रिमात्रचतुर्मात्रप्रसक्तिर्दुरिवेति । न च प्लुतश्च विषये स्मृत इति वाच्यम् । प्लुताप्लुतप्रसङ्गे सत्येव तदिति वक्ष्यमाणत्वात् । ननु तथापि चतुर्मात्रः कथमापद्यते तस्य लोकवेदयोरमसिद्धेरिति चेन्न । छान्दोग्ये प्रसिद्धरित्याहुः । वस्तुतस्तु लोकेप्यस्ति प्रसिद्धिः । तथा च प्लुतावच इदुताविति सूत्रे भाष्यकारो वक्ष्यति । इष्यतएव चतुर्मात्रः प्लुत इति । अत्रोच्यते । गुणसं.ज्ञायां वृद्धिसंज्ञायां च तपरनिर्देशानोक्तदोषः। तदेतदुक्तं वार्तिककृता, एकादेशे दीर्घग्रहणमिति । तस्यैव सीज्ञत्वादिति भावः । न त्वेतद्वार्तिकं दीर्घग्रहणांतरकर्त्तव्यतापरं नापि योगवि. भागपरम् । उक्तयुक्तेः । स्यादेतत् । संज्ञासूत्रे अदातोस्तपरकरणेपि एडैचोः कथं तत्कालग्राहकता । सहिवहोरोदिति सूत्रे वर्णग्रहणेन तात्पर इति पञ्चमीसमासस्यापि ज्ञापितत्वादिति चेत् । एवमपि तात्पराभ्यामेच्छब्दाभ्यामस्तु दीर्घाणामेवोपस्थितिरुपस्थितैस्तु दीर्धेः स्वसवर्णानामशेषाणां ग्रहणं दुर्वारमे.
च । नहि तेपि तात्पराः । अनुच्चारितत्वात् । ग्राहकत्वं परमनु. च्चारितानामपि प्रत्याहारैरुपस्थितानामस्त्येव । दीर्घाज्जासचे. ति ज्ञापकात् । ल्वादिभ्यः प्वादीनामित्यादिनिर्देशाच्च । तेन
Page #60
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ.. चमूवित्यादिषु षत्वादिकं सिध्यतीति वक्ष्यते । तात्परस्तत्त्कालस्येति तु उच्चारितेष्वेव स्यादिति चेत्सत्यम् । डा. मोहूस्वादिति सूत्रे ङमुडिति प्रत्याहारे कृतं टित्वं संज्ञायां व्यर्थ तत्सामर्थ्यात्संज्ञिषु डादिषु उपकरोतीति यथा स्वीकृतं तथेहापि तात्परत्त्वं संज्ञायामनुपयुज्यमानं तदुपस्थाप्येषु संज्ञिषु तत्कालावधारणं सामर्थ्यात्करोतीति न कश्चिदोषः । यद्वा । अणुदित्स्त्रे ऽशब्दसंज्ञेत्यनुवर्तते । शब्दस्य संज्ञायां विधेयायामण सवर्णान्न गृहणातीति ऊकालोजित्यत्र भाष्ये स्फुटम् । उपपादयिष्यामश्वेदं तत्रैव । अतो गुणवृद्धिसंज्ञाविधावपि न सवर्णग्रहणम् । तपरकरणं तु स्पष्टार्थम्, ईदूदेदितिवत् । अन्यथा हि किमेचावेवेह निर्दिष्टौ किं वा आकारोपीत्यादिसन्देहः स्यात्। तत्र च मालादीनांचेत्यादिज्ञापकानुसरणक्लेशः स्यादिति दिक् । युक्ततरश्चायमेव पक्षः । आद्यपक्षे हि वृद्विसंज्ञायाम् आइति दीर्घस्यानण्त्वेन सवर्णाग्राहकतया तपरकरणमैजर्थमिति स्थिते ङमुटीव सामर्थमस्तु गुणसंज्ञायां तु तपरकरणस्योभयार्थताभ्युपगमात्पूर्वत्र चरितार्थस्य क्व सामर्थ्य येनेदं संज्ञिनोरेदोतोरुपकुर्यादिति तत्र सवर्णग्रहणं स्यादेव । अस्मिन्नपि पक्षे एकादेशे दीर्घग्रहणमिति वार्तिकं दीर्घस्यैव संज्ञित्वादिति पूर्ववदेव व्याख्येयम् । स्यादेतत् । प्रथमपक्षे तादपि परस्य तत्कालग्राहकत्वाद् ऋदोरप् यवः स्तव इत्यादावेव स्यान्न तु लवः पव इत्या. दावपीति चेत् । अत्र भाष्यम् । नायं तकारः किं तर्हि असन्देहार्थः मुखसुखार्थो वा दकारोयामिति । नन्वेतद्भाष्यं तिति प्रत्ययग्रहणमित्येतद्वार्तिकप्रत्याख्यानपरेण तित्स्वरितमित्यत्रत्यभाष्येण सह विरुध्येत । तथाहि । तत्र तिति प्रत्ययग्रहणं कर्त्तव्यम् इह मा भूत् दिवउत् शुभिर क्तुभिरिति पूर्वपक्षयित्वा
Page #61
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । दिवमाश्रित्य समाहितम् । ततो भाव्यमानस्याप्युकारस्यादसोसेर्दादित्यत्रेव सवर्णग्राहकता स्यादित्याशंक्य तपरसूत्रे दकारस्यापि चर्वभूतस्य निर्देशाद्दपरोपि तत्कालग्राहक इति परिह. तम् । एवं च उदित्यादावपि दपरत्वमेव । अन्यथा स्वरितप्र. सङ्गात् । अयमेव च दपरनिर्देशो भाव्यमानस्याप्युकारस्य सबग्राहकतां ज्ञापयतीति स्थितम् । इह तु ऋदोरिति दकारनिशाल्लवः पव इत्यादौ दीर्घपीष्टं साध्यते । अत्र पाश्चः । थकारस्थानिको धकारस्थानिको वा दकारोत्र भाष्यकृतो विवक्षितः अतोन पूर्वोत्तरविरोध इति । ऋजवस्तु वार्तिकमते स्थित्वेदं भाध्यमतो न विरोध इत्याहुः । वस्तुतस्तु तपरस्तत्कालस्येत्यत्र दकारो न निर्दिश्यते प्रयोजनाभावात् । दिवउत् ऋतउदित्यादौ तु तपरत्वादेवेष्टसिद्धिः । नन्वेवं तित्त्वरितामत्यस्य प्रसङ्ग इति चेन्न । प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणमिति परिभाषया तत्समाधानात् । यत्तु तित्स्वरितमिति सूत्रे हरदत्तेनोक्तम्, तस्यास्तु प. रिभाषाया भाष्यवार्तिकयोरिहादर्शनादयं यत्नो महानस्माभिरादृत इति । तत्रेदं वक्तव्यम् । थकारस्थानिको धकारस्थानिको वा दकार इत्येवंरूपो यत्नस्तावदेओस्त्रे स्थित्वा पूर्वाचार्यैरेवोक्त इत्यत्रत्यकैयटग्रन्थएव स्फुटम् । नन्वत एवास्माभिरादृत इति ब्रूमो नतूनीत इतीति चेत् । सत्यमादृतः । तथापि परिभाषायाअदर्शनादित्यसिद्धो हेतुरङ्गस्येति सूत्रप्रत्याख्यानाय भाष्ये कण्ठरवेणैव एतत्परिभाषोपन्यासात् । निरुतं दुरुतमित्यादिसिद्धये मूत्रं कर्त्तव्यमिति स्थिते व्यर्थेयं परिभाषेत्याशय इति चेत् । तथापि थकारधकारस्थानिको दकार इत्यर्थ इति व्याख्यानक्लेशो निष्फलतया मूलखरसविरुद्धतया चादरणानहे एव । दिव उदित्यादौ तित्स्वरितमित्यस्य प्राप्तरेव वि
Page #62
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[१ अ० रहेण दकारप्रश्लेषादानजत्वात् । तथाहि । उदित्येषा उकारस्य संज्ञा तया प्रत्यायित उकारस्तु विधीयते । तथा च सं. ज्ञायास्तित्त्वेपि संझिनः किमायातम् । वस्तुतस्तु संज्ञापि तान्ता न तु तित्। तपरइति हि सूत्रितं न तु तिदिति । यदि हि संज्ञावत् संझ्यपि तान्त एव तर्हि अतो भिस ऐम् भवद्भिरित्यादावेव स्यान तु वृक्षरित्यादौ । तपरस्तत्कालस्येति सूत्रं च व्यर्थमेव स्यात्स्वं रूपं शब्दस्येत्यनेनैव गतार्थत्वात् । न च ङमुडादाविव संज्ञायां कृतं लिङ्ग संज्ञिनि लब्धुं शक्यम् । तद्वदिह सामर्थ्यविरहात् । एवञ्च तित्स्वरितमिति सूत्रे भाष्यवार्तिकग्रन्थः सर्वोप्यभ्युपेत्यवाद एव । स्थाध्वोरिच्चेति सूत्रे इच्चकस्य तकारत्वमित्यादिग्रन्थोप्येवमेव तस्मानायं तकारःकिन्तर्हि दकार इति इहत्यभाष्यग्रन्थो यथाश्रुत एव साधुरिति सहृदयैराकलनीयम् । अ. यमेव च ग्रन्थोभ्युपेत्त्यवादरूपतामुत्तरग्रन्थानां गमयति । एतेन
औत्, इटोदित्यादिष्वपि विधेयस्य तपरत्वाभावो व्याख्यातः । तित्त्वं तु दूरापास्तमिति दिक् । इह अकारादयो वर्णाः सांशाः इष्यन्ते । यदाह तस्यादित उदात्तमर्द्ध स्वं, पूर्वस्याईस्यादुत्तरस्येदुताविति । वार्तिककारोप्याह । ऐचोश्चोत्तरभूयस्त्वादिति । तत्र सन्ति के चिदंशाः स्वतन्त्रवर्णातर सदृशाः। यथा। आकारादिष्वकारस्य सदृशौ भागौ । एक्षु पूर्वभागो ऽकार उत्तर इवोवर्णयोः । ऋकारे उभयतोज्भक्तरर्द्धमात्रा मध्ये रेफस्य सदृशोर्द्धमात्राभागः लकारेप्युभयतोजभक्तिः मध्ये स्वतन्त्रलकरसदृशो भागः तत्र स्वतन्त्रतत्तद्वर्णग्रहणेन विधीयमानं कार्य तत्तत्सदृशेष्वंशेषु न प्रवर्त्तते । तत्सदृशा हीमे न तु तएव नरसिंहवज्जात्यन्तराकान्तत्वात् । गोनौग्रहणं चात्र ज्ञापकम् । यदि हि भागा अपि स्वतन्त्रवर्णप्रयुक्त कार्य प्रवर्तयेयुस्तर्हि गोव्यचोड
Page #63
--------------------------------------------------------------------------
________________
१ पा २ आ.
शब्दकौस्तुभः ।
६.३
संख्यापरिमाणाश्वादेर्यदिति नौद्व्यचष्ठन्निति च सूत्रद्वये द्व्यज्य - हणेनैव गतार्थत्वाद्गोशब्दं नौशब्दं च नोपाददीत । तेनाग्ने इन्द्र, वायो उदकमित्यत्र सवर्णदीर्घो न । न चैचोयवायाव इत्यनेन तस्य बाधोस्त्विति वाच्यम् । अयादयो हि येननामा सिन्यायेन मध्येपवादन्यायेन वा यण एव बाधकतया अग्न आयाहीत्यादौ चरितार्था अग्ने इन्द्रमित्यादौ परेण दीर्घेण बाध्येरन् । अन्तरङ्गोपि दीर्घावयवमात्रापेक्षत्वात् । तथाग्नएतीति एङः पदान्तादित्येतन्न | आलूय प्रमायेत्यत्र तुड्न मालाभिरित्यत्र ऐस्न यातेत्यादावतोलोपो न वाचा तरति वाचो निमित्तमित्यत्र द्व्यज्लक्षणौ ठन्यतौ नेति दिक् । नुविधिलादेश विनामेषु तु प्रतिविधेयम्। तथाहि द्विहल्ग्रहणमपनीय तस्मान्नुडित्येव सूत्रं कर्त्तव्यम् । नचैवमानृधतुरित्यत्रेव आटतुरित्यादावपि नुमसङ्गः अश्नोतेश्चेत्यस्य नियमार्थत्वात् । नियमश्च सामान्यापेक्षः । अकारोपधस्य यदि भवत्यश्नोतेरेव न तु अटत्यादेरिति । यदि त्वश्नातिमात्रं निवर्त्यस्यात्तार्ह नाश्न इत्येव ब्रूयात् रोल इत्यत्रः स्वतंत्र स्वतन्त्रसाधारणी जातिरनुवाद्ये विधेये च विवक्षिता । एकदेशस्य च पृथनिष्कर्षायोगात्तद्वारा ऋकारस्यैव ऌकारादेशः फलति । स्वतन्त्र वर्णवृत्तिजातेर्नायं निर्देशः किं तु अंशांशिसाधारण्या एवेत्यत्र ज्ञापकं तु लुटि च क्लपस्तासि च क्लूपः ऋदुपधाच्चाक्लृपिचृतेरिति निर्देशाः । यद्वा । कृप उः रः ल इति छेदः कृप इति लुप्तषष्ठीकं पदम् । तच्च तंत्रेणावृत्या वा योज्यम् । कृपर्यो रेफस्तस्य लः कृपेर्ऋकारस्यावयवो यो रेफः रेफसदृश इति यावत्, तस्य च लकार इति तेन चलीक्लूप्यतइत्यादि सिद्धम् । ईदृशपद विभागप्रदर्शनपर भाष्य देव कृपेरिति सूत्रपाठस्य प्रामादिकत्वं निर्णीयते । तदेवं नुविधिला
Page #64
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० देशयोः समाहितम् । विनामो नतिः, तल्लक्षणं चोक्तं प्रातिशाख्ये, नतिर्दैत्यमूर्द्धन्यभाव इति । प्रकृते तु नस्य णत्वं नतिः, तत्रे, दं प्रतिविधानम् । छन्दस्य॒दवग्रहादित्यत्र योगविभागः कायेः, ऋतः, ऋतः परस्य नस्य णः स्यात् । गृणाति वृणोतीत्यादि । ततः छन्दस्पवग्रहात् । ऋत इत्येव, पितृयाणं घुमदित्यादि । नन्वेवमपि तपरकरणात् पितृणामित्यादौ णत्वं न स्यादिति चेत् । एवं तर्हि लत्वविधाविवेहापि रषाभ्यामिति रेफतत्सदृशभागसाधारणी जातिनिर्दिश्यते क्षुनादिषु तृमोतिशब्दपाठाज ज्ञापकात् । न च परयाज्भक्तया व्यवधानं, व्यवायपीति विभज्य सामान्येन व्यवायेपि णत्वविधानात् । न चैवं कृतनेत्यादावतिप्रसङ्गः । अदकुप्वानुम् - भिरिति नियमात् । आक्षरसमाम्नायिकैस्तत्प्रत्यायितैर्वा व्यवाये यदि भवति तर्खेतैरेवोत नियमसूत्रस्यार्थः । यद्वा तृमोतिशब्दपाठन होतृपोतप्रशास्तृणामित्यादिनिर्देशेन च ऋवर्णानस्य णत्वमेव ज्ञाप्यते लाघवात् । एवं हि व्यवायेपीति योगविभागोपि न कर्त्तव्यो भवतीति । भाष्ये तु वर्णैकदेशा वर्णग्रहणेन न गृह्यन्ते इति द्वितीयोपि पक्षः समर्थितः । स तु बहुप्रतिविधयत्वेन गौरवभयान्नेह प्रपञ्च्यते । ननु यदि वर्णैकदेशा वर्णग्रहणेन न गृह्यन्ते तार्ह कुक्कुटः पिप्पली पित्तमित्यादौ संयोगसंज्ञा न स्यात् । अखंडस्य मात्राकालस्य क्व्प्प्त् इत्यस्य एकहलत्वात् । तदवयवयोश्च हल्ग्रहणेनाग्रहणात् । नन्वखडस्यानुपदेशात् कथं हल्त्वमिति चेत् मा भूत्तर्हित दपि । अवयवानां इल्त्वं तु कुतः सँय्यबा संवत्सरः यल्लोकंमित्यादौ तु एकव
नामपि हल्त्वं भविष्यति । अणूसूपदिर्ग्रहणात् । तदवयवयोस्तु हल्त्वं न स्यादेव । ततश्च संयोगसंज्ञाविरहे ततः पूर्वस्य
Page #65
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः।
६५ गुरुत्वाभावे प्लुतो न स्यादिति । अत्राहुः । व्यञ्जनमर्धमात्रमेव । आशूच्चारणात्तु तुल्यरूपयोर्द्वयोरेकत्वभूमः । इदं च शिष्टसमाचारात् प्रक्रियादशायामवश्यं स्वीकार्यम् । परमार्थदशायां तु,पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चनेति वाक्यपदीयोक्तरीत्या स्फोटं सिद्धान्तयतां क्वास्य पूर्वपक्षस्यावसरः ॥
हयवरट् ॥ हकारोयं द्विरुपदिश्यते। यदि तु परत्रैवोपदिश्येत अडशहइण्ग्रहणेषु न गृह्येताततश्च अhणेत्यत्राव्यवायेपीति णत्वं न स्यात् । महान् हीति स्थिते महाँहीति न स्यात् । अत्र हि दीर्घादटि समानपादइति रुः । आतोटिनित्यमित्यनुनासिकः । भोभगोअघोअपूर्वस्येति यत्वम् । हलिसर्वेषामिति यलोपः । तत्राप्यशीत्यनुवर्ततइति वक्ष्यते । ब्राह्मणो हसतीत्यत्र हशि चेत्युत्त्वं न स्यात् । तथा लिलिहि। लिलिहिध्वइत्यत्र विभाषेट इति मूर्द्धन्यविकल्पो न स्यात् । तत्र हि इणः पीध्वमितिसूत्रादिण इत्यनुवर्तते । तदेवमटि अशि हशि इणि चेति चतुर्पु ग्रहणं प्रथमोपदेशस्य फलमिति स्थितम् । यदि तु परत्र नोपदिश्येत । वल्रल्झल्शल्ग्रहणेषु न गृह्येत । ततश्च रुदिहि स्वपिहीत्यत्र रुदादिभ्यः सार्वधातुकइति वलादित्वप्रयुक्त इण्न स्यात् । णिह प्रीतौ । स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिपतीत्यत्र रलोव्युपधादिति कित्वं न स्यात् । अदाग्धां अदाग्धमित्यत्र घत्वस्यासिद्धत्वाद्धकारादझलः परः सिजिति झलोझलीति न प्रवर्तेत । अधुक्षत् अलिक्षदित्यत्र शल इगुपधादनिट इति क्सो न स्यात् । तस्मात्प्रत्याहाराणां चतुष्टये प्रथमोपदेशस्य चतुष्टये च द्वितीयोपदेशस्य फलमस्तीतिं स्थितम् । स्यादेतत् । रेफस्य यकार्याणि प्राप्नुवन्ति । तद्यथा मद्रहदो भद्रहूद इत्यत्र अचः प
Page #66
--------------------------------------------------------------------------
________________
६६
शब्दकौस्तुभः ।
[१ अ० राद्धकारात् परस्य यर इति विधीयमानं द्वित्वं नास्तीत्यादौ यकारस्येव प्राप्नोति । न च रोरीति लोपः सुकरः। लोपं प्रति द्वित्वस्यासिद्धेः । हलो यमामिति लोपस्तु वैकल्पिक इति वक्ष्यमाणत्वात् । पक्षे रेफद्वयं श्रूयेत । न च व्यञ्जनपरस्यैकस्यानेकस्य वा उच्चारणे विशेषो नास्तीत्यसिद्धवत्सूत्रे भाष्यकृता वक्ष्यमाणत्वान्नायं दोष इति वाच्यम् । सूक्ष्मत्वाहुर्लक्ष्यो विशेष इति तदर्थात् । ननु सर्वथा विशेषविरहो ऽभिप्रेतः । शरोचि हलो यमामित्यादिशास्त्रवैयापत्तेः । तथा चतुर्मुख इत्यादौ यरोनुनासिकेनुनासिको वेति पक्षे णकारः प्रवर्तेत । स्थानसाम्यात् । कुण्डं रथेनेत्यादौ वा पदान्तस्येति पक्षे रेफः प्रवर्तेत । रेफोष्मणां सवर्णा न सन्तीत्येत,द्विजातीयः सवर्णो नास्तीत्येवंपरम् । स्वस्य स्वयं सवर्णो भवत्येव । तुल्यास्यप्रयत्नत्वात् । रोरीति लोपस्तु नास्ति । तं प्रति परसवर्णस्यासिद्धत्वात् । अथ द्वित्वानुनासिकपरसवर्णनिवृत्तये यवाभ्यां पूर्वत्र रेफोनुकृष्येत । हरयवडिति । तर्हि रलो व्युपधादित्येतद्वकारान्तष्वपि प्रवर्तत । ततश्च देवित्या दिदेविषतीत्यत्र पक्षे गुणो निषिध्येत । नन्वव्युपधादिति छित्वा अवकारांताद् व्युपधादिति व्याख्यास्यतइति चेत् । एवमपि गौधेरः पचेरन्नित्यादौ लोपो व्योरिति न प्रवर्तेत। रेफस्य वल्यनन्तर्भावात् । रलीति वक्ष्यामीति चेत् । हयगतौ, हय्यादित्यादौ यकारोतिप्रसङ्गः । ननु यथाश्रुतएव सूत्रे वलीति सरेफ पदं छित्वा रेफे बलि चेति व्याख्यानानोक्तदोष इति चेत् । एवमपीकोरणचि संयोगादेरातोधातोरण्वतः उदात्तरणो हल्पूर्वादिग्रणः सम्प्रसारणमित्यादिक्रमेण यण्ग्रहणानि सर्वाणि रेफेण ग्राह्याणि स्युः । न चैतावतापीष्टनिर्वाहः। इकोरणित्यत्र संख्यातानुदेशेनेकारस्य रेफः उकारस्य यकारः ऋका
Page #67
--------------------------------------------------------------------------
________________
६७
१ पा. २' आ. शब्दकौस्तुभः । रस्य वकार इति बहूपप्लवप्रसङ्गात् । ननु यथाश्रुतपि यथासंख्येन निर्वाहो दुरुपपादः । तथाहि । विर्धायमानतया यवला: सवर्णान्न गृह्णन्तीति चत्वारस्तावद् यणः । गुणानामभेदकतयानुनासिकसंग्रहेपि पृथग्गणनाविरहात् । इकस्तु सवर्णग्रहणात् षट्षष्टिः । न च षट्पष्टरुपस्थापकानामिक्शब्दवाच्यानामिकारादीनां चतुष्ट्वमस्त्येवेति वाच्यम् । तृतीयचतुर्थाभ्यामृकाराभ्यां प्रत्येकं तस्या एवं त्रिंशत उपस्थितौ सत्याम्लकारे रेफादेशस्य ऋकारे च लकारादेशस्य दुर्वारत्वात् । तस्मात्स्थानेन्तरतम इत्यनेनैव प्रकृते निर्वाहः। यथासंख्यमूत्रं तु नन्दिग्रहिपचादिभ्यइत्यादिषूपयोक्ष्यतइत्येव निष्कर्षः।तथाचेकोरणितिन्यासेपि तेनैव निर्वाहोस्त्विति चेन। वैषम्यात् । यथाश्रुते ह्यविरोधात्परिभाषाद्वयमपीकोयणित्यत्र प्रवर्तते । इको यथासंख्यमन्तरतमो यण् स्यादिति । रणिति न्यासे तु परिभाषयोर्विरोधात परत्वेन यथासंख्यमेव प्रवर्तेत । तस्मादनुचितो रेफस्य स्वस्थानादपकर्षः, यथाश्रुते तु द्वित्वादिदोषत्रयं दुर्वारमिति । अत्रोच्यते । रेफस्याविशेषतः श्रुतेन द्वित्त्वं प्रति निमित्तत्वेन सामान्यतः श्रुतं कार्यित्वं बाध्यते । यथा ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिवेविष्टामिति विशेषतः श्रुतेन परिवेषणेन माठरकौण्डिन्ययोः सामान्यतः प्राप्तं भोजनं बाध्यते तद्वत् । यद्यपीह लक्ष्य व्यक्तिभेदेनोभयं सम्भवति तथापि सत्यपि सम्भवे सामान्यतः प्राप्तं विशेषप्राप्तेन बाध्यतइत्यभ्युपगमान्न दोषः । एवं चाचोरहाभ्यामिति सूत्रे यर इति रेफभिन्नपरमेवेति स्थिते अनचिचेत्यत्रापि तथैव । अर्थाधिकाराश्रयणात् । तेन हयनुभव इत्यादावपि रेफस्य न द्वित्वम् । नन्वेवं दध्युदकादौ यण् न स्यात् । विशेषतः श्रुतेन स्थानित्त्वेनेकां निमित्तत्वस्य बाधादिति चेन्न ।
Page #68
--------------------------------------------------------------------------
________________
६८
शब्दकौस्तुभः ।
[ १ अ०
तत्र लक्ष्यानुरोधेन व्यक्तिपक्षाश्रयणात् व्यक्तिपक्षे हि प्रतिलक्ष्यमसलक्षणं प्रवर्त्तते । यद्वा । प्रतिलक्ष्यं भिन्नानां सर्वेषां लक्षणानां तंत्रेणोच्चारणभिकोयणचीति । ततश्चेकामपि तात्पर्यतो निमित्तत्वप्रतिपादनाददोषः । नचैवं श्रीश इत्यादावपि यण् प्रसंग: । व्यक्तिपक्षे विप्रतिषेधे परमेवेति नियमबलेन तद्वयक्तिविषयकशास्त्रस्यैव विरहकल्पनात् । एवमपवादविषयेपि सुश्रियावत्यादौ बोध्यम् । परिहृत्यापवादविषयं तत उत्सर्गोभिनिविशतइति न्यायात् । जातिव्यक्तिपक्षौ च लक्ष्यानुरोधाद्वयवस्था ssश्रीयेते इति पस्पशायामेवोक्तम् । तस्मादित्युत्तरस्य पत्युत्तरपदाण्ण्य इत्यादिनिर्देशाचेह लिङ्गम् । भाष्ये तु नेमी रहौ कार्यिणौ द्विर्वचनस्य किं तर्हि निमित्तमिमावित्युक्तम् । तत्र हकारग्रहणं दृष्टान्तार्थं तस्य यर्वहिर्भूततया यथा न द्वित्वे कार्यिता तथा यरन्तर्भूतस्यापि रेफस्येति । एवमनुनासिकपरसवविधी अपि स्थानेन्तरतमपरिभाषासंस्कृतौ स्थानप्रयत्नोभयान्तरतमे एतन्मुरारिस्त्वङ्करोषीत्यादौ क्वचिल्लब्धावकाशौ अनंतरतमे प्रागुक्ते न प्रवर्त्तेते जातिपक्षाश्रयणादेवेति संक्षेपः । अत्र वार्तिकम् । अयोगवाहानामसु णत्वं शर्पु जम्भावषत्वे । अविशेषेण संयोगोपध संज्ञालोंत्यविधिद्विर्वचनंस्थानिवत्वनिषे धा इति । अस्यार्थः । अविद्यमानो योगः प्रत्याहारेषु सम्बन्धो येषां ते ऽयोगाः अनुपदिष्टत्वादुपदिष्टैरगृहीतत्वाच्च प्रत्याहार - सम्बन्धशून्या इत्यर्थः । वाहयति निर्वाहयन्ति प्रयोगमिति वाहाः । अयोगाश्च ते वाहा श्वेति कर्मधारयः । अनुपदिष्टत्वे उपदिष्टैरगृहीतत्वे च सति श्रूयमाणा इत्यर्थः । ते च विसर्जनीयजिव्हामूलीयोपध्मानीयानुस्वारयमा इति भाष्यम् । एतच्च ऋति ऋवा लृति ऌ वेति विहितयोरीषत्स्पृष्टयोरप्युपलक्षणम् । तथा च तु
1
Page #69
--------------------------------------------------------------------------
________________
१ पा. २ आ.
शब्दकौस्तुमः ।
६९
ल्यास्यसूत्रे भाष्यम् । तयोरस्त्वं वक्ष्यामीति । तत्फलं तु तत्रैव स्पष्टम् । तत्रं यमानां लक्षणमनुनासिकसंज्ञासूत्रे प्रपंचयिष्यामः । एषामट्सूपदेशः कर्त्तव्यः णत्वं फलम् । उरः केण उरः पेण उर केण उर-पेण अव्यवायइति णत्वं विसर्जनीयजिव्हामूलीयोपध्मानीयैर्व्यवायेपि सिध्यति । नायमज्ञाताद्यर्थे कः । सोपदादाविति सत्वप्रसङ्गात् । किं तु उरः कायति उरः पातीति विग्रहः । कै शब्दे | पा रक्षणे । आभ्यामातोनुपसर्गे कः । कुवो क- पौ चेति चकारात् पाक्षिको विसर्गः । न चैवमपि गतिकारकोपपदानां प्राक्सुबुत्पत्तेः समासाभ्युपगमात् सोपदादाविति प्रवर्त्तेतेति वाच्यम् । तस्य दधिसेचौ धनक्रीतेत्यादिसिद्ध्यर्थमनित्यताया वक्ष्यमाणत्वात् पाशकल्पेत्यादिपरिगणनाच्च । प्रोम्भणम्, अकुप्वाङितिसूत्रे नुम्ग्रहणं न कर्त्तव्यं भवति । अत्रेदमवधेयम् । अस क्रियमाण उपदेशो ऽकारानन्तरमिकारात् प्राक्कर्त्तव्यः । तेनेण्सु अनन्तर्भावात्पयःसुयशः स्त्रित्यादौ इण् कोरित्यधिकृत्य विधीयमानमादेशप्रत्यययोरिति षत्वं न भवति । अक्षु चान्तर्भावात्संस्कर्ते त्यत्रानुस्वारादचः परत्वमाश्रित्य सकारस्य द्वित्वं कैटेनाष्टमे वक्ष्यमाणं संगच्छते । न चैवं हरिः करोतीत्यादाविको यणचीति यण्प्रसङ्गः । विसर्गस्यासिद्धत्वात् । एवं हरिं पश्यतीत्यादावनुस्वारस्यासिद्धत्वं बोध्यम् । शर्ष चोपदेशः कर्त्तव्यः । जश्भावस्तावत्प्रयोजनम् । तथाहि । वार्त्तिकमते उब्ज आर्जवइति धातुरूपध्मानीयोपधः पठ्यते । तत्र झलां जश्झशीति जश्भावे आन्तरतम्याइकारादेशः । उब्जिता उब्जितुं । शषूपदेशाद्धि नांतरीयकत्वादेव झल्त्वमप्यायाति । भाष्यकारस्तु नैतन्मेने । तथाहि । उपध्मानीयोपथत्वपक्षे उब्जिजिषतीति न सिध्यति । अभ्या
Page #70
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[१ अ० से बकारमात्रश्रवणप्रसङ्गात् । हलादिःशेषेण जकारस्य निवतेः । यदि तु पूर्वत्रासिद्धमद्विवचन इत्युक्तेः सबकारस्य द्वित्वं तदा स्पष्ट एव बकारस्य शेषः । अथ उभौ साभ्यासस्येत्यनेनानित्यताज्ञापनाद् द्विवचनेप्यसिद्धत्वमाश्रीयते । औजिढदित्यत्र यथा । तथाप्यभ्यासे उपध्मानीयस्य शेषे अभ्यासे चर्चेति जश्त्वेन बकार एव श्रूयेत । इष्यते त्वभ्यासे जकार इति प्राञ्चः । वस्तुतस्तु द्वितीयपक्षे उपध्मानीयमात्रमभ्यासे झूयेत तच्चोचारयितुमप्यशक्यम् । जगत्वं तु दुर्लभम् । प्रकृतिचरां प्रकृतिचर इत्यष्टमे सिद्धांतयिष्यमाणत्वात् । उपध्मानीये ऽच्त्वस्यापि सत्वेन तावन्मात्रद्वित्वापत्याभ्यासे इकारदौलैंभ्याच्च । किं च । अत्र पक्षे अस्मात् घधि कृते उपध्मानीयस्य जश्त्वे अभ्युजाः समुब्जा इति स्यात् । इष्यते त्वभ्युद्गः समुद्र इति । नन्वत एव कुप्वोरित्यधिकारे सोपदादाविति सूत्रे उपध्मानीयस्य चेति वात्तिकेन. कवर्गे परत उपध्मानीयस्य सकारो विधीयते ततो जश्त्वेन दत्वं विधीयते इति चेत्सत्यम् । उपध्मानीयस्य चेति वार्तिकारंभ एव तु गौरवाई इति ब्रूमः । बकारोपधोयमितिवृत्तिकारमते. तु बकारस्य द्वित्त्वनिषेधः समुद् इत्यादौ दकारादेशश्चेत्युभयमपि वचनेनैव साधनीयं स्यात् । तस्माकारोपध एवायमभ्युद्गः समुद्ग इति यथा स्यात् । कथं तार्ह उब्जिता उब्जितामित्यादि सिध्यतीति चेत् । शृणु । भुजम्युन्जौ पाण्युपतापयोरित्यस्मिन्कुवाभावनिपातनार्थे सूत्रे बकारोच्चारणेनानुमीयते। उब्जेरकुत्वविषये दकारस्य भकारविधायकं बकारविधायकं वा वचनमस्तीति तच्चानुमीयमानं वचनं भउद्जेरिति वा । बउदजेरिति वा उभयथापि स्तोश्चुना श्चुरित्यस्यानन्तरं कल्यते । उद्ज:
Page #71
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । स्तोर्दकारस्येति यावत् । श्चुना योगे भकारो बकारो वा भवतीति सूत्रार्थः । उद्जेरिति किम् । तज्जः । श्चुनेति किम् । अभ्युद्गः समुद्गः इह हिचजोः कुपिण्ण्यतोरिति कुत्वे कृते चुना योयो नास्ति, स्तोः श्चुनोति पदद्वयोपजीवनाथ चोक्तस्थलएव कल्पनं युक्तम् । अन्यथा बहुतरकल्पने मौरवं स्यात् । एवमुब्जिजिषतीत्यपि सिद्धम् । नन्द्रा इति दकारस्य द्वित्वनिषेधात् । न च परत्वाद्भत्वबत्वे । पूर्वत्रासिद्धे नास्ति विप्रतिषेधो ऽभावादु. त्तरस्येति वक्ष्यमाणत्वात् । अन्तरङ्गत्वाद्भत्वबत्वे इत्यपि न । असिद्धत्वादेव । न च पूर्वत्रासिद्धीयमाद्विर्वचने इत्यसिद्धत्वमः त्तिषेधः शक्यः । द्वित्वे कर्तव्ये सति हि स निषेधः । न तु द्वित्वनिषेधेपि । इह तु नन्द्रा इति सूत्रेण द्वित्वनिषेधे कर्चव्ये निर्बाधमेवासिद्धत्वामति दिक् । अथवा मास्तु वाक्यशेषानुमानं भुजन्युजाविति निपातनादेव बकारो स्तु । नचैवमसिद्धताविरहाद्वकारस्यैव द्वित्त्वं स्यादिति बाच्यम् । दकारोपधनिर्देशसम्माज्जिशब्दस्य द्वित्वे कृते ततो दकारस्य बकारमवृत्तेः । न चास्मिन्पक्षे ऽभ्युद्ग इत्यादावपि बकारप्रसङ्गः । अकुत्वविषये एव बकारो निपात्यतइत्यभ्युपगमात् । नन्वेवं कुत्वविषये चरितार्थत्वात्कथं दकारोपदेशस्य सामर्थ्यमुक्तम् । येन द्वित्वानन्तरमेव बकारः प्रवर्तेतति चेत् । अनभिधानादतो घनादि मास्तु निपातनं चैवमविशेषेणास्तु । अभ्युद्गः समुद्ग इत्येतनोब्जे रूपम् । किं तु उपसर्गद्वयपूर्वकाद्गमेरन्येष्वपि दृश्यतइति डप्रत्ययः । व्युत्पत्तिमात्रं चेदम् । रूढिशब्दत्वात् । समुद्गकः सम्पुटक इत्यमरः। तदेवमयोगवाहानां शपदेशस्य जश्त्वाभावरूपं प्रयोजनं वार्तिकमते ऽस्ति । भाष्यकारमते तु नास्तीति स्थितम् । तथा षत्वमपि प्रयोजनं सार्पःषु धनुषु । नुविसर्जनी
Page #72
--------------------------------------------------------------------------
________________
७२
शब्दकौस्तुभः । । १ अ० यशर्व्यवायेपीति सूत्रे विसर्जनीयग्रहणं न कर्तव्यं भवति । शर्यवायइत्येव सिद्धत्वात् । नुम्ग्रहणं तूभयथापि कर्त्तव्यमेव नुम्स्थानिकेनैवानुस्वारेण व्यवधाने यथा स्यात् । इह मा भूत् । पुंस्विति । नुम्ग्रहणं हि स्वस्थानिकस्यानुस्वारस्य लक्षकम् । अन्यथा ऽसम्भवात् । नहि इण्कवर्गाभ्यामुत्तरः सकारो नुमा व्यवहितः षत्वविधौ सम्भवति । अनुस्वारे षत्वस्यासिद्धत्वादित्याहुः । अस्तु वा स्थानिवद्भावेन नुम्त्वम् । तथापि स्वाश्रयस्यानुस्वारत्वस्यापि सत्वात् शर्वेनैव सिद्ध नियमार्थता युक्ता । नियमश्च सजातीयापेक्ष इत्यनुस्वारेण व्यवाये चेद्भवति तर्हि नुमैव न त्वन्येनेति फलितम् । वस्तुतस्त्वतिदेशं प्रति अनुस्वारस्यासिद्धत्वादतिदेश एव दुर्लभः सुहिन्स्वित्यादौ विधायकत्वसम्भवे नियामकत्वानुपपत्तिश्च । तथापि लक्ष्यानुरोधाल्लक्षणेत्येव शरणम् । यथाकुप्वाइसत्रे । तत्र प्रेन्वनादौ णत्वं मा भूत् प्रोम्भणादौ च स्यादित्येवमर्थ लक्षणेति चेत् । इहापि सु. हिन्सु पुस्वित्यादौ मा भूदिति तुल्यम् । णत्वविधावनुस्वारमात्रे लक्षणा पत्वे तु नुम्स्थानिकएवेत्यन्यदेतत् । अस्मिश्च पक्षे शप्रूपदेशेपि झल्त्वमिव हल्त्वयर्वे अपि नान्तरीयकत्वादेव सिद्धे। तत्फलं तूत्तरवाातकव्याख्यानात्समनन्तरमेव स्फुटीभविष्यति । तथा खर्वमपि । तेन कुप्वो कः पौचेति सूत्रान्तर्गतो विसर्गः सिद्धः । एवं च सौत्रनिर्देशनवोक्तवार्तिकस्यार्थो ज्ञाप्यतइति बोध्यम् । अनेन सौत्रं विसर्गग्रहणमेवोपष्टभ्य शर्तेपदेशं प्रत्याचक्षाणा यथाश्रुतमसपदेशपरं वृत्तिग्रन्थं व्याचक्षाणाः परास्ताः । अमुपदेशेनाल्त्वान्त्वयोलाभेपि हल्त्वयालाभात् । तत्फलस्य च वक्ष्यमाणत्वात् । न चाट्स्वेव यकारोत्तरमुपदेशात्तल्लाभ इति वाच्यम् । तथा सति पयःस्पित्यादाविणः परत्वेन षत्वा
Page #73
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । पत्तेः । अच्त्वासिद्धया समासुटीत्यत्रत्यकैयटादिग्रन्थावरोधापत्तेश्चेति दिक् । अविशेषेणेत्यादि वार्तिकस्यायमर्थः । यत्र यत्र प्रदेशे प्रयोजनं दृश्यते तत्र तत्रोपदेशः कर्तव्यः प्रयोजनानि तु संयोगसंज्ञादीनि पञ्चेति । तथाहि । वातिकमते उब्जेरुपध्मानीयोपधतया उपध्मानीयस्य हल्संज्ञा विना संयोगसंज्ञा न सिद्धयति जश्त्वं त्वसिद्धं ततश्च संयोगे गुर्विति गुरुसंज्ञाया अपि विरहादुब्जक इत्यत्र गुरोरनृत इति प्लुतो न स्यात् । तस्मात्प्लुतगुरुसंज्ञासंयोगसंज्ञाहल्संज्ञानामुसरोत्तरसापेक्षतया प्लुतसिद्धयर्थ हल्संज्ञा एषितव्या । तदेतदभिप्रेत्यो. तं संयोगसंज्ञा प्रयोजनमिति । तथोपधासंज्ञापि प्रयोजनम् । निकृतं दुष्कृतमिदुदुपधस्य चेति षत्वं यथा स्यात् । भाष्यकारस्त्वाह । इदुदुपधस्थानिको यो विसर्ग इति व्याख्यानाम्मेदं प्र. योजनम् । उपधाग्रहणप्रत्याख्यानाद्वा । इदुद्भया परस्य विसस्थेत्येवेष्टसिद्धिरिति । अलोन्त्यविधिश्च प्रयोजनम् । वृक्षस्तरति विसर्जनीयान्तस्य पदस्य स इति पक्षे अन्त्यस्य सत्वं यथा स्यात् । पदस्य यो विसर्जनीय इति व्याख्यानानिर्दिश्यमानस्येति परिभाषया वा सिद्धत्वादिदमपि न प्रयोजनम् । द्विवचनं च प्रयोजनम् । उरः कः उरः पः,अनचि चेत्यच उत्तरस्य यरो विधीयमानं द्वित्वं सिद्धं भवति । तथा स्थानिवद्भावप्रतिषेधोपि प्रयोजनम् । यथा उर केणत्यादौ अव्यवायेति णत्वं सिद्धं भवति । एवं व्यूढोरस्केनेत्यादावपि प्राप्नोति स्थानिवद्भावासकारस्य तत्रानल्विधाविति प्रतिषेधो ऽल्त्वे सति सिध्यति । न च पूर्वत्रासिद्धे न स्थानिवदिति निषेधोस्त्विति वाच्यम् । न पदान्तसूत्रशेषभूतस्य तस्याचः परस्मिन्नित्येतद्विषयकत्वात् । स्थानिवद्भाव प्रति त्रिपादीस्थस्यासिद्धतया न्यायसिद्धं तदिति
Page #74
--------------------------------------------------------------------------
________________
७४ शब्दकौस्तुभः ।
[१ अ० पक्षे तु नेदं प्रयोजनम् । उरकेणेति णत्वं संस्कर्तेत्यत्र सकारस्य द्वित्त्वं चाधिकं प्रयोजनं बोध्यमिति दिक् । यद्यपि सर्वमिदमदशरोरुपदेशेन सिद्धयत्येव तथापि वार्तिकाक्षररचनाया द्वेधापि सम्भव इति भावः ॥
लण् । अत्राकारोनुनासिकः प्रतिज्ञायते । न तु हकारादिविवोच्चारणार्थः । तेनोरण रपर इत्यत्र रप्रत्याहारग्रहणं भवति । प्रत्याहारग्रहणे ज्ञापकस्तु ऋकारलकारयोः सवर्णविधिरिति वार्तिकनिर्देशः । ननु अइउणित्यत्रानुबद्धो णकारः स एवेहानुबध्यते तेनाण्ग्रहणेष्विण्ग्रहणेषु च पूर्वेण परेण वेति सन्देहः प्राप्नोति । तस्मादसन्देहायेहानुबन्धान्तरमेव कुतो न कृतमिति चेत् । न । व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति परिभाषां ज्ञापयितुमनुबद्धस्यैव पुनरनुबन्धात् । ___ अमङणनम् । झभञ् । अत्र मकारानुबन्धो भाष्ये प्रत्याख्यातः। स हि प्रत्याहारत्रये उपयुज्यते । अम् यम् ङमिति तच्च प्रयं अकारेणैव निर्वहति । तथाहि । पुमः खय्यञ्परे इत्येवास्तु । न च झकारभकारपरः खयस्ति येनातिप्रसङ्गः स्यात् । तथा हलो या यषि लोप इत्येव पाठ्यम् । न च झकारभकारौ झकारभकारपरौ स्तः। हल उत्तरयोस्तयोः सम्भवे तु झरोझरीति लोपेन भाव्यमेव । तथा ङबोइस्वादचि ङझुण्नित्यमिति पाठ्यम् । न च झकारभकारी पदान्तौ स्तः । उज्झेलभेश्व क्विपि तौ स्त एवेति चेन्न । उज्झेोपधतया संयोगान्तलापेसत्युदिति रूपाभ्युपगमात् । लभेस्तु जश्त्वविधानात् । नन्वेवमप्यागमिनस्त्रयो ङणनेभ्यः परे अच आगमास्तु पञ्चेति संख्यातानुदेशो न स्यादिति चेन्न । यथासंख्यामित्यत्र हि विध्यर्थप्रमितिवेलायां निदिश्यमानगतसंख्यासाम्यमाश्रीयते । न तु लक्ष्यसंस्कारवेला
Page #75
--------------------------------------------------------------------------
________________
१ पा. २ आ.
शब्द कौस्तुभः ।
७५
यो प्रयोगगतम् । तस्मान्मास्तु मकारोनुबन्ध इति स्थितम् ।
घढधष्।। जबगडदश् ।। खफछ्ठथचटतव् । कपय् । शषसर् ॥ हल् || इति माहेश्वराण्यक्षरसमाम्नायसूत्राणि । अत्रायं संग्रहः । एकस्मान्ङञणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः । ज्ञेयौ चौ चतुर्भ्यो रः पञ्चभ्यः शलौ शभ्य इति । अस्यार्थः । उञणवटा एकस्मात्परे ग्राह्याः स्युः । तथाहि । ङकार एकारादेव परो ग्राह्यः । एङि पररूपमिति यथा । ननुषिद्विदादिभ्योङ् अस्यतिवक्तिख्यातिभ्योङित्यकारेण ग्रहणमस्त्विति चेन । आदिरन्त्येनेत्यत्राणुदित्सवर्णस्य चेत्यतोऽप्रत्यय इत्यनुवृत्तेः । अत एव रोः सुपीति न प्रत्याहारग्रहणम् । सुपि चे - त्यत्र तु अप्रत्यय इति प्रतिषेधो नास्ति । यञादाविति विशेषणात् । उत्तरत्र च बहुवचने झलीति विशेषणात् । सुप्तिङन्तं पदमित्यत्र तिउसाहचर्याच्छास इदहलोरित्यत्र तु अङ्ग्रहणसामर्थ्यादपि प्रत्याहारग्रहणं न भवति । अङादौ हलादौ चेति हि व्याख्याने अङ्हलोरिति व्यर्थमेवे स्यात् । द्विविधा एव हि कूङितः प्रत्यया अङादयो हलादयश्च । व्यतिशासै इत्यत्र तु क्ङित्वमेव नास्ति । अटा सहेकादेशस्य स्थानिवद्भावेनाङादि-त्वाच्च । ऋदृशोङीत्यपि न प्रत्याहारः । ऋकारान्तेषु ऋच्छत्यतामिति गुणविधानाज्ज्ञापकात् । सनि च इङवेति न प्रत्याहारः । इको झलिति कित्त्वविधानात् । अज्झनगमां सनीति दीर्घविधानाच्च । इङन्तानां सनि गम्यादेशे हि सति उदात्तसूत्रद्वयं निविषयं स्यात् । परिमाणाख्यायां सर्वेभ्यः इङवेत्यपि न प्रत्याहारः । वैयर्थ्यप्रसङ्गात् । तथाहि । इकारान्तेभ्य एरचा भा व्यम् । उकारान्तेभ्य ऋदोरवित्यपा । लृकारान्तास्सन्त्येव न । एजन्तानामप्यनैमित्तिकेनात्वेम प्रत्ययोत्पत्तेः प्रागेव भाव्यम् ।
Page #76
--------------------------------------------------------------------------
________________
७६
शब्द कौस्तुभः ।
१ अ०
1
अतः प्रत्ययोत्पत्तिवेलायामेजन्ता न सन्त्येव । ऋदन्ताः परमवशिष्यन्ते । तत्रोरित्येव लाघवाद् ब्रूयात् । वस्तुतस्तु सामान्यलक्षणेनैव ऋदन्तेषु घञः सिद्धत्वात्सूत्रमेवेदं न कुर्यात् । अथोच्येत । इङश्चेत्यारंभसामर्थ्यादिवर्णोवर्णान्तेष्वेवाजन्भ्यां सह वैकल्पिको घन् समाविशत्विति । तदपि न । एवं हि सति अजपाविधावेव वाग्रहणं कुर्यात् । क्रीड्जीनां णाविति न प्रत्याहारः । क्रीज्योः पृथग्ग्रहणवैयर्थ्यापत्तेः । न चेकारान्तानां मध्ये एतयोरेवोत नियमार्थ पृथग्ग्रहणमिति वाच्यम् । एवं हीक इत्ये ब्रूयात् । ङन्तानां सामान्यलक्षणेनैवात्वस्य सिद्धत्वात् । इङ्घार्योरित्यपि न प्रत्याहारः । धारिणा साहचर्यात् । तस्मात्सिद्धं ङकार एकस्मादेवेति । तथा यकारोप्येकस्मादेव । अतो दीर्घो यनीति । तथा अइउणित्येष णकारोप्येकस्मादेव । अणिति यथा । अथेणः षीध्वमित्यादाविण्प्रत्याहारोप्यनेन कुतो नेति चेन्न । अचि नुधातुभ्रुवां य्वोरित्यत्रेकारोकारयोः स्वरूपेण निर्देशात् । अन्यथा हि संहितायां मात्रालाघवात्पदच्छेदेप्यर्द्धमात्रालाघवादिण इत्येव ब्रूयात् । व्याख्यानाच्च पूर्वेण न तु परेण ग्रहीष्यते । व्याख्यानं च सिद्धान्तेपि शरणम् । खोरित्यपि हि निर्देशे किं ह्रस्वयोर्ग्रहणमुत दीर्घयोरुत यकारवकारयो-: रिति सन्देहः स्यादेव । एवं चैच इग्घूस्वादेश इति सूत्रे इणित्येव प्रतिपत्तिलाघवार्थं वक्तव्ये इग्ग्रहणमपीह लिङ्गम् । इण्ग्रहे हि तत्र यथासंख्यप्राप्तिरेव नेति न तत्परिहाराय यतितव्यमिति दिक् । एवं वकारोप्येकस्मादेव । नश्छव्यप्रशानिति । एचोयवायाव इति सूत्रे अविति न प्रत्याहारः । अयादिसाहचर्यात् । एवं टकारोप्येकस्मात् । अट् क्चुप्याङिति । द्वाभ्यां षः । एकाचो बशो भष् झषन्तस्य स्ध्वारिति यथा । ककार
-
Page #77
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । त्रिभ्यः । अकः सवर्णे । इको यण् । इसुसुक्तान्तात्क इति य: था । लणित्यत्रत्यो णकारोपि त्रिभ्यः । अणुदित्सवर्णस्येत्येक एवाण् । इणः पीध्वामित्यादयः सर्वे इण इको यणित्यादौ यण च । तत्र यण् तावत्पूर्वेण न सम्भवत्येव । इण्तु सम्भवनपि ज्ञापकात्त्यक्तः । अणस्तु उभाभ्यां ग्रहणे स्थिते क्व पूर्वेण व या परेणेति विवक्षायां ग्रहणकशास्ने परेणैवान्यत्र तु पूर्वेणैवेति सिद्धान्तः । उक्तं हि व्याख्यानतो विशेषप्रतिपत्तिरिति । न.हि परेश्चघाङ्कयोरित्यादौ व्याख्यानादन्यनियामकमास्ति । किं च । अण् ग्रहणानि तावत्पञ्च । उरण रपरः अणुदित्सव
स्य दूलोपे पूर्वस्य दी?णः केणः अणो ऽप्रगृह्यस्येति । सत्र उरण रपर इति तावत्पूर्वेण । ऋत इद्धातोरति धातुग्रहणाज्ज्ञापकात् । सद्धि मातृणामित्यादिव्यावृत्यर्थ क्रियसे । परेण च ग्रहणे नामीति दीर्घस्यापि रपरत्वापत्त्या व्यावद्मप्रसिद्धिः । ननु चिकीर्षतीत्यत्राज्झनगमामिति दीर्घे रपरस्वे च सति उपधायाश्चेतीत्वमेषितव्यम् । तद्वन्मातृणामित्यत्रापि प्रसङ्गे तद्वयावर्तकतयोत्तरार्थ धातुग्रहणं भविष्यतीतिः चेत् । न । एवं हि सत्युत्तरत्रैव कुर्यात् । इह करणं ज्ञापकमेव । तथा च वक्ष्यति । नुड्वाच्यउत्तरार्थ तु इह किंचित्रपो इतीति । किश्च । अण्ग्रहणसामर्थ्यादपि पूर्वेणैवायम् । यदि हि परेण स्यादुरजित्यज्ग्रहणमेव कुर्यात् । कृत्तिः कृतं प्रकृतं नृपाहि मातृणामित्यादौवायुदात्तानुदात्तस्वरितानुना: सिकदीर्घाणां रपरतायाः परेणाण्ग्रहेणोपपादयितव्यायास्तावतापि लाभात् । कर्ता कारक इत्यादी गुणवृद्धिप्रसङ्गे एचामवर्णस्य चाविशेषाद्रपरत्वस्य विकल्पेम प्रसङ्ग इत्यप्यज्ग्रहणेन सिध्यरसेव । स्योदतत् । कर्बर्थमित्यत्र इको यणि रपरत्वे रेफद्वय
Page #78
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ
श्रवणार्थमणग्रहणं स्यात् । नचेतदज्ग्रहणेन सिध्यति । हलोयमामिति लोपस्तु वैकल्पिकः । झयोहोन्यतरस्यामित्यतोन्यसरस्यांग्रहणानुवृत्तेः । अत्र च ज्ञापकं ग्रहणकशास्त्रे ऽण्ग्रहणम् । तद्धि सय्यन्ता सव्वत्सरः यल्लोकमित्यादौ परसवर्णस्य साननासिकस्य यग्रहणेन ग्रहणादनचिचेति द्वित्त्वे कृते पक्षे यवmiti त्रिकस्य श्रवणार्थे क्रियते । हलोयमामित्यस्य नित्यत्वे तु व्यर्थमेव तत्स्यात् । यद्यपि गुणानामभेदकत्वेनैव सानुनासिकयवलानां द्वित्वसिद्धेर्ग्रहणकशास्त्रे ऽज्ग्रहणमेवोचितं न त्वण्ग्रहणं, तथापि गुणा भेदका इत्यपि पक्षं ज्ञापयितुमण्ग्रहणम् । भेदकाभेदकपक्षयोश्च जातिव्यक्तिपक्षयोरिव लक्ष्यानुरोधाद्व्यवस्था । अत एव चतसर्यानुदात्तनिपातनमित्यादि सङ्गच्छते । अत एव चाटन आविभक्तावित्यादाविदमस्त्यदाद्यत्वे चानुनासिको नेति वक्ष्यामः । यत्त विकल्पानुवृत्तौ ज्ञापकान्तरवर्णनम् । अमुवर्त्तते विभाषा शरोचि यद्वारयत्ययं द्वित्वं, नित्ये हि तस्य लोपे प्रतिषेधार्थो न कश्चित्स्यादिति । तत्तु भाष्ये दूषितम् । तथाहि । लोपस्य नित्यत्वे ऽचो रहाभ्यामिति द्वित्वेनारम्भसामयत्तद्वाधः । द्विविधा एव हि यरः यमो झरवेति । तत्र हलोयमामिति झरोझरीति च लोपे कृते द्वित्वं वृथा स्यात् । किंत
तयोर्योगयोरुदाहरणमिति चेत् । यत्रान्तरेण द्वित्वं व्यञ्जनअयं लभ्यते । यथा ssदित्यो देवतास्य आदित्यः मत्तं अवत्तमिति । एवं स्थिते चतुष्वित्यत्रापि यदि द्वित्वं स्यात्तर्हि लोपो न स्यादेव । ततश्च सार्थकः शरोचीति निषेधः कथं विभाषानुतिं ज्ञापयेदित्यास्तां तावत् । सर्वथापि विकल्पानुवृत्तेः स्थितत्वात्पाक्षिकरेफद्वयश्रवणार्थमण्ग्रहणमस्त्विति । अत्रोच्यते । कर्त्रर्थमित्यादौ सत्यपि रपरत्वे रेफद्वयश्रवणं दुर्लभम् । रोरी
७८
Page #79
--------------------------------------------------------------------------
________________
१ पा. २ आ.
शब्दकौस्तुभः ।
"
1
ति लोपात् । न च तत्र पदान्तस्येति व्याख्यातुं युक्तं, जर्गृधेर्लङ् अजर्घाः पास्पर्डे र्लङ् अपास्पा इत्यादेरसिद्धिप्रसङ्गात् । न चाण्ग्रहणसामर्थ्यात्तद्वाधः । पूर्वेणापि ग्रहणे बाधेनैवोपपत्तेरिति दिक् । तस्माद्धातुग्रहणसामर्थ्यादण्ग्रहणसामर्थ्याद्वोरण् रपर इति पूर्वेण ग्रहणमिति स्थितम् । वस्तुतस्तु धातुग्रहणमेव ज्ञापकम् । अण्ग्रहणस्य लाकृतिरित्यादौ लपरताफलमित्यपि वक्तुं शक्यत्वात् । अणुदित्सवर्णस्य चाप्रत्यय इति तु परेणैव । उर्ऋदिति लिङ्गात् । तत्र हि कृतसंशब्दन इत्यस्माच्चुरादिण्यन्ताल्लुङि चङयचीकृतदित्यत्र ऋकारस्य दीर्घस्यापि स्थाने ह्रस्व एव यथा स्यादित्येवमर्थ तपरकमणं कृतं, ग्रहणकशास्त्रे पूर्वेण ग्रहणे तु दीर्घस्य ऋकारस्य न स्थानित्वं न वादेशवं प्रसक्तमिति व्यर्थ तपरत्वं स्यात् । ननु सत्यपि परेण ग्रहणे उर्ऋदित्यत्र वपरत्वं वृथैव । भाव्यमानेन सवर्णग्रहणाप्रसक्तेरिति चेन्न । वक्ष्यति हि तत्र वृत्तिकारः । न चायम्भाव्यमानोण् किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपेणाभ्यनुज्ञायतइति । कृते तु तपरत्वे तद्बलादेव दीर्घस्थाने भाव्यमानतापि लभ्यतइत्यन्यदेतत् । तस्माद् ग्रहणकशास्त्रेण परेणेति स्थितम् । तत्फलं तूरण् रपर इत्यत्र उरित्यनेन ऋकारस्य ग्रहणावृतइद्धातोरुदाष्ठयपूर्वस्येत्यादौ रपरत्वसिद्धिः । दूलोपे पूर्वस्य दीaण इत्यत्रापि हलामणामसम्भवादेचान्तु विशेषाभावादनर्थकमेवाण्ग्रहणं स्यात् । ततश्चाचश्चेत्येव सिद्धमित्यण्ग्रहणसामर्थ्यात्पूर्वेणाननु वृद्यमने अस्मात्तृचि ऊदित्वादिङभावे गुणे ढत्वधत्वष्टुत्वढलोपेषु रेफस्य दीर्घे स्थानसाम्यादृकारे ढलोपस्यासिद्धत्वादुपधायाश्चेतीत्वे पूर्ववद् गुणे वर्देति यथा स्यादिति परेण ग्रहणं स्यात् । एवं तर्हि तृतीयेति निर्देशालिङ्गात्पूर्वेणैव । परेण हि ग्रहणे हल
Page #80
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० इस्त्राप्यस्यैवाण्ग्रहणस्यानुवृत्तेस्त्रेः संप्रसारणे कृते दीर्घः स्यात् । तथा दृढादिषु वृढशब्दस्य पाठोप ज्ञापको बोध्यः । वृहूउद्यमने अस्मानिष्ठायां ढत्वधस्वष्टुत्वढलोपेषु कृतेषु - तु इति रूपम् । दन्त्योष्ठयादिश्चायम् । उद्धृहरक्षः सह मूलमिन्द्रति दर्शनात् । मूलमस्याबींति सूत्रे हरदत्तादिग्रन्थे स्पष्टमेतत् । तुदादौ एतद्धातूत्तरत्वेन पठ्यमानयोः तृहू स्तुंडू हिंसायामिति धात्वोरपि निष्ठायां तृढः स्तृढ इति रूपं बोध्यम् । दृढः स्थूलबलयोरिति तु इडभावे नकारहकारयोर्लोपो निष्ठातकारस्य ढत्वं च निपात्यते न त्वसिद्धकांडस्थढत्वादरिह प्रवृत्तिरिति वक्ष्यते । तेन परिद्रढय्य पारिद्रढी कन्येत्यादौ लघुत्वप्रयुक्तो रयादेशः ष्यङभावश्च सिध्यतीति दिक् । तेन ठूलोपसूत्र परेणाणग्रहणपक्षेपि वृढतृढस्तृढेष्वेवातिप्रसङ्गो न तु दृढेपीति विवेकः । केण इत्यत्र परेणाणग्रहणे गोका नौका गीष्का उपानका चतुष्कमिति धत्वविसर्जनीययोरसिद्भूत्वाद्धस्वप्रसङ्गः,त. थापीह इस्वश्रुत्योपस्थितस्याच इत्यस्याबाधाय पूर्वेण भविष्यति । अबाधेनोपपत्तौ हि बाधो न न्याय्यः । अणो ऽप्रगृह्यस्येस्यत्र परेण सति,कर्तृ । अग्ने । वायो । मत्यै । पपौ । मालामाचक्षाणो माल् । वृक्षवयतेरप्रत्ययः वृक्षत् । अत्रापि प्राप्नोति । रेफवर्जिता अन्तस्थाः सानुनासिकनिरनुनासिकभेदेन द्विधेत्युक्तत्वात् । तस्मादिहापगृह्यस्येति पर्युदासादच एवानुनासिको बोभ्यः । न चाण्ग्रहणसामानविवयुक्तन्यायस्य बाधः । तस्य पूर्वेणाप्युपपन्नत्वात् । अत्र लणसूत्रे स्थित्वा वृक्षशब्दमित्थं कैयटो व्युदपादयत् । वृक्षं वृश्चतीति क्विपि कृते वृक्षवृश्च. माचष्ट इति णिचि टिलोपे च कृते वृक्षवयतेविचि वृक्षव् इनि भवति । क्विपि तु क्वौ लुप्तं न स्थानिवत् । क्वौ विधिं पति न
Page #81
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तुभः । स्थानिवदित्युभयथापि स्थानिवद्भावनिषेधात्सम्प्रसारणप्रसङ्गो लोपोव्योवलीति लोपम्बाधित्वा, तदपवादस्योठः प्रसङ्गश्च । विचि तु स्थानिवद्भावाद्वानिमित्तो वलोपो न भवति । नन्वेव. मपि वृक्षकरोतीत्यत्र हलि सर्वेषामिति प्राप्नोति । न च स्थानिवद्भावः । पूर्वत्रासिद्धे तनिषेधादिति चेन्न। भो भगो इत्यतोशीत्यनुवांशि हलि तद्विधानादिति । न च विपक्षेपि णिच: प्राग्भाविनं क्विपमेवाश्रित्यो प्रसञ्जनीयः । अन्तर्भूतक्विवाश्रयतयान्तरङ्गे कर्तव्ये बहिर्भूतणिजपेक्षतया बहिरङ्गस्य टिलोपस्यासिद्धत्वात् । इदं त्विह वक्तव्यम् । विपक्षेप्येकदेशविकृतस्यानन्यत्वेन श्चतिग्रहणेन ग्रहणाद वश्चेति षत्वं दुर्वारम्। न च णिलोपस्य स्थानिवत्त्वम् । पदान्तविधौ नेति निषेधात् । पूर्वत्रासिद्ध नेति निषेधाच्च । तस्मानायं वृश्चतिरपि तु वेतिर्वाः तिर्वा, वृक्षं वेतीति वृक्षवीः वृक्षं वातीति वृक्षवाः। वृक्षव्यं वृक्षवां .. वाचष्टे वृक्षव्, विच, न तु क्विप् । ऊदप्रसङ्गात् । क्वौ विधि प्रति स्थानिवत्वनिषेधात् । तथा च देवयतेर्दयुरिति सिद्धान्तितम् । न चैवमपि लोपोव्योरित्यस्य प्रसङ्गः । स्थानिवत्वात् । न चपदान्तविधित्वम् । पदान्तश्चेद्विधीयतइत्यर्थात् । लोपस्य चानवयवत्वात् । विभावितं चेदं भोभगो इति सूत्रे कैयटेनेति दिक्। यत्तु हलि सर्वेषामिति सूत्रे हरदत्तेनोक्तम् । वृक्षत् करोतीत्येवंरूपः प्रयोगो नास्त्येव । अनभिधानात् । लणसूत्रे न पदान्ता हलोणः सन्तीति भाष्यकारोक्तेश्चानभिधानं निश्चीयतइति, तच्चिन्त्यम् । लण्मूत्रभाष्ये न पदान्ताः परेणः सन्तीति पा. ठात् । अप्रगृह्यस्येति पर्युदासाश्रयणेनाचामेव कार्यभाक्त्वादितरे
कार्यभाजो न सन्तीत्येवंपरतया कैयटेन तद्विवरणाच्च । ननु ' चायमस्ति कर्तृ इत्युत्तरभाष्येणास्य दूषितत्वाच्च । त्वदुदाहृतपाठे
११
Page #82
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० उत्तरभाष्यस्योक्तिसम्भवालाभाच्च । अत एव भोभगो इतिसूत्रे भाष्यकारवृत्तिकारादिभिः सर्वैरपि वृक्षवित्युदाहृतम् । स्व. यमपीह तथैवोदाहृतमिति पूर्वापरस्वग्रन्थविरोधो भाष्यवृत्तिकैयटादिसकलमहाग्रन्थविरोधो मूलयुक्त्यभावश्चेति तिष्ठतु तावत् । प्रकृतमनुसरामः । मकारोपि त्रिभ्यो ग्राह्यः । पुमः खय्यम्परे । हलो यमा यमि लोपः । ङमो इस्त्रादचीति । चकारश्चतुर्व्यः । इकोयणचि । इच एकाचोम् । एचायवायावः । पूर्वी तु ताभ्यामैजीति । यकारोपि चतुर्व्यः । अनुस्वारस्य ययि । मय उसः। झयो होन्यतरस्याम् । पुमः खयोति । रः पञ्चभ्यः। यरोनुनासिके । झरो झरि सवर्णे । खरि च । अभ्यासे चर्च । वा शरि । शकारः षड्भ्यः । भोभगोअघोअपूर्वस्य योशि । हशि च । नेड्वशि कृति । झलां जश् झशि । एकाचो बशो भए । लकारोपि षड्भ्यः । अलोन्त्यस्य । हलि सर्वेषाम् । इड्वलादेः। रलो व्युपधात् । झलां जश् । शल इगुपधादिति । अयं च चतुर्दशसूत्रीस्थै हल्भिरिद्भिः संपन्नानामष्टाध्याय्यां व्यवहतानां प्रत्याहाराणां संग्रहः । तेन मुप्तिङादेरप्रत्याहारस्य ब. मन्ताड इत्युणादिषु व्यवहृतस्य अम्प्रत्याहारस्य यमित्रमन्तेष्वनिडेक इष्यतइति व्याघूभूतिना व्यवहनस्य च चयो द्वितीयाः शरि पौष्करसादेरिति वार्तिककृता व्यवहृतस्य चयपत्याहारस्य चाधिक्येप्यदोषः । संख्यानियमचायमुत्तरत्र एकचत्वारिंशद्भिर्व्यवहारादध्यवसीयतइति बोध्यम् । अत्र श्लोकवात्तिकम् । प्रत्याहारे ऽनुबन्धानां कथमज्ग्रहणेषु न । आचारादपधानत्वाल्लोपश्च बलवत्तरः । प्रत्याहारोक्षरसमाम्नायः । तत्र येनुबन्धास्तेषा,मज्ग्रहणेष्वित्युपलक्षणम्। अजादिप्रत्याहारग्रहणेषु । कथं नेति ग्रहणमिति शेषः । आदिरन्त्येनेति सूत्रेण हि अ.
Page #83
--------------------------------------------------------------------------
________________
१ पा. २ आ. शब्दकौस्तु । कारमारभ्याचकाराद्वर्णानां भवन्त्यसशामध्यस्थत्वाविशेषादिकारादीनामिव णकारककारङकाराणामपि स्यात् । ततश्च दधि णकारः दधि ककारः दधि कार इत्यादौ यण् स्यात् । एवम इग्रहणे चकारस्यापि ग्रहणाद्रुचीनामित्यादावव्यवायइति णत्वं स्यात् । एवमिण्ग्रहणेन चकारग्रहणानुचिध्वे इत्यादौ विभाषेट इति ढः स्यादिति पूर्वपक्षः पूर्वार्द्धस्यार्थः । उत्तरमाह । आचारादिति । आचारो ऽत्र सूत्रकृतो निर्देशः । उणादयो बहुलम्, तृषिमूषिकशेः, ङसिङसोश्चेत्यादौ यणो ऽकृतत्वान्मध्यस्थानामप्यनुबन्धानां संशित्वं नेति ज्ञाप्यतइत्यर्थः । समाधानान्तरमाह । अप्रधानत्वादिति । अणित्यादिसंज्ञाः प्रणेतुं तद्रूपप्रति. पादनायानुबन्धा उच्चार्यन्ते । ततश्च परार्थमुपादीयमानतया तेफामंप्राधान्यम् । इतरेषां तु स्वार्थमुपादीयमानत्वात्माधान्यम् । तेन तेपामेव संज्ञा नत्वनुबन्धानाम् । प्रधानाप्रधानयोःप्रधाने कार्यसम्प. त्ययइति न्यायात् । नन्वेवमकारस्याच्संज्ञा न स्यात् । संज्ञाप्रतिपादने चकारस्येव तस्याप्यङ्गत्वाविशेषादिति चेन्न । स्वं रूपमित्यनुवत्याऽऽदेरपि संशित्वात् । स्वं रूपंचादेरेव गृह्यते नान्त्यस्य । सर्वनाम्नां प्रधानपरामर्शकताया औत्सर्गिकत्वात् । इतेति तृतीयया इतो ऽप्राधान्यलाभात् । तदेवं संज्ञाप्रवृत्तिकालनुबन्धानां संनिधानमभ्युपेत्य द्वधा समाहितम् । वस्तुतस्तु तदेव नास्तीत्याह । लोपश्चेति । बलवानेव बलवत्तरः स्वार्थे तरप् । अल्पाचतरमिति यथा । हलन्त्यमितीत्संज्ञायां हि कृतायां णकारादी. नामसंज्ञा पामोति लोपश्च । तत्र परत्वामित्यत्वादन्तरङ्ग त्वाच्च लोपे कृते संज्ञाप्रवृत्तिकाले णकारादीनामसत्वादेव तेषामजादिसंज्ञा नेति भावः । यस्मिस्तु प्रत्याहारे योनुबन्धोपेक्षितस्तस्य वचनसामर्थ्यात्तत्महत्तेः प्राग् लोपाभावः । लुप्तेपि का
Page #84
--------------------------------------------------------------------------
________________
८४
शब्दकौस्तुभः । [१ अ० तस्मिन् भूतपूर्वेण तेन सहित आदिः संज्ञा भविष्यति । अन्तःपातिनां तु लुप्तानां न संज्ञा । श्रूयमाणेष्विकारादिषु सावकाशत्वादिति । ननु हल्पत्याहारे ऽकारस्य प्रवेशो दुर्वारः । नहि तत्र लोपो लभ्यते । ततः प्रागच्संज्ञाविरहेणोपदेशेजितीत्संज्ञाया अप्रवृत्तेः । एवं चाद्यसमाधानमपि दुरुपपादम् । उदाहतस्याचारस्य लोपश्च बलवत्तर इत्यनेनैव गतार्थत्वादिति चे. म । सोस्यादिरितिनिर्देशेन प्रथमस्य गुणानां भेदकत्वेन च. रमस्य च समाधानस्य सूपपादत्वादिति दिक् ॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे
पादे द्वितीयमान्हिकम् ॥ २॥ वृद्धिरादैच् ॥ आकार ऐकार औकारश्च वृद्धिसंज्ञः स्यात् । संज्ञाप्रदेशा वृद्धिरेचीत्यादयः। तदुदाहरणमवास्याप्युदाहरणं बोध्यम् । इहाच्च ऐच्चेतरेतरयोगद्वंद्वः सुपां सुलुगिति सुलुग्वा । अथवा समाहारे द्वंद्वः । नचैवं द्वंद्वाच्चुदषहान्तादिति टच् स्यादिति वाच्यम् । समासांतविधेरनित्यत्वात् । अत्र ज्ञापकं तु द्वित्रिभ्यां प मूर्ध्न इति षविधानाम् । तद्धि बहुव्रीहौ स. क्थ्यक्ष्गोरिति पचि प्रकृतपि क्रियते । पचश्चित्वसामर्थ्याज्जायमानमन्तोदात्तत्त्वं बहुव्रीहित्वप्रयुक्तं पूर्वपदप्रकृतिस्वरं यथा बाधते तथा द्वित्रिभ्यां पाहन्मूर्ध्नसु बहुव्रीहाविति विधीयमानमन्तोदात्तत्वविकल्पं मा बाधिष्टेत्येवमर्थम् । तच्च द्वित्रिभ्यामित्यस्य क्व चिल्लब्धावकाशत्वे सत्येव सङ्गच्छते न त्वन्यथा । अवकाशश्च समासान्तानामनित्यतायां सत्यामेव लभ्यते । त्रिमूर्द्धानं सप्तरश्मि गृणीष इति यथा। तस्मात्प्रत्ययावधानं ज्ञापकमिति स्थितम् । तथा द्वित्रिभ्यामिति सूत्रे बहुव्रीहिग्रहणमपीह ज्ञापकम् । अन्यथा पादनमूद्धेष्वित्येव निर्दिशेत्। एवं हि
Page #85
--------------------------------------------------------------------------
________________
१ पा. ३ आ..
शब्दकौस्तुभः ।
सति कृतसमासान्तपाहत्मक्रमोपि न विरोत्स्यते । बहुव्रीहिभिन्न च समासान्तविरहादेव वारयिष्यते । ननु षष्ठीतत्पुरुषादि वा. रणाय बहुव्रीहिग्रहणमस्तु । तथाहि । द्वयोर्दन्ता इति विगृह्य द्विदतः पश्येति प्रयोगे पद्दनिति दतादेशः, स एवेह निरनुबन्ध. कत्वाद्वा गृत्येत । न च पदनिति सूत्रे तदन्तविधिदौर्लभ्यात्कथ. मेतदिति वाच्यम् । प्यङः सम्प्रसारणमितिसूत्रस्थपूर्वपक्षन्यायेन सिद्धं त्ववयवानन्यत्वादित्याष्टमिकभाष्यवार्तिकन्यायेन चावयवस्य कार्यलाभात् । अन्यथा हास्तिशीाउपैषीत्यादावगते. रिति वक्ष्यते । तस्मात्कथं बहुव्रीहिग्रहणं ज्ञापकमिति चेत् । न । पूर्वोत्तरसाहचर्यवलेनापि बहुव्रीह्यप्रविष्टस्य वारणसम्भवात् दत इति सानुबन्धस्यापि सुपठत्वाच्च । स्फिगपूतवीणां जोध्व- . कुक्षिसीरनामनामचेति सूत्रे ऽपाच्चेत्यनुवृत्या ऽपस्फिगमित्यादावुत्तरपदान्तोदात्तविधायके ऽध्व शब्दग्रहणमपीह लिङ्गम् । उपसगोदध्वन इत्यच्प्रत्ययस्य नित्यत्वे हि चित्वादेव सिद्धं स्यात् । तथा प्रतेरंवादयस्तत्पुरुषइति सूत्रे ऽश्वादिगणे राजनशब्दस्य पाठोपीह लिङ्गम् । अन्यथा राजाहः सखिभ्यष्टीजति ठचैव सिद्धे किन्तेन । यत्तु ऋक्पूरब्धः पथामित्यत्र टिलोपस्येव प्रकृतिवदनुकरणमित्यतिदेशेन प्रत्ययस्यापि प्राप्तौ तदकरणं ज्ञापकीमति । तन्न । अतिदेशो ऽयमनित्य इति ऋलक्सूत्रे प्रपञ्चितत्वादिति दिक् । कृतमनयोः साधुत्वमित्यादिभाष्यग्रन्थाश्चास्मिन्पक्षेनुकुलाः अनयोः पदयोरिति स्वरसात् । अथ वा ऽऽदित्यसमस्तमेव । पस्पशायां शब्दापतिपत्तिरिति वार्तिके भाष्यकारैरेव वृद्धिः आदैजिति पदविभागप्रदर्शनात् । अस्मिंश्च पक्षे अनयोः सूत्रखण्डयोरिति नेयम् । पक्षान्तराभिप्रायकमेव वा तत् । वृद्धिशब्दस्तु तन्त्रेणावृत्या वा योजनीयः । द्विवचनेचीग्यणः
Page #86
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
सम्प्रसारणमित्यादाविवोभयथाप्यदोषात् । आदिति तपरकरमैजर्थ तेन त्रिमात्रचतुर्मात्राणामैचां संज्ञा न भवतीत्याद्ये ओडैऔचमूत्रयोः प्रपञ्चितम् । नचैवं तकारस्योत्तरशेषतैव स्यादिति पदान्तताविरहाज्जश्त्वं न स्यादिति वाच्यम् । असन्देहार्थतया ssकारशेषत्वस्यापि सम्भवात् । अस्तु वाजिति पदम् । ऋत इद्धातोरित्यादौ दपरत्वमेवाश्रित्य तपरसूत्रे दकारोपिलिप्यतइति तत्स्वरितमिति सूत्रे भाष्यकारैर्वक्ष्यमाणत्वात् । दात्परस्यापि तत्कालग्राहकत्वात् । वस्तुतस्तु दकारप्रश्लेषपक्षोभ्युच्चयमात्रम् । इह तु तपरकरणं स्पष्टार्थमेवेत्यादि प्रागेवोक्तं न विस्मर्त्तव्यम् । ननु चोः कुरिति कुत्वमैच्शब्दे प्राप्नोति चतुष्टयी शब्दानां प्रवृत्तिरिति पक्षे ऽस्य संज्ञाशदतया लौकिकत्वेनानुशासनविषयत्वात् । त्रयीपक्षेपि जातिशब्दत्वसम्भवात् । वैशेषिक परिभाषया द्रव्यत्वगुणत्वादिजातिस्वीकारे वैयाकरणपरिभाषयापि तत्स्वीकारस्य दुर्वारत्वात् । वस्तुतस्तु सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जातित्वस्वीकारादिहापि सास्तु । व्यक्तिविशेषाश्च स्वरूपसत्ता अतदेनानुगतीकृतास्स तोपधायकाः । तदुक्तम् । तस्यां सर्वे श ब्दा व्यवस्थिता इति । आद्यंतावयवद्वारा समुदायानुकरण ऐच वा शब्दः । अनुकरणशब्दाच जातिशब्दा एव । तत्रानुकार्यनिष्ठजातेः प्रवृत्तिनिमित्तत्वात् । न चाद्यपक्षे सूत्रवैयर्थ्यम् । मदीयशास्त्रे वृद्धिशब्देनादैच एक ग्राह्या इति नियमार्थ सूत्रारम्भात् । तदुक्तं कैयटेन, अनेकशक्तेः शब्दस्य शक्तयवच्छेदेन संज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसंज्ञानां लौकिकत्वादिति । अनेकस्मिन्ननेका वा शक्तिरस्येति विग्रहः । अवच्छेदकभेदेपि लाघवाच्छतिरेकैव, औपाधिको भेद इति प्रवादस्तु उपाधि
८६
Page #87
--------------------------------------------------------------------------
________________
१ पा. ३ आ.
शब्दकौस्तुभः ।
त
fia इत्यत्र न इति मतेनाऽऽद्यः पक्षः । उपाधिस्थित्यधीन स्थिति को जीवब्रह्मभेदत्रदुपधेयेपि भेदोस्तीति मतेन द्वितीयः कल्प | नकोपधाया इति पुंवद्भावनिषेधस्तु नास्ति । तद्धितग्रहणं कर्त्तव्यमिति वक्ष्यमाणत्वात् । अवच्छेदः संकोचः भः स च यद्यपि शक्तेर्निरवयवतया न सम्भवति तथापि तदितरस्मिंस्तात्पर्यविरहएव शक्तिसङ्कोचोत्राभिमतः । सवाचा इत्यभ्युपगमेपि तात्पर्यं क चिदेवेत्यस्य निर्विवादति वात् । शक्तिः परं कारणतापरपर्याया सर्वत्र दुर्वारेत्युक्तम् । न चैवमन्यायश्वानेकार्थत्वमित्यस्य निर्विषयता । पौरुषयसङ्केनिरपेक्षस्य प्रसिद्धतरसम्बन्धस्य विना प्रमाणं बहुषु न कपनमिति तदर्थात् । गौणमुख्यविभागोपि प्रसिद्ध्यसिद्धिनिबन्धन एव । गाव्यादीनामसाधुतापि सङ्केतविरहे सत्येव । अत एव प्रसिद्धेपि पक्षे गोण्यादीनां गोण्यां साधुत्वमस्त्येवेत्यन्यत्र विस्तरः । उक्तं च । व्यवहाराय नियमः संज्ञायाः संज्ञिनि कचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवव् ! वृद्ध्यादीनां च शास्त्रेस्मिन् शक्तयवच्छेदलक्षणः । अकृत्रिमभिसम्बन्धो विशेषणविशेष्यवदिति ॥ वस्तुतस्तु साध्वसाधुवहिर्भावपक्षेप्येषामनुशासनविषयतास्त्येवेति पस्पशायां साधुत्वनिर्वचनप्रसङ्गेनोपपादितम् । तस्मात्सर्वथापि कुत्वं प्राप्नोत्येवेति चेत् । सत्यम् । अयस्मयादीनि छन्दसति भत्वप्रवृत्या कुत्वोपयोगिनी पदसंज्ञा प्रतिबध्यते । जश्त्वविध्येकवाक्यतापना तु पदसंज्ञास्त्येव । ससुष्टुभासऋकतागणेनेत्यत्र तु विपरीतम् । कुत्वं पदत्वमस्ति जस्त्वे तु नोत विषयभेदेन संज्ञाद्वयमस्तीत्यंशे परं दृष्टांतता बोद्धया । तेनोपदेशेजनुनासिक इदित्यादौ कुत्वाभावो जस्त्वं च सिद्धयति ।
८७
Page #88
--------------------------------------------------------------------------
________________
८८
शब्दकौस्तुभः । [१ अ० छन्दसि विहितस्य सूत्रे कथं प्रवृत्तिरित्याशङ्कय छन्दोवत्सूत्राणि भवन्तीति भाष्यम् । इष्टिरियं भाष्यकृतः। यद्वा । छन्दःशब्दः स्वर्यते । स्वरितेनाधिकारः, अधिक कार्य गौणस्यापि ग्रहणमित्यर्थः । तेन छन्दोङ्गेष्वपि तत्तत्कार्यप्रवृत्तिर्बोध्या । संज्ञाद्वयसमावेशस्तूभयसंज्ञान्यपीति वक्तव्यमिति वार्तिकवचनात् । षष्ठीयुक्त इति सूत्रे छन्दसि वेति विभज्य एका संज्ञेति । निय. मस्य छन्दसि विकल्पनाद्वा । यद्वा । अयस्मयादीनीत्यनेनो भयसंज्ञाप्रयुक्तकार्य भाजः समुदाया निपात्यन्ते । न तु प्रकृता भासंजैव विधीयते । अत एव कार्यविशेषपुरस्कारसम्भव इति बोध्यम् । तस्मात्कुत्वं नेति स्थितम् । कुशब्दस्याणुदिदित्यनेन सं ज्ञात्वेन विनियोगात्तत्र च प्रागुक्तरीत्या मतभेदसत्वाज्जातिविशेषः प्रवृत्तिनिमित्तम् । व्यक्तिविशेषोपहिता सत्तव वा । शब्दस्वरूपं वा। तस्यापिग्राह्यत्वं ग्राहकत्वं चेति पस्पशोक्तरीत्या व्यक्तिविशेषणतया भानाभ्युपगमात् । तथाचोक्तत्रितयान्यतममिह त्वप्रत्ययार्थः । प्रकृतिजन्यबोधे प्रकारीभूतत्वं प्रयोगोपाधिमाश्रित्य तथाभूतधर्मस्य त्वतलर्थताया वक्ष्यमाणत्वात्। यद्वा । प्रकृतिः शब्दस्वरूपपरा तत्प्रवृत्तिनिमित्तत्त्वे तु त्वतलादीनां शक्तिरेवेति मतान्तरमपि वक्ष्यते । उभयथापीह त्वमत्ययेन स्वार्थाश्रयः ककारोलक्ष्यते । तेन कुवं नेत्यस्य ककारादेशो नेति पर्यवसितार्थः । आह च। सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशेषिता । संज्ञाशब्दस्वरूपं वा प्रत्ययस्त्वतलादिभिरिति । इत्थं पदविभागः पदसाधुत्वं चोक्तम् । वाक्यार्थस्तु संज्ञासंज्ञिभावः । तथाहि । समानविभक्तिकनामार्थयोरभेदान्वयस्य व्युत्पन्नतयाऽऽकारादयो वृद्धि प्रत्यभेदेन संसर्गेण विशेष्याः । विरूपोपस्थिनिस्तु विशषणीभूतं शब्दस्वरूपमादाय बोध्या । एतेनेन्द्रो मरुत्वान्मघवेत्यादि व्या
Page #89
--------------------------------------------------------------------------
________________
१ पा. ३ आ. शब्दकौस्तुभः । .. ख्यातम्।न तु तत्रापि मरुत्त्वदादिशब्दानां तत्तद्वाच्ये लक्षणेति ग्रा-.. ह्यम् । उक्तरीत्या लक्षणां विनवोपपत्तेः । अत एवोद्भिदधिकरणे. विशिष्टविधिपक्षं मत्वर्थलक्षणाप्रसङ्गेन दूषयित्वा नामधेयस्वं सिद्धान्तितम् । अन्यथा नामधेयत्वेपि लक्षणायास्तुल्यतया ऽधिकरणस्यासम्भवदुक्तिकतापत्तेरिति दिक् । स्यादेतत् । किमादैज्मात्रस्य वृद्धिसंज्ञा आहोस्विद् वृद्धिशब्दमावर्त्य वृद्धिरिति ये आ.. दैचस्ते वृद्धिसंज्ञा इति व्याख्यानाल्लुकलुलुप्संज्ञावत्तद्भावितानामेवेति । नाद्यः । सर्वभासः सर्वकाक इत्यादावुत्तरपदवृद्धौ सर्व चेति सूत्रेण पूर्वपदान्तोदात्तत्वप्रसङ्गात् । इष्यते तु समासस्येत्यन्तोदात्तः । न च सर्वस्य सुपीत्यायुदात्तता शंक्या । सतिशिष्टेन समासस्वरेण बाधात् । सर्वस्तोम इत्यादौ तु बहुवीही प्रकृत्या पूर्वपदमित्यनेन समासान्तोदात्तत्वे बाधिते सर्वस्य सुपीति भवत्येव । इह तु कर्मधारयत्वात्समासान्तोदात्तत्वमेवेति बोध्यम् । किं च तावती भार्या यस्यति बहुव्रीही तावद्भायो न सिद्धयेत् । वृद्धिनिमित्तस्य च तद्धितस्येति पुंवद्भावप्रतिषेधप्रसङ्गात् । न द्वितीयः । शालीयो मालीय इत्यादौ वृद्धलक्षणस्य च्छप्रत्ययस्यासिद्धिप्रसङ्गात् । किं चैवमाममयं शालमयमित्यादौ नित्यं वृद्धशरादिभ्य इति नित्यो मयट् न स्यात् । किं चामगुप्तायनिः शालगुप्तायनिः, उदीचा वृद्धादगोत्रादिति वृद्धलक्षणः फिञ्न स्यात् । ननु प्राचामवृद्धात्फिन् बहुलमिति फिनाप्येतत्सिद्धम् । नात्र फिफिनोः स्वरे रूपे वा विशेषोस्ति । नित्यादिनित्यमित्यायुदात्तस्योभयत्राविशिष्टत्वात् । न चामगुप्तायनीभार्य इत्यत्र वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारइति पुंवद्भावप्रतिषेधसिद्धये फिलेव कर्त्तव्य इति वाच्यम् । जातेश्चेत्यनेनापि प्रतिषेधसिद्धेः। न चामगुप्तायनेश्छा
Page #90
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ०. त्रा इति वृद्धाच्छे विवक्षिते फफिओरन्यतरस्यामिति लुग्विकल्पेनामूगुतीया आम्रगुप्तायनीया इति द्वैरूप्यमिष्टं तच्च फिवं विना न सिध्याति वाच्यम् । फफिजोरित्यत्र यूनीत्यनुवृत्त्या त्वदुदाहृतरूपद्वयस्य सिद्धान्तेष्यसम्मतत्वात् । अत एव तत्र यू. न्येवोदाहृतम् । यस्कस्यापत्यम् । शिवादिभ्योण् । यास्कः तस्थापत्यं युवा अणो द्ववच इति फिञ् यास्कायनिः तस्य छात्रा यास्कीया यास्कायनीया इति तस्मात्फिनापि सिद्धौ किमर्थ फिअवष्यतइति चेत् । उच्यते । उक्तरीत्या रूपसिद्धावपि प्राचामुदीचां वाचार्याणां स्वस्वमतप्रच्युतिरेव तावदोषः। सिद्धान्ते ह्युदीचामामगुप्तायनिरिष्टः प्राचां त्वनिष्टः । उक्तरीत्या तूदीचां न सिद्धयेत् । प्राचां तु सिध्येदिति स्पष्ट एवोभयोरपि स्वमतमच्यवः । तथा च ऋतो भारद्वाजस्येति सूत्रे जहर्थेत्यादौ गुणे रपरत्वे च कृते ऽनजन्त्रत्वादचस्तास्वदित्यस्याप्राप्तौ नियमानुपपत्तेतो भारद्वाजस्येतीदं विधायकं स्यात्ततश्च पेचियेत्यादाविण्न स्यादिति दूषणे प्राप्ते अचस्तास्वत्थल्यनिटो नित्यं भारद्वाजस्य । उपदेशे त्वतः। भारद्वाजस्येत्येव । तत, ऋतः। भारद्वा. जस्येति निवृत्तम् । एवं च सकललक्ष्यप्रसिद्धिरिति सूत्रभङ्गेन समाधाय भाष्यकारो वक्ष्यति । सिध्यत्येवम् । अयं तु भारद्वाजः स्वस्मान्मतात्पच्यावितो भवतीति । अत एवाचस्तास्वदित्यत्रोप्रदेशत्वत इत्येतदुपदेशग्रहणमपकृष्य सिद्धान्तयिष्यतीति दिक् । किं च फिनि सत्याम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे सौवीरगोत्रे ' फेश्छचे ' सि छठको न स्याताम् । तत्र फिव गृह्यते न तु फिन् वृद्धादित्यधिकारादिति स्थितम् । ततश्चाम्रगुप्तायनीय आम्रगुप्तापनिक इति न स्यात् । न च यमुन्दश्च सुषामावार्ष्यायणिः फिञः स्मृता इति वृत्तौ त्रयाणामेव परिगणनाद.
Page #91
--------------------------------------------------------------------------
________________
१ पा. ३ आ. शब्दकोस्तु । न्येभ्यश्छठको न भवतएवेति वाच्यम् । भाष्यकृता परिगणनस्यानाश्रयणात् । अन्यथा ऽत्रैव सूत्रे सौवीरेष्विति किं, तैकायतिरितिप्रत्युदाहरणयं न सङ्गच्छेत । तैकायानशब्दस्य तत्रापाठात् । अत एक यूनि लुगित्यत्रोदाहियते । तिकस्यापत्यं तिकादिभ्यः फिञ् तैकायनिः तस्यापत्यं युका 'फेश्छच' तैकायनीयस्तस्य छात्राः युक्प्रत्ययस्य लुकि कृते वृद्धाच्छ तैकायनीया इति। न हि सति परिगणने तैकायनेश्छः सम्भवति न वा तल्लोपः। अत एव मूनि लुक्सूत्रे स्थित्वा परिंगणनमर्वाचीनमिति हरदत्तादयोप्याहुः । अपि च फित्र सत्यानगुप्तायनेरपत्यं युवा पाग्दीव्यतोण् । तस्य ' ण्यक्षत्रियार्षत्रितो यूनि लुगणिो ' रिति लुक्याम्रगुप्तायनिरित्येवं रूपं पितरि पुत्रे चेष्यते । फिनि तु सति तन्न स्यात् । बितः परत्वाभावात् । न चाब्राह्मणगोत्रमात्रायुवप्रत्ययस्योपसंख्यानमिति तत्सिद्धिः।ब्रामणगोत्रे तदप्रवृत्तेः । किं च तद्भावितग्रहणपक्षे मालादीनां चेत्यनारम्भणीयं स्यात् । प्रस्थे वृद्धमकादीनामित्यनेनैव पूर्वपदायुदात्तत्वसिद्धेः। अपि च वृद्धिशब्दे तन्त्रावृत्याद्याश्रयणागौरवम् । मृजेवृद्धिरित्यादिविधिपदेशेष्वितरेतराश्रयणपरिहाराय सूत्रशाटकवद्भाविसंज्ञा विज्ञेया स्यादिति चापर गौरवमिति । अत्रोच्यते। आदैज्मात्रस्य बृद्धिसंज्ञानचैवं सर्वभासादाबुक्तदोषः स्यादिति वाच्यम् । उत्तरपददृद्धौ सर्व चेत्यत्र झुत्तरपदग्रहणं स्वर्यते । स्वरितेनाधिकारी विज्ञायते । तेनोतरपदस्येत्यधिकृत्य या वृद्धिर्विहिता सैव गृह्यते । यथा सर्वपाञ्चालः मुसा ज्जनपदस्यति वृद्धिः । इदं च तद्भावितग्रहणेप्यवश्यं वक्तव्यमेव । अन्यथा सर्वः कारकः सर्वकारक इत्यादावतिप्रसक्तः। एवं सावद्भार्येप्यदोषः। तत्राहल्या.
Page #92
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः। [१ अ० द्याश्रयणेन वृद्धिशब्देन विहिताया वृद्धर्यनिमित्तं तत्रैव पुंवद्भावप्रतिषेधात् । वृद्धिशब्देन च विधौ कृत्स्ना दृद्धिः प्रतीयतइत्याशयेनैवोक्तं भाष्ये । यत्कृत्स्नाया वृद्धेनिमित्तमिति । न च वैयाकरणभार्ये तथा सौवश्वभार्ये ऽतिप्रसङ्गः । फलोपहितस्यैव निमित्तत्त्वेन विवक्षितत्वात् । ऐचौ प्रति फलोपधानमप्यस्तीति चेन्न । तयोर्दृद्धिशब्देनाविधानात् । के चित्तु यावद्वृद्धिजननयोग्यत्वे सति किञ्चित्फलोपहितस्तद्धितो निमित्तशब्देनोच्यते । वैयाकरणे तु ऐचं प्रति तद्धितो न निमित्तं निषधसनियोगशिकृतामात्रेणातिप्रसङ्गभङ्गात् । तेन वैयाकरणभार्ये नातिप्रसङ्गः। परिषदोण्यः पारिषद्या भार्येत्यादौ त्वाकारमात्रोपहितत्वेपि स्वरूपयोग्यता सकलाई प्रत्यस्तीत्याहुः । तस्मात् आवृत्तौ गौरवापतेः शालीयादेरसिद्धितः।मालादीनां चेति लिङ्गाद्व्याप्तिन्यायात्तथैव च ॥भाविसंज्ञात्वविज्ञाने गौरवाचेह निश्चितम् । आदैज्मात्रस्याविशेषादृद्धिसंज्ञा विधीयते ॥ अनर्थकं साध्वनुशासनं प्रयोगनियमार्थमादेशार्थमागमार्थं विशेषणविशष्यभावार्थ चेदं सूत्रमिति षट्पक्षी तु भाष्यएव निराकृतत्वादसम्भवदुक्तिकत्वाच्च नेह तन्यते। संज्ञासज्ञिभावे सत्यपि का संज्ञा कः संज्ञीत्यत्र ता. त्पर्यग्राहकास्तु बहवो न्यायाः । तथाहि । यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । तच्छब्द एवकारश्च स्यादुपादेयलक्षणमित्यभियुक्तोक्तेस्तथैवानुभवाच्च प्राथम्यन्तावत्संज्ञित्वे लिङ्गं तच्चादेगुण इत्यादौ स्पष्टमेव । वृद्धिसंज्ञासूत्रे तु मङ्गलार्थ वृद्धिशब्दस्यादौ प्रयोगेपि वक्ष्यमाणैायान्तरैरादैचां संज्ञित्त्वे निगीते सत्यादैज्वृद्धिरित्याकारकपदानुपूर्वीज्ञानानन्तरमेव वाक्यार्थबोधाभ्युपगमात्तजनकीभूतानुपूर्वीज्ञाने आदैचामेव प्राथम्यान व्यभिचारः । पदानुपूर्वीज्ञानमेव चासत्तिज्ञानमित्युच्यते ।
Page #93
--------------------------------------------------------------------------
________________
१ पा. ३ आ. , शब्दकौस्तुभः । इदं च शाब्दबोधे हेतुरिति यैर्नेष्यते तेषामासन्नानासनकथो- . च्छेदः स्यात् । पदसमूहालम्बने सकलपदानां पदार्थस्मरणे च सकलपदार्थानां विषयत्वाविशेषात् । आवृत्तिश्च संज्ञात्वे लिङ्गम् । व्यवहारार्थमेव संज्ञाकरणात् । भेदाभेदाभ्यामपि संज्ञित्वसंज्ञात्वे व चिनिर्णीयेते । बहूनां त्येका संज्ञोचिता । लाघवात् । न त्वेकस्य बढ्यः संज्ञा गौरवात् । न्यूनाधिकव्यक्तिकास्तु वव्यः संज्ञाः इष्यन्तएव । तत्तत्प्रयुक्तकार्यवैलक्षण्यात् । कृत्कृत्यप्रत्ययसंज्ञावत् । तद्धिततद्राजप्रत्ययसंज्ञावच्च । लघ्वक्षरत्वमपि.टिघुभादौ संज्ञालिङ्गं यथायथं बोध्यम् । इह त्वावृत्या ऽभेदेन च वृद्धिशब्दः संज्ञेति स्थिते तब्दलेन श्रुतानुभिङ्गादादैचां प्राथम्यमपि योजनीयम् । यद्वा । स्वेच्छया संज्ञाः क्रियन्ते इति पक्षं विहाय व्यवहाराय नियम इति पक्षे योज्यम् । आद्योप कार्यकालपक्षाश्रयणेन वा समाधेयमिति दिक् । एतेनार्द्धधातुकं शेषः कृदतिङ् अपृक्तएकाल्पत्ययः स्वंरूपंशब्दस्य अणुदित्. तपर आदिरन्त्येन येनविधिस्तदन्तस्येत्यादावपि व्यभिचार उद्धृतः तत्रापि विपरीतानुपूर्वीकल्पनात् । कल्पकत्वस्य च प्रोगवोक्तत्वात् । पक्षान्तरैरपि समाधानाच्च।अत एव स्थानिवत्सूत्रे वत्करणङ्किमर्थमित्याशङ्कय स्थान्यादेशस्य संज्ञा मा विज्ञायीति भाष्यमप्युपपन्नम् । यत्त्वपृक्त एकालिति परिभाषा न तु संज्ञेत्युक्तम्। तद् वृद्धयादावपि सुवचम्।अपृक्तसंज्ञायां हल्ग्रहणं स्वादिलोपे हलो ग्रहणार्थमिति वार्तिकस्य तद्भाष्यस्य च प्रतिकूलम् । तस्मादुक्तैव गतिः समीचीनेति दिक् । ननु मृजेर्वृद्धिरित्यादावन्योन्याश्रयः संज्ञया हि विधिविहितानां च संज्ञेति । न च मालादौ संज्ञामवृचिसंभवे सतीह भाविसंज्ञाविज्ञानं सम्भवति । तस्माद् वृद्धिशब्द एवादेशः स्यात् । अन्य
Page #94
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः।
[१ अ० त्र वृद्धिसंज्ञाप्रवृत्तावपि मालादिशब्दान्तर्गतस्याकारस्य तत उत्कृष्येह विधातुमशक्यत्वादिति । अत्राहुः । माठीत्यादौ सिद्धस्यैवाकारस्य मृज्युपदेशादसाधुत्वे प्रसक्ते साधुत्वं मृद्धिरित्यादिना बोध्यते न त्वपूर्व आकारो भाव्यते । येनान्योन्याश्रयः स्यात् । उक्तं च वार्तिककृता । सतो -
यादिषु निमित्तभावात्तदाश्रय इतरेतराश्रयत्वादप्रसिद्धिः। सि. दं तु नित्यशब्दत्वादिति । अथ लक्षणैकचक्षुष्कः कश्चिद्व्याकरणबलेनैव मार्टीत्यादिप्रयोगेषु व्युत्पित्सेत तथापि न क्षतिः। शालामालादावाकारे श्रुते आत्वसामान्यलक्षणप्रत्यासत्या मार्टीत्यादिप्रयोगसमवायिनां सर्वेषामाकाराणां वृद्धिशब्दवाच्यताग्रहात् । सामान्य लक्षणानभ्युपगमपक्षे त्वात्वजानौ शक्तिय. हात् शक्यनुभवपदार्थस्मरणवाक्यार्थबोधानां समानप्रकारकत्वेनैवातिप्रसङ्गभङ्गाभ्युपगमाद्वा । अन्यथा गेहे घटोस्तीति वाक्यादप्यपूर्वव्यक्तिने गृह्यतेति दिक् अत एव नवेतिविभाषति सूत्रे भाष्यकारो वक्ष्यति।साधुत्वस्य विधेयत्वे विभाषारित्यादिना तस्यैव विकल्पापत्तिः।तस्मात्सम्प्रसारणायेव विकल्प्यतइति।एषैव लडादिविधौ गतिः।न चैवं साध्वनुशासनत्वभङ्गः । साधुत्वविशिष्टस्यैव सर्वत्र लक्षणया विधानमिति कुन्मेजन्तसूत्रे विवरणकारादिभिरुक्तत्वात् । केवलविधानपि यदिह परिनिष्ठितं तत्साध्विति श्रु. तार्थापत्ति प्रकल्प्य वाक्यात्साधुत्वसिद्धेश्च । इह च प्रत्येक वाक्यपरिसमाप्तिः । मालादीनां चेत्यादिलिङ्गात् । ब्राह्मणा भोज्यन्तामित्यादौ तथा दर्शनाच्च । यद्यपि गर्गाः शतं दंड्यन्तामित्यादौ समुदायेपि वाक्यपरिसमाप्तिदृश्यते । गुणकर्मभूतानामपादानस्थानापन्नानांगर्गाणामनुरोधेनेप्सिततमकर्मतया प्रधानभूतस्य शतस्यावृत्त्ययोगात् । तथापीह शास्त्रे यत्न
Page #95
--------------------------------------------------------------------------
________________
१ पा. ३ आ. शब्दकौस्तुभः ।
९५ विना समुदाये शास्त्रं न समाप्यते। अत एव उभे अभ्यस्त सहति सहग्रहणं . वार्तिककृद्वक्ष्यति । भाष्यकारस्तूभेग्रहणमेवैतदर्यमिति वक्ष्यति । अन्यथैकाचो द्वे इत्यनुवृत्या सिद्धेः किमुभग्रहणेन । संयोगसंज्ञायां समाससंज्ञायां च महासंज्ञाकरणमेवान्वर्थताविज्ञानार्थमिति यत्नः । अत एव सह सुपेति सहग्रहणं योगविभागेन तिङन्तादिसमासविधानार्थमिति स्थापयिष्यते । इह तपरकरणमैजर्थमीदेदितिवदुच्चारणार्थमसंदेहाथै चेति प्रपञ्चितमेो. औजितिसूत्रयोः । यत्त्विहोक्तं वार्तिककृता । आ. कारस्य तपरकरणं सवर्णामिति, तत्तु भेदका गुणास्तपरसूत्रं चानणि विध्यर्थमित्यभिप्रेत्य भाष्ये त्वभेदका गुणा इति स्थितम् । गुणा उदात्तानुदात्तस्वरिवानुनासिका नान्तरीयकतयोच्चार्यमाणा अपि यत्नं विना न विवक्ष्यन्तइत्यर्थः । अनडुदात्तोऽडुदात्त इत्यादावुदात्तग्रहणं चेह ज्ञापकम् । अन्यथा युदात्तमेवोच्चारयेल्लाघवात् । ननु यद्यभेदका. गुणास्तार्ह यद्वक्ष्यति भाष्यकारः हत्यादेशस्य वधैः स्थानिवद्भा. वादनुदात्तत्वादिप्रतिषेधे मासे तद्वारणाय वध्यादेशे उदात्तनिपातनं करिष्यते । तथा चैकाच उपदेशइति सूत्रे एकाग्रहणं न कर्त्तव्यमिति । तदेतद्विरुध्येत । अविवक्षाप्रसङ्गात् । अ. थोच्येत । तत्रापि स्थानेन्तरतम इति वचनादादेशस्य यः स्व रः प्राप्तस्तस्मिन्नुच्चारयितव्ये उदात्तोच्चारणं यत्नेन विवक्षाथै ज्ञायतइति । एवमपि यद्वक्ष्यति षष्ठे चतसर्याधुदात्तानिपातनं करिष्यते स निपातनस्वरश्चतुरा शसीत्यस्य बाधको भविष्यतीति तद्विरुध्यत । चतुश्शब्दो खव्युत्पत्तिपक्षे नः संख्याया इति फिदसूत्रेणाद्युदात्तः चतेरुनिति व्युत्पादनेपि नित्स्बरेणायुदात्त एच । तत्स्थानिकस्य चतसृशब्दस्यापि स्थानिस्त
Page #96
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । . [१ अ० रेणायुदात्तस्योच्चारणोपपत्तौ चतुरः शसीत्येतद्वापकत्वायोगात् । अपि च अस्थ्यादीनामप्याद्युदात्तत्वादन्तादेशस्यानडोपि स्थान्यनुरूपेनुदात्तएवोच्चारणीय उदात्तोच्चारणं विवक्षार्थ भविष्यतीत्युदात्तग्रहणं निष्फलमेव, प्रत्युत क्रियमाणं तद्यत्नाधिक्येप्यविवक्षां ज्ञापयेत् । यदप्येकश्रुत्या सूत्रपाठात्क्व चिदुदात्तोचारणं विवक्षार्थमिति, तदपि चिन्त्यम् । एवं सत्यनडोप्युदात्तोच्चारणेनैव सिद्धावुदात्तग्रहणवैयपित्तेः । उक्तज्ञापनासम्भवाच्च । तथाहि । किं ज्ञा. प्यम् । स्वशब्देनानुपात्तो गुणो न विवक्ष्यतइति । आहोस्विदसति यत्नविशेषे न विवक्ष्यतइति । आये निपातनस्वरो न विवक्ष्येत । अन्त्ये तूदात्तोच्चारणएव विवक्षाहेती यत्नविशेषे स्थिते कथं ज्ञापकोत्थानं मूलशैथिल्यात् । तस्माद् गुणानामभेदकत्वप्रतिपादकमत्रत्यं भाष्यमुत्तरग्रन्थविरुद्धमेवेति चेत् । उच्यते । विभाषा छन्दसीति वैकल्पिकमैकश्रुत्यमङ्गीकृत्य पक्षान्तरैरपि परिहारा भवन्तीति न्यायेन तत्र तत्रायुदात्तनिपातनं करिष्यतइत्युक्तम् । इह तु त्रैस्वर्येण सूत्राणां पाठमाश्रित्य स्वरूपेणोपात्तस्य गुणस्य नान्तरीयकत्वेनाविवक्षितत्वसम्भवादुदात्तग्रहणं ज्ञापकमित्युक्तमतो न विरोधः । यद्वा । अणुदित्सवर्णस्येत्यत्राग्रहणेनैव सिद्धे गुणभिन्नानां यवलानां संग्रहाय क्रियमाणमण्ग्रहणं गुणानां भेदकतामपि ज्ञापयति । भेदकाभेदकत्वपक्षयोश्च जातिव्यक्तिपक्षयोरिव लक्ष्यानुरोधाव्यवस्थेत्युक्तं हलमूत्रे । तेन भेदकत्वपक्षाश्रयणेनायुदात्तनिपातनं करिप्यतइत्यादि भाष्यं बोध्यम् । अत एव चेदमस्त्यदायत्वे अष्टन आ विभक्तावित्यादौ चानुनासिको न प्रवर्तते । नन्वणग्रहणं हलो यमामिति लोपे ऽन्यतरस्यांग्रहणानुवृत्तिज्ञापनार्थमित्यु
Page #97
--------------------------------------------------------------------------
________________
१ पा. ३ आ.
शब्दकौस्तुभः ।
९७
क्तमिति चेत् । न । उभयज्ञापकत्वेप्यविरोधात् । नहोकेनैकमेव ज्ञाप्यमिति नियमः । यावता विनानुपपत्तिस्तस्य सर्वस्य ज्ञाप्यत्वात् । अत एवाऽऽत्वविकल्पः कृतात्वस्य पदसंज्ञा चेत्यु
-
मनो दीर्घादिति दीर्घग्रहणेन ज्ञापयिष्यते । अत एव च संहितायामित्यधिकारेण संहिताया अनित्यत्वं कालव्यवायेण्यानङादिप्रवृत्तिश्चेत्युभयं ज्ञाप्यतइति दिक् । एवं चाकारस्य तपरकरणं सवर्णार्थमितीहत्यं वार्तिकमपि भेदकत्वपक्षेण साध्वेव । भाष्ये तु पक्षान्तराभिप्रायेण ऐजर्थवमुक्तम्, तदपि यथोद्देशपक्षे बोध्यम् । आदैचां संज्ञाविधावनुवाद्यत्वेन सवर्णग्राहकत्वप्रसक्तेः । कार्यकालपक्षे तु विधिवाक्येनैव वृद्धिसंज्ञा विशिष्टानामादैचां भाव्यमानतया सवर्णग्रहणं न प्राप्नोत्येव । यथा च ज्योतिष्टोमराजसूयादिशब्दानां यागविधावेव सामानाधिकरण्यानामधेयत्वावगतिर्न तु वाक्यान्तरेण तथास्मिन्पक्षे वृद्धयादीनामपि, वृद्धिरादैजिति सूत्रं त्विकोगुणवृद्धीतिवत्पदोपस्थापकम् । उपस्थाप्यस्य संज्ञितया परं संज्ञासूत्रव्यवहारः । आद्यI पक्षे तु यन्न दुःखेनेत्यादौ स्वर्गशब्दार्थावगमवदिहैव वृद्धयादिशब्दार्थावगम इति विशेषः । तदयं निर्गलितः सूत्रार्थः । कृतानामकृतानां चादैचां प्रत्येकं वृद्धिसंज्ञा स्यात् । आश्वलायनः । ऐतिकायनः । अश्वलेतिक शब्दाभ्यां नडादित्वात्फक्यादिवृद्धिः । उपगोरपत्यमौपगवः ||
अदेङ्गुणः || अदेङां गुणसंज्ञा स्यात् । तपरकरणमिह स - वर्थम् । तेन तरतीत्यत्राकार एव न तु कदा चिदाकारः । न च प्रमाणत आन्तर्येण नियमसिद्धिः । रपरत्वे कृते एकस्याध्यर्द्धमात्रत्वादपरस्यार्द्धतृतीयमात्रत्वात् । पचन्ति चेता स्तोता ॥
इको गुणवृद्धी । यत्र ब्रूयाद् गुणो भवति वृद्धिर्भवतीति तत्रे
१३
Page #98
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । . [१ अ. क इति षष्ठयन्तमुपस्थितं बोध्यम् । चेता स्तोता। अहादित्यादि। इक इत्युक्तेर्नेह । याता ग्लायति उम्भितेति । तथाच वात्तिकम् । इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थमिति । ननु नैतानि सन्ति प्रयोजनानि ज्ञापकेनानिकां व्यावृत्तिसिद्धेः । तथाहि । अकारस्य पचतीत्यादौ शपन्तिपञ्चाश्रित्य यथाक्रम पुगन्तेति सार्वधातुकार्द्धधातुकयोरिति च सूत्रेण सत्यपि गुणे रूपे विशेषो नास्ति । अचिकीर्षीदित्यादौ त्वतोलोपेन वृद्धिर्बाध्यते ण्यल्लोपाविति पूर्वविप्रतिषेधस्य वक्ष्यमाणत्वात् । सूत्रारम्भपक्षेपि ह्येषैव चिकीर्षक इत्यादी गतिः।अचोणितीत्यत्र निदिष्टस्थानिकत्वेनेपरिभाषाया अप्रवृत्तेः । अयासीदित्यादौ तु सिचि वृद्धौ सत्यामपि न क्षतिः । वस्तुतस्तु सा परत्वात् सगिड्भ्यां बाध्यते । येन नाप्राप्तिन्यायेनापवादत्वाबाध्यतइति तु निष्कर्षः । न च याता वातेत्यादावातो गुणप्रसङ्गः। गापोष्टगिति टकः किंखेनाकारस्य गुणो न भवतीति ज्ञापितत्वात् । तद्धि कित्त्वं सामग इत्यादावाल्लोपार्थ क्रियते । यदि त्वाकारस्य गुणः स्यातहि द्वयोरकारयोः पररूपेण सामग इत्यादिरूपसिद्धौ किं किस्वेन । न चेह चिकीर्षक इत्यादाविव परत्वादांगत्वाच्चातो लोप. एवोदाहर्तुमुचितो न तु पररूपमिति वाच्यम् । तावतापि ज्ञापकत्वे बाधकाभावात् । वस्तुतस्तु नेह लोपेन भवितव्यम् । तत्र ह्यनुदात्तोपदेशेत्यतोनुवृत्तेनोपदेशग्रहणेनाद्धधातुकस्य विशेपणादा धातुकोपदेशे यदकारान्तं तस्यातो लोपो विधीयते । अन्यथा गतो गतवानित्यादावतिप्रसङ्गात् । न चासिद्धवत्सूत्रेण निर्वाहः । तस्य भाष्यकृता प्रत्याख्यास्यमानत्वात् । किं चाय पय गतौ, आभ्यां विप्यत् पदिति रूपं माधवादिभिरुदाहृतं तदपि यथाश्रुते न सिद्धयेत् । तस्मादुपदेशानुवृत्तिरेव शरणम् ।
Page #99
--------------------------------------------------------------------------
________________
१पा. ३ आ. शब्दकौस्तुमः । कथं तर्हि घिनुतः कृणुत इत्यादावतो लोप इति चेतासन्नियोगशिष्टतया उप्रत्ययोपदेशवेलायामेवाकारस्यापि बुद्धयारोहादिति के चि
अन्ये तु धिन्विकृण्व्योरचति सौत्रक्रमानुरोधात्पथममकारादेशस्तदनन्तरं चशब्दाकृष्ट उप्रत्यय इति नोक्तदोष इत्याहुः। नन्वेवं सामगायेत्यादावेकादेशस्य पूर्वान्तत्वेन ग्रहणादातोधातोरित्यालोपः स्यादिति चेत् । अत्र कैयटः । अकारमाश्रित्य कृतो यशब्दः सनिपातपरिभाषया लोपं न प्रवर्त्तयति । दीर्घत्वं तु कष्टायति निपातनाद्भवतीत्येओसूत्रे स्थित्वा समाहितवान् । तस्यायमा. शयः । यादेशे हि इस्वत्वविशिष्टमत्वं प्रयोजकम् । तद्विधावत इत्यनुवृत्तेः । तत्र यद्यपि दीर्घण इस्वत्वांशो निवर्तितस्तथाप्यत्वमात्रमादेशप्यनुवर्तते । तदपि चेल्लोपेन निवत्येत तर्हि परिभाषाविरोधः । दीर्घाशे परं ज्ञापकात्परिभाषा बाध्यते । न चैवमंशान्तरेपि तहाधोस्त्विति वाच्यम् । तदबाधेप्युपपत्तेः । प्रकृतसूत्रे एओसूत्रे च गापोष्टकः कित्त्वस्यानन्यार्थतां वदन् भाष्यकारश्चात्र प्रमाणम् । एतेन शुभंयाशब्दस्य नपुंसके इस्वत्वे - यादेशे दीर्घ च सत्यातोधातोरित्यालोपे च शुभंय्य इत्यादि माधवोदाहृतं भाष्यविरोधाचिन्त्यम् । अत एव नपुंसके श्रीपं ज्ञानवदिति ग्रन्थं श्रीगयेतिरूपपरनया यथाश्रुतमेष समञ्जसं भक्त्वा माधवानुरोधेन प्रायेण ज्ञानवदिति व्याचक्षाणा अपि प्रत्युक्ताः । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति । इतरथा हि एकारमेवोपदिशेत् । मात्रालाघवविरहेपि प्रक्रियालाघवसत्त्वात् । न चैवमायादेशोपि न स्यादिति वाच्यम् । यं विधि प्रत्युपदेशो ऽनर्थकः स विधि - ध्यते यस्य तु विनिमित्तमेव नासौ बाध्यतइति न्यायात् ।। -गुणं प्रति किारोपदेशो ऽनर्थकः । ग्ले इत्यस्यापि सुपठत्वात्।
Page #100
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[१ अ.
आयादेशस्य तु निमित्तमेव । न च ग्लायइत्येव पठ्यतामिति वाच्यम् । तथा सति हि त्वया ग्लायतइति रूपं न स्यात् । यकारद्वयश्रवणप्रसङ्गात् । जग्लावित्याद्यसिद्धयापत्तश्च । यतु एकाजजन्तत्वाभावादिप्रसङ्गेन ग्लातेत्यादि न स्यादिति । तन्न । अनुदात्तोपदेशेष्वेषां सुपठत्वात् । न चैवमग्लासि. टामित्याद्यसिद्धि, रनादन्तत्वेन सगिटोरसम्भवादिति वाच्यम् । लोपो व्योरिति यलोपे कृते सगिटोः सुलभत्वात् । सन्निपातपरिभाषा त्वनित्येति कृतितुग्ग्रहणेन ज्ञापयिष्यते । तेन वल्सन्निपातेन कृतो यलोपो वल्सन्निपातविघातकमपीटं प्रवतयिष्यत्येव । अनित्यताश्रयणेनैव हि दााक्षः गोद इत्यादावदातोर्लोपः । अन्यथा इश्कप्रत्ययौ प्रति तयोरुपजीव्यत्वाल्लोपो न स्यात् । अस्तु वा सन्निपातपरिभाषाश्रयणादग्लासिष्टामित्यादि न सिध्यदित्यपि यान्तोपदेशे दोषान्तरम् । सर्वथापि संध्यक्षराणामुपदशसामर्थ्याद् गुणो न । आयादयस्तु भवन्त्येवेति सिद्धम्।स्यादेतत्।आदे च इत्यात्वमपि तर्हि बाध्यतां, नौजुपदेश आत्वस्य निमित्तम् । ग्ले इत्युपदेशेपि तस्य सुकरत्वा. त्। शिति गुणेनाशित्यात्वेनैचोपहारे प्राप्ते ऐजुपदेशसामर्थ्येन गुणात्वयोर्मध्ये कतरद्वाध्यं कतरनेत्यत्र विनिगमनाविरहेणोभय. बाधध्रौव्यात् । न चैवमात्वविधेः कोवकाश इति वाच्यम् । धेट पाने शो तनूकरणे इत्यादरवकाशस्य स्पष्टत्वात् । नन्वेवमादेङ् इत्येव ब्रूयात् । तथा चैज्ग्रहणं निरवकाशमेवेति चेत् । न । उत्सरार्थत्वात् । मीनातिमिनोतीत्यत्र ह्येच इत्यनुवृत्त्या आकारान्तानामेजन्ताः प्रकृतय एजन्तानामपीकारान्ता इति घुसंज्ञासूत्रे वार्तिककारः स्फुटीकरिष्यति । अत्राहुः । अन्य. तरबाधेनैव संभवे उभयबाधकल्पनं तावदन्याययम् । तत्र यद्य
Page #101
--------------------------------------------------------------------------
________________
१ पा. १ आ. शब्दकौस्तुभः ।
१०१ गुरपि विशेषों नावधार्येत तार्ह विनिगमनाविरहात्स्यादेवोपयबाधः । अस्ति चेह विनिगमकम् । न ध्याख्योत सूत्रे ध्यायःतेः कृतात्वस्य निर्देशनात्वाबाधज्ञापनात् । किञ्च एज्ग्रहणसामर्थ्यादप्यात्वं भवति । यत्तूक्तमुत्तरार्थ तदिति । तत्र । मीनातीति सूत्रेण हि नैचःस्थाने आत्वं विधीयते किन्वेनिमिचे प्रत्यये विवक्षिते उपदेशावस्थायामेवान्त्यमात्रस्यात्वं विधीयते । अन्यथा दाय इत्यादौ भाचे घवं बाधित्वा एरच् स्यात् । इषदचदानःस्ववदान इत्यातो युच्च न स्यात् । अवदाय इतिश्यायधेति -णो न स्यात् । स्पष्टीकरिष्यते चेदं षष्ठएव भाष्यकृता । एवं चैनिमित्ते प्रत्यये इत्युच्यमानेपि दापयति मापयतीत्यादि सिध्यत्येव णिचो गुणं प्रत्यपि स्वरूपयोग्यत्वात् । वृद्धया गुणबाधेपि योग्यतानपायात् । न चेह फलोपधानं विवक्षितम् ।
आत्वस्यैविषये मागेव प्रवृत्तेरभ्युपगमात् । अन्यथा घञ्युच्णप्रत्यया न स्युरिति समनन्तरमेवोक्तम् । तस्मादात्वं भवत्येव । गुणस्त्वैकारोपदेशसामर्थ्याद् वाध्यतइति स्थितम् । व्यं. जनानां मुणः स्यादिति परमवशिष्यते ।, ततश्च हिनेत्यत्र -इकारस्य कंठ्यत्वादकारः स्यात् उम्भितेत्यत्र भकारस्यौष्ठयत्वादोकारः ततश्च येता. उनवितति स्यात् । ईकारस्य यणि कृते ऽकारस्येटा सहामुणः । न त्वल्लोपः । आर्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति व्याख्यातत्वात् । उम्भेश्चानुस्वारपरसवर्णयोर्मुणे कर्चव्ये ऽसिद्धत्वादिति, नैष दोषः । सप्तम्यां जनेर्ड इत्यत्र डप्रत्ययस्य डिस्करणं ज्ञाप्रकम् भ व्यंजनस्य गुणो भवतीति । यदि हि स्यात्तार्ह नकारस्था र्द्धमात्रिकस्य मात्रिके अकारे गुणे कृते. त्रयाणामकाराणामतो गुणइति पररूपे च सिद्ध रूपमुफ्सरजो मंदुरज इति तरिक
Page #102
--------------------------------------------------------------------------
________________
१०२
शब्दकौस्तुमः । . [१ अ. टिलोपार्थेन डित्करणेन । स्त्रीगवी पुंगवानां गर्भाधानाय प्रथममुपसरणमुपसरः । प्रजने सर्तेरित्यप्पत्ययो घोपवादः । प्रजनः स्यादुपसर इति. संकीर्णवर्गे ऽमरः । प्रजायतेस्मिन्मजनः पशूनां गर्भग्रहणकाल इति क्षीरस्वामी । उपसरे जात उपसरजः, मंदुरायां जातो मन्दुरजः डयापोः संज्ञाछन्दसोर्बद्ध लमिति हस्तः । वाजिशाला तु मन्दुरेत्यमरः । न च डकार: श्रवणार्थोस्त्विति वाच्यम् । मावृटशरत्कालदिवां जइति कृतटिलोपनिर्देशाल्लिङ्गात् । ननु नेदं लिङ्गं जै क्षये इत्यस्य कपत्ययान्तस्य ज इति निर्देशोपपत्तेः । कथं तार्ह कर्मण्युपपदे विहित आतः कः प्रावृषिज इत्यादौ स्यादिति चेत् । द्विपः पादप इत्यादिसिद्धये मुपि स्थ इत्यत्र सुपीति योगविभागाभ्युपगमात् । सत्यम् । डकारस्य श्रवणार्थत्वे इत्संज्ञाशास्त्रं बाध्येत ।न च प्रयोजनाभावः। टिलोषार्थत्वात्। न च गुणेनान्यथासिद्धिः। तदभावस्यापि ज्ञाप्यत्वात् । निषादस्थपत्यधिकरणन्यायेन फलमुखगौरवस्यादोषत्वात् । डकारस्य श्रवणार्थताभ्युपगमे सिद्धं तु नित्यशब्दत्वात्किमर्थ शास्त्रमिति चेनिवर्तकत्वात्सिद्धमिति - द्धिसूत्रस्थवार्तिकविरोधाच्च । नन्वसति डिचे रूपं न सिध्यति । नकारस्थाने गुणस्यापि सानुनासिकस्य प्रसङ्गात् । न च निरनुनासिकेन प्रत्ययाकारेण सह पररूपाच्छुद्धो भविष्यतीति वाच्यम् । पररूपविधानपि गुणानामभेदकतया पर्यायेण सानु नासिकप्रसक्तर्दुवारत्वादिति । मैवम् । एडि पर इतीयता सिद्ध रूपग्रहणादाधकाद्यत्नाद् गुणविवक्षोपपत्तेः । तस्य त्येतदेव फलम् । यादृशं परस्य रूपं निरनुनासिकत्वाद्युपेतं ताडगेव यथा स्यादिति । तस्माज्जनेर्डवचनं ज्ञापकं न व्यञ्जनस्य गुणो भवतीति । एवं चेग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थमिति वा
Page #103
--------------------------------------------------------------------------
________________
१ पा. ३ मा. शब्दकौस्तुभः ।। तिकमसङ्गतमिति प्राप्ते भगवान् भाष्यकार इत्थं सिद्धान्तमाह । उक्तरीत्या ज्ञापकेनैवात्सन्ध्यक्षराणां निरासेपि व्यञ्जननिवृ. स्यर्थ सूत्रं कर्त्तव्यमेव । यत्तूक्तं जनेर्डवचनं ज्ञापकमिति । तम। गमेरपि ह्ययं डो वक्तव्यः । गमेश्वगुणे क्रियमाणे आन्तयंत ओकारः स्यात् । ततश्च नगः अगः अभ्युद्गः समुद् इत्यादि न सिध्येत् । ततश्च तत्र चरितार्थ डिवं कथं व्यञ्जनस्य गुणाभावं ज्ञापयेदिति । ननु जनेर्ड इत्येव डप्रत्ययो गमेने विधीयते किं तु गमश्च अन्तात्यन्ताध्वदूरपारेति प्रकरणे पठितनान्यत्रापि - श्यतइति वार्तिकेन डप्रत्ययान्तरमेव । तथा च कथं भाष्यकृतोतं गमेरप्ययं ड इति । सत्यम् । सप्तम्यां जनेर्ड इति प्रकरणे सावदन्येष्वपि दृश्यतइति सूत्रेण डो विधीयतइति निर्विवादम् । तत्र चान्येष्वप्युपपदेषु जने? दृश्यतइत्यक्षरार्थः । तेनाजो द्वि. जोनुज इत्यादि सिद्धम् । एवमपि धात्वन्तराड्डविधायकाभावात्परितः खाता परिखेत्यादि न सिद्धयेदित्याशङ्कय तत्र वातिककृतोक्तमन्येभ्योपि दृश्यतइति । अयं च सौत्रदृश्यपिग्रहणसूचित एवार्थो वार्तिकेन विवृतो न त्वपूर्वः संगृहीतः । तथा च तत्र वृत्तिकार आह । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि भवति । परितः खाता परिखेति । दृशिग्रहणात्कारकान्तरे कालान्वरे चेत्यादि तत्रैव स्पष्टम् । एवं स्थिते सौत्रेणैवानेन परिखेत्यादेरिव नगोगइत्यादेरापि सिद्धावन्तात्यन्तेति प्रकरणे ऽन्यत्रापि दृश्यतइति वार्तिके न कर्त्तव्यमेव । क्रियमाणं वा एतत्सूत्रसिद्धार्थविवरणपरतया नेयमित्याशयेन भगवतीक्तम् । गमेरपि स्वयं डो वक्तव्य इति । नन्वेवमपि डिवं व्यर्थमेव । गर्विचैव सिदे गमेझैरिति डो प्रत्ययविधानेन मकारस्य गुण ओका
Page #104
--------------------------------------------------------------------------
________________
१०४
शब्दकौस्तुभः
[१ अ6 रो न भवतीति ज्ञापितत्वात् । तस्माडपत्ययस्य डित्त्वं पूर्वोक्तरीत्या ज्ञापकमेव । किं च । डोमत्ययविधानमेव व्यन्जनस्य गुण इति ज्ञापयति । अन्यया विचैव सिद्धौ किं तेनोत चेत् । न । विचि हि सति गुणः क्रियमाणः सानुनासिक ओकारः स्यादिति निरनुनासिकसिद्धये डोप्रत्ययविधानादिति दिक् । अत्र-बदन्ति । तनोतेर्डउ सन्वच्चेति डित्करणान्न व्यंजनस्य गुणो भविष्यति । यत्तु शास्त्रातिदेशोयं कार्यातिदेशो वा, ऽऽये अर्णनविषतीत्यत्रेव द्विवचने ऽचीति स्थानिवद्भावेन तँत अउइति स्थिते सन्यत इतीकारः सानुनासिकः स्यात् । द्वितीयेत्वभ्यासकार्य दुर्लभमिति । तन्न । आये गुणानां भेदकत्वादिमौ इमें इतिवदुपपत्तेः। द्वितीयपि बभ्रुणुहरित्याद्यर्थ धात्वधिकारीयद्वित्वे ऽभ्याससंज्ञास्वीकारात् । अत एव लिटिधातोरिति सूत्रे धातुग्रहणं तिष्ठतु तावत्सान्यासिकमिति भाष्यम् । आदेच इति सूत्रे धातुग्रहणानुवृत्तेरापाततो भाष्ये प्रदर्शितत्वेपि ष्यविधिभाष्ये ऽननु: वृत्तरेव सिद्धान्तिततया 'भाष्याशयस्येत्थमेव वर्णनीयत्वादिति दिक् । किञ्च । यथा स्थानेन्तरतमपरिभाषा संस्कृतावनु. नासिकपरसवर्णविधी स्थानप्रयत्नाभ्यामन्तरतम एतन्मुरारिस्त्वं करोषीत्यादिकं विषयं लब्ध्वा चरितार्थौ चतुर्मुखः कुण्डं रथे. नेत्यादौ न प्रवर्त्तते इति हयवरदमूत्रे सिद्धान्तितम् । तथेहापि सार्वधातुके जुसि गुणः सिचि वृद्धयादयः नेता अबिभयुः अ. नैषीदित्यादौ चरितार्था, उम्भिता अनेनिजुरभैस्सीदित्यादिष न भविष्यन्ति । न चैवं नेता अनैषीदित्यादावेव स्थान नगुणप्रमाणैस्तिभिरान्तर्यलाभाचेता अचैषीदित्यादौ प्रमाणान्तर्यविरहेण गुणवृद्धी न स्यातामिति वाच्यम् । मृघस्यदः क्मरजिति क्मरचः क्नोश्च कित्करणेन प्रमाणतआन्तर्यस्याविव क्षा
Page #105
--------------------------------------------------------------------------
________________
१ पा. ३ आ. शब् कौस्तुभः ।
१०५ या ज्ञापनात् । न चैवमपि ईहिता ईशितेत्यत्र कण्ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयोस्तादृशावेवादेतौ स्यातामिति वाच्यम् । नाज्झलाविति सूत्रस्य प्रत्याख्यानावसरे ऊष्मणामीपद्विवृततायाः सिद्धान्तयिष्यमाणत्वात् । न चैवं वितृतकरणाः स्वरास्तेभ्य एओ विवृततरावित्यादि शिक्षानुरोधाच्चेता नेतेत्यादावपि गुणाप्रवृत्तिः स्याद्विवृतविवृततरत्वकृतवैलक्षण्यसत्त्वादिति वाच्यम् । तथासति विधानविषयतापत्ते, जयः करणमित्यादिनिर्देशैः क्नुसन्क्मरच्मभृतीनां कित्त्वेन चेकारादिषु गुणप्रवृत्त्यनुमानाच्च । आत्सन्ध्यक्षरव्यञ्जनेषु तु गुणायप्रवृत्तिरेवोचिता । तथा च निर्देशाः यातिवातिद्रातिप्साति,ध्यायतेः सम्प्रसा. रणं च, वहतिचिनोतिदेग्धिषु चेत्यादि । अथ क्नोः कित्त्वेनापि गुणवृद्धिविधावन्तरतमपरिभाषानुपस्थितिरेव ज्ञाप्यतामिति चेन । सत्यामपीपरिभाषायामीकारस्याकारादिनिवृत्तये ऽन्तरतमपरिभाषाया आवश्यकत्वादिति । तदेवं डओर्डित्त्वादनान्तर्यानिर्देशाच निराकृतं व्यञ्जनं भाष्यएवैच आकारश्च निराकृतः । तस्माद्व्यर्थ सूत्रमिदम् । अथ यद्युत्तरार्थता,विभज्य योगं किमिति परिभाषात्वामिष्यते । अत्रोच्यते । ङिति चेति सूत्रे चकारस्य इतिशब्दपर्यायतामाश्रित्येक इति ये गुणवृद्धी तयोनिषेध इति तावद्वक्ष्यते । अन्यथा लैगवायन इत्यत्र ओर्गुणोपि निषिध्येत । औपगवादिस्तु तस्यावकाशः। तथा पौरोहित्यमित्यत्रादिद्धिश्च न स्यात् । एवं स्थिते यदीयं परिभाषा प्रत्याख्यायते तदा कथञ्चित्तत्रतत्र गुणवृद्धिविधाविकामेव स्थानित्वपर्यवसानेपीक इति पदानुच्चारणेनेग्लक्षणत्वविरहानिधेषो न प्रवर्तेत । ततश्च कृतः कृतवान् कुरुतः छिन्नं छिन्नवानित्यादि न सिध्येत् । निषेधसूत्रं च निर्विषयं स्यात् । परिभाषाप
Page #106
--------------------------------------------------------------------------
________________
१०६.
शब्दकौस्तुभः ।
[ १ अ० .
रित्यागपक्षे इग्लक्षणयोर्गुणवृद्धयोरप्रसिद्धत्वात् । तदेतत्स्पुटीकृतं भाष्यकृता । उत्तरार्थमेव ता सिजर्थ वृद्धिग्रहणमिति । तस्य त्ययमाशयः । यद्यपि सिचि वृद्धिरिति विधौ वक्ष्यमाणरीत्या परिशेषादिकामेव स्थानित्वं लभ्यते । तथापीग्लक्षणत्वं विना निषेधो न प्रवर्त्तेत । तस्मादुत्तरार्थ निषेधप्रवृत्त्यर्थं च वृद्विग्रहणामिति । एवं च वदता न्यायसाम्याद् गुणग्रहणस्याप्येतदेव प्रयोजनं सूचितम् । कथं पुनर्गुणवृद्धिविधौ सर्वत्र परिभाषाव्यतिरेकेणेकः स्थानित्वपर्यवसानं येन निषेधार्थता वर्ण्यतइति चेत् । शृणु । सार्वधातुकार्द्धधातुकयोर्जुसिचेतिगुणौ तावदलोन्त्यपरिभाषयाङ्गान्त्ये ऽलि प्राप्तौ प्रागुक्तज्ञापकादिभिरात्सन्ध्यक्षरव्यञ्जनेभ्यो व्यावर्त्तिताविक्ष्वेव विश्राम्यतः । मिदि पुगन्तलघूपधादिगुणेषु तु स्थानी निर्दिष्ट एव । तथाहि । मिदेगुर्ण इत्यत्र मिद इर्मिदिस्तस्य मिदेरित्यर्थः, पुक्यन्तः पुगन्तः लघ्वी उपधा लघूपधा पुगन्तश्च लघूपधाचेति समाहारद्वंद्वात् षष्ठी । न चैवं यापयतीत्यादावतिप्रसङ्गः । सन्निपातलक्षणपरिभाषयादन्तलक्षणस्य पुको गुणाप्रवर्त्तकत्वात् । ऋच्छत्यूतामित्यत्रापि द्वयोर्ऋतोर्दीर्घस्य चेति त्रयाणां प्रश्लिष्टनिर्देशः । तद्यथा । आच ऋच ऋतः ऋच्छतेरा ऋच्छत्या स च ऋतश्च तेषामिति षष्ठीतत्पुरुषद्वंद्वो भयगर्भो द्वंद्वः । ऋच्छत्त्या च आ च ऋतश्चेति त्रिपदद्वंद्वो वा । तेन ऋच्छत्यकारस्य स्थानित्वं लभ्यते । वस्तुतस्तु चतुर्णामिह प्रश्लेषो बोध्यः तेनारिवान् सर्वभ्रूणान्यारुपीत्यादावर्तेः कसौ गुणः सिद्धः पुनर्विधानसामर्थ्यात् । अन्यथा कसोः कित्करणसामर्थ्यात्तितीर्वानित्यत्रेव गुणो निषिध्येत । एतच्च वसुश्चेति सूत्रे स्फुटीकरिष्यामः । तथा ऋदृशोङीत्यत्राप्यूरङि गुण इति योगो विभज्यते । ततो दृश, उरित्याद्यनुवर्त्त -
Page #107
--------------------------------------------------------------------------
________________
१पा. ३ आ. शब्दकौस्तुभः ।
१०७ ते । स्थूलदूरति मूत्रपि योगविभागः कर्तव्यः स्थूलदूरयुवहस्वानां यणादिपरामित्येको योगः, क्षिप्रक्षुद्रयोः पूर्वस्य च गुणः इति योगान्तरम् । तत्र स्थवीयानित्यादावोर्गुणेन सिद्धम् । आभीयस्यासिद्धत्वस्य श्नसोरल्लोप इति तपरकरणेनानित्यताज्ञापनात् भाष्यकृता प्रत्याख्यानाच्च । यण आदिर्यणादिः ततः परमिति समासः । तथा च क्षिप्रक्षुद्रयोर्यण आदी पकारदकारी ततः परस्य रशब्दस्य लोपस्ताभ्यामेव च पूर्वस्येकारस्योकारस्य च गुण इत्यर्थः । तदित्थं गुणाः सर्वे इकि विश्रान्ताः। मृजेद्धावप्यच इत्यपकृष्यते । मृजेईद्धिरचः,ततो णिति, अच इत्येव । न चैवममार्ट इत्यत्राटोपि वृद्धिः स्यादिति वाच्यम् । लादेशेषु कृतेष्वडिति पक्षे परत्वाद् वृद्धौ सत्यामट् । तत्र कृते पुनर्वृद्धिर्न भवति । सकृत्प्रवृत्त्या चरितार्थत्वात् । यदा त्वसिद्धवत्सूत्रप्रत्याख्यानाय ल्लुङितिद्विलकारकनिर्देशमाश्रित्योपदेशे आर्द्धधा. तुकइत्यनयोरन्यतरदनुवर्ण वा लावस्थायामेवाट क्रियते । एरनेकाच इति विभज्यणो यणित्यनुवर्त्यानेकाचश्चेत्तीण एवे.. ति नियममाश्रित्याद्धयैयातामित्यादौ यण् वार्यते । तदा लावस्थायां यद्यपि वृद्धिर्न भवति । लकाराणां डिवेन मृष्ट इत्या. दाविव तनिषेधात् । ततश्चान्तरङ्गत्वादडागम एव । तथाप्यत्याभावेन्त्यसदेशस्येति परिभाषामाश्रित्याटो वृद्धिनिवर्तनीया। परिभाषाप्रत्याख्यानपक्षे त्वङ्गाक्षिप्तेन प्रत्ययेनाविशेष्यते येन नाव्यवधानन्यायाच्च सिद्धममार्टइत्यादि रूपम् । सिचि वृद्धावपि विधेयायां नास्तीपरिभाषाया उपयोगः व्यावाभावात् । न चाचिकीर्षीदित्यकारो व्यावर्त्यः । ण्यल्लोपाविययणगुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषिद्धमिति वचनादल्लोपेनैव सिद्धत्वात् । अन्यथा चिकीर्षक इति न स्याच्चिकर्षाियक इति
Page #108
--------------------------------------------------------------------------
________________
१०८
शब्दकौस्तुभः । . [१ अ० च प्रसज्येत । आकारस्य तु नास्ति विशेषः सगिड्भ्यां षाधश्वेत्युक्तम् । एजन्तमपि न सम्भवति, आत्वविधानात् । उदवोढामित्यादौ तु ढलोपस्यासिद्धता । रैनौग्लौशब्दानामाचारक्विबन्तानां सत्यामसत्यां वा वृद्धौ न कश्विद्विशेषः । गोशब्दाक्विप्यगवीदित्यत्रापि नातिप्रसङ्गः । ऋ. त इद्धातोरित्यतानुवृत्तेन धातुग्रहणेन सिजाक्षिप्तस्य धातोर्विशे. पणे सति धातुरेव यो धातुन तु कथं चित्मातिपदिकमिति व्याख्यानादिति कैयटादयः । नन्वेवं कवेः अकवायीत्, विधोः अविधावीत, पितुः अपितारीत् । अन्तरङ्गमपि गुणं सिचि वृद्धिधितइति वदन्माधवो विरुध्येत । सत्यम् । यद्यविरोधः सम्पादनीय इत्याग्रहस्तीत्थं वर्णनीयम् । धातोरितिवदोत इत्यप्यनुवर्तते । तच्च वाक्यभेदेन सम्बध्यमानं नियमार्थ सम्पद्यते । ओदन्तस्य धातोश्चेद्वद्धिस्तहि धातोरेव धातोर्न तु नामधातोरिति । यद्वा । नेटीत्यत्र नेति योगं विभज्य मण्डूकप्लुत्या सम्बन्धानुवृत्त्या वा गोत इत्यनुवयोंकारान्तस्य धातो वृद्धिनिषिध्यते । अथवा बहुलं छन्दसत्यतो बहुलमित्यनुवर्त्य सिचि वृद्धिर्नामधाताविगन्तस्य भवति न त्वोदन्तस्येति कथं चित्समाधेयम् । व्यञ्जनेष्वन्तरतमपरिभाषाबलेनैवानुनासिकपरसवर्णयोरिवातिप्रसङ्ग उद्धृत एव । अभ्युपेत्य तु ब्रूमः । नामाप्तायां सिचि वृद्धावारभ्यमाणा हलन्तलक्षणा वृद्धिर्बाधिका भविष्य. ति । नेटीति निषेधस्तु हलन्तस्य यावती वृद्धि प्राप्ता सिचि वृद्धिरिति वा हलन्तस्येति वा तस्याः सर्वस्याः, न तु सूत्राविशेपप्रापितत्वे आग्रहः। तेनाकोषीदमोषीदित्यादौ द्विविधापिवृद्धिनिषिध्यतइति सुस्थम् । तस्मानिषेधसिद्धयर्थमिग्लक्षणतां सम्पादयितुं मूत्रमिति स्थितम् । स्यादेतत् । कृतः कृतवान् छिन्नश्छि
Page #109
--------------------------------------------------------------------------
________________
१ पा. ३ आ. शब्दकौन्तुमः । अवानित्यादौ निषधसिद्धये गुणग्रहणमस्तु । वृद्धिग्रहणं तु व्यथम् । न च मृष्टो मृष्टवानित्यादौ निषेधसिद्धिस्तत्फलम् । योगविभागेन सिद्धत्वात् । तथाहि । मृजेर्वृद्धिरित्यस्यानन्तरमजादौ डिति वेत्येवं रूपं वचनमवश्यं कर्त्तव्यम् । मृजन्ति मार्जन्तीत्यादिसिद्धयर्थम् । एवं स्थिते अजादौ डिन्तीति योगो वि. भज्यते । नियमार्थ चेदम् । कङिति चेद्भवत्यजादाववेति तेन मृ. टो मृष्टवानित्यादि सिद्धम् । ततोजादावपि विकल्पनेत्येतदर्थ वति द्वितीयो योग इति । तस्माद्वद्धिग्रहणस्य फलं दुरुपपादमिति । अत्राहुः । णू स्तुतौ धू विधूनने कुटादिषु पठ्येते । ताभ्यां लुङि अनुवादधुवीदितीष्यते तत्र सिचि वृद्धः डिन्तीति निषेधायेग्लक्षणता सम्पादयितुमिह वृद्धिग्रहणमिति । नन्विहान्तर्भूतसिज्मात्रीपक्षत्वादन्तरङ्गे उवाङि कृते हलन्तत्वाभेटीति निषेधः सिद्ध इति चेत् । न । सिच्यन्तर नास्तीति सिद्धान्तादुवङ: प्रागेव वृद्धिप्रसङ्गात् । स्यादेतत् । अन्तरङ्ग बलीय इति तावदचः परस्मिन्निति सूत्रे स्थापयिष्यते । तदविशेषात्सिच्यप्यस्तु । न चैवमचैषीद हैपीदित्यादौ गुणः स्यादिति वाच्यम् । तस्यैव वृद्धिसम्भवेनेष्टापत्तेः । नहींदानी विधाविग्ग्रहणमस्ति । येनैकारस्य वृद्धिर्न लभ्येत । न चैवमप्यस्तोषीदित्यादावन्तरङ्गत्वाद गुणे कृते ओतो नेति व्याख्यानपक्षे वृद्धयसम्भवः, बहुलग्रहणादनिगन्तानां नेति पक्षे त्वचैषीदित्यादावपि दोष एवेति वाच्यम् । ओतो धातोरेव धातोर्न तु नामधातोरिति तृतीयपक्षाश्रयणेन सर्वसमाधानात् । अकार्षीदित्यादी हलन्तलक्षणा - द्विरस्तु । अतारीदित्यादौ त्वन्तरगत्वाद् गुणे हलन्तलक्षणायां वृद्धौ नेटीति प्रतिषिद्धायामतो हलादरिति विकल्पं बाधित्वा ऽतोलान्तस्येति नित्या वृद्धिः । अलावीदित्यादाप्यन्तरगत्वा
Page #110
--------------------------------------------------------------------------
________________
११०
शब्दकौस्तुभः ।
[ १ अ०
द् गुणावादेशयोः कृतयोरतोलान्तस्येत्यत्र लोपोव्योरिति लोपेन वकारस्यापि व्याख्यानाभित्या वृद्धिर्भविष्यति । मा भवान वीत् । अमवीदित्यत्रापि तर्हि नित्या वृद्धिः स्यादिति चेन्न । णिविग्रहणमपनीय तत्स्थाने अविमन्योः प्रक्षेपेण वृद्धिनिषेधात् । न त्यस्मिन्पक्षे णिश्विग्रहणमुपयुज्यते । औनयीदश्वयीदित्यत्रान्तरङ्गत्वाद गुणायादेशयोः कृतयोर्यान्तानां नेत्येव निषेधसिद्धेः । नन्वेवमवेोरिव मवेरपि नित्यं निषेध एव स्यात् । इष्यते तु त्रिकल्पः । नैष दोषः । अतो लान्तस्येत्यत्र वकार - श्लेषेण या नित्या वृद्धिः प्राप्ता सेवेह विमव्योर्नेत्यनेन मवे र्निषिध्यते न त्वतोहलादेरित्येवापि । मध्येपवादाः पूर्वान्वि धीन्बाधन्ते नोत्तरानिति न्यायात् । न चैवं जागर्त्तेरपि तथा प्रसङ्गः । तत्र बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्व बाध्यतइति स्वीकारात् । यद्वा । अपवादे निषिद्धे उत्सर्गों न प्रवर्त्ततइति जागर्त्तावाश्रयणीयं मवतौ तु प्रवर्त्ततइति बाध्यतामान्यविशेषचिन्तयोर्वाधिके निषिद्धे बाध्यस्य प्रवृत्यप्रवृत्योथ लक्ष्यानुरोधेन व्यवस्थाया अनुपदमेव वक्ष्यमाणत्वात् । न चैवमवदित्यत्रापि नित्या वृद्धिः स्याद्वकारप्रश्लेषादिति वा च्यम् । सिचि वृद्धेरिवास्या अपि धातुग्रहणेन वारणात् । तस्मात्सिच्यन्तरङ्गाश्रयणेनैवानुवीदधुवीदित्यादेः सिद्धौ क्ङिति चेति प्रतिषेधस्यानपेक्षणाद्वृद्धिग्रहणं व्यर्थमेवेति । अत्रोच्यते । वकारमश्लेषे सति शवतिर्गतिकर्मा कम्बोजेषु विकार एवैनमार्या भाषन्तइति पस्पशायां भाष्यकारैरभ्युपगतस्य शब्धातोरपि नित्यवृद्धिप्रसङ्गः, तस्यापि प्रतिषेधे वा कथं णिश्विभ्यां निमानम् । गौरवप्रसङ्गात् । किञ्च । न वयं व्यसनितया सिच्यन्तर नास्तीति ब्रूमः । किन्तु न्यायवलाज्ज्ञापकवलात्फलानुरोधाच्च ।
1
Page #111
--------------------------------------------------------------------------
________________
१पा. ३ आ. शब्दकौस्तुभः ।
१११ तथाहि । येन नाप्राप्तिन्यायेनान्तरङ्ग. वृद्धथा बाध्यते । सत्यपि सम्भवे बाधनं भवतीत्यभ्युपगमात् । अन्यथा तक्रेण दाध न बाध्येत । नमकजादिभिश्च शप्पत्ययकप्रत्ययादयो न बाध्येरन् । देशभेदनोभयसम्भवात् । न च मध्येपवादन्यायेनोवडेच वृद्धया बाध्येत न तु गुणोपीति वाच्यम् । बाध्यस्य भेदेन विवक्षायां ह्येतदेवं स्यात् । बाध्यस्य सामान्यचिन्तायां तु स्वविषये प्राप्तं स्वानपवादभूतं सर्व बाध्यते, यथा ऽचिरइत्यतेन गुणदीर्घोत्वानि । अन्यथा तत्रापि मध्येपवादन्यायेन रेफो दीर्घोत्वे एव बाध्येत न तु गुणम् । तस्य परत्वात् । बाध्यस्य च क्व चिन्देन चिन्ताक्व चित्सामान्यरूपेणेत्युभयमपि लक्ष्यानुरोधात्तत्रतत्राश्रीयते।णिश्विग्रहणं चात्र लिङ्गम् । अन्यथान्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तानां नेति निषेधादेवौनयोदश्वयादित्यादेः सिद्धौ किं णिश्विग्रहणेन । ज्ञापकान्तरमप्युक्तं भाष्ये । यच्च करोत्यकारग्रहणं लघोरिति कृतेपीति । अस्यायमाशयः । अतो हलादेरिति सूत्रे ऽद्ग्रहणस्य न तावत्सन्ध्यक्षरादिकं व्यावर्त्यम् । लघुग्रहणेनैव व्युदासात् । इदुदृतः परमवशिष्यन्ते अचेनीदकोषीदनःदिति । तेप्यन्तरङ्गेण गुणेनापहृताश्चेत्तर्हि व्यर्थमदहणं स्यात् । न चाकुटीदपुटीदित्यादात्रुकारव्युदासाय. तदिति वाच्यम् । तत्राप्यन्तरङ्गेण गुणेन वृद्धिबाधे सति गुणे डिवान्निषिद्धपि वृद्धरप्रवृत्तेः। न हि देवदत्तस्य हन्तरिहते देवदत्तस्य पुनरुन्मज्जनं भवतीति न्यायात् । अत एव नान्तः पादमिति पाठे पूर्वरूपनिषेधे सत्ययादयोपि न प्रवर्तन्ते । तेन सुजाते अश्वसूनृते इत्यादि च सिध्यतीति स्वीकृतं भाष्ये । न चैवमपवादाभावे पुनरुत्सर्गस्य स्थितिरिति निर्विषयं स्याद् वृक्षावित्यादौ नादिचीति पूर्वसवणे निषिद्धे वृद्धिश्च न प्रवर्ततेति वाच्यम् । भिद्योद्धयौ
Page #112
--------------------------------------------------------------------------
________________
११२
शब्दकौस्तुमः । [१ अ० नदे, तौ सदित्यादि लिंगनापवादे निषिद्धे उत्सर्गोपि न प्रवर्चतइत्यस्यासार्वत्रिकत्वाभ्युपगमात् । तदेतत्तत्रतत्रोच्यते । नोत्सहते प्रतिषिद्धा सती बाधितुमिति । तथा च पक्षभेदाश्र येणातो हलादरित्यदहणमपि ज्ञापकमिति स्थितम् ॥ फलमप्यस्ति । यदि हि सिच्यन्तरंगं स्यात्तार्ह चिनीप्रभृतिभ्यो यङ्लगतेभ्यःचिरिणोतिजिरिणोतिभ्यां च लुङि सिचि अचेचायीदनेना. यीदचिरायीदजिरायीदिति न स्यात् । गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधप्रसंगात् । यदि तु बाध्यविशेषचिन्तायां मध्येपवादन्यायमाश्रित्य उवच बाध्यते न तु गुण इत्याश्रीयते तदाप्येतन्न सिद्धयेदेव । तस्मात्सिचि सर्वमप्यंतरंग नास्त्येवेति सिद्धान्तं साधयितुं बाध्यसामान्यचिंतैवाश्रयणीया । एतदथमेव हि भाष्ये ज्ञापकोपन्यासः कृतः । अन्यथा न्यायेनैव सिदेन्तरंगस्यापि बाधे किं ज्ञापकवर्णनेन । एवं स्थिते न्यनुवीत् न्यधुवीदित्यत्र डितिचेति निषेध एवाश्रयणीयस्तथा चेग्लक्षणत्वसिद्धये वृद्धिग्रहणमपीह कर्त्तव्यमेवेति स्थितम् । एवं च सत्यसम्भवादपि वृद्धथा सिच्यन्तरङ्गं सर्व बाध्यते । यदि हि स्यातार्ह क्वापि सिचीगन्तमङ्गं न लभ्यतेत्यवधेयम् । तथा चेग्लक्षणत्वस्य निषेधप्रवृत्त्यर्थमावश्यकत्वे स्थिते तत्रतत्रात्सन्ध्यक्षरव्यञ्जनादिव्यावृत्तिरपीपरिभाषयैव सिध्यतीति ज्ञापकव
नादिक्लेशोपि नाश्रयणीयः । न चैवं द्यौः पंथाः इममित्यादावपीपदोपस्थितिवशादिकामेवौत्वमात्वमत्वं च स्यादिति वाच्यम् । गुणवृद्धिशब्दयोरनुवृत्तौ पुनर्गुणवृद्धि ग्रहणसामर्थ्याद्धि शब्दव्यापारोप्याश्रीयते । गुणवृद्धी ये गुणवृद्धी न तु शब्दान्तरेण विहिते इत्यनुवृत्ताभ्यां विशेषणाद्वा । नन्वचश्चेति सूत्रे ह्रस्वादिग्रहणानुवृत्या संज्ञया विधाने पदोपस्थितिरिति स्थास्यति त
Page #113
--------------------------------------------------------------------------
________________
१ पा. ३ आ. शब्दकौस्तुभः ।
११३ सामर्थ्यादिव औत्पथिमध्यभुक्षामात्त्यदादीनाम इत्यत्रेपदोपस्थानं न भविष्यति । यदि हि स्यात्तीचश्चेत्यत्र संज्ञया विधानेतियत्नाश्रयणं व्यर्थ स्यादिति चेत् । न । दिवउदित्यादिब्वगुणवृद्धिसंज्ञकेष्वपरिभाषानिवर्त्तनेन चरितार्थत्वात् । अधन आ विभक्तावित्यादाविको ऽसंभवेन तत्र चरितार्थत्वाच । तस्मात् द्यौः पन्था इममित्यादिसिद्धयइहापि संज्ञाविधाने नियमं संपादयितुं पुनर्गुणवृद्धिग्रहणमिति प्राञ्चः । ननु पन्था इत्य. नुदाहरणम् इतोदिति सिद्धे आद्विधिसामर्थ्यादेवेपदस्यानुपस्थितेरिति चेन्न । ऋभुक्षिऋकारोकारयोरर्थे आद्विधिसम्भवात् । न चेकः सोश्चानन्तर्यविवक्षणायेन नाव्यवधानाश्रयणाच नैवमिति वाच्यम् । तथापि सम्बुद्धयर्थतया सामोपक्षयात् । न चैवमित आदित्येव ब्रूयादिति वाच्यम् । ऋभुक्षणमिन्द्रमित्यस्यासिद्धयापत्तेः । आद्विधौ हि वा षपूर्वस्येति तसिद्धिरिति दिक् । यत्तु भाष्ये स इममित्युदाहृतं,तत्र स इमं मन्त्रमपश्यदिति ब्राह्मणवाक्यैकदेशानुकरणमात्रम् । उदाहरणं त्विममित्येव न तु स इत्यपि । तच्छन्दइकोसम्भवेनेक इति नियमस्यामवृतेरित्याहुः । वस्तुतस्तु स इत्यप्युदाहरणं साध्वेव । त्यदादीनाम इति विधिवाक्यम् । तत्र चेक इत्यस्योपस्थितौ द्वीदमोरेवात्वं स्यान त्वन्येषाम् । गणेन निर्देशस्तु संज्ञोपसर्जनव्यावृत्त्यर्थमुत्तरार्थ च स्यात् । तदोः सः साविति सत्वं हि त्यदादीनामेव तदोविधीयते । अत्रेदमवधेयम् । शब्दव्यापाराश्रयणानुरोधेनापि गुणवृद्धिग्रहणं मास्तु । इकस्तावित्येतावतैव सिद्धेः । वस्तुतस्तु तावित्यपि व्यर्थम् । इक इत्येव सूज्यताम् । सम्पूर्ण पूर्वसूत्रद्वयमनुवर्त्य वृद्धिरित्यादैचौ यत्र विधीयेते गुण इति चादेङग तत्रेक इत्युपतिष्ठतइति व्याख्यानात् । व्याख्याने लिङ्गन्त्वितोदिती
१५
Page #114
--------------------------------------------------------------------------
________________
११४ शब्दकौस्तुभः ।
[१ अ० द्रहणम् । अन्यथा तत्रापीपदोपस्थितायुक्तरीत्या येन नाव्यवधानन्यायाहकारोकारव्यावृत्तौ च सत्यां किं तेनेति । तदेतदिग्ग्रहणं किमर्थमिति भाष्येणेग्ग्रहणमात्सन्ध्यक्षरेत्यादिवार्तिकेन च मुच्यते । अन्यथा हि मूत्रं किमर्थमित्यायेव ब्रूयात् । यत्ततरार्थ गुणवृद्धिग्रहणं कर्त्तव्यमेवेत्याशयेनेग्ग्रहणमित्युक्तमिति भाष्याभिप्रायवर्णनम् । तन्न । पूर्वसूत्रानुवृत्त्यैव सिद्धावुत्तरार्थत्वस्यापि दुरुपपादत्वात् । समुदायापेक्षायां मण्डूकप्लुतेः सम्बन्धानुवृत्तेवों त्वयापि वाच्यत्वात् । इग्ग्रहणस्याप्युत्तरार्थतया तदंशे. पि शङ्कानुत्थानाच्च । इक इति योगः किमर्थ विभज्यतइति प्रश्नवीजमिति चेत्तार्ह गुणवृद्धयंशेपि तस्याविशिष्टतया सूत्रं किमर्थमित्येव ब्रूयादिति दिक् । यत्तु प्रधानावयवद्वारा समुदायाक्षेपोयमिति,तदपि नातीव शब्दस्वरसानुगुणम् । तस्मादुक्त एवाशयः साधुः । न चैवगुणवृद्धयधिकारे पुनर्गुणवृद्धिग्रहणसामर्थ्यादित्युत्तरग्रन्थासङ्गतिः । तस्य यथाश्रुताभिप्रायकत्वात् । ग्रहणपदस्यानुवृत्तिपरतया सम्पूर्णसूत्रद्वयानुवृत्तिपरतया सम्पू
सूत्रद्वयावृत्तिसामर्थ्यपरत्वाद्वति दिक् । एवं चेक इति योगविभाग एवं पूर्वपक्षसिद्धान्ताभ्यां समर्थ्यतइतीह पर्यवसितोर्थः । ततश्चानेनैकेन योगविभागेन सकलेष्टसिद्धौ मृजेर्वृद्धिरच, उरडि गुण, इत्यादि बहुतरयोगविभागाद्याश्रयणेनान्यथासिद्धिवर्णनं नादर्तव्यमिति स्थितम् । इयं च परिभाषालोन्त्यपरिभाषायाः शेषो वा शेषिभूता वा तया सह समुच्चिता वा वैकल्पिकी वा तदपवादो वा पूर्वविप्रतिषेधात्तद्वाधिका वा पदोपस्थापिका वेति सप्तपक्षाः सम्भाव्यन्ते यद्यपि, तथाप्याद्यानां षण्णां दुष्टत्वात्सप्तम एव सिद्धान्तितः। तथाहि । सार्वधातुकार्द्धधातुकयोरित्यत्र स्वस्वनिमित्त
Page #115
--------------------------------------------------------------------------
________________
१पा. ३ आ. शब्दकौस्तुमः । वशात्परिभाषाद्वयं सन्निहितम् । तत्रागस्येति षष्ठी यदि पूर्वमेपान्त्यमलं नीता अङ्गान्त्यस्य गुण इति पश्चादिकाऽन्त्यो विशेष्यते तदेवपरिभाषा शेषभूता । यदि तु पूर्वमिकाङ्गस्य विशेषणात्तदन्तविधिरिगन्तस्याङ्गस्योति,ततः स च भवनलोन्त्यस्योति, तदा द्वितीयः पक्षः । तदिदं पक्षद्वयमाप षष्ठीतत्पुरुषं बहुव्रीहि चाश्रित्य तच्छेषपक्षइति भाष्ये व्यवहृतम् । इह पक्षद्वयेपि मिदेर्गुण इत्यादौ दोषः। यो हि मिदेरन्त्यः नासाविक यश्चेकनासावन्त्यः तथा चावश्यम्परिभाषायां त्यक्तायां सत्यां विनिगमकाभावादुमयत्यागे सर्वादेशो गुणः स्यात् । तदुक्तं वार्तिककृता । वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपच्छि दृशिक्षिप्रक्षुद्रेष्विग्रहणं सर्वादेशप्रसङ्गश्चानिगन्तस्येति । चकारो हेत्वर्थः । ततश्च सर्वादेशप्रसङ्गो हीति फलितम् । अथ मिद इर्मिदिः तस्य मिदेरित्यादिपूर्वोक्तरीत्या कथं चिदिह सर्वत्रेक एव स्थानित्वं लभ्येत तथापि भिन्नामित्यादावनिग्लक्षणत्वाद् गुणनिषेधो न स्यात् । अथ क्नोः कित्त्वाज्ज्ञापकादनिग्लक्षणत्वेपि निषेधस्तर्हि लैगवायनः पौरोहित्यमित्यादावतिप्रसअः। अथ लक्ष्यानुरोधाल्लघूपधगुणमात्राविषयकं ज्ञापकं तर्हि पदोपस्थितिपक्षएव लक्ष्यासिद्धये समाश्रीयताम् । एवं हि ज्ञापकाश्रयणक्लेशोपि न भवति । कित्त्वेनापि पदोस्थितिरेव ज्ञाप्यताम् । एवं हि ज्ञापकमूलकं वाक्यान्तरं न कल्प्यमिति लाघवम् । अस्तु तर्हि तृतीयः पक्षः मिदेरन्त्यस्येकश्च द्वयोरपि गुण इति । मैवम् । स्थानेयोगावयवसम्बन्धरूपस्यार्थद्वयस्य युगपदुच्चारितया षष्ट्या दुर्लभत्वात् । स्थानेयोगं च विनालोन्त्यविध्यलाभात् । स्थानषष्ठी हि तदुपस्थितौ लिङ्गामिति वक्ष्यते । इक इत्यनेन सहावयवषष्ठी विनान्वयायोगात् । आवृत्त्यादौ प्रमाणाभा
Page #116
--------------------------------------------------------------------------
________________
११६
शब्दकौस्तुभः । [१ अ० वाच्च । एतेन मिदेरन्त्यस्य वेको वेति चतुर्थपक्षोपि प्रत्युक्तः । विकल्पस्याष्टदोषग्रस्तत्त्वाच्च । अस्तु तर्हि तदपवाद इति प. ऽचमः पक्षः । तथाहि । गुणविधावङ्गस्येति न स्थानषष्ठी। किन्तु इगपेक्षयावयवषष्ठी । ततश्च लिङ्गाभावादलोन्त्यपरिभाषाया अनुपस्थितिः। अयमेव च बाधपदार्थः।यदीपरिभाषा न भवेत्ताह स्थानषष्ठीत्वं तन्मूलकालोन्त्यपरिभाषोपस्थितिश्च स्यात् । सत्यानित्वपरिभाषायां तदुभयं नेत्येतावतैवापवादत्वव्यवहारः। न हि वस्तुतो वचनेन प्रापितस्य बाधः सम्भवति । शास्त्राप्रामाण्यप्रसङ्गात् । अत एव शास्त्रतात्पर्यसङ्कोचो बाघ इत्याहुः । एतेन द्वंद्वापवाद एकशेष इत्यपि व्याख्यातम् । नत्यनुत्पन्नायां विभक्तौ द्वंद्वस्य प्रसङ्गः । किन्तु ययेकशेषो न भवेत्तहि प्रत्येकं विभक्तिर्द्वद्वश्व स्यात्सति त्वेकशेष तन्नेत्येव तत्त्वम् । अस्मिंश्च पक्षे जुसि गुणो अजुहवुरित्यत्रेवानेनिजुः पर्यवेविषुरित्यादावपि स्यात् । सार्वधातुकार्दधातुकयोरिति गुणो भवतीत्यादाविवहितेत्यत्रापि स्यात् । तथा च वार्तिकम् । इङ्मात्रस्योत चेज्जुसि सार्वधातुकार्धधातुकहूस्वाद्योर्गुणेष्वनन्त्यपतिषेध इति । अत्र ह्रस्वादीति इस्वस्य गुणः जुसि च ऋतोङि सर्वनामस्थानयोडिन्तीति गुणचतुष्टयं गृह्यते । ततश्च हे अमे अग्नयः कर्तरि अग्नये । बाभ्रव्य इत्यत्र यथा ओर्गुणान्तं गुणपञ्चकं भवति । एवं हे अग्निीचत् अग्निचितः सन्ति सुकृति अग्निचिते सौश्रुत इत्यत्रापि स्यादिति वार्तिकाथः । यद्यपीह निर्दिष्टस्थानिकत्वात्परिभाषा दुर्लभा । अग्निचिच्छब्दस्य घिसंज्ञाभावाच घेर्डिन्तीत्यतन प्राप्नोति तथापि वात्तिकस्योक्तिसम्भवमित्थं वर्णयन्ति । हूस्वस्य गुणो जसिचेति सूत्रयोस्तावद्भूस्वेनेग्विशेष्यते । दीर्घव्यावृत्तिश्च फलम् । अ.
Page #117
--------------------------------------------------------------------------
________________
१ पा. ३ आ. शब्दकौस्तुभः । थानियमे नियमकारिणी परिभाषा कथमिहोपतिष्ठताम् । न हि हूस्वस्य स्थानित्वे ऽतिप्रसङ्गोस्ति । अकारस्य त्यकार एवं गुणो भविष्यतीति ब्रूयात् । तत्रेदं वक्तव्यम् । हूस्वान्तस्याङ्गस्येको गुण इति सूत्रार्थः स्यात् । ततश्च हे इन्द्र हे उपगो इत्यादावनन्त्यस्यापि स्यात् । अग्निचिदित्यादिकं तु विशेषणव्यवच्छेद्यं स्यात् । तथा च हूस्वस्येक इत्यनयोने परस्परं विशेषणविशेष्यभावः। किन्त्वनयोरेकमङ्गस्य विशेषणमपरमङ्गस्य विशेष्यमिति । यद्वा । इस्वस्येत्येतदङ्गस्य विशेषणं मा भूदित्यङ्गस्य स्थानषष्ठीत्व बाधितुमनन्त्यस्यापि गुणं सम्पादायतुमिपरिभाषोपतिष्ठेत । एवमृत ओरित्युभयत्राप्यनन्त्यस्य गुणविधानार्थ परिभाषा स्यादेव । घिसंज्ञा तु वर्णयोरेव न तु तदन्तस्योत पक्षं गृहीत्वा घेतीत्यस्य अग्निचित इत्यादावतिप्रसङ्गो योज्य: । नत्यस्मिन्पक्षे ऋत आरित्याभ्यां घेः किश्चि. द्वैलक्षण्यमस्तीति दिक् । नन्वस्मिन्पक्षे पुगन्तति सूत्रस्य निय. मार्थत्वादीहितेत्यादौ न दोष इति चेन । यदि हि सार्वधातुकादधातुकयोलघूपधस्यवति नियमस्तार्ह हूस्वाद्योर्गुणे दोषस्तदव. स्थः । यदि तु लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति नियम. स्तथापीहितेत्यादौ दोष एव । अथावृत्त्या द्विविधोपि नियमस्तयननिजुरित्यत्र दोषः।न खेतनियमद्वयेनापि वारयितुं शक्यम् । लघूपधत्वात्सार्वधातुकपरत्वाच्च । हे बुद्धे बुद्धयः पिच. वे हितः पिचव्य उगवादिभ्यो यत् । बुद्धये वृद्धयइत्यादावनुपधाभूतेष्वतिप्रसङ्गस्तु दुर्वार एवेति तावद्वार्तिकत्हदयम् । वस्तृतस्त्वङ्गाक्षिप्तेन प्रत्ययेन श्रूयमाणेन च जुसादिना इको विशेषणात्सकलदोषनिरासे सति तदपवादपक्षोपि समर्थयितुं श. क्यतएव । अङ्गमेव प्रत्ययेन विशेष्यतइति गृहीत्वा परं भा.
Page #118
--------------------------------------------------------------------------
________________
११८
शब्दकौस्तुभः । [१ अ० ज्यवार्तिकग्रन्थप्रवृत्तिरित्यवधेयम् । अस्तु तर्हि पूर्वविप्रतिषेध इति क्रोष्ट्रीयसम्मतः षष्ठः पक्ष इति चेन्न । इपरिभाषाया निरवकाशत्वात् । नहि परस्परपरिहारेणावकाशलाभे ऽसति वि. प्रतिषेधः । तस्माद्यदि सत्यपि सम्भवे बाधनं भवतीत्याश्रीयते ताई येन नाप्राप्तिन्यायादपवादत्वमस्त्येव । यदि त्वसम्भवे बाध्यबाधकभावो, ऽस्ति चेह सम्भवो यदुभयं स्यादित्याश्रीय. ते तार्ह तच्छेषादिष्वन्यतमपर्यवसानं न तु क्रोष्ट्रीयमतस्यावकाश इति स्थितम् । तस्मात्पदोपस्थापनमिति सप्तमः पक्षः सिद्धान्तसम्मतः । तथाहि । इक इति षष्ठयन्तानुकरणम् । न तु संशिपरम् । स्वरूपमिति वचनात् । न चाशब्दसंज्ञेति निषेधः,षष्ठयन्तस्यासंज्ञात्वात् । तदयमर्थः । यत्र ब्रूयाद गुणो भवति वृद्धिर्भवतीति तक इति षष्ठयन्तमुपातिष्ठतइति । तस्य च पदैकवाक्यतयान्वयोन्तरङ्गोलोन्त्यपरिभाषा तु विधिवाक्येष्ववान्तरवाक्यार्थ बुध्वा तदेकवाक्यतया सम्बध्यतइति तदन्वयो बहिरङ्गः । ततश्च जुसिचेत्यादाविकोङ्गस्येति सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्त्वादिकाङ्गे विशेषिते स्थानषष्ठी न विहितेति भवत्येवालोन्त्यपरिभाषोपस्थितिः । मि. देर्गुण इत्यादौ तु सामानाधिकरण्यान्वयस्यासम्भवान्मिदरिक इति वैयधिकरण्येनान्वये सति स्थानषष्ठीविरहादलोन्त्यपरिभाषा नोपतिष्ठते । न च मिदेरणस्येत्यनयोरवयवषष्ठीपक इति स्थानषष्ठयस्त्येवेति वाच्यम् । न ह्येषा ऽलोन्त्यपरिभाषोपस्थितावुपयुज्यते । अल्समुदायात्मकस्थानिनः परभूताया एव षष्ठयास्तदुपस्थापकत्वात् । इकश्चाल्रूपत्वात् । तथा चालोन्त्यपरिभाषा इक्परिभाषानन्तरोपस्थितिका न तु तया सह युगपदुपतिष्ठते येनाविशेषादुभयोनिवृत्तिः स्यादि
Page #119
--------------------------------------------------------------------------
________________
१पा. ४ आ. शब्दकौस्तुभः । ति सकलेष्टसिद्धिः । तच्छेषतदपवादपक्षयोरपि दूषणमुद्धर्तुं शक्यमित्युक्तमेव । तदिह सप्तपक्षीमध्ये पक्षत्रयं दुष्टमेव । पक्षचतुष्टयन्तु साध्विति स्थितम् । नन्वेतत्सूत्रमंगस्यत्यादि.. वदधिकारार्थमेव किं न स्यादिति चेन्न । एवं हि सतीको गुणवृद्धी नेति नया संयुज्यैव पठेत् । सर्वस्य द्वे पूर्वत्रासिद्धमित्यादिवत् । न ह्युत्तरसूत्रोपस्थितिकत्वाविशेषे किं चित्संयुज्य: किं चित्तु विभज्य पठितुमुचितम् । वैरूप्ये हेत्वभावात् । प्रत्य-. यः परश्चेत्यादौ तु पारायविशेषेप्यसंयुज्य निर्देशो विधेयभेदान विरुध्यते । नापीदं विधिसूत्रम् । पुनर्गुणवृद्धिग्रहणसा- : मर्थ्यात् । तत्पत्याख्यानपक्षोपि विशिष्टानुवृत्तिसामर्थ्यादिति दिक् ॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे
तृतीयमान्हिकम् ॥ न धातुलोप आर्द्धधातुके ॥ धात्वंशलोपनिमित्ते आर्द्धधातुके परे तनिमित्तिके गुणवृद्धी इको न स्तः । लोलुवः पोपुवः मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचायचि कृते योचिचेति यङ्लुकि लुनिमिसभूतमचमेवाश्रित्य प्राप्ते गुणवृद्धी निषिध्येते । यद्यपि कृत्स्नस्य धातोरपि क चिल्लोपोस्ति । तद्यथा, दुरीणो लोपश्च । दुःशब्दे उपपदइणो धातो रक् प्रत्ययो भवति धातोश्च लोपः । दुःखेन ईयते प्राप्यते दूरमिति । तथाप्येवंविधे विषये गुणवृद्धयोः प्राप्तिविरहानिषेधवैयर्थ्यम् । अतोत्र धातुशब्देन तदेकदेशो लक्ष्यते । धातुलोप इति च यः दि षष्ठीतत्पुरुषः स्याचदा धातुकग्रहणं लोपविशेषणं वा गुणवृद्धयोर्विशेषणं वा वन्त्रावृत्त्यादिभिरुभयविशेषणं वेति त्रयः कल्पाः । तत्राये पक्षे आर्द्धधातुकनिमित्तके धातुलोपे सति य- .
Page #120
--------------------------------------------------------------------------
________________
१२०
शब्दकौस्तुभः । [१ अ० किचिनिमित्तिके गुणवृद्धी न भवत इति सूत्रार्थः स्यात् । ततश्च अपूर्वादिन्धेः क्तप्रत्यये तनिमित्तके नलोपे च सति प्रेद्ध इत्यत्र माप्नुवन्नाद्गुणापि निषिध्येत । यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति लभते ऽसावन्यतरतो व्यपदेशमितास्थानिकत्वस्थापि सत्वात् । न चैवमपीग्लक्षणत्वविरहान निषेधः लैंगवायने ओगुणस्येवेति वाच्यम् । नह्यस्मिन्सूत्रे इक इत्यस्य स्वरूपपरतायां प्रमाणमस्त्युत्तरसूत्र तु चकार इतिशब्दार्थकः प्रमाणमित्याहुः । अस्तु वार्थाधिकाराश्रयणबलेनेहापीक इति स्वरूपपरंतथापि भेद्यतइत्यादौ गुणो न स्यादिति तृतीयपक्षे वक्ष्यमाणो दोष आद्यपक्षद्वयेप्यस्त्येवेति बोध्यम् । ननु उपेद्धः प्रेद्ध इत्युदाहरणस्येहोक्तिसम्भव एव नास्ति । तथाहि । पूर्व धातुः साधनेन युज्यतइति मते इद्धमित्यत्र नलोपोन्तरङ्गः प्रथमोपनतक्तप्रत्ययापेक्षत्वात् । पूर्व धातुरुपसर्गेणेति दशेने तु गुणोन्तरङ्ग उभयथापि गुणो भविष्यति । बहिरङ्गस्य गुणस्यासिद्धतया निषेधायोगात् । बहिरङ्गस्य निषेधस्यासिद्धौ गुणप्रवृत्तेनिर्वाधत्वाच्च । सत्यम् । असिद्धं बहिरङ्गमन्तरङ्गइति परिभाषा नेह प्रवर्तते नाजानन्तर्य बहिष्ट्वप्रक्लुप्तिरिति निषेधात्।यनान्तरङ्गे बहिरङ्गे वाचोरानन्तर्यमाश्रीयते तत्रैषा परिभाषा नेति व्याख्यानादिति हरदत्तानुयायिनः । किं त्वस्मिन्पक्षएत ऐ इति सूत्रे पचावेदं पचामेदमित्यादौ एत ऐत्वं कुतो नेत्याशक्य बहिरङ्गत्वेन गुणस्यासिद्धत्वादिति हरदत्तेन वक्ष्यमाणं विरुध्यते । तथा च बहिरङ्गस्यासिद्धताबलेन प्रेद्धमित्यादिसिद्धिरिति प्रतिपादनपरमिहत्यं भाष्यमपि विरुध्येत । तस्माद्यत्रोत्तरकालप्रवृत्तिके अच आनन्तर्य तत्र बहिरङ्गपरिभाषा न स्यादिति कै- : यटसम्मत एव नाजानन्तर्य इत्यस्यार्थः साधुः पचावेदमित्यादौ
Page #121
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुमः ।
१२३ यं क्रियया सह यत्र नअिति । अत एव पुरुषवचनयोरसंकरः। अन्यथा हि घटो नास्ति त्वं नासि अहं नास्मीति पुरुषव्यवस्था न स्यात् । घटाभावस्त्वदभावो मदभावश्चास्तीतिवत्सर्वत्र प्रथमपुरुषापत्तेः। न हि परमते त्वं नासि त्वदभावोस्तीत्यनयोरर्थे कश्चिद्विशेषः। नबर्थ प्रति प्रथमान्तपदोपस्थापितस्यान्वायतावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन संसर्गेण प्रकारताभ्युपगमेपि युष्मत्सामानाधिकरण्यविरहस्याविशिष्टत्वात् । एवं वायौ रूपाणामभावो ऽस्तीतिवद्रूपाणि न संतीत्यत्राप्यस्तीत्येकमचनं स्यादित्यन्यत्र विस्तरः । एवं कारकविभक्तरपि क्रियायोगे सत्येव साधुत्वं न त्वन्यथापीति कारकइति सूत्रे वक्ष्यमाणत्वाद्भूतले घटो नास्तीत्यादावधिकरणत्वं क्रियान्वय्येव न तु नअर्थान्वयि । तथा च सकलकारकविशिष्टक्रियायां नअर्थान्वयः । नत्रो द्योतकतेति निष्कृष्टपक्षे तु क्रियापदस्यैव तद्विरहपरतेति सिद्धान्तः। उभयथापीह गुणद्धयोः प्रतिषेधो दुर्लभ एवेति । अत्राहुः । क्रिययैव सह विधेरिव निषेधस्यान्वयः शाब्द इति सत्यमेव किन्तु क्रियैव केति संशये त्वदुक्तरत्यिा सनिहितापीकपदोपस्थितिरिह न सम्बध्यते । तथाहि सति दीधीवेवीटामिति सूत्रस्य व्यर्थतापत्तेः । न हि तत्रेपरिभाषालोत्यपरिभाषयोः फले विशेषोस्ति । एवं स्थिते ऽस्तिर्भवन्तीपरो ऽप्रयुज्यमानाप्यस्तीति प्रातिपदिकार्थसूत्रे वक्ष्यमाणरीत्या भवत इत्यस्योपस्थितस्य गुणवृद्धी इत्यादिभिरन्वितस्य निषेधान्वये सति गुणवृद्धयोरभावः फलितो भवतीत्येतावता गुण
योनिषेध इत्युच्यते । यथा ऽऽघाराग्निहोत्राधिकरणे प्रतीतितः सर्वोपि विशिष्टावधिरेव तात्पर्यतस्तु कश्चिद् गुणविधिरिति सिद्धान्तितं तद्वनिषेधेपि बोध्यम् । न्यायसाम्यात् । अत
Page #122
--------------------------------------------------------------------------
________________
१२४ ___ शब्दकौस्तुभः। [१ अ० एव हि विधिनिषेधयोक्यिार्थगोचरतेत्याभियुक्ताः। तस्माल्लालुवः पोपुवो मरीमृज इत्युदाहरणं सिद्धम् । प्रत्युदाहरणं तूच्यते । धातुलोप इति किम् । आर्द्धधातुके विधिनिषेधाभ्यां षोडशिग्रहणाग्रहणयोरिव गुणवृद्धयोर्विकल्पो मा भूत् । आद्धधातुकइति किम् । तुर्वी थुर्वी दुर्वी धुर्वी हिसायां मुर्छा मोहसमुच्छ्राययोः एभ्यो यङ्लुगन्तेभ्यस्तिबादौ सार्वधातुके पिति परे तोतोति मोमोतीत्यादौ निषेधो मा भूत् । राल्लोप इति च्छ्वोर्लोपस्य गुणस्य चैकनिमित्तकत्वात् । इदं च राल्लोपे ङिद्हणाननुवृत्तिपक्षमाश्रित्योक्तम् । तदनुवृत्तिपक्षे तु तोतोर्मीत्याद्युत्तमपुरुषैकवचनउदाहरणं बोध्यम् । अनुनासिकादिप्रत्ययत्वेन तत्र राल्लोपप्रवृत्तेः। ननु तोतोर्तीत्यादि प्रागुक्तमप्युदाहरणमस्तु । राल्लोपस्याप्रवृत्तावपि लोपो व्योरिति लोपादिति चेन । तस्य वर्णमात्रनिमित्तकतया गुणेन सहैकनिमित्तकत्वाभावात् । न हि तत्र प्रत्ययग्रहणन्तदाक्षेपकं वा किञ्चिदस्ति । अत एव गौधेरादिषु प्रत्ययपरतां विनापि यलोप इति दिक् । इक इति किम् । अभाजि रागः, भजेश्च चिणि घवि च भावकरणयोरित्युपधालोपे. कृते वृद्धिर्यथा स्यात् । कथं तर्हि पापचक इत्यत्र वृद्धिप्रतिषेध इति चेत् । शृणु । पापच्यतेवुलि यस्य हल इत्यत्रादिमव्यादित्यादिवारणाय यस्येति संघातगृहणप्यादेः परस्येति ह. ल्मात्रलोपे कृते ऽतो लोप इति पृथगल्लोपे तस्य स्थानिवद्भावेन पापचकादौ न वृद्धिः।न विह नधातुलोप इति सूत्रस्य कश्चिदपि व्यापारः । यङ्लुगन्ताण्ण्वुलि पापाचक इति भवत्येव वृदिौनावेतिवत् । एतेन न धातुलोप इत्यत्रेक इत्यनुवृत्तेः पापाचक इतिवन्नधातुसूत्रे बेभिदिता मरीमृजितेत्युदाहरंच कौमुदीकारः परास्तः । पृथगल्लोपस्य न्याय्यत्वे भाष्यादिसम्मतत्वे
Page #123
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुभः ।। च सति वृद्धरसम्भवात् । अत एव वृत्तिकारादयोप्यत्र सूत्रे ऽच्प्रत्ययान्तान्येव लोलुवादीन्युदाजन्हुः । भिदिमृज्योस्तु याद य
लुक् तर्हि तस्यानैमित्तिकत्वाद् गुणवृद्धी स्त एव । बेभेदिता मरीमार्जितेति यथा । यदि तु यस्य हल इत्यवयवलोपस्तर्हि स्थानिवद्भावादेव गुणाद्यप्रसङ्ग इत्युभयथापि नैतत्सूत्रोदाहरणत्वमित्यवधेयम् । भाष्यकारस्तु यस्योत लोपइवाचिलुक्यपि पृथगल्लोपमाश्रित्यैतत्सूत्रं प्रत्याचख्यौ । न च येन नामाप्ति न्यायेनाचि यङो लुगतोलोपं बाधेतेति वाच्यम् । यस्य हल इत्यत्र यस्येति योगं विभज्यातो लोप इति चानुवर्त्य यशब्दस्यातो लोपविधानेन लुग्वाधनात् । अवशिष्टं व्यञ्जनमात्रं लु. कोवकाशः । ततश्वाल्लोपस्य स्थानियवादेव बेभिदिता मरीमृजिता पापचक इत्यादिवल्लोलुवादयोपि सिध्यन्तीति किं सूत्रे. ण न चैवं नोनावेत्यादावपि पृथगल्लोपापत्तिः । चकारानुकृष्टवहुलग्रहणाज्जायमानस्यानौमत्तिकस्य लुकोन्तरङ्गतया लकारोत्पत्तेः प्रागेव समुदाये प्रवृत्तेः । नन्वेवं चेक्रियः लोलुवः तोष्टुव इत्यादावल्लोपस्य स्थानिवत्त्वाद्यथा गुणो न, एवमियडुवङावपि न स्यातामिति चेत् । सत्यम् । अचमाश्रित्य न भवत एव । उक्तयुक्तेः । किन्तु स्थानिवद्भावलब्धमकारमाश्रित्य भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः । स्यादेतत् । लोलुवादिष्वकारे लुप्ते यलुगिति क्रमः । तत्र यकारावस्थानकाले अकारेण प्रत्ययत्वं न लब्धमेव । लुप्तेपि तस्मिन्नकारो नास्त्येव । ततः प्रागेव लोपात् । सोयमसत्कथं प्रत्ययतां लभेत । तल्लोपस्य स्थानिवद्भावेन प्रत्ययत्वमिति चेत् । स्थानिनि दृष्टं हि कार्य तद्वदतिदेशेन लभ्यते । न तु तत्रादृष्टमापि । अत्राहुः । तत्र सम्भावितमात्रमतिदिश्यते । यादि हि लोपस्य स्थानिभूतो
Page #124
--------------------------------------------------------------------------
________________
१२६
शब्दकौस्तुभः ।
[ १ अ०
डकार इह लुप्तेपि यकारे तिष्ठेत्तार्ह प्रत्ययतां लभेतोवङादिकं च प्रवर्त्तयेदिति कथं नातिदेशः । वरेनिषेधश्चेह लिङ्गम् । स हि यातेर्यङन्ताद्वर च्यल्लोपयलोपयोः कृतयोः स्थानिवद्भावेनातो लोप इटि चेत्यालोपो मा भूदित्येतदर्थं क्रियते । स्थानिनि दृष्टस्यैवातिदेशे तु किन्तेन । न हि या या य इत्यस्यामवस्थायामातो लोपस्य प्राप्तिः । अनजादित्वादिति दिक् । नन्वेवं चेक्षियस्तोष्टुव इत्यत्रान्तरङ्गानपीति न्यायेनाकृतएवाकृसार्वधातुकयोरिति दीर्घे यङो लुक् । ततोल्लोपस्य स्थानिव - नावे सत्यपि चेक्षिअअ तोष्टुअअ इति स्थान्यकारेण सह लघुपधमङ्गमच्प्रत्ययपरं जातमिति लघूपधगुणः स्यादेव | सत्यम् । अन्तरङ्गावियङुवङौ भविष्यतः । यथाह वार्त्तिककारः । शचङन्तस्यान्तरङ्गलक्षणत्वादिति । तथा च रिपि गतौ धि धारणइत्येषान्तुदादित्वाच्छे कृते रियति पियति धियतीति भ वति । अशिश्रियत् प्रादुद्रुवत्प्रासु सुवदिति च णिश्रीति चङीयङ्गवङौ भवतः । तस्मात्पृथगल्लोपेनैव सकलनिर्वाहान धातुलोप इति सूत्रन्नारम्भणीयम् । न चैवं मरीमृज इत्यत्र मृजेरजादौ संक्रम इति पाक्षिकवृद्धिप्रसङ्गः । हरदत्तादिमते मुख्याजादावेव तत्प्रवृत्तेः, निष्कर्षे तु यथोत्तरं मुनीनाम्प्रामाण्यादिष्टापत्तेः । व्यवस्थितविभाषा वास्तु । अत्र वदन्ति । गुणोपधालोपयुटां न लोपालोपयोरपि प्रसङ्गात्पृथगल्लोपो लुकि वक्तुं न शक्यते ॥ तथाहि । सर्वत्र दीर्घान्तेषु हूस्वान्तेषु चेयङुवङोः कृतयोर्लघूपधलक्षणो गुणः प्राप्नोति । न चेह स्थानिवद्भावः । आदिष्टादचः पूर्वत्वात् । किञ्च जङ्गम इत्यत्र गमहनेत्युपधालोपः स्यात् । अयात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र ऋदृशोङीति गुणः स्यात् । अपि च देद्य इत्यत्र दीङोयुडचीति युद् स्यात् । किञ्च स
'
Page #125
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुभः ।
१२१ 'हि पूर्व गुणप्रवृत्तिः । तत्र चाजानन्तर्याश्रयणपिगुणोत्तरप्रवृत्तिके एत ऐ इत्यत्र तदनाश्रयणायुक्त एव बहिरङ्गतयोद्धारः । उपेद्धः प्रेद्ध इत्यादौ तु गुणं प्रापय्य निषेधः कार्य इत्युत्तरकालप्रवृत्तिको निषेधः । तत्राजानन्तर्याश्रयणाभावाबहिरङ्गपरिभाषया सिद्धमेवैतत् । अतोत्रत्यं भाष्यमपि सङ्गच्छते । ननु षत्वतुकोरसिद्ध इति सूत्रएषा परिभाषा ज्ञापयिष्यते। तत्र च कोसिचत्को. स्येत्यादौ प्रथमप्रवृत्तिके एङ: पदान्तादित्यास्मन्नजानन्तर्य न सूत्तरकालप्रवृत्ते षत्वेपीति कथं कैयटमतं समर्थनीयम् । तस्माद्यत्रान्तरङ्गे बहिरंगे वा अचोरानंतयमिति हरदत्तोक्तरीतिरेव शरणी. कर्तव्येति चेन्न । कैयटमते अचोरिति द्वित्वस्याविवक्षया सर्वसामञ्जस्यात् । अस्ति ह्युत्तरकालप्रवृत्तिके षत्वे अच आनन्तर्याश्रयणम् । इणः परस्य सस्येत्युक्तेः। एवं च प्रथमपक्षे प्रेद्ध इत्यादौ दोषाभावपि भेद्यतइत्याद्यसिद्धिरेव दूषणमिति दिक् । द्वि. तीयपक्षे तु यत्किञ्चिन्निमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । ततश्च क्नूयी शब्दे इत्यस्माणिचि पुकि यलोपे कृते पुगन्तलक्षणो गुणो निषिध्येत । तथा च कोपयतीति न सिध्येत् । यदि तु चेलेनोपेरिति निर्देशाद् गुणस्तहीहापि भेद्यतइत्यस्यासिद्धिरेव दोषः । तृतीयपक्षे त्वाई धातुकनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । तत्र तन्त्रावृत्त्याद्याश्रयणप्रयुक्तं गौरवं तावत्स्पष्टमेव । लोपेन सह गुणवृद्धयोरेकनिमित्तकत्वं च न लभ्येत । ततश्च भेद्यतइत्यत्र भिदेण्यन्तात्कर्मणि यकि भिद इय इति स्थिते नित्यत्वाणिलोपे कृते प्रत्ययलक्षणेन णिचमाश्रित्य क्रियमाणोपि गुणो निषिध्येत । न च णिलोपात्यागेवान्तरंगत्वाद् गुणोस्त्विति वाच्यम् । विभज्यान्वाख्यानपक्षे तदसम्भवात् ।
Page #126
--------------------------------------------------------------------------
________________
१२२ शब्दकौस्तुभः । [१ अ० उपसंजनिष्यमाणनिमित्तोप्यपवाद उपसंजातनिमित्तमप्युत्सर्ग बाधतइति न्यायाच्च । अन्यथा दधतीत्यादावन्तरंगत्वात् झोन्त इत्यन्तादेशः प्रवर्तेत । न च श्लौ द्वित्वे चैवंकृते अन्तादेशस्य स्थानिवद्भावेनादभ्यस्तादित्यस्य प्रवृत्तिरास्त्विति वाच्यम् । अल्विधौ स्थानिवद्भावासंभवात् । किश्च । समर्थानांप्रथमावेति सूत्रे ऽकृतव्यूहाः पाणिनीयाः कृतमपि शास्त्रं निवर्तयन्तीति ज्ञापयितुं समर्थग्रहणमिति वक्ष्यते। वे एते परिभाषे समानफले इति च तत्रैव स्फुटीकरिष्यते।तथा चेहापिपूर्व गुणो नक्रियेत कृतोपि वा निवर्तेत जग्मुष इत्यादाविडादिवत् । तस्माद्धातोर्लोपो यस्मिन्निति बहुव्रीहिरेव साधुः । एवं हि सति लोपस्य गुणवृद्धयोश्चैकनिमित्तकत्वं लभ्यतइति न कश्चित्पूर्वोक्तदोषः । स्यादेतत् । आरभ्यमाणेप्यस्मिन्सूत्रे लोलुव इत्यादौ गुणोदुर्वारः।तथाहि।इह सूत्रे क्ङितिचेति सूत्रे च निषध्य किमित्याकांक्षायां पूर्वत्र निर्णीता इपदोपस्थितिरेव सम्बध्येत । धात्वंशलोपनिमित्ते आर्दधातुके इक्पदं नोपतिष्ठते । ततश्च बेभिदः मरीमृजो भिन्नो मृष्ट इत्यादौ व्यंजनस्य गुणवृद्धिप्राप्तिः परमेतस्य प्रघट्टकस्य फलं स्यात् । लोलुवादौ तु स्यादेव गुणः । न च परिभाषां प्रति शेषिभूततयार्थतः प्रधानयोगुणवद्धयोरेव निषेधोस्त्विति वाच्यम् । शाब्दबोधे शाब्दप्राधान्यस्यैवान्वयनियामकताया उचितत्वात् । नहि राजपुरुषमानयेत्यादावर्थतः प्रधानभूतोपि राजा आनयनेनान्वेति अपि तु पुरुषएव । प्रकृते च शाब्दं प्राधान्यं वाक्यार्थभूतायाः पदोपस्थितेरेव । कारकविशिष्टा क्रिया वाक्यार्थ इति सिद्धान्तात् । आह च । साकांक्षावयवं भेदे परानाकांक्षशब्दकम् । कर्मप्रधानं गुणवदेकार्थ वाक्यमुच्यतइति । किं च सिद्धान्ते प्रसज्यप्रतिषेधे सर्वत्र क्रिययैव सह नओन्वयो नतु नामार्थेन । तदक्तम् । प्रसज्यप्रतिषेधो
Page #127
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुभः ।
१२७ नीस्रंसो दनीध्वंसः,अनिदितामित्युपधालोप: स्यात् । अपि च यायाः वावाः इत्यादिष्वाकारलोपः स्यात् । तस्मात्समुदायलु. गेवैष्टव्यो लोलुवादिसिद्धये च सूत्रमारम्भणीयमिति । अत्रोच्य. ते । लोलुवादिषु गुणस्तावन भवति । स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्वेन स्थानिवद्भावात् । अत एव हि न पदा. न्तति सूत्रे सवर्णग्रहणं कृतम् । शिण्ढीत्यादावनुस्वारस्य स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्य तस्य सवर्णे कर्तव्ये नसोरल्लोपस्य स्थानिवद्भावो मा भूदिति । नन्वनादिष्टादचः पूर्वत्व: स्य शास्त्रीय कार्यत्वाभावात्कथमतिदेश इति चेत्। अनादिष्टादचः पूर्वत्वापेक्षे ऽचः परस्मिन्नित्यतिदेशे कर्तव्ये स्थानिवदादेश इ. त्यस्य प्रवृत्तिसम्भवात् । सवर्णग्रहणव्याख्यावसरे सर्वैरित्थमेवोपपादितत्वाच्च । ननु योत्रादेश उवङ् सोनादिष्टादचः पूर्वतो स्थानिद्वारा कथञ्चिल्लभतां न तु तस्येह किश्चित्कार्य विधीयते येनाल्लोपः स्थानिवत्स्यात् । यस्य च कार्य विधीयते उकारस्य नासावादेशः येन स्थानिद्वारापि पूर्वतां लभेत । सत्यम् । सर्वे सर्वपदादेशा इत्याश्रयणात्स्थान्यादेशिभावस्तावदर्थवति विश्रान्यति। अत एव एरुरित्यस्य तेस्तुरिति पर्यवसितार्थमाश्रित्य स्थानिवत्सूत्रेणैव सिद्धत्वादेकदेशविकृतस्योपसंख्यानं नारब्धव्यमिति वक्ष्यते । अत एव च स्थानिवदित्युक्तौ सम्बन्धिशब्दत्वादेवादेश इत्यस्य लाभे सिद्ध पुनरादेशग्रहणमानुमानिकस्याप्यादेशस्य परिग्रहार्थमिति वक्ष्यते । एवञ्चेहापि लो. लू इत्यस्य लोलुइत्यादेशः, स चानादिष्टादचः पूर्वः स्थानिव. द्भावात् । तस्य च लोलोव् इत्यादेशे कार्ये ऽल्लोपः स्थानिवदिति युक्तमेव । किञ्च । शाजनोर्जेति रीङ् ऋत इति च सूत्रे दी. ?च्चारणेनावृत्ते पुनर्वृत्तावविधिनिष्ठितस्येति परिभाषा ज्ञाप.
Page #128
--------------------------------------------------------------------------
________________
१२८
शब्दकौस्तुभः । [१ अ० यिष्यते । तेनोवङि कृते गुणो न भविष्यति । दरीदृश इत्यत्र गुणो न भवति । प्रतिपदोक्तस्याङो ग्रहणात् । अदर्शदिति यथा। यङस्त्वकार उपदेशवलायां न प्रत्ययः । किन्तु तदवयवः, यकारे लुप्ते तु नासौ ङकारविशिष्टो न वा श्रूयते । किन्तु तकैकगोचरत्वाल्लाक्षणिकवद्विलम्बितोपस्थितिकः । नन्वेवमनङीति पर्युदासेप्यस्याग्रहणाज्जङ्गम इत्यत्राल्लोपः स्यादिति चेन्न। अनङीति पर्युदासेनाङ्सदृशे औपदोशिकेअजादौ श्रूयमाणाजादौ वोपधालोपविधानात्।अर्थवानवागुणविधौ गृत्यतइति तु न सम्यकाविकरणानामनर्थकत्वात् । यत्तु देद्य इत्यत्र युट् स्यादिति । तन्न । अनुबन्धनिर्देशात् । तदुक्तम् । तिपा शपानुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाग्रहणं चैव पञ्चैतानि न यङ्लुकीति । दीङो युडचीति सूत्रे दीङ इत्यनुबन्धनिर्देशो यङ्लुनिवृत्त्यर्थ इति त्वयैवो. क्तत्वाच्च । अत्र च ज्ञापकमेकाच उपदेशइति सूत्रे यनिवृत्तिमुद्दिश्य क्रियमाणमेकाग्रहणम्। न हि तस्मिन्कृतेप्युक्तपरिभाषां विना बेभेदितेत्यादि सिद्धयति । बिभेत्सतीत्यादिसिद्धये तन्त्रावृत्त्याद्याश्रयणेनोपदेशग्रहणस्योभयविशेषणतायाःसिद्धान्तयिष्यमाणत्वात् । न चैवमपिश्तिपाशपेत्याग्रंशान्तरे कथं ज्ञापकमिति वाच्यम् । एकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाज्ञापनस्य गतिकारकोपपदानामित्यादौ बहुशो दृष्टत्वात् । न चैवमेकाच इति विधीयमाने द्वित्वमपि यलुकि न स्यादिति वाच्यम् । गुणो यङ्लुकोरिति ज्ञापकेन तत्प्रवृत्तेः। यङ्लुकि बेभेदितेत्यादाविडागमे तूदाहृतपरिभाषेव शरणम्।द्विःप्रयोगो विचनं पाष्ठमिति वक्ष्यमाणतया धात्वन्तरत्वस्य वक्तुमशक्यत्वात्,बभेदितोत यङन्ते तु पृथगल्लोपाभ्युपगमात्तस्य च स्थानिवद्भावान्नेनिषेधः । पूर्वस्मादपि विधौ स्थानिवद्भावस्य वक्ष्यमाणत्वात् । किञ्च । य
Page #129
--------------------------------------------------------------------------
________________
'१ प्रा. ४ आ.
शब्दकौस्तुभः ।
१२९
स्येति लोपस्य त्वयाप्यवयवलोपत्वं स्वीकृतम् ) तत्र यद्यपि देद्यक इत्यत्र युटु स्वादिति नापादनार्हम् । हलः परत्वाभावेनेह यलोपाप्रवृत्त्या देदीयक इति रूपाभ्युपगमात् । सनीसूसक इत्यादौ नलोपोपि सर्वसम्मतत्वादेव नापाद्यः । यायायको वा वायक इत्यादावाल्लोपोप्यनापाद्यः । यलोपविरहेणाजादि ङिदार्द्धधातुकपरत्वाभावात् । तथापि गमेर्यङन्ताण्ण्वुले जङ्गमक इत्यत्राल्लोपस्य स्थानिवद्भावाद् वृद्ध्यभाव इवोपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि दरीदृशक इत्यत्र ऋदृशोङीति गुणः स्यात् । अथ यदीहाङ्गवृत्त परिभाषया संज्ञापूर्वको विधिरनित्य इति वा समाधीयते तर्हि यङ्लुक्यपि सनीस्रंस इत्यत्र न - लोपो याया वावा इत्यल्लोपश्च न शंक्यः । समाधानस्य तुल्यत्वादिति दिक् ॥
क्ङिति च ।। इक इतिशब्दमुच्चार्य विहिते गुणवृद्धी गित कितं ङितञ्च निमित्ततयाश्रित्य ये प्राप्नुतस्ते न स्तः। गित, जिष्णुः । ग्लाजिस्थञ्चक्स्नुः । न चायं किदेवास्त्विति वाच्यम् । स्थास्नुरित्यत्र घुमास्थेतीत्वप्रसङ्गात् । न चैवं भूष्णुरित्यत्रेट्प्रसङ्गः । श्रुचकः कितीत्यत्रापि चर्चेन गकारमश्लेषमाश्रित्य तन्निषेधात् । न चैवं चर्व्वस्यासिद्धतया विसर्जनीयो न स्याद्रोरुत्वञ्च प्रवर्त्तेतेति वाच्यम् । न मुनइत्यत्र नेति योगविभागासौत्रत्वाद्वा । तथा च ग्लाजिस्थेति सूत्रे श्लोकवार्त्तिकम् । क्स्नोगित्वान्न स्थ ईकारः किङितोरीत्वशासनात् । गुणाभावस्त्रिषु स्मार्यः श्रयको ऽनित्वं कगोरितोरिति । जयादित्योप्येवम् । वामनस्तु ग्लाजिस्थश्चेत्यत्र स्था आ इत्याकारं प्रश्लिष्य वस्तुप्रत्ययान्तस्य तिष्ठतेराकार एव न त्वीत्वमिति व्याख्यानादेव स्थास्नोः सिद्धौ न क्वापि गकारमश्लेषः कार्य इत्याह । नन्वे
१७
Page #130
--------------------------------------------------------------------------
________________
१३०
शब्दकौस्तुभः ।
[ १ अ०
तेन तन्मते दंशे च्छन्दस्युपसंख्यानमिति क्स्नौ दक्ष्णवः पशव इत्यत्रानिदितामिति नलोपः स्यात् । सत्यम् । छान्दसत्वात्समाधेयः । कित् । चितं स्तुतं मृष्टम् । ङित् । चिनुतः सुनतः मृष्टात् । निमित्तसप्तम्याश्रयणं किम् । व्यवहितेपि यथा स्यात् । छिन्नं भिन्नम् । इक इति किम् । कामयते । शब्दव्यापाराश्रयणं किम् । लैगवायनः । ओर्गुणो हीक एवं प्रवर्त्तते न तत्रेपदोपस्थितिः । ओरि तिनिर्दिष्टस्थानिकत्वात् । तदुक्तम् । तद्धितकाम्योरिक् प्रकरणादिति । ननु ङितीति सप्तमीनिर्देशात्तस्मिन्नितिनिर्दिष्टे पूर्वस्येति परिभाषोपतिष्ठेत तत्र निःशब्दस्य नैरन्तर्य परत्वादिशेचोच्चारणक्रियत्वादव्यवहितोच्चारितस्य निषेधः स्यान्न तु छिन्नं भिन्नमित्यादेरपीति चेत् भवेदेवं यदि ङितीत्येतन्निषेध्यया क्रिया साक्षात्संवध्येत । इह तु गुणवृद्धिभ्यां सम्बध्यते । यस्य च भावेनेति सप्तमी क्रियान्तराश्रयणादौत्सर्गिकसत्ताक्षेपः ततश्च क्ङिति सति प्राप्ते ये गुणवृद्धी इति सम्बन्धे कृते सिद्धसाध्यसमभिव्याहारन्यायेनोपलक्षणीभूतसत्ताश्रयणस्य निमित्तत्वमुत्सर्गतः फलति नत्विह विशिष्यनिमित्तत्तायां सप्तमीविधानमस्ति । न चात्र निर्दिष्टपरिभाषा सम्भवति । विध्यङ्गभूतानां परिभाषाणां साक्षाद्विधेयनिषेध्यक्रियान्वयिन्येव प्रवृत्तेः । इदन्तु क्रियान्वयिनो विशेषणं न तु क्रियायाः । अतोत्र न परिभाषाप्रवृत्तिः । अन्यथा वृद्धिर्यस्याचामादिरित्यत्रेपरिभाषोपस्थाने शालीयादिर्न सिध्येत् । न ह्यत्रेकः स्थाने वृद्धिः । अत एवोदीचामातः स्थानइति सूत्रे स्थानेग्रहणं कृतम् । आतः स्थाने यो कार इत्यनूद्यमानस्य विशेषणे आत इत्यस्मिन्पष्ठीस्थानेयोगेति परिभाषाया अप्रवृत्तेः । गुणानाञ्च परार्थत्वादसम्ब न्धः समत्वात्स्यादिति न्यायोप्यत्रानुसन्धेयः । नन तर्त्यनेनैव
Page #131
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुभः । न्यायेन ङितीत्येतत्प्रधानभूतक्रियया सम्बध्यतां न तु तच्छेषभूताभ्यां गुणवृद्धिभ्यां, प्रधानान्वयस्थ सम्भवतस्त्यागायोगादिति चेन्न । यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति तत्रात्मनोपि संस्कारमनुभूय प्रधानेन सम्बध्यते । यथा पानीयमेलादिसंस्कृतं पुरुषेण । उक्तञ्च । गुणः कृतात्मसंस्कारः प्रधान प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्त्ततइति ॥ इह गुणवृद्धयोङिद्रहणेन विशेषितयोः प्रधानस्य महानुपकारो भवति । व्यवहितस्यापि प्रतिषेधेसिद्धेः क्रोः कित्करणञ्चात्र ज्ञापकम् । अन्यथा प्रधानेनैवान्वये निर्दिष्टपरिभाषायाश्चोपस्थितौ सत्यां व्यवाहिते निषेधस्याप्रवृत्तौ व्यर्थमेव कोः कित्त्वं स्यात्तस्माद्यथाव्याख्यानमेव साधु । ननु न यदीयं परसप्तमी तार्ह शचङन्ते दोषः लघूपधलक्षणगुणप्राप्तरिति चेन। अन्तरङ्गत्वादियडुवझवृत्तेः। धि धारणे, रि पि गतौ, तुदादयः धियति रियति पियति । णिश्रिद्रुभ्यः कर्तरि चङ् । अशिश्रियत्, अदुद्रुवत्, अमुस्रुवत्, इह तिपमाश्रित्य प्राप्तो गुणो बहिरङ्गः शचङाश्रयावियङवङावन्तरङ्गौ । तदुक्तम् । शच. ङन्तस्यान्तरङ्गलक्षणत्वादिति । मृजेरजादौ संक्रमे वृद्धिर्वेष्यतइति काशिकायाम् । इदञ्चेको गुणवृद्धीइति सूत्रप्रसङ्गाद्वैयाकरणान्तरमतत्वेनोक्तं भाष्ये । अस्यार्थः । संक्रामतो गुणवृद्धी अस्मादिति व्युत्पत्त्या गुणवृद्धिप्रतिषेधनिमित्तभूतः ङित्प्रत्ययोत्र संक्रमशब्देनोच्यते, योगरूढेस्तेन मरीमृज इत्यत्र धात्वंशलोपनिमित्ततया वृद्धिप्रतिषेधहेतावप्यमत्यये नासौ विकल्पः प्रवर्त्ततइत्यवधेयम् । अत एव ङित्यचि वेति वचनं तंत्र भाष्ये कृतम् । मृजन्ति ।मार्जन्ति । अत्र हरदत्तः। अचीत्युच्यमानेपि यस्मिन्विधिस्तदादावल्ग्रहणइति सिद्धे आदिग्रहणं मुख्यानादिग्रहणार्थम् ।
Page #132
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
व्यपदेशिवद्भावेनाजादौ यूयं ममृज, त्वया ममृजइत्यादौ न भवतीति । तच्चिन्त्यम् | मुख्याजादिपरिग्रहे प्रमाणाभावात् । न हि भाष्ये आदिग्रहणं कृतं येन त्वदुक्तार्थो लभ्येत, किन्तु ङित्यचि वेति वचनं पठितम् । यत्तु ततः प्रागुक्तं भाष्ये " इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्त" इति । तत्तु तदादिपरिभाषाबललब्धवाक्यार्थानुवादमात्रं न तु परकीयविधिवाक्यशरीरमिदं येन स्वदुक्तमर्थं ज्ञापयेत् । अत एवात्रेयो मृजेति भिदादिपाठादङ् गणपाठादेव वृद्धयभाव इत्याह । अत एव रक्षितेनापि धातुप्रदीपे तुन्दपरिमृजस्तुन्दपरिमार्ज इत्युभयं दर्शितम् । दुर्घटवृत्तौ तु तुन्दपरिमृज इत्यत्र व्यवस्थितविभाषया वृद्धिर्नेत्युक्तम् । अत एव धातुवृत्तिषु यूयं ममृज ममाजेति रूपद्वयमुदाहृतम् । यत्तु मुख्याजादिग्रहणवादिनापि मते ऽत्र वृद्धिविकल्प दुर्वार एव । तथाहि । मध्यमपुरुषबहुवचनस्य थ स्य परस्मैपदानामिति सूत्रेण विधीयमानो ऽकारादेशो ऽलोन्त्यस्य प्राप्नोति । न चैत्रं विधिवैयथ्यम् । णलादीनां यथासंख्य सम्पादनेन चरितार्थत्वादित्याशङ्कय भाष्यएव द्वेधा समाधास्यति । अकारद्वयात्मकोयमनेकालत्वात्सर्वादेशः । यद्वा धातोरित्यधिकारादादेः परस्येति थकारमात्रस्याकार इति तत्र पक्षद्वयेप्यतो गुण इति पररूपस्याचः परस्मिन्निति स्थानिवद्भावान्मुख्याजादित्वमप्यस्त्येवेति कैश्विद्धरदत्तमिश्रमते दूषणमुक्तम् । तन्न | आद्यन्तवदित्यातिदेशइव स्थानिवद्भावेपि मुख्यत्वाभावस्य सुवचत्वादिति दिक् । स्यादेतत् । अचिनादमार्ट इत्यादौ स्थानिवद्भावेन तपो ङिश्वात् क्ङितिचेति गुणवृद्धिनिषेधः स्यात् । न चाल्विधित्वात्स्थानिवद्भावासम्भवः । अनुबन्धका - र्येष्वनल्विधाविति निषेधस्याप्रवृत्तेः । अन्यथा ऽचिनवममार्जमि
१३२
Page #133
--------------------------------------------------------------------------
________________
१ पा. ४ आ.
शब्दकौस्तुमः ॥
१३.३
त्यादावपित्त्वेन सार्वधातुकमपिदिति ङिवापत्तेः । इह च ज्ञापकं नल्यपीति सूत्रम् । अन्यथा ल्यपः कित्त्वाभावादेवेत्वात्राप्तौ किन्तन्निषेधार्थेन सूत्रेण । यतु से पिच्चेत्यापिद्वचनं ज्ञापकमिति । तन्न । शृणीहि विश्वतः प्रतीत्यादौ स्थानेन्तरतमपरिभापया पित्त्वादनुदात्तस्य सिपः स्थाने ऽनुदात्तस्यैव हे: प्राप्तादात्तसम्पादनेन चरितार्थत्वात् । अपिवसामर्थ्याद्धि तत्रान्तरतमपरिभाषा बाध्यते । प्रतिपत्तिलाघवार्थमुदात्त इति वक्तव्ये sपिद्वचनं ज्ञापकमिति वास्तु । न्यायसिद्धोप्ययमर्थः । अनुवन्यानामनेकान्तत्वेन स्थानिकोटावप्रविष्टतया स्थान्यलाश्रयविधिर्विषयकस्यानल्विधाविति निषेधस्याप्रवृत्तेः । अनुबन्धा एकान्ता इति मतेपि स्थानित्वप्रतीतेः प्रागेवान्तरङ्गेण लोपेन तेचामपहारात् । तस्माल्लडाद्यादेशानां तिबादीनां स्थानिवद्भावेन ङित्त्वं दुर्वारामिति । अत्राहुः । यासुट् परस्मैपदष्विति सूत्रे ङिद्वचनं ज्ञापकं लादेशानां स्थानिवद्भावेन ङित्त्वन्न भवतीति । तथाच वार्त्तिकम् । लकारस्य ङिवादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनात्सिद्धमिति । ननु स्तुयादित्यादावनिग्लक्षणवृद्धिप्रतिषेधार्थं चिनुयुरित्यादौ जुसिचन्यस्य प्रतिषेधार्थञ्च यासुटो ङित्वमस्तु । उतो वृद्धिलुकि हलीत्यत्र त्युत इति निर्दिष्टस्थानिकतयेपरिभाषा नोपतिष्ठते । जुसिचेति तु कूङिति चेत्यस्यापवाद एव । तथा च स्थानिवद्भाव लब्धं ङित्वं स्तुयाच्चिनुयुरित्यत्र वृद्धिगुणौ निषेद्धुं नालम् । पुनङित्त्वसाम
A
•
तु तदुभयनिषेधो भविष्यति, तथा च वृद्धिगुणनिषेधे चरितार्थ यामुटो ङिङ्कथं लादेशेषु लाश्रयङित्वस्य विरहं ज्ञापयेदिति चेत् । उच्यते । उत औदिति वक्तव्ये वृद्धिग्रहणं संज्ञापूर्वको विधिरनित्यो यथा स्यादित्येवमर्थम् । तेन स्तुयादित्यत्र
Page #134
--------------------------------------------------------------------------
________________
१३४
शब्दकौस्तुमः । [१ अ० न वृद्धिः । तथा चिनुयुरित्यत्र न गुणः क्सस्याचीत्यतोचीत्यनुवांजादौ जुसि गुणविधानात् । मिगुणो जुसि चेत्यकारं पश्लिष्याच्चासावुम् चेति कर्मधारयाश्रयणेनाजादाबुसि गुणविधानाश्रयणे तु चक्रुर्जन्हुरित्यादावतिप्रसङ्गः । गुणेति लुप्तविभक्तिकमु जुसीति च छेदः । उकारादौ जुसीति चार्थः । जुसि गुणे यासुट्नतिषेध इति वार्तिकमप्युक्तरीत्या सिद्धार्थकथनपरमि. ति तावातिककारस्य हृदयम् । भाष्यकारमते तु सार्वधातुकमपिदितिसूत्रे ऽपिदिति योग विभज्य डिदिति चानुवावृत्तिञ्चाश्रित्य ङिच्च पिन भवतीति पिच्च ङिन्न भवतीति वाक्यार्थद्वयं वर्ण्यते । इदञ्च हल: श्न इति सूत्रे भाष्ये स्पष्टम् । तेन बूतादित्यत्र ब्रुव ईण्न तातङ औपदेशिकङित्वेनान्तरङ्गेणातिदेशिकस्य बहिरङ्गस्य पित्वस्य बाधात् । अतिदिष्टादुपदिष्टं बलीय इति न्यायात् । अचिनोदित्यादौ त्वौपदेशिकेन तिबादीनां पित्वेन लाश्रयमातिदेशिकं डित्वम्बाध्यते । तेन गुणादिसिद्धिः । अस्मिंश्च पक्षे यासुटो ङित्ववचनं न ज्ञापकं किन्तु मृज्यादित्यादावमाप्तङित्वविधायकम् । तेन च पित्वस्य चिनोतीत्यादौ सावकाशस्य बाधो ऽतः स्तुयादित्यादौ पिति हलीति विधीयमाना वृद्धिने प्रवर्तते । चिनुयुरिति तु प्राग्वदेव समर्थनीयम् । पूर्वोदाहृतवार्तिकमते तु ब्रूतादित्यत्रे प्राप्नोति । आगमशासनमनित्यमिति तु कथं चि. समाधेयः। वस्तुतस्तु हलःश्नः शानज्झाविति शानचः शित्करणेनक चिदनुबन्धकार्येप्यनल्विधाविति निषेधः प्रवर्त्ततइति ज्ञाप्यते । तेन ब्रूतादित्यादौ न कश्चिद्दोष इति । अत एव भाष्यमते भविषीष्टेत्यत्र ङित्वन्न करिष्यमाणेत्यत्रोगिल्लक्षणटिल्लक्षणव डीन्नेति दिक् ॥
Page #135
--------------------------------------------------------------------------
________________
१ पो. ४ आ. शब्दकौस्तुभः ।
दीधीवेवीटाम् ॥ दीधीवेव्योरिटश्च गुणवृद्धी न स्तः। आदीध्यनम् आधीध्यकः । आवेव्यनम् आवेव्यकः । अकणिषम् अरणिषम् । कणिता वो रणिताश्वः। इहामं प्रति सिजन्तमङ्गम्। तिपो डादेशं प्रति तु कणिद्रणिदिति तान्तमंगं तस्यामंडादेशं च साधातुकं निमित्तीकृत्य लघूपधगुणामाप्नोनेन निषिध्यते । वृद्धिस्त्विटो न सम्भवत्येव । लुडन्तता स्फोटयितुं प इत्यस्य प्रयोगः । न हि तृजन्ते तृन्नन्ते वेटो गुणप्राप्तिः प्रत्ययावयवत्वात्तस्य । अर्थ दीङ् क्षये, धीङ् अनादरे, वेञ् तन्तुसन्ताने, वी गत्यादिष्वेतेषामिह ग्रहणं कुतो नेति चेत् । न । अवयवप्रसिद्धयपेक्षया समुदायप्रसिद्धेबलवत्त्वात् । किञ्च चतुर्णा ग्रहणेभिप्रेतेऽसन्देहाथ दी. वेधीवीटामित्येव ब्रूयात् । इद् चात्रागम एव गृह्यते न इट् ग. ताविति धातुः । ननु धातुसाहचर्यादातुरेव गृह्यताम् । मैवम् । साहचर्यस्य सर्वत्रानियामकत्वात् । अन्यथा द्विस्त्रिश्चतुरिति कृ. वोर्थइति सूत्रे कृत्वोर्थग्रहणं न कुर्यात् । द्विस्तिरिति सुजन्ताभ्यां साहचर्येण चतुरित्यस्यापि सुजन्तस्य ग्रहणसम्भवात् । अतएवागमापेक्षया प्रकृतेरभ्यहितत्वाद्दीधीङः पूर्वनिपातः सूत्रे कृतः इ. टोपि धातुत्वे तु प्रकृतित्वाविशेषेप्यल्पान्तरत्वात्तस्यैव पूर्वनिपातः स्यात् । अत्रेदमवधेयम् । दीध्यको वेव्यक इति यदुदाहृतं तद्दीधीवेवीभ्यां शुद्धाभ्यामेव बुलि रूपं न तु ण्यन्ताभ्यामपि । यत्तु यीवर्णयोरिति सूत्रे हरदत्तेनोक्तम् , वर्णशब्दो वर्णविस्तार इतिधातोः पचाद्यजन्तः श्रयमाण एव । वर्णे यथा स्याल्लुसे मा भूदित्येवमर्थः तेन ण्यन्ताभ्यां ण्वाल णिलोपस्य पूर्वविधौ स्थानिवत्वेपि श्रूयमाणत्वाभावाल्लोपाभावे यणि कृने दीध्यको वेव्यक इत्येव शुद्धेन समानाकारं रूपं भवतीति । तदेतन्नाग्लोपिशास्तृदितामित्येतस्मिन्सूत्रे भाष्यकारैरेव ण्यन्तस्य
Page #136
--------------------------------------------------------------------------
________________
[ १ अ०
१३६
शब्दकौस्तुभः । दीपक इति रूपं शुद्धस्य तु दीध्यक इति व्युत्पादितत्वात्सिद्धान्तविरोधादुरेक्ष्यम् । तत्राहि वर्णग्रहणं लुप्तेपि वर्णे यथा स्यादित्येवमर्थमित्याशंक्य स्थानिवद्भावेन सिद्धरन्तरंगत्वाणिलोपात्माग्यीवर्णयोरिति लोपसिद्धेश्च वर्गग्रहणं प्रत्याख्यातम् । ननु व. र्णग्रहणं कुर्वतः सूत्रकारस्याशयं भाष्यकारोक्तादन्यमेवानुमृत्य ब्रूम इति चेत्, सत्यम् । तथापि यथोत्तरं मुनीनां प्रामाण्यापाशुद्धिस्तदवस्थेवेनि दिक् । स्यादेतत् । दीधीवेव्योङित्वाङिति चेति सूत्रेणैव निषेधोस्तु किमिह दीधीवेवीग्रहणेन । मैवम् । इग्लक्षणयोहि स निषेध इत्युक्तम् । न चाचो णितीति वृद्धिरिग्लक्षणा । किञ्च कार्यिणो निमित्तत्वे पूर्वेण सिद्धिः सम्भवेदपि । न च कार्या निमित्ततयाधीयते । च्यवते प्लवते इत्यादावपि गुणनिषेधापत्तेः । अत्र च लिङ्गं कुटादिमध्ये कूङ् शब्द इत्यस्य पाठः स्थंडिलाछयितरीति निर्देशश्च । यत्तु प्रकृतसूत्रे दीधीवेव्योर्ग्रहणमेवैतत्परिभाषाज्ञापकामिति । तन्न । अनिग्लक्षणवृद्धिनिषेधेन चरितार्थत्वात् । भाष्यमतएतत्सूत्रस्य प्रत्याख्यास्यमानतयोक्तपरिभाषायां लिङ्गान्तरस्यैवानुसतव्यत्वाच्च । स्यादेतत् । यदि कार्या निमित्तत्वेन नाश्रीयते कथं तर्हि ऊर्णनविषतीत्यत्र द्विवचनेचीति नुशब्दस्य द्वित्वं, इषइत्यस्य अजादित्वेपि द्वित्वं प्रति कार्यिमध्ये प्रविष्टतया निमित्तत्वासम्भवातः । सन्यङोरिति षष्ठीमाश्रित्य सन्नन्तस्य द्वित्वविधानात् । अन्यथा प्रतीषिपतीति सनो द्वित्वं न स्यात् । यत्तु सन्यङोरिति सप्तम्याश्रयणेपि सन्यङोरकारोच्चारणसामाद् द्वित्वं भविष्यतीति । तन्न । दित्सधित्सादिभ्यो यत्पत्तिप्रतिबन्धेनाचो यदिति यत्प्रत्ययोत्पादनेन चाकारोच्चारणस्य चरितार्थत्वात् । अन्यथा अरिरिषतीत्याद्यसिद्धेश्च । यदि हि तत्रापि स्थानिव
Page #137
--------------------------------------------------------------------------
________________
१ पा. ४
आ.
शब्दकौस्तुभः ।
१३७
त्स्यादिसोद्विवचने कृते ऽरीषतीति स्यात् । अत्रोच्यते । कार्यमनुभवन्नेव कार्या निमित्ततया नाश्रीयतइति परिभाषार्थः । अरिरिषतीत्यत्र हजादेद्वितीयस्येति रिस्शब्द द्वित्त्वप्रवृत्तिः । तदन्तर्गतश्चेस्शब्द इति नासौ द्वित्वं प्रति निमित्वं कार्यभाक्त्वात् । ऊर्णनविषतीत्यत्र तु नक्शब्दस्य द्वित्वं प्राप्तन्तदनन्तर्गत. श्चेम्शब्द इति भवत्येव निमित्रं तद्भावभावितामात्रेणेह निमित्ततेति सन्यङोरिति सूत्रे भाष्यकारैरेव स्फुटीकृतत्वात् । तथा च द्विवचनेचीति स्थानिवद्भावान्नशब्दस्य द्वित्त्वमुचितमेव । यत्तु द्विवचनेचीति सूत्रेऽचि किं जेघीयतेदेध्मीयतइति पाचां प्रत्युदाहरणन्तदापाततः । थ्रीय ध्मीय इत्यस्य द्वित्त्वभाक्तयेघाध्मोरितीत्वं प्रति निमिलभूतस्य यङो द्वित्त्वम्प्रत्यनिमित्तत्वात् । तस्मात्तत्राचीत्यत्त्याधिजगइत्येतदेव व्यावर्त्य बोध्यम् । गाब्लिटीति द्विलकारकनिर्देशमाश्रित्य लावस्थायामेव गाङादेशविधानात् । अज्ग्रहणन्तु ज्ञापकं रूपस्थानिवद्भावस्यति तत्रत्यवार्तिकमप्यधिजगइत्येतस्मिन्नुदाहरणे कार्यातिदेशाश्रयणे ऽज्ग्रहणवैयर्थ्य स्यादित्येव योज्यमिति दिक् । यत्त्वसिद्धवत्सूत्रे वक्ष्यतेऽत्रग्रहणं समानाश्रयप्रतिपत्त्यर्थमिति । तन । आश्रयत्वं स्थानितया निमित्ततया वा कथञ्चिदाश्रयणमात्रेण न तु निमित्ततर्यवेत्याग्रहः । तेन शाहाविति शाभावो हेषित्वे कर्तव्ये ऽसिद्धो भवति । अन्यथा धित्वे हेः कार्यितया निमित्तत्वाभावादसिद्धत्वं न स्यात् । अत एव समानाश्रयमाभीयमाभीये ऽसिद्धमित्येवाहुन तु समाननिमित्तमिति । इदञ्च सूत्रं भाष्यवार्तिकयोः प्रत्याख्यातम् । तथाहि । दीधीवेव्यौ छान्दसौ धातू न तु लोके प्रयोगाहौँ । छन्दसि चानयोगुणो दृश्यते । होत्राय दृतः कृपयन्नदीधेत् । अदीधयुद्दाशराज्ञे वृतास इत्या
१८
Page #138
--------------------------------------------------------------------------
________________
१३८
शब्दकौस्तुभः । [१ अ. दौ । न चायम्बाहुलकेन समाधेयः । तथा सति निषेधसूत्रानारम्भस्यैव लाघवेनोचितत्वात् । तथेटोपि ग्रहणं व्यर्थम् । आ
धातुकस्येडित्यत्र हि नेट् वशि कृतीति सूत्रादिग्रहणमनुवर्तते । तच्चेटो विकाराभावार्थम् । इट् इडेव न तु विकृत इति व्याख्यानात् । ततो लघूपधगुणाभावात्सिद्धं कणिता श्वो रणिताश्व इत्यादि । न चैवं पिपठीरित्यत्र दीर्घो न स्यादिति वाच्यम् । तस्य नियमं प्रत्यसिद्धत्वात् । अपाठीदित्यत्र सवर्णदीर्घस्तु न धार्यते । सिज्लोप एकादेशे सिद्धो वक्तव्य इति ज्ञापकात् । यद्वाङ्गाधिकारे क्रियमाणो नियम आङ्गमेव विकारं व्यावर्तयति । तेन ऊरित्यकः सवर्णइति च दी| भवत्येव । ग्रहीतेत्यत्र तु ग्रहो लिटीत्यारम्भसामर्थ्यादी? भवत्येव । इदं न्त्ववशिष्यते । पिपठींषि ब्राह्मणकुलानीत्यत्र सान्तमहतः संयोगस्येति दीर्घत्वं न स्यात् । सिद्धत्वादाङ्गत्वात्तेजांसीत्यादौ चरितार्थत्वाच पिपठीरपाठीत् ग्रहीतेत्यादिपूर्वोदात्हतेभ्योस्य वैलक्षण्यादिति । अत्राहुः । पिपठीपीति प्रयोगोऽसाधुरेव । न ह्यत्र नुमागमो लभ्यते । अल्लोपस्य स्थानिवद्भावनाझलन्तत्वात् । न चैवमजन्तत्वप्रयुक्तो नुम् स्यादेवेति वाच्यम् । तस्य सकारादुत्तरत्र प्रसक्त्या दीर्घस्य तथाप्यप्रवृत्तेः । सान्तसंयोगाभावात् । वस्तुतस्त्वजन्तत्वप्रयुक्तो नुमत्र न भवत्येव । स्थानिवद्भावासंभवात् । अनादिष्टादचः पूर्वस्य विधौ हि सः । न चाजन्तमनादिष्टादचः पूर्व येन तस्य नुमि कर्तव्ये ऽल्लोपः स्थानिवत्स्यात् । ननु झलन्तत्वप्रयुक्तो नुम् दुर्वारः। न च तस्मिन्कर्त्तव्ये स्थानिवद्भावः शंक्यः । क्वौ लुप्तं न स्थानिवदिति निषेधात् । अन्यथा सखीयतेः क्विपि सखीः सुतीयतेः सुतीरित्यादि न स्यात् । अल्लोपस्य स्थानिवद्भावेन यणादेशप्रसङ्गात् । अत्रो
Page #139
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुभः। १३९ च्यते । क्विलुगुपधात्वचङ्परनि सकुत्वेषूपसंख्यानमितितावद्वार्तिकशरीरम् । तत्र क्वीत्यंशो यद्यपि द्वेधा व्याख्यास्यते । क्वौ लुप्तं न स्थानिवदिति । क्वौ विधिम्प्रति न स्थानिवदिति च। देवयतेः क्विपि दयूरित्यादेरन्यतरव्याख्यानाश्रयणेन सि. द्धावपि सखीयतेः सखीरित्यस्याद्यव्याख्यानं विना असिद्धेः लवमाचक्षाणो लौरित्यस्य द्वितीयव्याख्यानं विना ऽसिद्धेश्च । तथापि क्वौ विधि प्रतीति द्वितीयव्याख्यानामेव सार्वत्रिकम् । क्वौ लुप्तमिति तु क्वाचित्कम् । ख्यत्यादित्यत्र मपर्यन्तस्यत्यत्र च भाष्यादावाश्रितं न तु सार्वत्रिकम् । अत्र चे ग्रहणप्रत्याख्यानपरमत्रत्यभाष्यमेव प्रमाणं कथमन्यथा पिपठीषीत्यादौ दीर्घस्येष्टत्वे सूत्ररीत्या च तल्लाभे इड्ग्रहणं प्रत्याचक्षीत । तस्मात्पिपठिषि ब्राह्मणकुलानीत्येव रूपं भवतीति स्थितम् ।।
हलोनन्तराः संयोगः ॥ अज्भिरव्यवाहिता हलः संयोगसंज्ञा स्युः । संज्ञानदेशाः संयोगान्तस्ये त्येवमादयः । इहान्तरशब्देन छिद्रवाचिना बहुव्रीहौ निश्छिद्राइत्यर्थलाभादवग्रहे संज्ञया न भाव्यम् । आधेयप्रधानेनान्तरेत्यव्ययेन सह बहुवीही वाधेयनिषेधप्रतीतरवग्रहेपि भाव्यमेव संज्ञया । न हि तत्रान्तरा मध्ये किञ्चिदस्ति किं तु मध्यमानं वर्तते । मात्रा इस्वस्तावदवग्रहान्तरमिति प्रातिशाख्यबलेन तत्र मात्राकालावसानाभ्युपगमात् । यत्तु प्रातिशाख्यान्तर "मद्धर्मात्रोवग्रह" इति, तत्तु सर्वत्र संहितायामर्द्धमात्राकालस्य सत्वात्ततोतिरिक्तोद्धमात्राकालोवग्रहस्तीत्येवंपरमतः प्रातिशाख्ययोरविरोधः । तदिह कतरः पक्षो ग्राह्य इति चेत् । उभयथाप्यदोष इति भाष्यकाराः। नन्वप्स्वित्यादौ सत्यां संयोगसंज्ञायां संयोगे गुर्विति गुरुत्वाद् गुरोरनृत इति प्लुतेन भा
Page #140
--------------------------------------------------------------------------
________________
[१ अ.
१४०
शब्दकौस्तुमः । व्यं नत्वन्यथेति महान्फले विशेषः । तत्कथं पक्षद्वयाभ्युपगम इति चेत् । न । अप्स्वित्यस्याधिकरणवृत्तेर्दूरादूतसम्बन्धाभावात् । विचार्यमाणानामित्यादौ तु वाक्यस्य टेरित्यनुवर्तते न तु गुरोरनृत इति । नन्वप्मु भवोप्सव्यः,दिगादिषु पाठायत् । अपो योनियन्मतुषु चेति सप्तम्या अलक ततः सम्बुद्धौ हे अपसव्येत्यत्र स्यादेव फलभेद इति चेत् । अत्राहुः । नैवंविधे विषये ऽवग्रहं पदकाराः कुर्वन्तीति । अत्र च सम्पदाय एव शरणमिति बोध्यम् । उक्तञ्चैतत् । गोभ्यो गातुं गोभिर्मदाय चित्रइद्राजा राजका इदन्यके इत्यादी गोम्यो गोभिः राजका इत्यादीनां सत्यपि पदत्वे ऽवग्रहाकरणात् । ईयिवांसमतिनिध इत्यादावीयिवांसमिति विनापि पदसंज्ञां कसोः पूर्वमिडागमान्ते ऽवग्रहकरणाच्च । एतेन सिसासन् उक्थशसः रिरिष इ. त्यादौ पदकाले सत्त्वस्वत्वादयोपि व्याख्याताः । यत्तु मानो महान्तमिति मन्त्रे वेदभाष्यकारैरुक्तम् । छान्दसः पदकालीनो हस्त्र इति,तदपि सम्पदायमात्रपरतया कथंचिन्नेयम् । न लक्षणेन पदकारा इति भाष्ये पदविभागः पौरुषेय इति कैयटादिभिरुक्तत्वादिति दिक् । कथं तर्हि तत्रतत्रावग्रहे विशेष इत्युच्यतइति चेत् । अवान्तरपदत्वे सत्यवग्रहः क्रियतइत्युत्सर्गमभिप्रेत्योत गृहाण । अप्सुयोनिर्वा अश्व इत्यादावपि मुशब्दात्पूर्व नास्त्यवग्रहः । अवान्तरपदसंज्ञानेकत्त्वे उत्तरकालप्रवृत्तिकयावग्रह इति वैदिकसम्भदायात् । अत एव मयूररोमभिरित्यत्र भिसः पूर्वमवग्रहः । नमउक्तिभिरित्यत्राप्येवम् । इन्द्रमाणः पुरएतेवेत्यत्र चेवशब्दात्मागिति दिक् । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । संयुज्यन्ते ऽस्मिन्समुदाये वर्णा इति । तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृद्धयादिसंज्ञावत्मत्येकम् । तथा हि सति नि
Page #141
--------------------------------------------------------------------------
________________
१ पा. ४ आ.
शब्दकौस्तुमः ।
संयोग इति वान्यस्यसंयोगादेरित्यत्वं
1
र्यायादित्यादौ यकारः स्यात् । सिद्धान्ते त्वचो रहाभ्यामिति द्वित्वे सत्यपि तस्यासिद्धतया निर्यायादित्यादावेत्वं न भवति । किञ्च प्रत्येकं संज्ञेति पक्षे संत्षष्टेत्यत्र ऋतश्च संयोगादेरितीद् स्यात् । संड्रियतइ त्यत्र गुणोतिसंयोगाद्येोरिति गुणः स्यात् । दृषत्करोतीत्यत्र ककारसन्निधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात् । शक्तावस्तेत्यत्र झलि तकारे परतः स्कोरिति लोपः स्यात् । निर्यात इत्यादौ संयोगादेरातो धातोर्यण्वत इति निष्ठानत्वं स्यात् । जातौ चेदं बहुवचनं हल इति । जात्याख्यायामेकस्मिन्निति वचनात् । तेन द्वयोरपि संयोगसंज्ञा भवति । अतः शिक्षेत्यादौ गुरोश्च हल इत्यप्रत्ययः सिध्यति । यत्र तु बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां वा विशेषेणसंज्ञा । न चैकाज्द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम् । वैषम्यात् । तथाहि । द्विर्वचनं समुदायावयवैका चोयुगपत्कर्तुमशक्यम् । संज्ञा तु शक्या । तथा समुदाये द्विरुक्ते ऽवयवा अपि द्विरुक्ता भवन्ति वृक्षः प्रचलन्सहावयवैः मचलतीति न्यायात् । इह तु समुदाये प्रवृत्तया संयोगसंज्ञया नावयवानां तत्कार्यसिद्धिः । अतो विशेषेण द्वयोर्बहूनां च संज्ञेति स्थितम् । यदि तु बहूनामेव स्यात्तर्हि संस्वर्यतइत्यत्र गुणोर्त्तीति गुणो न स्यात् । गोमान्करोतीत्यत्र संयोगान्तलोपो न स्यात् । निलन इत्यादौ निष्ठानत्वं न स्यादिति दिक् । ननु यदि द्वयोरपि संज्ञा तहन्द्रीयतेः सनीन्दिद्रियिषतीति न स्यात् । इह हि संयोगौ द्वौ नदौ दरौ च । तत्र नकारस्येव दकारस्यापि नन्द्राइति द्वित्वनिषेधः प्राप्नोति । नैष दोषः । तत्र ह्यजादेरित्यनुवर्त्तते । सा च कर्मधारयात्पञ्चमी । तेनादेरचः परे नदराः संयोगादयों
1
१४१
Page #142
--------------------------------------------------------------------------
________________
१४२
शब्दकौस्तुभः ।
[ १ अ
न द्विरुच्यन्तइति सूत्रार्थः । एवं च पूर्वसूत्रे द्वितीयस्येति न कर्त्तव्यमेवेति वक्ष्यते । हलः किम् । तितउभ्याम् । अत्र तनोतेर्डउः सन्वच्चेति डडप्रत्ययः सन्वद्भावाद् द्वित्वं सन्यत इतीत्वं च । व्यस्तोच्चारणसामर्थ्याद् गुणाभावः । यदि ह्यचारेप्यनन्तरयोः संयोगसंज्ञा स्यात्तहींह संयोगान्तस्येत्युकारलोपः स्यात् । अनन्तराइति किम् । पनसम् | यदीह सकारमकारयोः संयोगसंज्ञा स्याता स्कोरिति सूत्रेण सकारलोपः स्यादिति दिक् ॥
1
मुखनासिकावचनोनुनासिकः ॥ मुखसहिता नासिका मु खनासिका तयोच्चार्यमाणोनुनासिकसंज्ञः स्यात् । संज्ञाप्रदेशा आङनुनासिकच्छन्दसीत्यादयः । अभ्रमाँ अपोहणाना । गभीर उग्रपुत्रे । इहोच्यत इति वचनः कृत्यल्युटो बहुलमिति बाहुलकात्कर्मणि ल्युट् । राजभोजनाः शालय इतिवदिति नृत्यनुसारिणः । भाष्य कैयटयोस्तू उच्यतेनेनेति व चनम् । करणे ल्युट् सामान्ये नपुंसकम् । शक्यं च क्षुदपहन्तुमितिवत् तेन तुल्यं क्रिया चेत् संस्कृतं भक्षा इतिवच्च । इदश्च विशेषणानाञ्चाजातेरित्यत्र वक्ष्यमाणेन पदसंस्कारपक्षे गुणवचनानामित्यादि वाचनिकमित्यनेन सह यथा न विरुध्यते, तथा तत्रैव वक्ष्यामः । ततो मुखनासिकावचनं यस्येति बहुवीहिः । मुखति किम् । यमानुस्वाराणामेव मा भूदिति भाष्यम् । तत्र वर्गेष्वादितश्चतुर्णी पंचमे परे तन्मध्ये पूर्ववर्णसमानाकारं वर्णान्तरं प्रातिशाख्येष्वागमत्वेन विहितन्तद्यमसंज्ञम् । यम इक यमः, यमौ हि लोके प्रायेण समानाकारौ भवतः । यथा पलिक्क्रीः चखख्नतुः अग्निः अघ्घ्नन्नित्यत्र कखगघ इत्येभ्यः परभागे तत्तत्सदृशो यमागमः । यत्क्तं विवरणे । वर्गपञ्चमयु
प्रथमादयो यमा इति । तच्चिन्त्यम् । अयोगवाहत्वप्रतिषा
Page #143
--------------------------------------------------------------------------
________________
१.पा. ४ आ. शब्दकौस्तुभः ।
१४३ दकेन हयवरदमूत्रस्थभाष्येण सह विरोधात् । केवलनासिक्यत्वपरेण यमानुस्वराणामेवेति भाष्येण सह विरोधाच्च । यथेदं भाष्यन्न केवलनासिक्यत्वपरं किन्तु आँ इत्यादीनां भागमात्रं नासिक्यं यमानुस्वाराणां तु मुखनासिक्यत्वपि प्रासाद. वासिन्यायेन नासिक्यत्वमप्यस्ति न तु तदीयं भागमात्रं तथेत्ये परं तथाप्यादितश्चतुर्णान्तदसम्भव एव । किञ्चैवं नैव दोषो नैव प्रयोजनमिति तदुत्तरभाष्यग्रन्थविरोधः । यद् घ्नन्तीत्यादौ यरोनुनासिक इत्यस्य प्रवृत्त्यापत्त्या त्वत्पक्षे दोषस्योद्भटत्वादत एव प्रातिशाख्ये स्पर्शा यमाननुनासिकाः स्वान्परेषु स्पशेष्वनुनासिकेष्वित्युपक्रम्य प्रदोधुवच्ङ्मश्रुष्वित्यत्र यमं निषेद्धमारब्धेन स्पर्शस्योष्मप्रकृतेः परस्ताद्यमापत्तिमिति सूत्रे परस्ताच्छब्दः प्रयुक्तोः यमः प्रकृत्यैव सहश्रुतिर्वा यमेन मुख्यास्ति । समानकालेत्यादिसूत्रान्तरेष्वपि स्पष्टमेव यमस्य वर्णान्तरत्वम् । तथा नारदीयशिक्षायामपि-अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो याद । तत्र मध्ये यमस्तिष्ठेत्सवर्णः पूर्ववर्णयोरिति । सवर्णः सदृशः, अत्र पूर्ववर्णयोरिति द्वित्त्वमविवक्षितम् । यज्ज्ञ इत्यादौ जकारद्वयसत्वेपि ज्मया अत्रवसवोरन्तेदवाइत्यादौ जकारद्वयाभावादिति तयाख्यातारः। तथा ऋक्तन्त्रव्याकरणाख्यस्य छान्दोग्यलक्षणस्य प्रणेता औदव्रजिरप्यसूत्र यत् । अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुण इति । पूर्वस्य गुण इत्यस्य पूर्वभक्त इत्यर्थः। एतेनागमत्वं स्फुटीकरोति, तथा संयोगशृङ्खलाख्यायां गौतमशिक्षायामपि । अथ चतुरक्षराणामुदाहरणं सयमायमाभ्यां, सयमास्तावद्यथा ऽग्निरिति द्वौ गकारौ यमनकारौ यज्ज्ञ इति द्वौ जकारौ यमअकारावित्यादि । तथात्रैव ग्रन्थारम्भे, अयस्पिण्डो दारुपण्ड ऊर्णापिण्डश्चेति त्रेधा
Page #144
--------------------------------------------------------------------------
________________
१४४ . शब्दकौस्तुभः। [१० संयोग विभज्य यमसहितमयस्पिण्डमित्युक्त्वा,अन्तस्थयमसंयोगे विशेषो नोपलभ्यते । अशरीरं यमं प्राहुरन्तस्थः पिण्डनायक इत्युकम् । अन्तस्योत्र वर्गपञ्चमः। अशरीरमिति स्वरभक्तयादिवद्वयअकलिपिविशेषशून्यमित्यर्थः लक्षणवशेनैव तदीयस्थलविशेषनिश्वयसंभवाल्लिपिसंप्रदायप्रवर्तकाचाय्यः स्वरभक्तरिव यमस्यापि व्यंजकीभूता लिपिन कल्पितेत्यर्थः। रलयोरूष्मणि परे मध्ये स्वरभक्तिरित हि प्रसिद्ध शिक्षादौ । यत्र तु नैवंविधेन लक्षणेन स्थलावधारणं कर्तुं शक्यते । तत्रागत्या लिप्यन्तरं प्रवर्तितम् । यथा विसर्गादौ । पाणिनीयशिक्षायामपि । त्रिषष्टिश्चतुःषष्टिवी वर्णाः सम्भवतो मताः। प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा । स्वरा विंशतिरेकश्च स्पर्शानां पंचविंशतिः। यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः। अनुस्वारो विसर्यश्च क:पौ चापि पराश्रयौ । दुःस्पृष्टश्चेति विज्ञेया लकारः प्लुत एव चेति । अत्र हि यमानां पृथग्गणनास्पष्टमेव वर्णातरत्वम् । गण. ना विस्थम् । अइउऋइति चतुर्णा इस्वदीर्घप्लुतभेदात्रैविध्ये द्वादश लकार एकः एचा दीर्घप्लुतभेदादष्टौ । इत्थं स्वरा एकविंशतिः । स्पर्शाः पञ्चविंशतिः । यरलवशषसहेत्यष्टौ । यमाश्चत्वारः प्रथमयमाद्वतीययमादिभेदेन विभजनात् । अत एव कुं खुं गुं ' इति यमचतुष्टयं न्या. सादाबुदाहृतम् । कचटतपाः कुः खछठयफाः खरित्यादि परिभाषामाश्रित्य तत्तदुत्तरस्याशरीरस्यापि कथञ्चित्प्रदर्शनता. त्पर्यकं चेदमिति ध्येयम् । अनुस्वारविसर्ग:क पाश्चत्वारः, दुस्पृष्टश्च बहचानां प्रसिद्धः, ईळेवोळ्हेति,इत्यं त्रिषष्टिः । लकारस्य प्लुतसम्भवात्तेन सह चतुः षष्टिः, तदेतदुक्तं सम्भवत इति । हयवरमुत्रे क्षीरोदकारोप्याह । वर्गात्येनंत्यात्परे तयोर्मध्य
Page #145
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुभः ।
१४५ वर्ती नासिकास्थानो यम इति । यत्तु कश्चिदाह । यमा आदेशाः, न च तेषामानुनासिक्यपक्षे तज्ज्ञस्तघ्नन्तीत्यादौ यरोनुनासिक इत्यनुनासिकादेशापत्त्या नैव दोषो नैव प्रयोजनमिति भाष्यं विरुध्यतति वाच्यम् । व्यवस्थितविभाषाश्रयणादिति । तत्तुच्छम् । मागुक्तमातिशाख्यनारदीयशिक्षादिसकलग्रन्थविरोधेन आदेशपक्षस्य गर्भस्रावेणैव गतत्वात् । व्यवस्थितविभाषाकल्पनस्य निर्मूलत्वाच्च । एतेन एतदीयलेखनप्रामाण्यभ्रमण अनुपसर्गातज्ञ इत्यादौ चवर्गाभावं दृढीकृत्य श्चुत्वाभावं साधयन्तस्तदनुगामिनोपि परास्ताः । नारदेन यज्ञ इत्यत्र जकारद्वयस्य स्फुटमभिधानात् । तस्यैतस्य त्रयस्यास्थ्नामज्ञां पर्वणामितीत्यारण्यकप्रयोग इव सजातीयसमाभिव्याहारान स्पष्टो भेद इति तु प्रसिद्धं शास्त्रे । अत एव न व्यञ्जनपरस्यैकस्पानेकस्य वा विशेषोस्तीति भाष्यम् । व्यञ्जनात्परस्य व्यञ्जनं परं यस्येत्येवंभूतस्य च दुर्लक्षो भेदाभेदविभाग इत्येवंपरतया तत्रतत्र कैयटेन व्याख्यातम् । अत एव च बहुषु पुस्तकेषु तज्ज्ञापयत्याचार्य इति भाष्यग्रन्थः । अनुपसर्गादितिसूत्रेपि केषाञ्चित श्चुत्वपाठः सम्मत एव । पाठान्तरं तु अल्पान्तरं, आलुच् तदसहने इति वत्सौत्रत्वादसंहितया वा समाधयमिति दिक् । तदेतत्सकलमभिधाय प्रक्रियाप्रकाशे गुरुचरणैरुक्तम् । तज्ज्ञानमित्यादौ तु श्चुत्वं भवत्येव । यमश्च मुखनासिक्यः केवलनासिकास्थानो वेति मतद्वयम् । नासिक्या नासिकास्थानाः मुखनासिक्या वेति तैत्तिरीयप्रातिशाख्यात् । अनुनासिकविषये तु दर्शनत्रयम् । कृत्स्नो वर्णो मुखेन नासिकया चोचार्यतइत्येकम, पूर्वो भागो मुखेन परो नासिकयति द्वितीयं, तद्वैपरीत्यात्तृतीयं, द्वितीयतृतीययोर्भागमात्रस्य नासिक्यत्वेपि तदुपरागाद्भागान्तर
Page #146
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । . [१० मपि तद्वदवभासते । तथा च नासिकान्वयस्य भागमात्रवि. षयतया नासिकावचनग्रहणेन मुखनासिक्योवर्णो न गृत्येत । किं तु मतविशेषे केवलनासिकास्थानतया यमादय एव गृोरन् । ततश्च विधिप्रदेशे आडगेनुनासिक इत्यादौ यमानुस्वारा एव विधीयेरन् । विड्वनोरनुनासिकस्यादित्यादौ त्वनुवादे अप्रतिपचिरेव स्यादित्युदात्दृतभाष्याशयः । तस्मादर्शनद्वये मुखपदोपादानं सार्थकमिति स्थितम् । प्रथमदर्शने तु मासादवासिन्यायाश्रयणेनोभयवचनानामपि सिद्धा संज्ञा । आन्तरतम्याच्च विधिप्रदेशेषु यमानुस्वाराणामप्रवृत्तिः। तथा च मुखशब्दोपादानं न कर्तव्यमिति भाष्ये स्थितम् । मुखवचनइत्येवोक्ते तु कचटतपादीनामपि स्यात् ततश्च शक्त इत्यत्र कलोपः स्यात् । पक्क इत्यत्र चकारलोपः स्यात् । तप्तमित्यत्र पलोप: स्यात् । ओदनपगित्यादावनुनासिकस्य किझलोरिति दीर्घः स्यात् । अनु पश्चामा. सिका व्याप्रियते यस्मिन्नासिकायाः पश्चान्मुखं व्याप्रियते यस्मिनिति वा ऽन्वर्थसंज्ञेयं तेन नासिकाव्यापारस्य भागविषयकत्वसूचनात्मासादवासिन्यायस्याविषयोयमिति ध्वनितम् । एतच्च सूत्रं प्रत्याख्यातुं शक्यम् । प्रदेशवाक्येष्वेव प्रागुक्तस्य नासिकामनुगत इत्यस्य वा योगस्याश्रयणेन सकलष्टसिद्धिरिति दिक् ॥
तुल्यास्यप्रयत्नं सवर्णम् ।। ताल्पादिस्थानमाभ्यन्तरप्रयत्नश्वेत्युभयं यस्य वर्णस्य येन वर्णेन सह समानं स तस्य सवर्णो बोध्यः । संज्ञाप्रदेशाः, अकः सवर्णेदीर्घ इत्यादयः । यद्यपि तुलया सम्मितं तुल्यमित्यवयवार्थः नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यमाप्यवध्यानाम्यसमसमितसम्मितेष्विति सूत्रेण तुलाशब्दात्सम्मिते यद्विधानात् । तथाप्ययं सदृशमात्रे रूढः
Page #147
--------------------------------------------------------------------------
________________
१ पा. ४ आ.
शब्दकौस्तुमः ।
१.४७
शब्दः । अस्यन्ति उच्चारयन्ति अनेन वर्णानित्यास्यं असुक्षेपणे, बाहुलकात्करणे ण्यत् । यद्वा । आस्यन्दते अन्नं प्राप्य द्रवीभवतीत्यास्यम् । अन्येष्वपीति डप्रत्ययः । अथ वा अनेन द्रवीक्रियतइत्यास्यं अन्तर्भावितण्यर्थात्कर्मणि डः परितः खाता परिखेतिकत् । तत्र भवमास्यम् । ताल्वादिस्थानम् । शरीरावयवाद्यत् । यस्येतिलोपे हलोयमामिति यलोपः । न चाल्लोपस्य स्थानिवद्भावः शङ्कयः । यलोपे कर्त्तव्ये तन्निषेधात् । प्रकृष्टो यत्नः प्रयत्नः प्रकर्षश्चाभ्यन्तरत्वम् । प्रारम्भे यत्नो वा प्रयत्नः आभ्यन्तरप्रयत्ना हि वर्णप्रारम्भकालएव व्याप्रियन्ते । तथा च तु
1
स्थानप्रयत्न यस्येति द्वंद्वगर्भो बहुव्रीहिः । यद्वा । तुल्यः आस्ये प्रयत्नो येषामिति त्रिपदो बहुव्रीहिः आस्ये इति विशेषणाद्वाह्यप्रयत्नव्युदासः । आस्यइत्येकत्वं विवक्षितम् । तद्धितान्तास्यशब्दोपादानसामर्थ्यात् । तेन भिन्नस्थानानामर्थाव्यृदासः । यद्वा । तुल्यः आस्ये तुल्यास्यः मयूरव्यंसकादित्वात्साधुः तुल्यास्यः प्रयत्नो यस्येति विग्रहः । यद्वा । आस्ये प्रयत्नः आस्यप्रयत्नः स तुल्यो यस्यति । एकत्वविवक्षादिकं प्राग्वत् । तदेवं समासचतुष्टयमपि भाष्ये स्थितम् । द्वंद्वगर्भो बहुव्रीहिः, त्रिपदो वा । पूर्वभागे तत्पुरुषगर्भः उत्तरभागे वेति । तुल्यशब्दस्य सम्बन्धिशब्दत्वाच्च येन सह तुल्यस्थानप्रयत्नं तेन सह सवर्णमिति लभ्यते । नहि माता पूज्येत्युक्ते स्वसुतमाता भार्या पूज्यते किं तु पूजकस्यैव मातेति दिक् । तुल्यस्थानमिति किम् । तुल्यमयत्नानामपि कचटतपानां मा भूत् । तेन सप्र्तेत्यत्र झरोशरीतिपकारलोपो न भवति । यत्नग्रहणं किं चकारशकारपोर्मा भूत् । सति हि सावर्ण्ये वाक्श्चयोततीत्यत्र शकारलोपः स्यात् । आभ्यन्तरत्वविशेषणमप्येतदर्थमेव । अस्ति हि श्वासाघोषविवारा
Page #148
--------------------------------------------------------------------------
________________
१४८
शब्दकौस्तुभः । [१ अ० ख्यवाद्यप्रयत्नसाम्यं चशयोरपि । ननु अल्पमाणत्वमहापाणत्वकृतो भेदोस्तीति चेत् । किं ततः । नहि सर्वप्रयत्नसाम्यं वि. • वक्षितुं शक्यम् । अकित इत्याधसिद्धिप्रसङ्गात् । कङयोरपि बाह्यप्रयत्नभेदात् । सर्वप्रयत्नसाम्यं हि स्वस्य स्वेनैवायाति न तु परेण । तथा च सवर्णसंज्ञाप्रणयनमपि व्यर्थ स्यात् । अणुदिसुल्पास्यप्रयत्नस्येत्युक्तौ सर्वसामञ्जस्यात् । झरोझरीत्युक्ते हलोयमांयमीत्यत्रेव यथासंख्यप्रवृत्त्या माहात्म्यामित्यादौ मकारस्येव शिण्ढीत्यादौ डकारस्यापि लोपो न स्यादिति हि सिद्धान्ते सवर्णग्रहणं कृतम् । स चाव्याप्तिदोषो यावत्प्रयत्नसाम्यविवक्षायां तदवस्थ एव स्यात् । अथ यावद्वाह्यसाम्यं यावदाभ्यन्तरसाम्यं वा विवक्ष्येत एवमपि मधुलिट्स्थानमित्यत्र झरोझरीति सलोप: स्यात् । सकारथकारयोः श्वासाघोषविवारमहापाणत्वरूपबाह्यप्रयत्नचतुष्टयेनापि साम्यात् । अथ स्थानप्रयत्नविवेकः । अकुह विसर्जनीयाः कंठ्याः । इचुयशास्तालव्याः । ऋटुरषा मूर्धन्याः । लुतुलसा दन्त्याः । उपूपध्मानीया ओष्ठयाः । एऐ कण्ठ्यतालव्यौ । ओऔ कण्ठयोष्ठयौ । वकारो दन्त्योष्ठयः। जिव्हामूलीयो जिव्हामूलस्थानः । अनुस्वारो नासिक्यः । यत्नो द्विधा । आभ्यन्तरो बाह्यश्च । तत्राभ्यन्तरश्चतुर्द्धा । स्पृष्टता ईषत्स्पृष्टता विकृतता संवृतता चेति । तत्र स्पृष्टता स्पर्शानाम् । ईषत्स्पृष्टता अन्तस्थानाम् । इस्वस्यावर्णस्य प्रयोगे संवृतता । शास्त्रीय कार्ये तु विवृतता । प्रतिज्ञायतइति अइउणसूत्रे प्रतिपादितम् । स्वृतः संवृता इति तु प्रातिशाख्योक्तत्वान्न सर्वसाधारणम् । ऊष्मणां स्वराणाञ्च विवृत्तता । एषां चतुर्णामप्याभ्यन्तरत्वं वर्णोत्पत्तिप्राग्भावित्वात् । तथा हि। नाभिप्रदेशात्मयत्नप्रेरितो वायुः प्राणो नाम उर्ध्वमाक्रामन्नुर प्रभृतीनि स्थानान्या
Page #149
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुभः । . १४९ हन्ति ततोवर्णस्य तदभिव्यञ्जकध्वनेर्वा उत्पत्तिः तत्रोत्पते माग्यदा जिव्हायोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानन्ताल्वादिसम्यक् स्पृशन्ति तदा स्पृष्टता। ईषद्यदा स्पृशन्ति तदा ईषत्स्पृष्टता । समीपावस्थानमात्रे संवृतता । दूरत्वे विकृतता । अत एव इचुयशानां तालव्यत्वाविशेषेपि तालुस्थानेन सह जिव्हाग्रादीनां चवर्गोच्चारणे कर्तव्ये सम्यक् स्पर्शः यकारे ईषत् स्पर्शः शकारेकारयोस्तु दूरेवस्थितिरित्याउनुभवं शिक्षाकारोक्तिं चानुसृत्य विवेचनीयम् । भाष्यकारास्तु नाज्ज्ञलावित्यस्य प्रत्याख्यानावसरे ऊष्मणां स्वराणां च ईषद्विवृतत्वं विवृतत्वं चेति वैलक्षण्यं वक्ष्यन्ति । तदप्यनुभवानुसार्येवेति सहृदयैराकलनीयम् । बाह्याः प्रयत्नाः पुनरेकादश । विवारः संवारः श्वासो नादो घोषो ऽघोषो ऽल्पप्राणो महाप्राण उदात्तोनुदात्तः स्वरितश्चेति । एते च वर्णोत्पत्तेः पश्चान्मूर्टिन प्रतिहते निवृत्ते प्राणाख्ये वायौ उत्पधन्ते । अत एव बाह्या इत्युच्यन्ते । गलबिलस्य सङ्कोचात्संवारः। तस्यैव विकासाद्विवारः । एतौ च संवृतविवृतत्त्वरूपाभ्यां आभ्यन्तराभ्यां भिन्नावेव । तयोः समीपदूरावस्थानात्मकत्वादित्यवधेयम् । तत्र वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीयाजव्हामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषा वर्गयमानां प्रथमे अल्पप्राणा इतरे सर्वे महाप्राणाः वर्गाणां तृतीयचतुर्था अंतस्था हकारानुस्वारौ यमौ च त. तीयचतुर्थौ संवृतकण्ठा नादानप्रदाना घोषवंतो वर्गाणां तृतीया अंतस्थाश्चाल्पपाणा यथा तृतीयास्तथा पञ्चमा आनुनासिक्यमेषामपरो गुण इति शिक्षासु स्थितम् । संग्रहश्च । खयां यमाः खयः क पौ विसर्गः शर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्यः संवृता नादभागिनः ।
Page #150
--------------------------------------------------------------------------
________________
१५०
शब्दकास्तुमः । [१० अयुग्मा वगयमगा यणश्चाल्पासवःस्मृताः।यद्यप्येते बाह्याःप्रयत्नाः सवर्णसंज्ञायामनुपयुक्तास्तथाप्यन्तरतमत्वपरीक्षायामुपयोक्ष्यन्तइतीह आभ्यन्तरत्वविशेषणव्यावर्त्यतया व्युत्पादिताः । नन्विह सूत्रे प्रयत्नग्रहणं व्यर्थम् । तद्धितान्तास्यशब्दबलादेव ताल्वादिस्थानस्य प्रयत्नस्य च लाभादिति चेन्न । प्रत्येकं व्यापारनिरासार्थमुभयोरुपादानात् । तेन स्थानप्रयत्नोभयसाम्ये सत्येव संज्ञा न त्वन्यतरसाम्यपि । एवंस्थिते यत्फलितं तत्स्पकृत्वार्थमुपन्यस्यते । अष्टादश अवर्णाः परस्परं सवर्णाः, एवमिवर्णोवौँ । ऋकारा अष्टादश । लवर्णास्तु द्वादशेति त्रिंशन्मिथः सवर्णाः लुवर्णस्य दीर्घा न संतीत्युक्तत्वात् । ऋलवर्णयोमिथः सावर्ण्यस्योपसंख्यानाच्च । एचस्तु द्वादश मिथः सवर्णाः न तु एकारैकारौ ओकारौकारौ वा मिथःसवौँ । यथा चैतत्तथा अइउणित्यत्रैव प्रतिपादितम् । अकारेणाप्येचां न सावर्ण्यम् । प्रयत्नभे. दादिति इहैव सूत्रे भाष्ये स्पष्टम् । अत एव एदेतोरपि शकारेण न सावर्ण्यमिति तेषां नाज्झलाविति सूत्रे उदाहरणत्वं नास्ति । न चात्र स्थानभेदेन विहिः एचामकारेण सह कण्ठस्थानसाम्यात् । एदैतोः शकारेण सह तालुस्थानसाम्यात् । नहि यावत्स्थानसाम्यं विवक्षितम् । अमङणनानां स्ववर्यैः सह असावापत्तेः यवलानां सानुनासिकनिरनुनासिकानामसाव
पित्तेश्च । नहि निरनुनासिकानामपि नासिकास्थानम् । येन सर्वसाम्यं स्यात् । ननु तद्धितान्तास्यशब्दबलात्ताल्वादिसाम्यमात्र लभ्यते । ओष्ठात्प्रभृति माक्काकलकाद्धि आस्यम् । काकलकं च ग्रीवाया उन्नतपदेशः यं कण्ठमणिरित्याचक्षते । तत्कथं नासिकास्थानभेदेनासवर्णत्वमापाद्यतइति चेत् । नासिका हि न बाबा वर्णोत्पत्तौ निमित्तम् । तत्र जिव्हाग्रादिव्यापारविरहात्
Page #151
--------------------------------------------------------------------------
________________
१ पा. ४ आ.
शब्दकौस्तुभः ।
१५१
किंतु अन्तरास्ये विततं चर्मास्ति पणवचर्मवत् । तत्संबद्धो रेखाविशेषो नासिका । सैव वर्णोत्पत्तौ निमित्तमिति सिद्धान्तात् । तस्याश्च ओष्ठादिभ्योऽविशेषात् वय वर्येण सवर्णः तुल्यास्यप्रयत्नत्वात् । रेफस्य रेफ एत्र सवर्णः एवमूष्मणामपि ऊष्माण एव सवर्णा नत्वन्ये । तुल्यास्यप्रयत्नत्वाभावात् । शपसहानां यथाक्रमं इकारऋकारऌकाराकाराः सूत्रकारमते यद्यपि तुल्यास्यप्रयत्नास्तथापि न सवर्णा नाज्झलाविति निषेधात् । भाष्यकारमते तु प्रयत्नभेद एवेति वक्ष्यते । इह स्थानभेदादमातां सवर्णसंज्ञां विधातुं वार्त्तिकमारभ्यते । ऋकारलकारयोः सवर्णविधिरिति । होतृऌकारः होतृकारः । उभयान्तरतमऌकारान्तरतमश्च दीर्घो न सम्भवतीति परिशेषादृकारः । स्यादेतत् । अकः सवर्णे दीर्घ इत्यत्र ऋतिऋवावचनं कृतिऌवावचनमिति वक्ष्यति । तस्यायमर्थः । अकः सवर्णे ऋतिपरे पूर्वपरयोः स्थाने वा ऋ अयमादेशो भवति । द्विमात्रोयम् । मध्ये द्वौ रेफौ । तयोरेका मात्रा । अभितोज्भक्तेरपरा । ईषत्स्पृष्टश्चायम् । तत्रः प्रयत्नभेदादृकारेणाग्रहणादनच्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोयं विधीयते । लृतिऌवेति । अयमपि द्विमात्रः ईषत्स्पृष्टश्च । मध्ये द्वौ लकारौ तयोरेका मात्रा अभितोज्भक्तेरपरा | पूर्ववदप्राप्तो विधीयते । तत्र वावचनमिति वाशब्दो दीर्घसमुच्चयार्थो भावष्यति । वा स्याद्विकल्पोपमयोरेवार्थेपि समुच्चये इत्यभिधानात् । तेनाप्राप्त एव दीर्घो भविष्यति । तत्किं सवर्णसंज्ञया । ननु ऌ तिलुवेत्यत्र सवर्णइत्यनुवर्त्तते न वा । आद्ये होतृऌकार इत्यत्र ऋलुवर्णयोः सवर्णसंज्ञाविधानं विना नेष्टसिद्धिः । अन्त्ये दलकारो मध्ऌकार इत्यादावतिप्रसङ्ग इति चेत् । न । प्रथमवार्तिके ऋतीत्यपनीय ऋतइति पंचम्यन्तपाठेनैव सर्वसामञ्जस्यात् ।
Page #152
--------------------------------------------------------------------------
________________
१५२ शब्दकौस्तुभः । [१ अ० सवर्णइति च पूर्ववार्तिकेनुवर्तते । तेन धात्रंश इत्यादौ नातिप्रसङ्गः । द्वितीयवार्तिके तु सवर्णइति निवृत्तम् । ऋत इत्यनुवर्तते । तस्मादकः सवर्ण इत्यत्रावश्यकर्त्तव्येन वचनद्वयेनैव सकलनिर्वाहाहकारलकारयोः सवर्णविधिरितीहत्यं वातिकं व्यर्थमिति । मैवम् । इहत्यमेकं वार्तिकमाश्रित्य पाष्ठवचनद्वयप्रत्याख्यानस्यैव न्याय्यत्वात् । तथाहि । तद्वचनद्वयं कुर्वतापि रेफद्वयलकारद्वयगर्भयोस्तद्विधेययोरच्त्वं तावदेष्टव्यम् । तनिर्वाहार्थ वर्णसमाम्नाये तो पठनीयौ । अन्यथा हि विधानमात्रमनयोः स्यान्न त्वच्कार्य प्लुतः । तद्विधाने ह्यचश्चेति परिभाषयाच इत्युपतिष्ठते । ननु ईषत्स्पृष्टस्यानच्त्वान्मा भूत्प्लुतः विवृतस्य तु ऋकारस्यान्त्वेन प्लुतः सिद्ध एवेति चेत् । सत्यम् । विवृतः प्लुतः सिद्धः ईषत्स्पृष्टौ तु प्लुतौ रेफद्वयलकारद्वयगर्भो न सिध्यतः । अत एवाचसंज्ञामात्रेणापि न निस्तारः । ग्रहणकशास्त्रप्रवृत्तेस्तावन्मात्रेणानिर्वाहात् किं त्वण्सु पाठ एव कर्तव्य इत्युक्तम् । सति त्वण्मु पाठे ताभ्यां त्रिमात्रयोरपि ग्रहणात्प्लुतसंज्ञायां सत्यां पक्षे ईषत्स्पृष्टौ प्लुतौ भवनः एवंस्थिते षाष्ठं वचनद्वयं मास्तु । तद्विधेययोरपि दीर्घतयाकः सवर्ण इत्यनेनैव सिद्धेः । ननु स्थानेन्तरतमपरिभाषया विकृतस्य स्थानिनो विवृतावेव दीर्थों स्थातां न त्वीपत्स्पृष्टाविति चेत् । न । रेफद्वययुक्तस्य स्थानिनो रेफद्वययुक्त एवादेशःसुसदृश इत्यपि हि सम्भवति तथा च किं रेफद्वययुक्तत्वमादर्तव्यं, किं वा वितत्वमित्यत्र विनिगमकाभावेन पर्यायेणोभयप्रवृत्तौ सिपाधयिषितस्य रूपरयस्य निर्वाहात् । लकारेपि कदा चिदृकारान्तरतमो विवृतदीर्घः कदाचिद् लकारान्तरतमो लकारद्वयगर्भ ईषत्स्पृष्ट इति सकलेष्टसिद्धः । तदेवं षाष्ठं वचनद्वयं न कर्त्तव्यमिति स्थितम् । ननु तदेवा
Page #153
--------------------------------------------------------------------------
________________
१५३
. पा. ४ आ. शब्दकौस्तुभः । . स्तु संज्ञाविधानं तु मास्त्विति चेत् । न । वचनद्वयारम्भे गौरवस्य स्पष्टत्वात् । किञ्च संज्ञाभावे ऋत्यक उपसर्गादृति उरण्रपरइत्यादिषु ऋकारेण लुकारग्रहणं न स्यात् । न चैवं सिद्धान्तपि तवल्कार इत्यादौ रपरत्वप्रसङ्गः । रप्रत्याहारपरत्वस्य वक्ष्यमाणतया लपरत्वसिद्धेः । ऋदिताम्लुदितां च धातूनामनुबन्धकार्येषु सङ्करस्तु न भवति । धातूपदेशे पृथगनुबन्धकरणसामर्थ्यात् । विधिवाक्येष्वपि पृथगनुवादसामर्थ्यात् । अन्यथा हि सर्वान् ऋदित एव लुदित एव वा पठित्वा विधावपि तेनैव रूपेणानुवदेत् । सम्भवत्यैकरूप्ये वैरूप्याश्रयणायोगात् ॥
नाज्झलौ ॥ अज्झलौ मिथः सवर्णों न स्तः । अकारहकारयोरिकारशकारयो ऋकारषकारयोलकारसकारयोश्चेति स्थलचतुष्टये पूर्वसूत्रेण प्राप्तं सावर्ण्यमनेन निषिध्यते । तेनानडुहं चर्म वैपाशो मत्स्य इत्यत्र यस्येति चेति हकारशकारयोर्लोपो न । अन्यथा हि यस्येत्यनेन दीर्घाणामिव हकारशकारयोरपि ग्रहणं स्यात् । तथा दण्डहस्तः दधिशीतं कर्तृषकमित्यादौ सवर्णदीर्घः स्यात् । दधिसान्द्रमित्यादौ यणादेशश्च स्यात् । इहाज्झलौ क. स्यापि न सवौँ स्त इति वाक्यार्थो न ग्राह्यः । संज्ञारम्भवैयापत्तेः। विहितपतिषिद्धत्वेन विकल्पे तु लाघवात्तुल्यास्यमयत्नं वेत्येव सूत्रयेत् । नाप्यचामज्भिहलां हल्भिः सावये निषिध्यते । नाज्झलावित्यत्रैव सूत्रे सवर्णदीर्घस्य झयो ह इति पूर्वसवर्णादेशस्य च निर्देशात् । ननु झलेवात्र निर्दिष्टो न तु हल् । तावतैवेष्टसिद्धेरिनि चेतर्हि दर्षािनिर्देश एव ज्ञापकोस्तु । तेन ह्यचामभिः सावर्ण्यमनिषिद्धमिति ज्ञापिते परिशेषादज्झलोमिथो निषेध एव पर्यवस्यति । झरो झरि सवर्णइति ज्ञापकाच्च । यत्त नाण्शलावित्येव कुतो न सूत्रितमिति । तन्न । क
Page #154
--------------------------------------------------------------------------
________________
१५४
शब्दकौस्तुभः ।
. [१ अ०
तृषट्कं दधिसान्द्रमित्याद्यसिद्ध्यापत्तेः । ऋलृकारयोरनण्त्वात् । ग्रहणकसूत्रातिरिक्ते पूर्व एवाणित्युक्तत्वात् । अस्तु वा प रेण, तथाप्यजपेक्षया व्यक्तिगौरवमेव स्यादित्यग्रहणमपनीयाग्रहणं क्रियतामिति शङ्काया गर्भस्वावेतौव गतत्वात् । शलंशे तु व्यक्तिलाघवे सत्यपि वर्णोच्चारणे विशेषो नास्तीत्येवोत्तरम् । वस्तुतस्तु नाक्शलावित्येव सूत्रयितुमुचितम् । स्यादेतत् । शरां शर्भि सावर्ण्य निषिद्धयेत । ते हीकारादिभिर्गृहीतत्वादचसंज्ञकाः हल्षपदेशाद्धलव । न चास्मादेव निषेधादिकारादयो न सवर्णा इति वाच्यम् । एतद्वाक्यार्थवोधात्प्राक् पदार्थोपस्थितेरावश्यकतया तस्यामवस्थायामिकारादिभिः शरामुपस्थापनस्य दुर्वारत्वात् । ततश्च परश्शताः रामष्पष्ठः यशस्सारमित्यादौ झरोझरीत्यस्य प्रवृत्तिर्न स्यात् । ततश्चैकैकत्र शत्रयं श्रूयेत । इष्यते तु द्वयम् । तथा च पूर्वपक्षवार्त्तिकम् । अज्झलोः प्रतिषेधे शकारप्रतिषेधोज्झल्त्वादिति । अत्र शकारग्रहणं श रामुपलक्षणम् । किश्चावर्णस्याष्टादशधा भिन्नस्य परस्परं सावये न स्यात् । ततश्च दण्डाग्रमित्यादौ दीर्घो न स्यात् । तथाहि । हकारेण ग्रहणादकारो हल् अक्षु पाठाच्चाच् । न चास्मिनेव सूत्रे एतस्य प्रवृत्तिः । येन ग्रहणकशास्त्रमसावयनि प्रवर्त्ते - तेति । अत्र सिद्धान्तं वार्त्तिककार एवाह । सिद्धमनच्त्वाद्वाक्यापरिसमाप्तेर्वेति । तत्र सूत्रप्रत्याख्यानेनोत्तरं प्रथमवार्त्तिकेभिप्रेतम् । तथाहि । शिक्षावाक्ये विवृतमूष्मणामिति योगो विभज्यते । तत्र चेषदित्यनुवर्त्तते । स्वराणाञ्श्चेति विवृतमित्यनुवर्त्तते । ईषदिति निवृत्तम् । तथा च प्रयत्न भेदादूष्पस्वरयोः सावर्ण्यप्राप्तौ किं सूत्रेण । तथा च शरामनच्त्वादेव सिद्धमित्यर्थः । उपलक्षणश्चेदमकारस्याहलत्वादित्यपि बोध्यम् । सूत्रा
Page #155
--------------------------------------------------------------------------
________________
१ पा. ४
आ.
शब्दकौस्तुमः ।
१५५
रम्भमभ्युपेत्येदम् । वस्तुतस्तूक्तरीत्या सूत्रमेव नारम्भणीयमित्यर्थः। ईषदित्यस्याननुवृत्तिं समानप्रयत्नताञ्च स्वीकृत्य सूत्रारम्भपक्षेप्याह । वाक्यापरिसमाप्तति । अयमाशयः । इह पूर्व वर्णानामुपदेशः तन इत्संज्ञा । तत आदिरन्त्येन सहेतेति प्रत्याहारसिद्धिः ततो नाज्झलावित्येतद्वाक्यार्थबोधः । ततोपवादविषये परिहारेण सवर्णसंज्ञानिश्चये सति ग्रहणकशास्त्रप्रवृत्तिः । न त्वेतत्सूत्रनिष्पत्तिसमये । अन्यथा तत्सूत्रेणैवेकारशकारादीनां सावर्ण्यनिषेधादिकारेण शकाराग्रहणे सत्यज्झल्त्वादिति हेतोरसिद्धया त्वदीयः पूर्वपक्षो ऽसम्भवदुक्तिक एव स्यात् । अथ पदार्थज्ञानस्य वाक्यार्थबोधहेतुतयैतद्वाक्यस्थपदार्थबोधकाले एत द्वाक्यार्थग्रहाभावादिह सूत्रे इकारेण शकारग्रहः स्यादेवेतः पूर्व सावर्ण्यनिषेधाग्रहादिति ब्रूषे तीतः पूर्व ग्रहणकशास्त्रमेव न निष्पन्नमिति कथं न पर्यालोचयेः। नन्वेवं तुल्यास्थप्रयत्न नाज्झलावित्यादावकः सवर्णे दीर्घ इति दी|पि न प्रवर्त्ततेति चेन्न । सवर्णसंज्ञायुत्तरकाले प्रवर्त्तमानस्य दीर्घशास्त्रस्य दण्डाढकादाविवहाप्पप्रतिबद्धप्रवृत्तिकत्वात् । उद्देश्यतावच्छेदकरू. पाक्रान्तत्वाविशेषात् । न च सवर्णदीर्घविधानात्पागेतत्सूत्रार्थबोधानुपपत्तिरिति वाच्यम् । पदार्थोपस्थितिप्रभृतिसामग्रीसम्पतौ सत्यां साधुत्त्वबोधकवाक्यार्थज्ञानविलम्बन शाब्दबोधे विलम्बादर्शनात् । अन्यथा व्याकरणशास्त्रपरिशीलनविकलानां कापि शाब्दबोधो न स्यात् । तथा वैयाकरणानामपि व्याकरणसूत्रघटकशब्देषु व्याकरणादेव साधुत्वबोधे तदुत्तरकाले च वाक्यार्थावगतावात्माश्रयान्योन्याश्रयचक्रकाणां दुर्वारत्वादिति दिक् । साधुत्वज्ञानं तु न शाब्दबोध हेतुः । अस्तु वाभियुक्तवाक्यत्वेन साधुत्वानुमितिः, ततः शाब्दबोधे जाते लक्ष्या
Page #156
--------------------------------------------------------------------------
________________
१५६
शब्दकौस्तुभः ।
[ १ अ०
न्तरेष्विव लक्षणवाक्यान्तर्गतेष्वपि लक्षणप्रवृत्तिरिति दिक् । वस्तुतस्तु शरां परस्परं सावर्ण्यनिषेधे सत्यापे न क्षतिः । परः शतादिषु हि रूपद्वयं सिद्धान्तेपीष्यते । शतात्पराणीति विग्रहे कर्तृकरणे कृता बहुलमिति बहुलवचनाद्वा सुप्सुपेति वा समासे कृते पारस्करादित्वात्सुटि सकारस्य श्चुत्वम् । ततो ऽनचि चेति द्विर्वचनम् । ननु शरोचीत्यनचीति वा द्वित्वनिषेधोस्त्विति चेन । तत्र नाज्झलाविति निषेधादिकारेण शकाराग्रहणात् । ततो झरोझरीति लोपविकल्पाद द्विशकारं त्रिशकारं वा रूपमिति सावर्ण्यनिषेधेपि सिद्धत्येवेदं रूपद्वयम् । अनचि चेति द्वित्त्वस्यापि वैकल्पिकत्वात् । तत्र द्वित्वस्य वैकल्पिकत्वं यरोनुनासिके नुनासिक वेत्यतो वेत्यनुवर्तनात्सर्वत्र शाकल्यस्येति पाक्षिकनिषेधाद्वा । लोपस्य वैकल्पिकत्वं तु झयो होन्यतरस्यामित्यतोन्यतरस्यांग्रहणानुवृत्तेरित्यवधेयम् । तस्मात्सावर्ण्य सत्यसति वा परश्शता इति द्विशकारकत्रिशकारकरूपयोरविशेषः । परश्शताद्यास्ते येषां परा संख्या शतादिकादित्यमरः । एवं रामष्यष्ठोयशस्सारमित्यादावपि । अत एव भाष्ये, अपर आहेत्युपक्रम्य वार्त्तिकद्वयमप्येकहेतुतया व्याख्याय, अस्तु वा ग्रहणामिकारादिभिः शकारादीनामिति वाक्यशेषाध्याहारेण प्रतिज्ञाविकपार्थो वाशब्द इति व्याख्यातम् । तत्र अपर आहेत्यपरितोषोद्भावनम् । तद्वीजन्तूक्तरीत्या शर्पु सावर्ण्यनिषेधानिषेधयोः फलाविशेषेपि प्रागुक्तरीत्या दंडाग्रमित्यादि न सिद्धयेत् । तदर्थं च सूत्रप्रत्याख्यानस्य वाक्या परिसमाप्तिन्यायस्य वाश्र - यणे आवश्यके शरां शभिः सावयभावाभ्युपगमो निर्मूल एवेति । स्यादेतत् । अगृहीतसवर्णानामेव नाज्झलाविति निषेध इति तावत्स्थितम् । तथा चेकारादीनां शकारादिभिः सावर्ण्या
Page #157
--------------------------------------------------------------------------
________________
१ पा. ४ आ. शब्दकौस्तुमः ।
१५७ निषेधात्कुमारी शेतइत्यादौ सवर्णदीर्घः स्यादित्याशंक्याचीस्यनुवृत्त्या समाहितम् । एवं स्थिते मालास्वित्यादौ पत्वं स्यात् । हकारेणाकारग्रहणे सति गौरीष्वित्यादिवदिणः परस्वानपायात्। किञ्च । विश्वपाभिरित्यत्र होढइति ढत्वं स्यात् । वागाशीरित्यत्र झयो होन्यतरस्यामित्याकारस्य धकारः स्यात् । गासीध्वमित्यत्र इणः पीध्वामिति मूर्द्धन्यादेशः स्यात् । दासीष्टेत्यादौ दादेर्धातोर्घ इति घत्वं स्यात् । राम आयातीत्यादौ ह. शिचेत्युत्वं स्यात् । देवा आयान्तीत्यादौ हलि सर्वेषामिति नित्यो यलोपः स्यात् । चाखायितेत्यादौ यस्य हल इति यलोप: स्यात् श्येनायितेत्यादौ क्यस्य विभाषेति लोप: स्यात् । निचाय्येत्यादौ हलो यमामिति यलोपश्च स्यादिति बहूपप्लवप्रसङ्गः । अत्रोच्यते । आकारो न हकारस्य सवर्णः । ततोप्याकार इति । अइउणसूत्रोदात्दृतशिक्षारीत्या भिन्नप्रयत्नत्वात् । सवर्णेण्ग्रहणमपरिभाष्यमाकृतिग्रहणादिति वार्तिकमते तु हकाराकारयोरेकजात्यनाक्रान्तत्वादेव नातिप्रसङ्गः । यद्वा ऽऽकारसहितोच आच् स च हल् च आज्झलाविति सूत्रे आकारमश्लेषो व्याख्येयः । तेनाकारस्याचां च हल्भिः सह साव
ये निषिध्यते । आकारमश्लेषेलिङ्गन्तु कालसमयवेलासु तुमुनित्यादिनिर्देशाः अत्र पक्षे आश्च आश्चेति द्वंद्वेन सवर्णदीर्पणच नाज्झलाविति सूत्रे दीर्घात्परः प्लुतोपि निर्दिष्ट इति व्याख्येयम् । तेन यियासो इत्यादौ गुरोरनृतइति प्लुतादाकारात्परस्य सनः सस्य षत्वं नेत्यवधेयम् । भाष्यमतेतूष्मणामीषद्वितताभ्युपगमेन सावर्ण्यप्रसक्तिरेव नास्तीति सूत्रप्रत्याख्यानात्सकलमनाविलम् ॥ इति शब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादेचतुर्थमान्हिकम् ४
Page #158
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः । .. [१ 'ईदूदे द्विवचनं प्रगृह्यम् ॥ ईदुदेदन्तं द्विवचनं प्रगृह्यसंझं स्यात् । हरी एती विष्णू इमौ गंङ्गे अमू । तपरकरणमसन्देहार्थमिति वृत्तिकाराः । अन्यथा हि यणादेशे कृते इस्वस्यायं निर्देश इत्यपि सम्भाव्येत । ततश्चाकुर्वपत्रेत्यादावतिप्रसङ्गः स्यादिति भावः । भाष्ये तु व्यक्तिः पदार्थो भेदकाश्च गुणा इति पक्षमाश्रित्य गुणान्तरयुक्तानां दीर्घाणां संग्रहार्थ तपरकरणमित्युक्तम् । इदञ्चेदिति प्रथमतकारस्यैव फलमित्यवधेयम् । तावतैव ऊकारेपि सिद्धेः । तात्पर इति पञ्चमीसमासपक्षस्यापि स्थितत्वात् । एकारस्य त्वणत्वादेवाणदित्सूत्रेण सवर्णग्राहकतासिद्धेः । ईदूतोः परमनणत्वाद् गुणान्तरयुक्तसंग्रहाय युक्तो यत्नः । तस्माद्भाष्यमतेपि ऊदेतोस्तपरकरणमसन्देहाथमेव गुणानामभेदकत्वे त्वीदि. त्यपि तथेत्यभिप्रेत्यैकरूप्यं वृत्तिद्भिरुक्तम् । इह तपर इति सूत्रे पञ्चमीसमासो मास्त्वित्यभिप्रेत्य अदिति तथा ऽतपर एवैकारो निर्दिष्ट इत्यपि सुवचम् । स्यादेतत् । असन्देहायापि क्रियमाणन्तपरत्वं प्लुतं व्यावर्त्तयेदेव । घटायोन्मीलितं चक्षुः पटं न हि नपश्यतीति न्यायात् । अथायं दकारः ऋदोरबितिवदिति चेत् । एवमप्येकारो गृह्णातु प्लुतम् । अण्त्वात् । न स्वीदूतौ । वाक्यापरिसमाप्तिन्यायेनानणत्वात् । जातिपरो निर्देश इति चेत् । तर्हि ह्रस्वेप्यतिप्रसक्तिः । दीर्घव्यक्तिरपि विशेषणीभूता विनाक्षिः तेति चेत् कथं तर्हि प्लुतसंग्रहः । न च प्लुमव्यावृत्तिरिष्टैवेति वाच्यम् । अग्नी ३ इतीत्यत्राप्लुनवदुपस्थितइति सूत्रेण प्लुतत्वप्रयुक्ते प्रकृतिभावे निषिद्धपि प्रगृह्यत्वप्रयुक्तस्य तस्येष्यमाणत्वात् । अप्लुतवदित्यस्य तु देवदत्तेतीत्यादौ चरितार्थत्वाद्वैयर्थ्य न शंक्यम् । तथा च पाष्ठे वार्तिकम् । वद्वचनं प्लुतकार्यप्रतिषेधार्थ प्लुतप्रतिषेधे हि प्रगृह्यप्लुतपतिषेधप्रसङ्गोन्येन विहितत्वादिति। अ
Page #159
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः ।
१५९ त्राह भाष्यकारः। यथोद्देशं संज्ञापरिभाषमित्याश्रयणात् प्रगृह्यसंज्ञा प्रति प्लुतोसिद्धः। तथा च द्विमात्रत्वबुद्धेरप्रतिघातात् सिद्धा संज्ञा कार्यकालपक्षे परं प्रगृह्यसंज्ञाया अप्यणो प्रगृह्यस्येत्येतद्देशतया तां प्रति प्लुतस्य सिद्धत्वेनानुनासिकः प्रवर्तेतैवेति स्यादेव दोषः । एतेनानी ३ इतीत्यादौ प्रकृतिभावोपि व्याख्यातः । प्लतप्रगृह्या अचीति ज्ञापकात्स्वरसन्धिषु प्लुतस्य सिद्धत्वेपि संज्ञां प्रत्यसिद्धत्वानपायात् । यथोद्देशपक्ष एवहाश्रीयतइत्युक्तत्वात् । वस्तुतस्त्वनुनासिकप्रत्तिभयेनैवेह यथोद्देशपक्षाश्रयणम्। प्रकृतिभावस्तु कार्यकालपक्षेपि सूपपादः । न च प्रगृह्यः प्रकृत्यत्यनेनैकवाक्यतापन्नां संज्ञां प्रति प्लुतस्य सिद्धतया त्रिमात्र स्य संज्ञा दुरुपपादति वाच्यम् । प्लुतस्य सिद्धतायां वीजाभावात् । यत्तूक्तं प्लुतः प्रकृत्येत्येतदेव ज्ञापकमिति । तन्न । प्लुतशब्देन तत्स्थानिनो लक्षणया सर्वसामञ्जस्यात् । न चैवं लक्षणैव दोष इति वाच्यम् । श्रुतार्थापत्तिमूलकवाक्यान्तरकल्पनापेक्षया लक्षणाया एवाभ्यर्हितत्वात् । अस्तु वा विशेषापेक्षं ज्ञापकम् । सिद्धः प्लुतः प्लुतत्वप्रयुक्त प्रकृतिभावइति न तु प्रगृह्यत्वप्रयुक्तपि । तस्मात्कार्यकालपक्षमाश्रित्य प्रकृतिभावस्य समर्थयितुं शक्यत्वेप्यनुनासिकप्रवृत्तिवारणायैवेह यथोद्देशपक्षाश्रयणमिति स्थितम् । अत्र हरदत्तः । यद्यपि संज्ञायामसिद्धः प्लुतस्तथाप्यनुनासिकपर्युदासे सिद्ध एव, ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य न सोनुनासिकविधौ स्थानी किन्तु त्रिमात्रः । न च स्थानिवद्भावात्तस्यापि प्रगृह्यत्वम् । अल्विधित्वात् । किञ्चावश्यं सिद्धः प्लुतः स्वरसन्धिष्वित्याश्रयणीयम् । दण्ड आढकमिति प्लुतस्य दीर्पण निवृत्तियथा स्यात् । अत एव मुश्लोका ३ इति सुश्लोकेतीत्यत्र गुणो भवन् प्लुतमेव निवर्तय
Page #160
--------------------------------------------------------------------------
________________
१६० शब्दकौस्तुभः। [१० ति न तु स्थानिनम् । अन्यथा त्यादेशरूपे प्लुतः श्रयेत तदिह यथोद्देशेपि संज्ञापरिभाषे कथमिवेष्टसिद्धिः, कथं वा ग्रन्थेषु न पूर्वापरविरोध इति विपश्चितः प्रष्टव्या इति । अत्राः । ययपि द्विमात्रस्त्रिमाणापत्दृतस्तथापि पूर्वत्रासिद्धमिति शास्त्रासिद्धत्वबोधनान्त्रिमात्रेपि द्विमात्र एवायमिति बुद्धया प्रगृह्यसंज्ञा क्रियते । अत एवामुनेत्यत्र मुत्वे कृते तदुपजीवनेन नाभावे च कृते सुपि चेति दी| मुशब्दएव दशब्दोयमिति बुद्धया प्रामोति तत्परिहाराय तन्त्रावृत्त्याद्याश्रयणेन नाभावे कर्तव्ये कृते च सति मुभावो नासिद्ध इत्यष्टमे व्याख्यातम् । कृन्मेजन्तसूत्रे च सन्निपातपरिभाषया समाहितम् । न विह द्विमात्रे कृतां संज्ञा स्थानिवद्भावेन त्रिमात्रे आनयामः , येनानाविधाविति निषेधः शङ्कयत। न हि रजतभ्रमप्रयुक्ता प्रवृत्तिःशुक्तिं न गोचरयतीति युक्तम् । एतावानेव परे विशेषः रजतभ्रमो ऽनाहार्यःवर्तकः इह तु शास्त्रप्रामाण्यादाहायोरोपोपि तत्तच्छास्त्रप्रवृसावप्रवृत्तौ च नियामक इति । तदेतत्कय्यटेनैव स्फुटीकृतम् । यदाह शास्त्रासिद्धत्वाश्रयणाच्च प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रत्वबुद्धिः प्रवर्त्तते । तथा च वक्ष्यति, असिद्धवचनमुत्सर्गलक्षणभावार्थमादेशलक्षणप्रतिषेधार्थ चेति । षत्वसुकोरसिद्ध इत्येतत्सूत्रस्थं वार्तिकमिदम् । उत्सृज्यते निवर्त्यते आदेशेनेत्युत्सर्गः स्थानी स लक्षणं निमित्तं यस्य कार्यस्य तुगादेस्तस्य प्रवृत्त्यर्थमित्यर्थः । तथा चैकरूप्यार्थ सर्वत्र शास्त्रा. सिद्धत्वमेवेति भावः । एतेन यस्यानेन संज्ञा कृता न सोनु- नासिकविधौ स्थानीति प्रथमदूषणमुद्धृतम् । यदपि दण्डाढकं
सुश्लोकेतीत्यादावादेशः प्लुतः श्रूयेतेति । तदपि न । उक्तरीत्या तत्राप्यादेशेन प्लुतस्यैव निवृत्तेः । प्लुतो मया पह्रियतइति
Page #161
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः ।
१६१ बुद्धिः परं तस्य नास्तीत्यन्यदेतत् । यत्तु षष्ठे भाष्यकारो वक्ष्यति, सिद्धः प्लुतः स्वरसन्धिष्विति तत्त्विहानुनासिकपर्युदासानुरोधाद्यथादेशपक्ष एवाश्रयणीय इति स्थिते स्वरसन्धिसामान्यापेक्षज्ञापकाश्रयणेपि न दोष इत्याशयेन, न तु सामान्यापेक्षतायामेव किञ्चिदाग्रहे बीजमस्तीति दिक् । ननूदाहरणेष्वीदादिकमेव द्विवचनं न तु तदन्तमिति चेन्न । व्यपदशिवद्भावेन तदन्तत्वात् । नन्वीदूदन्तं द्विवचनान्तमित्येव कथं न व्याख्यातम् । एवं हि सति व्यपदेशिवद्भावो नाश्रयणीय इति चेन । कुमार्योरगारं कुमार्यगारं वध्वोरगारं वध्वगारमित्यत्र प्रत्ययलक्षणेन द्विवचनान्तोतव्याप्तेः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति सुतिङन्तं पदमित्यत्रान्तग्रहणेन ज्ञापितत्वाच्च । एतेनेदाधन्तं यद् द्विवचनं तदन्तम्प्रगृह्यं,कुमार्यगारादौ तु सकारान्तं द्विवचनं नत्वीदाबन्तमिति परास्तम् । संज्ञाविधौ प्रत्यय ग्रहणे तदन्ताग्रहणात् । यत्त्वस्मिन्पक्षे दूषणान्तरमुक्तम् । अशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रेइत्यत्र शब्दान्तरमाप्त्या ऽनित्यं लुकं बाधित्वा परत्वाच्छीभावे कृते तस्य लुकि प्रत्यय. लक्षणेन शुक्लीत्यस्य प्रगृह्यता स्यादिति । तन्न । अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्वाधतइति परिभाषयौकारस्यैव लोपात् । तस्य चेदाधन्तत्वविरहात् । अस्तु तर्हि ईदादिविशेष्यं, तथा च द्विवचनसंज्ञं ईदादि प्रगृह्यमित्यर्थ इति चेन्न । गङ्गे इत्यादेः सिद्धावपि दृश्यते इत्याद्यसिद्धः। द्विवचनावयवो ह्ययमेकारो न तु द्विवचनम् । किञ्च प्रगृह्यमित्यस्य सन्निहितत्वाद् द्विवचनमेव संज्ञि न त्वीदादिः, विप्रकृष्टत्वात् । तस्माद्यथाव्याख्यानमेव मनोरमम् । अत्र वृत्तिकाराः । मणीवादीनां प्रतिषेधो वक्तव्य इति पठित्वा मणीव रोदसीव दम्पतीव जम्पतीवेत्युदाजन्हुः । मुनित्र
२१
Page #162
--------------------------------------------------------------------------
________________
शब्द कौस्तुभः ।
[ १ अ०
यानुक्तत्वादप्रमाणमिदर्मिति कैयटादयः । एवं वदद्भिः समानन्यायतयाऽन्येषां मुनित्रयानुक्तानां वृत्तिकृन्मात्रोक्तानां तुरीयस्येष्टिः शंसिदुहिगुहिभ्यो वा क्रमेके छन्दसि भाषायां च अङ्गङ्गात्रकण्ठेभ्यस्त्विष्यत इत्यादीनामनादर्त्तव्य तोक्ता । मणीवोष्ट्रस्य लबेते इति तु इवार्थकेन वाशब्देन निर्वाह्यमित्याहुः । न्यासका - रस्तु सम्बुद्धौ शाकल्यस्येताविति शाकल्यग्रहणस्य सिंहावलोतिन्यायेनेह सम्बन्धाद्व्यवस्थितविभाषाश्रयणाच्चेदं लभ्यतइत्याह । के चित्विवार्थेयं वशब्दः प्रयुक्तो भीमो भीमसेन इतिवत् । कादंम्बखण्डितदलानिव पङ्कजानीत्यादिवच्चेत्याहुः । वस्तुतस्तुव
यथा तथैवैवं साम्यइत्यमरग्रन्थे ववेति पाठमाश्रित्य शात्रवं व वपुश इति कालिदासप्रयोगस्य तद्व्याख्यातृभिरुदाहरंणात्सर्वं सुस्थम् । युक्तश्चायमेव पाठः । प्रातिपदिकप्रक्रमे तद्धि। - तस्य वतेरननुगुणत्वात् । एतेन स्फुटोत्पलाभ्यामलिदम्पतीव विलोचनाभ्यां कुचकुड्मलाशया । निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ विरेजतुरिति श्रीहर्षप्रयोगोपि गतार्थः ॥
अदसोमात् ।। अस्मात्पर।वीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णात्र आसाते । न चामू इत्युदाहरणं पूर्वसूत्रेण गतार्थमिति वाच्यम् । तस्मिन् कर्त्तव्ये मुत्वस्यासिद्धत्वात् । अदसोमादिति सूत्रं प्रति तु नासिद्धत्वम् । आरम्भसामर्थ्यात् । तथा च वार्तिकम् । आश्रयात्सिद्धत्वं च यथा रोरुत्वे इति । पुंवद्वचनमेवोदाहरणं स्त्रीनपुंसकयोर्द्विवचने तु मुत्वस्यासिद्धत्वेप्येकारान्तत्वात्पूर्वेणैव सिद्धा संज्ञा । ततश्च प्रकृतिभावोनुनासि कपदासश्च सिद्ध एवेत्यवधेयम् । यत्तु हरदत्तेने । क्तमणोप्रगृह्यस्येत्यत्रोपस्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वाल्लिङ्गत्रयेपि द्विवचनेनुनासिकपर्युदासः पूर्वेणैव सिद्धः ।
१६२
Page #163
--------------------------------------------------------------------------
________________
१६३
१ पा. ५ आ. शब्दकौस्तुभः ।एतत्सूत्रारम्भस्त्वद्विवचनार्थः पुंसि द्विवचने प्रकृतिभावार्थश्चेति । तच्चिन्त्यम् । प्लुतसंग्रहानुरोधेन पूर्वसूत्रे यथोदेशपक्षस्यैव स्थापितत्वात् । तस्मात् पुंसि द्विवचनेनुनासिकपर्युदासोप्येतत्सूत्रस्य फलं न तु प्रकृतिभावमात्रामत्यवधेयम् । अथापि कथञ्चिदरदत्तोक्तिस्समर्थयितव्येत्याग्रहस्तहि इत्थं समर्थनीया । पूर्वसूत्रे कार्यकालपक्ष एवास्तु । न चैवं प्लुतस्यानुनासिकपर्युदासो न स्यादिति वाच्यम् । ईई ३ त् ऊऊ ३ दिति दीर्घात्परभागे प्लुतस्यापि प्रश्लिष्टनिर्देशात् । एकारस्त्वग्वादेव प्लुतं ग्रहीध्यति । न च तादपि परस्तपर इति तत्कालग्रहणापत्तिः । ऋदोरबितिवद्दकार एवायमित्याशयात् । युक्तञ्चैतत्। यथोद्देशपक्षे प्लुतात् प्रागेव संज्ञाप्रवृत्तौ सत्यां ततः प्लुते कृते तमेव द्विमात्रत्वेन पश्यन्त्या अपि संज्ञायाः पुनः प्रवृत्तौ बीजाभावात् । नाभावस्तु मुभावात्प्रागमाप्तस्ततो मुत्वनिमित्तकं ना. भावमाश्रित्य मुभावे दशब्दोयमिति बुद्धया प्राप्नुवन् दीर्घः प्र. तिविधीयतइत्युचितम् । नत्यसौ प्लुतात् प्राक् प्रगृह्यसंज्ञावन्मुभावात् प्रागेव प्रवृत्तो येन पुनर्न प्रवर्तेत । एतेन पूर्वसूत्रस्थ. हरदत्तग्रन्थोप्युज्जीवित इति यावद्भाधं साधु । भाष्यकैयटयोस्त्वयं भावः । प्लुतात् प्राक् प्राप्तापि प्रगृह्यसंज्ञा फलाभावान क्रियते । न च प्लुतेनुनासिकप्रवृत्तिरेव फलमस्त्विति वाच्यम् । संज्ञाया अप्रवृत्तावपि तल्लाभात् । प्रगृह्यत्वप्रयुक्तप[दा. सस्यैव विधिस्पृष्टस्य तत्फलत्वौचित्याच्चेति । सुश्लोकेतीत्यादावप्यमन्तरङ्गत्वाप्लुतः अन्तरङ्गम्बलीय इति न्यायात् । प्रकृतमनुसरामः । नन्वारभ्यमाणेप्यस्मिन् सूत्रे पूर्वसूत्रेणैकरूप्यार्थ यथोद्देशपक्ष एवाश्रयणीयः। तथा च रुत्वस्योत्वं प्रतीव प्रगृह्य - संज्ञां प्रत्येव मुत्त्वमीत्वयोः सिद्धत्वं स्यात् । नत्वयादीन् प्र
Page #164
--------------------------------------------------------------------------
________________
१६४
शब्दकौस्तुभः ।
[ १ अ०
त्यपि । ततश्चामी आसतइत्यत्रायादेशप्रसङ्गः । अमू आसातइत्यत्र पुंस्यात्रादेशः । अमी अत्रेत्येङः पदान्तादतीत्येकादेशप्रसङ्गश्चं । न च संज्ञां प्रत्येव सिद्धत्वे वचनानर्थक्यं स्यादिति वाच्यम् । अनुनासिकपर्युदासेन चरितार्थत्वात् । अत्रोच्यते । यद्यनुनासिकपर्युदासमात्रं प्रयोजनं स्यात्तर्हि संज्ञासूत्रं न प्रणयेत् । अणोप्रगृह्यस्यानुनासिकः, अदसो नेत्येव ब्रूयात् । असौ अमुके अमुकाभ्यामित्यादौ तु सिद्धान्तीप न भवत्यनुनासिकः । अनत्वादनवसानत्वाच्च । अतस्तत्र माद्रहणमीदृद्धहणं वा न कर्त्तव्यम् । न चैवं हे अमुक इत्यत्रापि निषेधापतिः | त्यदादीनां सम्बोधन विभक्तिविरहस्यौत्सर्गिकत्वात् । अतः संज्ञारम्भसामर्थ्यात्प्रकृतिभावार्थत्वमप्यस्य विज्ञायते । तलाच्चायादिविरहोपि सिद्धयति । प्रकृतिभावस्यापवादरूप - तयोपसञ्जातनिमित्तोप्युत्सर्ग उपजनिष्यमाणनिमितेनाप्यपवादेन बाध्यतइति परिभाषावताराच्च । यत्तु संज्ञारम्भसामर्थ्यादयादी संज्ञां च प्रति मुत्वमीत्वयोः सिद्धत्वज्ञापनादयादीन् बाधित्वा परत्वान्मुत्वमीत्वेइति तन्न । अयाद्यभावस्य ज्ञापने लाघवात् । अर्थापत्तेर्हि साक्षादुपपादकविषयतौत्सर्गिकी । किचमुत्वत्वयोरेकपदाश्रयत्वेन बलीयस्त्वम् । अन्तरङ्गम्बलीय इति न्यायात् । तत्कथं विप्रतिषेधोपन्यासः । नाजानन्तर्य्यइति निषेधस्त्वसिद्धं बहिरङ्गमित्यस्यैव न तूदाहृतपरिभाषायाः । यद्यप्यसिद्धं बहिरङ्गमन्तरङ्गइत्यन्यैव गतार्थत्वादन्तरङ्गम्बलवदिति पृथक् परिभाषा न कर्त्तव्येति विप्रतिषेधे परमितिसूत्रे भा - व्यकृद्वक्ष्यति । तथाप्यभ्युच्चयमात्रं तत्, सापवादनिरपवादत्वाभ्यां फले विशेषात् । वृक्ष इहेत्यत्र हि सप्तम्येकवचनेन सह गुगोन्तरङ्गः । सवर्णदीर्घत्वं तु बहिरङ्गम् । न चेहासिद्धपरिभाष
Page #165
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुमः । या गुणो लभ्यते । नाजानन्तर्यइति निषेधात् । अत एवाचः परस्मिन्निति सूत्रे भाष्यद्वक्ष्यति । आरभ्यमाणे नि. त्योसौ परश्चासौ व्यवस्थया । युगपत्सम्भवो नास्ति पहिरजेण सिद्धयतीति ॥ एतच्च तत्रच स्फुटीकरिष्यते । अत एवोक्तं वार्तिककृता, शचङन्तस्यान्तरङ्गालक्षणत्वादिति । धियति अदु. द्रुवदित्यादि च तत्रोदात्दृतम् । ज्ञापकं चात्र ओमाङोश्चेत्याग्रहणम् । तद्धि खट्वा आ ऊढेत्यत्र परमपि सवर्णदीर्घ बाधित्वा धातूपसर्गयोः कार्यमन्तरङ्गमित्यन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ सत्यां पररूपं यथा स्यादिति क्रियते । एतच्च सम्पसारणाचेति सूत्रे भाष्ये स्पष्टम् । कथं तार्ह वार्तिककृतोक्तं विप्रतिषेधावति । सत्यम् । अत एवापरितोषाभाष्यकारेणाथघेति पक्षान्तरमाश्रितमिति दिक् । मात्किम् । अमुकेत्र । नविह सूत्रे ईदूतावेवानुवर्तितौ नत्वेकारः। सत्यम् । सति मादहणे एकारो नानुवर्तते । अदसो मात् परस्य तस्यासम्भवात् । अन्यथा त्वनुवत्त । एकदेशानुवृत्तिस्तु दुर्ज्ञाना । तस्मादेकाराननुवृत्तितात्पर्यग्राहकफलकं माद्रहणमिति स्थितम् । अत्रेदं चिन्त्यम् । ईदूतौ सप्तम्यर्थे प्रगृह्यौ, अदसः, एच्च द्विवचनमित्येव कुतो न मूत्रितम् । एवं हि पूर्वसूत्रस्थमीद्ग्रहणं प्रकृतसूत्रे माद्ग्रहणं च न कर्त्तव्यमिति महल्लाघवम् । एकदेशानुवृत्तिश्च नाश्रयणीया भवतीति ॥
शे ॥ अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती । चतुर्थीबछुवचनस्य स्थाने सुपां सुलुगिति सूत्रेण शेआदेशः । शित्वात्सर्वादशः शेषे लोपः । न युष्मे वाजवन्धवः । युष्मास्वित्यर्थः । अत्र पदपाठकाले युष्मे इत्युदाहरणं बोध्यम् । संहितायान्त्वच्परत्वाभावेन सत्यसति वा प्रगृत्यत्वे विशेषालाभात् । एवं त्वे
Page #166
--------------------------------------------------------------------------
________________
१६६
शब्दकौस्तुभः । [१ अ. रायः सुदुधास्त्वे ह्यश्वा इत्यादीनामपि पदपाठकाले उदाहरणत्वं बोध्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् । तेनेह न । काशे कुशे वंशे हरिशे बभ्शे । हरिवआभ्यां लोमादित्त्वाच्छप्रत्ययः । ततः सप्तम्येकवचनम् ।।
निपातएकाजनाङ् ॥ एकोनिपात आभिन्नः प्र. गृधः स्यात् अनिषेधाधिक्षेपयोः । अ अवयं, इ विस्मये, इ इ. न्द्रः, उ जुगुप्सासंतापावाप्यर्येषु । उ उमेशः । एकाजिति क मधारयः वर्तिपदार्थप्राधान्येनान्तरंगत्वात् । व्याहरति मृग इ. त्यादिनिर्देशाच्च । तेनेह न । प्रेदं ब्रह्मत्रतूर्येष्वाविथ । प्रेद्ध इत्यादि । स्यादेतत् । यद्ययं कर्मधारयस्तार्ह एकग्रहणं व्यर्थम् । निपातो योच् इत्येतावतैवाभिमतसिद्धेः । न च विपरीतविशेषण विशेष्यभावेनाजंतो यो निपात इत्यर्थः स्याद्विशेषणेन तदन्तविधेरिति वाच्यम् । तथासति व्यावल्लाभेन विशेषणवैयापत्तेः। न च हलन्तं व्यावयम् । तस्य संज्ञायां सत्यामपि बाधकाभावात् । न च पुरोस्तीत्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावाद्रोरुत्वं न स्यादिति वाच्यम् । प्रगृह्यसंज्ञां प्रति रुत्वस्यासिद्धतया दोषाभावात् । न च सान्तस्य कृता प्रगृह्यसंज्ञा एकदेशविकृतस्यानन्यतया रेफान्तस्यापि स्यादेवेति प्रकृतिभावप्रसङ्गस्दवस्थ एवोति वाच्यम् । प्रगृह्यसंज्ञा प्रतीव प्रकृतिभावं प्रत्यपि रुत्वरासिद्धत्वात् । सकारान्तस्य तु न किंचिदपि सिद्धकांडस्थं प्राप्नोति प्रकृतिभावेन व्यावत्येत । तस्मादचा निपातस्य विशेपणेअजग्रहण यर्थमेव स्यादिति सुष्टूक्तम् । नन्वजन्तस्यैव यथा स्यादमात्रस्य मभूदित्येवमर्थ विशेषणं किन्न स्यादिति चेन्न । व्यपदेशिवद्भावेन स्याप्यजन्तत्वानपायात् । विशेषणसामर्थ्याट्यपदेशिवद्भावो न वर्ततइति चेन्न । तदन्तविधिपरित्यागे
Page #167
--------------------------------------------------------------------------
________________
१ पा. ५ आ.
शब्दकौस्तुभः ।
१६७
नापि तत्सार्थक्यस्य सुवचत्वात् । तथाप्यन्यतरपरित्यागे आवश्यके विनिगमकं किमिति चेदाङ्ग्रहणमेवेत्यवेहि । तद्धि व्यपदेशिवद्भावमात्रवाधे व्यर्थं स्यात् । तस्मादचो विशेषणत्वे नाङ्ग्रहणाज्ज्ञापकात्तदन्तविधिर्न । अचो विशेष्यत्वे तु सुतरान्तदन्तविधिरिति । उभयथाप्येकग्रहणं व्यर्थमेवेति स्थितम् । नन्वच् समुदायनिवृत्त्यर्थमेकग्रहणनस्तु | अइउअपेहीतिसमुदायस्यैव संज्ञा स्यान्नावयवानामेकाद्विर्वचनन्यायादिति चरमस्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति । मैयम् । अजित्येकत्वस्य विवक्षयैव समुदायनिराससम्भवात् । अत्राह भाष्यकारः । अच् समुदायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति वर्णग्रहणेषु व्यक्तिसंख्या नवक्ष्यते किन्तु जातिरेव निर्दिश्यतइति । तेन दम्भेर्हल्ग्रह - णस्य जातिवाचकत्वासिद्धमिति वार्तिककृता वक्ष्यमाणं सूत्रेणैव ज्ञापितं भवति दम्भेः सिद्धमित्यन्वयः । अत्र हेतुर्हल्ग्रहणस्य जातिवाचकत्वादिति । तेन दम्भेः सनि कृते सनीवन्तेति विकल्पादि भावे दम्भ चेनीदीतोः कृतयोरत्र लोपोभ्यासस्येत्यभ्यासलोपे हलन्ताच्चेति सनः कित्वान्नलोपे भष्भावे च कृते विप्पति घीप्सतीति रूपद्वयं सिद्धयति । हल्ग्रहणस्य व्यक्तिपर
तयोः समीपो हल्नकारो न ततः परः सन् यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्वं न स्यात् । त था तूंहू हिंसायां तुदादिः ऊदित्वादिवा तितृहिषति तितृक्षतीति स्यादिति दिक् । स्यादेतत् । अइउअपेहीत्यत्र एकाद्विर्वचनन्यायोपन्यासो न युक्तः समुदायसंज्ञयावयवानामननुग्रहात् । अत एव हि निलयान्निग्यादित्यादौ बहूनां सन्निपाते द्वयोः संज्ञा स्वीकृता । नापि निपातग्रहणेन ग्रहणमेकैकस्मिन्निपाते संज्ञाविधानसम्भवात् । सत्यम् । एकाज्समुदायग्रह
Page #168
--------------------------------------------------------------------------
________________
१६८
शब्दकौस्तुभः ।
[ १ अ०
णशंकामात्रं तु स्यादेव । तन्निरासायैव क्रियमाणमेकग्रहणं प्रागुक्तमर्थ ज्ञापयति । वस्तुतस्त्वपृक्तसंज्ञायामेकग्रहणमुक्तार्थे ज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकग्रहणस्य परित्याग एव ज्यायान् । निपात इति किम् । चकारात्र । तथा अततेर्डः अः हे अ आगच्छेत्यपि प्रत्युदाहरणम् । आङनाङोर्व्यवस्थामाह भाsaarरः । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङिदिति । इह एतच्छब्देन पूर्वमनिर्दिष्टत्वादेत मित्यस्यैनादेशो न कृत इति कश्चित् । तन । अन्वादेशश्च कथितानुकथनमात्रं न त्विदमेव कथित - स्वेदमा ऽनुकथनमिति भाष्यकृता वक्ष्यमाणत्वात् । तस्माद्यकिञ्चिद्विधाय वाक्यान्तरेणान्यदुपदिश्यते सोन्वादेशः । इह तु ईषदर्थादौ यो वर्त्ततइति वृत्तिर्न विधेया किन्तु परिचायकतामात्रेणोपात्ताः अतो नैनादेशः । एतेन नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापयेत्यपि व्याख्यातम् । भीरु-त्वस्य विधेयत्वाविवक्षणात् सिद्धस्यैव हेतुत्वेनानुवादादिति दिक् । ईषदर्थे आ उष्णं ओष्णम् । आङीषदर्थे इति कुगतीति सूत्रे वार्त्तिककृता ङिद्वयवहृतः । क्रियायोगे आ इतः एतः प्रादिषु ङित्पठितः । मर्यादाभिविधौ चेति समाहारद्वंद्वे आगमशासनस्यानित्यत्वान्नुमभावः । मर्यादया सहिते अभिविधाविति मध्यमपदलोपी वा समासः । मर्यादायां, आ उदकान्तात् ओदकान्तात् । अभिविधौ आ अहिच्छत्रात् । आहच्छत्रात् । विना तेनेति मर्यादासहतेनेत्यभिविधिः आङ् मर्यादाभिविध्योरिति चङिनिर्दिष्टः । पूर्वप्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते । आ एवं नु मन्यसे नैवं पूर्वममंस्थाः संमत्येवं मन्यसइत्यर्थः । वाक्यारंभसूचनाय आकार इत्यपरे ।
1
Page #169
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः ।। १६९ तथा स्मृतेः सूचक आकारः प्रयुज्यते । ततः स्मृतोर्थो निर्दिश्यते। आ एवलितदिति । अत्र च वाक्यस्मरणयोरङिदित्यत्रैव तात्पर्यम् । अतो वाक्यस्मरणाभ्यामन्यत्रेषदर्थायभावेपि उित्वं बोध्यम् । तेनामेन्यस्य रजसो यदभ्रआँ अपो वृणानेत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्त्वेनाङोनुनासिकश्छन्दसीति प्रवर्ततइति षष्ठे हरदत्तादयः । युक्तञ्चैतत् । ङिदउिन्दोरन्यतरलक्षणमात्रेणादुभयाववेकलाभे तत्रापि लाघवादडिल्लक्षणे तात्पर्यमाश्रित्य भागान्तरस्यावयुत्यानुवादरूपत्वात् ॥ __ ओत् ॥ ओदन्तो निपातःप्रगृह्यसंज्ञः स्यात् । आहोइति उताहो इति ।निपात इति किम् । देवोसि, वषट्तेविष्णवासआ। वायवायाहि । विष्णोव । यत्तु गवित्ययमाहेत्येतदेव निपातग्रहणस्य व्यावर्त्यमिति । तन्न । प्रगृह्यसंज्ञायां सत्यामाप क्षत्यभावात् । न चैवं प्रकृतिभावापत्तिः । प्रकृतिभावविधौ पदान्ताधिकारात् । न चायं पदान्तो भवत्येवेति भ्रमितव्यम् । अनुकार्यानुकरणयोरभेदविवक्षयार्थवत्वाभावेनाप्रातिपदिकत्वाद्विभक्तेरनुत्पत्तावेवैतद्रूपाभ्युपगमात् । अन्यथा विभाक्तिश्रवणापत्तेः । न चैवमपदस्य प्रयोगासङ्गतिरिति वाच्यम् । अपदन्न प्रयुञ्जीतेत्युद्घोषस्य अपरिनिष्ठितं न प्रयुञ्जीतेत्येवंपरत्वात् । तस्य च सुप्तिादिविषयकतत्तद्विधिशास्त्रमूलकत्वात् । इह तूक्तरीत्या सुविभक्तेरप्यप्राप्तया गोइति स्वरूपस्यैव परिनिष्ठितत्वात् । अत एवेह लोपः शाकल्यस्यत्यपि न प्रवर्तते । कथं तर्हि पूर्वसूत्रे शेर्थवद्ग्रहणादिति वार्तिके एङः पदान्तादिति पूर्वरूपं कृतमिति चेत् । तत्रानुकार्यानुकरणयोर्भदं विवक्षित्वा विभक्तिं च कृत्वा शेष्वर्थवान् शेर्थवानिति समासेन सुपो लुक कृत्वा व्याख्यानात् । एतेनोत्तरसूत्रे सम्बुद्धाविति किं गवि
२२
Page #170
--------------------------------------------------------------------------
________________
१७० शब्दकौस्तुभः। [१ अ० त्ययमाहेत्युदाहरन्तो वृत्तिकारा अपि प्रत्युक्ताः । तस्मादिह देवोसीत्यादिकमेव प्रत्युदाहरणं बोध्यम् । न चैङः पदान्तादित्यारम्भसामर्थ्यादेव तसिद्धिः । हरेव गच्छेत्यादौ चरितार्थत्वात् । न चैङ्ग्रहणसामर्थ्यम् । ङसिङसोश्चेत्युत्तरार्थत्वात्। उत्तरसूत्रे तु सम्बुद्धिग्रहणाभावे आहो इतीत्यादावपि परत्वाद्विकल्पापत्तिः। पूर्वसूत्रस्याहो ईशा इत्यादावुत्तरस्य तु विष्णो इतीत्यादौ लब्धावकाशतया विप्रतिषेधसम्भवात् । न चेह ओ. दन्तस्य कार्यितयोत्तरत्र तु विशेष्यासन्निधानेन तदन्तविधि. विरहादोकारमात्रस्य कार्यितया भिन्नविषयकत्वे कथं विप्रतिषेध इति वाच्यम् । त्रपूणामित्यादौ प्रकृतिप्रत्ययावयवयोर्नम्नुटो. रिवहापि फलविरोधेन विषयभेदेपि विप्रतिषेधसम्भवात् । अर्थाधिकारपक्षे उत्तरसूत्रेप्योकारान्तस्य संज्ञित्वाच्च । शब्दाधिकारपक्षेपीकोझलित्यत्र सनाक्षिप्तस्य धातोरिकाविशेषणवादहापि संम्बुध्याक्षिप्तायाः प्रकृतरोकारेण विशेषणे तदन्तविधिसम्भवाच्च। तस्मात्सूत्रद्वयपि गवित्ययमाहेति प्रत्युदाहरणं नेति स्थितम् । प्रकृतिभावे पदान्तग्रहणं न सम्बध्यतइत्याशयेन तु वृत्तिग्रन्थो योज्यः । अस्मिंश्च पक्षे मण्डूकप्लुतिन्यायेनेको सवर्णइत्यत्र पदान्तग्रहणं सम्बन्धनीयमेव । अन्यथा गौयौँ गौर्य इत्यादावतिप्रसक्तेरिति दिक् । स्यादेतत् । निपातसमुदाया एते । आह उ आहो उत आह उताहो इत्यादि । ततशादिवद्भावान्निपातएकाजित्यनेनैव सिद्धा संज्ञा । न चैवमाहो इतीत्यादिषु ऊँ इत्यस्य प्रसङ्गः । निरनुबन्धकोयमुकारः न तूञ् इति समाधानात् । अत एवोत्र इति सूत्रे अकारोच्चारणमपि सार्थकम् । अत एव चोज ॐ इत्यत्र भाष्यकृतोक्तम् । द्वावुकाराविमौ । एकोननुबन्धकः । अपरः सानुबन्धक इति। न चैवमपि आउओ
Page #171
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
इत्यत्राङनाङगेरेकादेशस्यानाङिति प्रतिषेधे प्राप्ते प्रतिप्रसवायेदमिति वाच्यम् । अनाङित्यस्य पर्य्युदासाश्रयणेनाङनाङोरेकादेशस्यादिवद्भावादनाङ्ग्रहणेन ग्रहणात् । प्रसज्यप्रतिषेधे ह्यसमर्थसमासो वाक्यभेदश्च स्यात् । भाष्येपि प्रतिषिद्धार्थमेतदित्युक्तिरभ्युच्चयमात्रम् । कथमन्यथानुपदमेवादो भवदित्यत्रातिप्रसङ्गमाशङ्कय प्रतिपदोक्तस्यैवौकारस्य ग्रहणमिति समादधीत । तस्मादिदं सूत्रं विनापि सर्व लक्ष्यं निर्व्यूढमेवेति चेत् । अत्रोच्यते । आहो उताहोइत्यादयो न निपातसमुदायाः । किन्त्वखण्डा एव । एतच्च एतत्सूत्रबलात्प्रतिपदोक्तस्याकारस्य ग्रहणामिति भाष्यवलाच्चाध्यवसीयते । तेन आम् आहो देवदत्तेत्यत्रामएकान्तरमामन्त्रितमिति निघातप्रतिषेधः सिद्धः । अत एव पदकारैरपि ओपुवर्त्तमरुत इत्यादौओइत्याद्यैकपद्येनैव पठ्यते। तदेवं सूत्रकार भाष्यकारपदकाराणां संवाद एवेति स्थिते निपातसमुदाय एवायमित्याश्रित्यैतत्सूत्रं प्रत्याचक्षाणाः परास्ताः । स्यादेतत् । अनदोदः समभवदित्यत्रातिप्रसङ्गः । च्यन्तस्य निपातत्वात् । ऊर्यादिचिवडाचश्चति गतिसंज्ञाविधानेपि प्राग्रीश्वरान्निपाता इत्यस्याधिकारात् । न च लक्षणप्रतिपदोक्तपरिभाषया लाक्षणिक ओकारो व्यावर्त्यतइति वाच्यम् । वर्णग्रहणेषूक्तपरिभाषाया अप्रवृत्तेः । अन्यथैचोयवायाव इत्यपि हरये इत्यादौ न प्रवर्त्तेत । चक्रे चक्रिरइत्यादौ प्रतिपदोक्ते चारितार्थ्यात् । वर्णस्य प्राधान्ये मास्तु परिभाषा विशेषणत्वे तु स्यादेवेति चेन्न । अविशेषेणाप्यप्रवृत्तेः सूपपादत्वात् । तथा च षष्ठे वक्ष्यामः । अभ्युपेत्यापि ब्रूमः । अगौगौः समभवद्गोभवदित्यादौ गमेडइत्योकारस्य प्रतिपदोक्ततयातिप्रसङ्गः स्यादेव । नन्विह गौणमुख्यन्यायेन स - माधानमस्तु । तथाहि । संघीभवन्ति ब्राह्मणाः, त्वद्भवति देव
1
१ पा. ५ आ.
१७१
Page #172
--------------------------------------------------------------------------
________________
१७२
शब्दकौस्तुभः । [१ अ. दत्तः, मद्भवसि त्वं, त्वद्भवाम्यहमित्यादौ वचनपुरुषव्यवस्थानुरोधेन च्चिप्रत्ययस्थले सर्वत्र प्रकृतेरेव कर्तृत्वमिति सिद्धान्तस्थितिः । तथा च प्रकृतावारोपेण वर्तमानाद्विकृतिवाचका. च्छब्दाच्च्चेरुत्पत्तौ च्चिप्रत्ययं प्रति प्रकृतिभूतस्य वाहीकादिवृत्ते!शब्दस्य गौणार्थता स्पष्टैच । अत एवामहान् महान् भूतो महद्भूतश्चन्द्रमा इत्यादावान्महत इत्यावं न प्रवर्त्ततइति चेन्न । - शान्तदाान्तिकयोर्वैषम्ात् । तथाहि । विशिष्टरूपोपादाने गौणमुख्यन्यायः । तस्यार्थवद्हणे नानर्थकस्येत्येतत्परिभाषामूलकत्वात् । अर्थोपस्थितेश्च रूपविशेषग्रहसापेक्षत्वात् । तथा चान्मइत इति विशिष्टरूपग्रहणेन विधीयमानमात्वं गौणे न भवतीति युक्तम् । इह त्वोदितिवर्णपुरस्कारेण विधीयमाना प्रगृह्यसंज्ञा कथं गौणार्यवृत्तेर्न भवेत् । निपातसंज्ञा तु तस्यापि मुख्यैव । अत एव संज्ञाश्वशुरस्यापत्यं श्वाशुरिरित्यत्र राजश्वशुराद्यन्न प्रवर्तते । अत इञ् तु प्रवर्ततएव । अन्यथा इबो यतश्च तुल्ययोगक्षेमतैव स्यात् । अत एव गौर्वाहीको ब्रूते गां वाहीकं पा. ठयेत्यादौ वृद्धयात्वे स्त एव । तयोरपि वर्णाश्रयत्वात्।गोत इति तपरत्वमोकारान्तोपलक्षणार्थमिति वक्ष्यमाणत्वात् । तथा चौ. तोमिति सूत्रे भाष्यद्वक्ष्यति । गामित्यत्र परापि वृद्धिनिरवकाशेनात्वेन बाध्यतइति । तत्रैव कैयटोपि वक्ष्यति, ओत इति सूत्रं पाठ्यम् । ओकारान्तोपलक्षणतया वा गोतइत्येतद्व्याख्येयमिति । वृत्त्यादिग्रन्थेष्वप्येवमेव स्थितम् । यत्तु वदन्ति । मुख्यएव स्वार्थे सास्नादिमति गोशब्दो वृद्धयात्वे लभते ततो वाहीकादिशब्दान्तरसन्निधानागौणताप्रतीतिः । गोभवदित्यत्र तु गौणार्थतां विना विरेव दुर्लभ इति वैषम्यम् । तस्मात् पदकार्येष्वयं न्यायो न प्रातिपदिककार्येष्विति स्थितमिति । तच्चि
Page #173
--------------------------------------------------------------------------
________________
१पा. ५ आ. शब्दकौस्तुभः।
१७३ न्त्यम् । वाक्यसंस्कारपक्षे वृद्धयात्वप्रवृत्तितः प्रागेव गौणार्थावगतेः। यत्तु कारकाणां क्रिययैव श्रोतःसम्बन्धस्तत एकक्रियावशीकृतानामरुणैकहायनीन्यायेन पाठिकः परस्परावच्छेदः । तथा च गामानयेत्यन्वयवेलायां न गौणार्थता किन्तु वाहीकेन सह पाठिकावच्छेदवेलायां, न चान्तरङ्गत्वेन प्रवृत्तः पदसंस्कारो बहिरङ्गगौणत्वातीतावपि निवर्त्ततइति, तदपि न।तावतापि ब्रूते पाठयेति क्रियान्वयायैव गौणताया आश्रयणीयत्वात् ।कटोपि कर्म भीष्मादयोपीति पक्षे कथञ्चिदुक्तिसम्भवेपि सामानाधिकरण्याद्भीष्मादेद्वितीयेत्येवं रूपे भाष्योक्तपक्षान्तरे त्वदुक्तन्यायानवताराच्च। श्वाशुरिरित्यत्रेबोप्यभावापत्तेश्च, शब्दप्रयांका वाहीकनिष्ठस्यैव कमत्वादेविवक्षितत्वाच्च । तस्माद्वर्णाश्रयत्वाद्धयात्वे इत्येव तत्वं न तु प्रातिपदिककार्यत्वादिति । अत एव चैकाच्च प्राचामित्यादौ प्रातिपदिककार्यत्वेपि न स्मायादायः । विशिष्टरूपपुरस्कारेणैव सर्वनामसंज्ञाविधानात् । अभिव्यक्तपदार्थायइत्यपि गौणमुख्यन्यायसिद्धार्थकथनपरं प्रसिद्धापसिद्धत्वे एव हि मुख्यत्वगौणत्वे इत्यन्यत्र विस्तरः । अत एव सर्वादिसूत्रे संज्ञोपसजनप्रतिषेध इति वार्तिकं प्रत्याचक्षाणो हरदत्त आह । संज्ञाप्रतिषेधस्तावन्न वक्तव्यः । अभिव्यक्तपदार्थायइत्येव सिद्धत्वादिति । यत्तु तत्र कैयटो वक्ष्यति । प्रसिद्धयप्रसिद्धिवशात्संभवन्नपि गौणमुख्यन्यायो नेहोक्तः । पदकार्येष्वयं न तु प्रातिपदिककार्येष्वित्योत्सूत्रे उक्तत्वादिति । तदभ्युच्चयमात्रम् । युष्मदस्मादोः स्वरूपमात्राश्रयाणां कार्याणामुपसर्जनतायामिव संज्ञायां प्रवृत्त्यापत्तेः । युष्मयुपपदे अस्मद्युत्तम इत्यादावपि तदापत्तेश्वेति दिक् । तदेवमदो भवद्गोभवदित्यादौ ओदिति प्रगृह्यसंज्ञा ऽव्ययत्वादिवदुर्गारोत पूर्वपक्षः पर्यवसन्नः । अत्रोच्यते ।
Page #174
--------------------------------------------------------------------------
________________
१७४
शब्दकौस्तुमः । [१ अ० पूर्वसूत्रे ऽनाङिति पर्युदासादाङ्सदृशाः प्रतिपदघटिता एव निपाता गृह्यन्ते । इहाप्याधिकारणानाङ्ग्रहणानुवृत्या वा तथैवेति सर्व सुस्थम् । तथा च सर्वादिसूत्रे अकारात्कारौ अनुपसर्जनत्के सत्येव भवत इति प्रघट्टके तदोः सः साविति सत्वं तह्मविशोषितत्वागौणतायामपि स्यादित्याशक्य त्यदादीनाम इत्यत्रानुपसजनादिति परिभाषयानुपसर्जनानामेव ग्रहणे सिद्ध तथाभूतानामेव सत्वविधावनुवर्तनान्न कश्चिद्दोष इति समाधत्त कैयटः ॥ ___ सम्बुद्धौ शाकल्यस्येतावनाः।। ऋषिर्वेदः । तदुक्तमृषिणेत्या. दौ तथा दर्शनात् । संम्बुद्धिनिमित्तक ओकारोऽवैदिके इतौ परे प्रगृह्यो वा स्यात् । विष्णो इति विष्णविति । संम्बुद्धाविति किं गवित्ययमाहेति वृत्तिकारः । एतनिष्कर्षश्च पूर्वसूत्रे उक्त एव । अनार्षे किम् । ब्रह्मवंधवित्यब्रवीत् । इताविति किम् । पटोत्र ॥
उमः ॥ उब इतौ प्रगृह्यसंज्ञा वा स्यात् । उ इति, विति।। ... ॐ॥ उब इत्यनुवर्तते शाकल्यस्येति प्रगृह्यामिति च । प्रगृह्यस्य उब इतौ परे ॐ आदेशो वा स्यात् दीर्घोनुनासिकश्च ऊँ इति । इह यद्येको योगः स्यात् उत्र ॐ इति, तदादेशे विकल्पिते रूपद्वयमेव स्यात् । ॐ इति, उ इति । अतो योगं विभज्य प्रगृह्यसंज्ञापि विकल्पिता । एवमपि ऊँ इति द्वितीयसूत्रे यदि प्रगृह्यग्रहणं शाकल्यग्रहणं चेत्युभयमपि नानुवर्तत तदा उमात्रस्य नित्यमुंभावविधानात्प्रगृह्यस्येवाप्रगृह्यस्याप्यादेशः स्यात् । तत्र प्रगृह्यस्यादेशे कृते स्थानिवद्भावेन प्रगृह्यत्वात् ऊँइतीति रूपं सिद्धम् । न चानविधाविति प्रतिषेधः। उब इति समुदायरूपेणाश्रयणात् । तथा चेटईटीति सूत्रे इट इति समुदायरूपाश्रयणादग्रहीदित्यत्र च ग्रहोलिटीति दीर्घस्य स्थानिवद्भावमाश्रित्य सिज्लोपः सिद्धयाति स्थानिवत्सूत्रे वक्ष्यते । अप्रगृह्यस्य त्वादे
Page #175
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः ।
१७५ शेऽनुनासिको यण स्यात् । तथा चेष्टरूपत्रितयमध्ये ऊँ इतीत्येकमेव सिद्धं न त्वपरं द्वयमित्यव्याप्तिः । अतिव्याप्तिश्च सानुनासिकवकारयुक्तस्यानिष्टस्यापि प्रसङ्गात् । अथ प्रगृह्यग्रहणमात्रमनुवर्तत तदा प्रगृह्यस्योको नित्यमादेशः स्यात्ततश्च विति ऊँ इतीति द्वे एव रूपे स्यातां न तु उइतीति तृतीयम् । अथ शाकल्यग्रहणमात्रमनुवर्तेत सत उमात्रस्यादेशविकल्पना, इति उइतीति द्वयं प्रगृह्यस्य । विति वितीति द्वयमप्रगृह्यस्येति संकलनया रूपचतुष्टयं स्यात् । तत्र त्रितयस्येष्टत्येपि सानुनासिकवकारयुक्तमनिष्टमापतति । तस्माच्छाकल्यग्रहणं प्रगृह्यग्रहणं चत्युभयमनुवर्ततइत्युक्तम् । इह विभक्तिविपरिणामेन प्रगृह्यस्योत्र इति व्याख्यातम् । आदेशसामानाधिकरण्येन प्रगृह्यं ऊँ इत्येतदादेशो भवः।ति व्याख्यानेपि न कश्चिद्विशेष इत्यवधेयम् । ननु परिनिष्ठितमेव प्रयोगाई, परिनिष्ठितत्वं च अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वम् । निहते तिङतादावव्याप्तिवारणायामवृत्तेति, वैकल्पिकेडागमाद्देश्यतावच्छेदकाकान्ते सेद्धत्यादावव्याप्तिवारणायोक्तं, नित्यति । अत एव पच् लट् इत्यादीनामलौकिकतेति सिद्धान्तः । तथा च उ इतीत्येतद्पं न स्यादेव । अत्र हि शाकल्यमते ऊँआदेशेन भाव्यमेव । इतरेषां मते तु प्रगृह्यत्वमेव नास्तीति चेत् । भवेदेवं यदि शाकल्यग्रहणं यथाश्रुतं स्यात् । तत्तु विकल्पमात्रतात्पर्यकम् । तथा च भाष्यम् । शाकल्यस्य विभाषा यथा स्यादिति ऊंवा शाकल्यस्येति च । तथाच तत्र कैय्यटः । शाकल्यश्रुतेरेव फलं वाग्रहणेन प्रतिपादयतीति स्मृत्यन्तरानुसन्धानद्वारेण विभाषा सम्पद्यतइति च । यद्वा । अस्तु शाकल्यग्रहणं यथाश्रुतम् । तथापि निपातएकाजित्यनेनैव सिद्धे उअ इति तावनियमार्थम् ।
Page #176
--------------------------------------------------------------------------
________________
१७६
शब्दकौस्तुभः । [१ अ. तथा च शाकल्यभिन्नमते न प्रगृह्यतति प्रथमसूत्रार्थः । उत्तरसूत्रे च प्रगृह्यस्योत्र इत्येतावतैव शाकल्ये लब्धे पुनः शाकल्यानुत्येतरेषामपि मते पाक्षिकः प्रगृह्योस्तीत्यनुमीयते । तेन उ इति रूपं सिद्धम् । अथ वोत्तरसूत्रे पुनः शाकल्यानुवृत्तिसामाच्छब्दाधिकाराश्रयणेन शकलस्यैव ऋषेरपत्यान्तरं गृह्यते । अस्मिच पक्षे प्रगृह्यस्योत्र इत्यनुवादसामर्थ्यादेव प्रगृह्यतापि लभ्यते यथा ढकि लोप इत्यनुवादसामर्थ्याडगिति दिक् । आदेशश्चायमनुनासिक इति निर्देशादेव व्यक्तम् । तथा च बव्हृचमातिशाख्यमुकारश्चेति करणेन युक्तो रक्तो पृक्तो द्राघितः शाकलेनेति । रक्तसंज्ञोनुनासिक इति च । अत एव यदेतनूँ इति पदकाराः पठन्तीत्यनुकरणे यरोनुनासिकेनुनासिको वेत्येष विधि: प्रवर्तते ॥ - ईदूतौ च सप्तम्यर्थे । शाकल्यस्येताविति निवृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यं स्यात् । अध्यस्यां मामकीतनू, मामक्यां तन्वामिति प्राप्ते सुपांसुलुगिति लुप्तसप्तमीकावेतौ । मामकी इति तनू इतीति पदकाले कार्योदाहरणे बोध्ये। सोमो गौरी अधिश्रित इति संहितायामप्युदाहरणम् । ईदूता. विति किम् । प्रियःमूर्ये पियो अग्ना भवाति । अग्निशब्दात्परस्याः सप्तम्या डाआदेशः पदकारैः प्रगृह्येष्वितिशब्दप्रयोगस्य नियमितत्वेनेहापि पदकाले इतिशब्दप्रयोगप्रसंग इति प्रत्यु. दाहरणमिदम् । सप्तमीग्रहणं किम् । धीती मती सुष्टुती। धीत्या मत्या सुष्टुत्येति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः ततो ऽकःसवर्णे दीर्घ इत्येकादेशः । न विह सुपो लुक् ह्रस्वश्रवणापत्तेः । अर्थग्रहणं किम् । वाप्यामश्वो वाप्यश्वः । नद्यामातिर्नयातिः, संज्ञायामिति सप्तमीसमासः । ननु सप्तम्यर्थोपीहा
Page #177
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः । स्त्येव तत्कथमर्थग्रहणे कृतेपीष्टसिद्धिरिति चेत् । इत्थजहत्स्वार्थावृत्तिरिति पक्षे पदे वर्णवद्वत्तौ वर्तिपदानामानर्थक्यादीदन्तमिहानर्थकं न तु सप्तम्यर्थवृत्तीति स्पष्टमेव । अजहत्स्वार्थावृत्तिरिति पक्षेपि उपसर्जनपदं न स्वार्थमात्रे पर्यवस्यति किन्तु तत्संसृष्टे प्रधानार्थे । अर्थग्रहणसामर्थ्याच्च यावानर्थः ससम्याभिधीयते आधेयासंसृष्टो निष्कृष्टाधिकरणरूपस्तावन्मात्रस्येह ग्रहणमिति वृत्तिप्रविष्टेन भविष्यति । यद्यपि वाक्यवसमासेपि लुप्तसप्तमीबलेनाधिकरणमात्रबोधः पश्चाद्वाक्यार्थतया संसृष्टवोध इति वक्तुं शक्यते । तथापि सिद्धान्ते तावत्समर्थः पदविधिरिति परिभाषानुरोधात् समासस्थले एकार्थीभावएव सामर्थं न तु व्यपेक्षा । अत एवोपसर्जने विशेषणान्वयो न भवति शक्यैकदेशत्वादिति द्वितीये वक्ष्यते । मी. मांसकादीनामपि निषादस्थपतिन्यायेन पूर्वपदार्थसम्बन्धिान लक्षणाभ्युपगमायुक्तैवार्थग्रहणेन वाप्यश्वनधातिप्रभूतात्तिः । आतिबलाका । शरारिरातिराटिश्च बलाका बिसकण्टिकेत्यमरः । आद्यास्त्रयोपि स्त्रीलिङ्गाः बलाकासाहचर्यादिति के चित् । वस्तुतस्तु शरार्यादयस्त्रयः पक्षिविशेषवाचका न तु बलाकापर्यायाः। अतो बलाकासाहचर्यमकिश्चित्करं स्त्रीत्वम्परमस्त्येव । रत्नकोशे स्त्रीलिङ्गकाण्डे, आटिः शरारिवरटीत्युक्तेः । आतेरपि तत्साहच. यात्।तपरकरणमसन्देहार्थमिति वृत्तिः। अत्र वार्चिकम् । ईदूतौ सप्तमीत्येव लुप्तेर्थग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णो सावाडाम्भावः प्रसज्यते ॥ वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि । ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् ॥ अस्यार्थः। ईदूतौ सप्तमीत्येवास्तु नार्थीर्थग्रहणेन । अत्रोत्तरमाह। लुप्तइति । संज्ञाविधी प्रत्ययग्रहणेतदन्तविधेरभावात् । सप्तम्या एव संज्ञा स्यात् लुप्तेपि
Page #178
--------------------------------------------------------------------------
________________
१७८ शब्दकौस्तुभः। [१ अ. सुपि प्रकृतिभागस्य संज्ञासिद्धये तु कर्त्तव्यमेवार्थग्रहणमित्यर्थः।ननु सोमो गौरीत्यादौ विभक्तिर्न लुप्यते किन्तु धीती मतीत्यादाविव पूर्वसवर्णे कृते ऽकः सवर्णइति दीर्घएकादेशे तस्यादिवद्भावात्ससमीग्रहणादस्त्येव सप्तमीत्याशंक्याह । पूर्वस्येति । आडाम्भावइति । एकादेशं बाधित्वा परत्वादाङ्गत्वाच्चाऽऽहामौ स्यातामित्यर्थः । तस्माल्लुगेवेति स्थितेथग्रहणं कर्त्तव्यमेवेति भावः । नन्वर्थग्रहणं मास्तु वचनसामर्थ्याच्च संज्ञाविधावपि तदन्तविधिभविष्यतीत्याशंक्याह। वचनादिति । यत्र दीर्घत्वं तत्रैव वचनात्स्यात् हतिं न शुष्कं सरसी शयानामिति यथा । अत्र हि सरश्शब्दात्परस्य सप्तम्येकवचनस्येयाडियाजीकाराणामुपसंख्यानमितीकारादेशे सप्तमी श्रूयते । तथा च सोमो गौरीत्यादौ न स्यादेवेत्यर्थः । एतदूषयति । तत्रापीति । तत्रापि सप्तम्या लुगेव न त्वीकारः । यदि सरसीशब्दोऽपि वर्तते । असन्दिग्धे सन्दिग्धवचनमेतच्छास्त्राणि चेत्प्रमाणं स्युरिति यथा। अस्ति हि सरसीशब्दो दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते इति भगवदुक्तेः कासारः सरसी सर इत्यमरकोशाच्च । तथा च सरसीः परिशीलितुं मयेत्यादि प्रयोगोपि दृश्यते । एवञ्च सरसीशब्दोपि लुप्तविभक्तिक एवेति वचनात्तदन्तविधिरिति स्थितम् । ननूक्तरीत्यास्तु सरसीशब्दः, सरशब्दोपि सान्तो निर्विवाद एव । तथा च सान्तादेवेकारादेशोयमस्तु । एवं हि सति संज्ञाविधौ सापकात्त्यक्तस्य तदन्तग्रहणस्य पुनराश्रयणं न कर्त्तव्यं भवतीति चेन्न । तथा सतीकारस्य सुप्त्वेनानुदात्ततया सरःशब्दस्य च सृधातोरसुनि व्युत्पादितस्य नित्स्वरेण सरसीति पदमायुदात्तं प्रसज्येत । गौरादिषु पिप्पल्यादयश्चेति पाठपिप्पल्यायन्तःपातिनः सरःशब्दान्छीषात्वन्तोदात्तमिष्यते । तथैव वेदे.
Page #179
--------------------------------------------------------------------------
________________
१ पा. ५ आ.
शब्दकौस्तुभः ।
१७९
पाठात् । एवन्तर्हि प्रगृह्य संज्ञाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापनायेदमर्थग्रहणमस्तु । एवञ्चेदेद्विवचनमिति सूत्रे ईदूदेदन्तं द्विवचनान्तमिति पक्षईदूदेदन्तं यद् द्विवचनं तदन्तमिति पक्षश्च समर्थितो भवति । तत्र हि कुमाय्योरगारं कुमार्य्यगारम् । अशुक्ले शुक्ले सम्पद्येतां शुक्ल्यास्तां वस्त्रेइत्यत्रातिव्याप्तिरिति दोषः । स च प्रत्ययलक्षणविरहादेवोद्धृत इत्याह । ज्ञापकमिति । प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणाभावस्येति शेषः । क्वेदं ज्ञापनमुपयुज्यते, तदाह । तदन्तत्वइति । तदन्तगर्भे पक्षद्वयेपीत्यर्थः । ननु संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव तदन्तपक्षस्तत्र न स्थित इत्यपरितोषादाह । मावेति । वाप्यश्व इत्यादौ मा भूदित्यर्थः । अत्रेदमवधेयम् | अवितृस्तृतन्त्रिभ्य ईरिति सूत्रादीरि - त्यनुवर्त्तमाने यापोः किद्वे च वातप्रमीरिति सूत्राभ्यां शब्दत्रयं व्युत्पादितम् । यान्त्यनेनेति ययीमुक्तिमार्गः । पिवति रसान्पातवा लोकमिति पपीः सूर्यः । वातं प्रमिमीते सम्मुखधावना। दिति वातप्रमीः निःशृङ्गो मृगाकृतिर्वातमृगनामा पशुविशेषः । एभ्यस्त्रिभ्योपि ङौ सवर्णदीर्घात् पपी ययी वातप्रमीति रूपं निर्विवादम् । तथा चेह श्रूयमाणस्येकारस्य सप्तमीत्वात्तत्रापि सरसी यदित्यसङ्गतम् । ईकारस्य श्रूयमाणस्यासम्भवात् । सामर्थ्यात्तदन्तविधिर्भविष्यतीत्यस्यार्थः । तस्मादूकारांशे सामर्थ्यातदन्तविधौ लब्धे सोमो गौरीत्यादावपि भविष्यतीत्याशयः । यी आसक्त इत्यादौ तु भाव्यमेव प्रकृतिभावेन । न चायं योगश्छान्दसस्तथाविधानामेवोदाहरणानां दत्तत्वादिति वाच्यम् । मुनित्रयोक्ति विनास्मदिच्छया छान्दसत्वकल्पने ऽतिप्रसङ्गात् । लोके प्रगृह्यत्वं न भवतीत्यस्मिन्नर्थे प्रमाणानुपलम्भाच्च । अप्रतिषिद्धमनुमतं भवतीतिन्यायेन लोके ययी पपी वामीत्ये
I
Page #180
--------------------------------------------------------------------------
________________
१८० शब्दकौस्तुभः। [१० तेषां प्रगृह्यत्वस्यैव न्याय्यत्वाच्च । अत एव दृग्दशवतुध्विति सूत्रे वृक्षे चेति वार्तिकमुपादाय क्समत्ययः सादेशश्च छन्दस्येव भाष्ये सदृक्षास इत्युदाहृतत्वादिति के चिदिति व्याचक्षाणा हरदत्तादयच्छान्दसत्वं वदतां मते स्वस्यापरितोषमाविश्चकुरिति दिक् ॥
दाधाघ्वदाप्॥दारूपा धारूपाश्च धातवो घुसंज्ञा स्युर्दाप्दैपौ वर्जयित्वा । तत्र दारूपाश्चत्वारः हुदाय, प्रणिददाति । दाण, प्रणियच्छति दो, प्रणियति दे, प्रणिदयते । धारूपी द्वौ । डुवाय, मणिदधाति । धेट्, प्रणिधयति वत्सो मातरम् । अदाबिति किम् । दाप लवने, दातं बर्हिः । लूनमित्यर्थः । घुत्वाभावादोदद्घोरिति न प्रवर्तते । दैप शोधने अवदातं मु. खम् । इह घुत्वाभावादच उपसर्गात्त इत्येतन्न । घुमदेशा नेगंदनदेत्यादयः । इह दोदेधेटामनुकरणानि व्यवस्थाप्य तव प्रकृतिवदनुकरणमित्यतिदेशादादेच उपदेशे शितीत्यात्वं कियते । अनैमित्तिकमात्वं शिति तु प्रतिषेध इति सिद्धान्तात् । न चैवं विभक्तरुत्पत्तिर्न स्यादधातुरिति प्रातिपदिकसंज्ञानिषेधादिति वाच्यम् । अधातुरिति पर्युदासोयं न तु प्रसज्यप्रतिषेधः। अस्ति चेह स्वाश्रयमधातुत्वम् । यद्वा । यत्तदेतेभ्य इत्यादाविवेहापि कार्यविशेषपुरस्कारेणैवातिदेशप्रवृत्त्यप्रवृत्ती भविष्यतः । ततश्चतुर्णा दारूपाणां द्वयोश्च धारूपयोरेकशेष कृत्वा द्वंद्वः कर्त्तव्यः । प्रणिदातेत्यादौ कृतात्वानां दोदे टां तु स्थानिवद्भावासिद्धं घुत्वं लक्षणप्रतिपदोक्तपरिभाषाया निरनुबन्धकग्रहणे न सानुबंधकस्येत्यस्याश्च नेहप्रवृत्तिः, सर्वेषां स्वरूपेणैवानुकृतत्वात् । अत एव दारयतिधारयत्यो तिमसङ्गः । तयोरनुकरणे आ त्वासंभवेनेह धइत्यनयोरनुपात्तत्वात् । ननु कृतात्वस्य सूत्रे निदेशात्मणिद्यति प्रणिधयतीत्यादौ चात्वविरहात्कथं घुत्वमिति चे
Page #181
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुमः। त् । भान्तोसि । न हि वयं कृतात्वमनुकुढे येनोक्तदोषः स्यास् । अपि तु देदोधेइत्येडंन्तेष्वेवानुक्रियमाणेषु लक्षणवशनिष्पअमात्वमित्युक्तम् । न च लक्षणेन स्वरूपान्यत्वेप्यनुकरणता हीयते । सख्युरसंबुद्धावित्यत्रापि सखिरूपप्रतीतः, गवित्ययमाहेत्यत्र गोशब्दप्रतीतेश्च । दीङस्तु नेह ग्रहणं, तदनुकरणे आत्वासम्भवात् । वार्तिकमते एजंतानां दीङादीनामात्वविधानात् । भाष्यमते त्वेग्निमिसे परतस्तद्विधानात् । तेन दीङस्तृजादावात्वे कृतेपि घुसंज्ञाविरहात्पनिदातेत्यत्र नेर्गदेति नित्यं णत्वं न भवति शेषे विभाषेति वैकल्पिकं तु स्यादेव । तथोपादास्तास्यस्वरः शिक्षकस्येत्यत्र स्थानोरिच्चेतीत्वं न भवतीति सूप्रकारस्य मतम् । नन्वस्मिन्पक्षे दाप्दैपावनुकृतौ न वा,आये ऽनुकरणपर्युदासोभयसामर्थ्यात्तयोघुसंज्ञाविकल्पः स्यात् । अन्त्ये अदाविति व्यर्थ स्यात् । अननुकृतत्वादेव दाप्दैपोर्घसंज्ञाप्राप्तिविरहादिति चेन्न । अदावित्यस्मिन्नसति तयोरप्यनुकरणं संभाव्येत न हि लक्षणैक चक्षुषा दोदेङादीनां दाप्दैपोश्च वैलक्षण्यं किं चिदनुभूयते यद्बलाद् ग्रहणाग्रहणे व्यवस्थाप्येयाताम् । व्याख्यानतो विशेषप्रतिपत्तिरिति परमवशिष्यते । किं त्वगतिकगतिरेषा ऽनभिधानवत् । न च तद्बलेन सिद्ध. स्य प्रत्याख्यानं शोभते । वार्तिककारमते तु प्रयोगस्थानामेव दाधास्पाणामिदमनुकरणम् । न चैव प्रणियति प्रणिदयतइत्यादौ शिति न स्यात् । आत्वाभावात् । तथा देङ् रक्षणे, अदित । धेद, व्यत्यधित । प्रणिदाता प्रणिधातेत्यादावपि न स्यादात्वस्य लाक्षणिकत्वात् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणमिति न्यायादिति वाच्यम् । वचनबलेनैव तत्समाधानात् । तथा च कात्यायनवार्तिकम् । घुसंज्ञायां
Page #182
--------------------------------------------------------------------------
________________
१८२
शब्दकौस्तुमः । [१ ० प्रकृतिग्रहणं शिदर्थमिति । भारद्वाजीयास्तु पठन्ति । शिंद्विकृतार्थमिति । तथा च दाधाप्रकृतयो घु इति पठित्वा दाश्च धाश्च प्रकृतयश्चेति द्वंद्वं कृत्वा सन्निधानादाधामेव प्रकृतय इति व्याख्येयम् । भाष्यकारास्तु वार्तिकं प्रत्याचख्युः । तथाहि । नेर्गदेतिसूत्रे तावदवश्यं प्रकृतिग्रहणं कर्त्तव्यं प्रणिमयते प्रण्यमयतेत्यत्रापि णत्वं यथा स्यात् । तदेव पुरस्ताद पकृष्य घुप्रकृतिमा इति पठिष्यामः । धुश्च प्रकृतिश्च माश्चेति द्वंद्वः । सन्निधानाच पूर्वोत्तरयोः प्रकृतिग्रहीष्यते । न चैवं मीनातिमिनोत्योरपि माप्रकृतित्वाद्रहणापत्तिः । माङो ङकारानुबन्धस्यैव तत्रावश्यं पठनीयत्वात् । अन्यथा मामानइत्यत्रातिप्रसङ्गात् । तस्माद् घुप्रकृतिमाडिति पाठेन प्रणियति प्रणिदयतइत्यादेः सिद्धत्वाच्छिदर्थ तावद् घुसंज्ञायां प्रकृतिग्रहणं न कर्त्तव्यमिति स्थितम् । भारद्वाजीयोक्तरीत्या विकृतार्थ कर्तव्यमिति पुनरवशिष्यते । तदपि न । गामादाग्रहणेष्वविशेष इति परिभाषयैव लाक्षणिकस्यापि दारूपस्य घुसंज्ञासिद्धेः । अस्यां च परिभाषायां दैप: पित्वं लिङ्गम् । तद्धयदाबिति सामान्यग्रहणार्थ क्रियते लाक्षणिकत्वादेव घुसंज्ञायां दैप्ग्रहणाभावे तु किं निषेधे सामान्यग्रहणार्थेन पित्वेन । न चैवमपि धेटो घुसंज्ञा न स्यादेवेति वाच्यम् । दो दद्घोरित्यत्र धेटो निवृत्त्यर्थ क्रियमाणेन द इत्यनेन धेटोपि घुसंज्ञाज्ञापनात् । न च दधातिनिवृत्त्यर्थन्द इत्युक्तमिति वाच्यम् । तत्र दधातहिरिति ह्यादेशविधानादेव दद्भावाप्रसङ्गात् । नन्वेवमपि गामादाग्रहणेष्वविशेष इत्येतेन लक्षणप्रतिपदोक्तपरिभाषाया निरनुबन्धकग्रहणइतिपरिभाषायाश्च यथा बाधस्तथार्थवद्रहणपरिभाषाया अपि बाधः स्यात् । तथा च प्रनिदारयति पनि
Page #183
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः ।
१८३ धारयतीत्यत्राप्यतिप्रसङ्ग इति चेन्न । गदादीनां य उपसर्गस्तत्स्थानिमित्तादुत्तरस्य तानेव गदादीन् प्रत्युपसर्गस्य नेरिति व्याख्यानात् । दारयतिधारयत्यवयवयोस्तु दाधारूपयोरनर्थकत्वान्न तं प्रत्युपसर्गत्वम् । यत्क्रियायुक्ताः पादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति वक्ष्यमाणत्वात् । न चैवं प्रणिदापयाति प्रणिधापयतीत्यत्रापि णत्वं न स्यादिति वाच्यम् । तत्र पुगागमारपूर्व दा धा इत्यवस्थायां घुसंज्ञाप्रवृत्तौ पुग्विशिष्टस्यापि घुग्रहणेन ग्रहणात् । अनागमकानां सागमका आदेशा इति पक्षे तु स्थानिवद्भावेन घुसंज्ञाप्रवृत्तेः । नन्वनान्तर्यमेवैतयोरान्तर्य सम्प्रयोगो वा । नष्टाश्वदग्धस्थवदिति स्थानेन्तरतमसूत्रस्थभाष्यरीत्या दारयत्यादेराप दापयत्यादिसाम्यमेव । निपन्नस्याणो रपरत्वाभ्युपगमेन रेफपुकोरविशेषादिति चेत् । सत्यम् । सिद्धन्तु प्रसङ्गे रपरत्वादित्युरणपरसूत्रस्थवार्तिकरीत्या समाधानं कृतम् । उक्तभाष्यरीत्या तु प्रसक्तो दोषः प्रागु. क्तसूत्रकारमतमाश्रित्योद्धर्त्तव्यः । न हि दृधृइत्यनयोरनुकरणे आत्वं लभ्यतइति दिक् । इदं त्ववधेयम् । प्रणिदापयतीत्यः त्राप्युपसर्गयोः प्रकृत्यविशेषणत्वे सत्येव नेर्गदेति नित्यं णत्वं ण्यर्थविशेषकत्वे तु घुसंज्ञकं प्रत्यनुपसर्गत्वाच्छेषे विभाषेति विकल्प एव न तु नित्यं णत्वमिति । स्यादेतत् । उपदिदीपतइत्यत्र सनिमीमेतीस्भावः स्यात् । वार्तिककृता घुसंज्ञायां प्रकृतिग्रहणात् । सूत्रकारभाष्यकारयोस्तु नासौ दोषः । सूत्रकृता दीडोननुकृतत्वात् । भाष्यमते णत्वे प्रकृतिग्रहणोपि घुसंज्ञायान्तद्विरहादिति चेत् । सत्यम् । वार्तिकमतेपि नेयं दापकृतिः । एजन्तानामात्वविधानाभ्युपगमात् । न चैवमादन्तत्वनिबन्धनयुच्प्रत्ययासिद्धिः । तत्राकारान्तलक्षणप्रत्ययविधि
Page #184
--------------------------------------------------------------------------
________________
१८४ शब्दकौस्तुभः। [१ ० रिति वचनेनैव तत्सिद्धेः । भाष्ये त्वेतद्वचनप्रत्याख्यानायैज्विषये आत्वं सिद्धान्तितमित्यन्यदेतत् । इदं त्ववशिष्यते । भाष्यवार्तिकोभयमतेपि उपादास्तास्यस्वरः शिक्षकस्येत्यत्र स्थाबोरितीत्वं प्राप्तं, तच्च भाष्ये सन्निपातपरिभाषया प. रित्तम् । उप दी म त इति स्थिते एविषये प्रवर्त्तमानमात्वं सिचोकित्त्वमुपजीवति । यदि चात्र घुसंज्ञा स्यात्तर्हि स्थाध्वोरिच्चेति सिचः कित्वं स्यादतोकित्वमुपजीव्य प्रवृत्त आकारः कित्ववर्तिकां घुसंज्ञा न प्रवर्त्तयत्येवेति । वार्तिककृता तु दी. ङः प्रतिषेधः स्थायोरित्वे इति वचनमेव कृतम् । उभयमतेपि दीडस्तृजादावात्वे कृते प्रणिदातेत्यादौ नेर्गदेति णत्वं भवति । अत एव वार्तिककृता दीङः प्रतिषेध इत्येवं नोक्तं किन्तु स्था. घ्वोरित्वे इति विषयविशेषो निर्दिष्टः । सूत्रमते तु न भाव्यं णवेनेति स्पष्टमेव । किञ्च भाष्यवार्तिकयोने केवलं सूत्रकृता सह विरोधः किन्तु परस्परेणापि । तथाहि । भाष्यमते प्रणिदीयते प्रणिदीन इत्यादावपि नित्यं णत्वं गत्वविधौ प्रकृतिग्रहणात् । वा. तिकमते तु वैकल्पिकम् । एजन्तानामेव प्रकृतित्वाभ्युपगमेने दन्तस्याप्रकृतित्वात् । अन्यथोपदिदीषतइत्यत्रेस्भावापत्तेः । तदेवं प्रणिदातेत्यादौ सूत्रकृता सह द्वयोर्विरोधः । प्रणिदीन इत्यादौ तु भाष्यकृता सहेतरयोर्विरोधो दुष्परिहर इति । अत्रेदं वक्तव्यम् । यथोत्तरं मुनीनां प्रामाण्यमिति सिद्धान्ताद्भाप्योक्तरीत्या सर्वत्र दीडि परे नेनित्यं णत्वमितिस्थिते मूत्रवातिकमतेपि शेषे विभाषेति व्यवस्थितविभाषामाश्रित्य भाष्याविरोधः सम्पादनीयः । एकवाक्यतयैव सर्वनिर्वाहसम्भवे मतभेदकल्पनस्यानाश्रयणीयत्वादिति । नन्वदाविति प्रतिषेधे दाप्लवनइत्यस्यैव ग्रहणं युक्तम्, न तु दैपः । पकारे श्रूयमाणे
Page #185
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः ।
१८५ आत्वायोगादिति चेन्न । अनुबन्धा अनेकान्ता इति पक्षे श्रूयमाणस्यापि पकारस्य काकादिवदनवयवत्वेन धातोरेजन्तत्वानपाये आत्वप्रवृत्तेः । एकान्ता अनुबन्धा इति पक्षेपि भवत्येवात्वम् । नानुबन्धकृतमनेजन्तत्व मिति सिद्धान्तात् । अत्र चोदीचां माङो व्यतीहारइति कृतात्वस्य मेडो निर्देशो ज्ञापकः । न च माःमानइत्यस्यैवायं निर्देशो व्यतिमिमीतइत्यादौ तस्यापि कदा चिव्यतीहारे वृत्तिसम्भवादिति वाच्यम् । अपूर्वकालार्थस्य क्त्वाप्रत्ययस्य माङ्मानइत्यस्मादनभियानात् । अत्र च भाष्योक्तेरेव प्रमाणत्वादित्याहुः । एवं च मेङ इत्येव पठनीये माङो व्यती. हारइति गुरुकरणं नानुवन्धकृतमनेजन्तत्त्वमिति ज्ञापनार्थमेव । भाष्यकारास्तु नायं दैप किन्तु दिवादिपु दायशोधनइत्येव पठिष्यतइत्याहुः । न च स्वरे भेदः । दायतीत्यादेरुभयथाप्याधुदात्तत्वात् । ननु ताच्छीलिके चानशि दायमान इत्यत्र स्वरे भेदः । श्यनि धातोरायुदात्तत्वं शपि तु चानशोन्तोदात्तत्वमिति चेन्न । उभयथाप्यन्तोदात्तत्वानपायात् । न च श्यन्स्वरस्य सतिशिष्टत्वेन पावल्यमिति वाच्यम् । अन्यत्र विकरणेभ्य इति पर्युदासात् । आत्ममानेखश्चेत्यत्रत्यभाष्यकैयटबलेन खशीव चानश्यप्यन्तोदात्ततया निर्णयात् । स्थानिवत्सूत्रीयः कैयटग्रन्थ स्तु खशमूत्रस्थभाष्यस्वोक्तिभ्यां विरोधात्मामादिक इति वक्ष्यते । ध्यायत्यादयस्तु दिवादिष्वेवादन्तत्वेन न पठिताः गणकार्यमनित्यमिति ज्ञापयितुम् । तेन न विश्वसेदविश्वस्तं पथिक वनिताः प्रत्यवादाश्वसन्त्य इत्यादि सिद्धम् । यत्तु भाष्ये एकान्तत्वपक्षेपि न दोप इत्युपक्रम्य पकारलोपे कृते भविष्यात, दाप्त्वं तु भूतपूर्वमनुबन्धमाश्रित्य व्युत्पादनीयमिति सिद्धान्तितम् । तत्थं प्रत्यवतिष्ठन्ते । सत्यप्ये जन्तले उपदेशे एजन्तत्वं
२४
Page #186
--------------------------------------------------------------------------
________________
१८६
शब्दकौस्तुभः । [१ अ० कथमिति । अत्रोच्यते । पित्करणसामर्यादुपदेशे एजन्तत्वाभावेप्यात्वप्रवृत्तिः । वस्तुतस्तूपदेशग्रहणं भाष्यकारो न मन्यते । तथा च तत्र वक्ष्यति । उपदेशग्रहणं न करिष्यते । यद्यपदेशग्रहणं न क्रियते चेता स्तोतेत्यत्रापि प्राप्नोति । अत्राप्याचार्यप्रवृत्तिापयति न परनिमित्तस्यैच आत्वं भवतीति । यदयं क्रीङ्जीनां णावेच आत्वं शास्ति । नैतदस्ति ज्ञापकं नियमार्थमेतस्यात् क्रीजीनां णावेवेति । यत्तार्ह मीनातिमिनोतिदीङ ल्यपि चेत्यत्रैज्ग्रहणमनुवर्त्तयतीति । ननु प्रणिदापयतीत्यत्राप्यदाबिति प्रतिषेधः स्यादिति चेन्न । यथोदेशपक्षेन्तरङ्गत्वादावस्थायामेव घुसंज्ञाया निर्दृतत्वात् । कार्यकालपक्षे तु घुसंज्ञाया णत्वसमानदेशतया पुकं प्रति णत्वघुसंज्ञयोरसिद्धत्वेन प्रागेव पुक् ततो घुसंज्ञा न स्यादिति दोषः प्रसजत्येव । अत एव भाष्ये द्वेधा समाहितम् । दाधाध्वपिदिति वक्ष्यामि । यद्वा वान्तावेतौ धातू सूत्रमपि बान्तम् । चर्बेन सर्वत्र पकारो निर्दिष्टः । अतो दापयतीत्यत्र नासौ निषेधः । तस्यापित्त्वादबान्तत्वाच्चेति ॥ ___ आद्यन्तवदेकस्मिन् ॥ असहाये आदाविधान्तइव कार्याणि स्युः । औपगवः । यथा तव्यादीनां प्रत्ययाधुदात्तत्वं प्रवर्तते । एवमिहाणोपि । आभ्याम् । यथा वृक्षाभ्यामित्यादौ सुपि चेति दीर्घत्वं भवति एवमिहापि । इङ् गतौ दिवादिः। एयम् । अचोयदिति अजन्ताद्धातोर्विधीयमानो यत्प्रत्ययो यथा चेयजेयमित्यादौ भवति तथेहापि । इणस्तु एतिस्त्विति क्यपीत्यमित्येव रूपं न तु एयमिति । एकस्मिन्निति किम् । सभासन्नयने भवः साभासन्नयनः । अत्र ह्याकारस्यादित्त्वे सति तमेवाश्रित्य सभासन्नयनशब्दस्य वृद्धत्त्वं स्यात् । ततश्चाणं बाधित्त्वा वृद्धाच्छ इति
Page #187
--------------------------------------------------------------------------
________________
१ पा. ५ आ.
शब्दकौस्तुभः ।
छः प्रसज्येत । ननु वृद्धिर्यस्याचामादिरिति सूत्रे आदिग्रहणस्यापीदमेव व्यावर्त्त्यम् । तत्सामर्थ्यादेव समासन्नयनशब्दे वृद्धसंज्ञा न भविष्यतीति चेन्न । यदि हि वृद्धसंज्ञासूत्रे आदिग्रहणसामर्थ्यादनातिदेशिकस्य मुख्यस्यैवादेर्ग्रहणं तर्हि जानातीति ज्ञा ब्राह्मणीत्यादिरसहायोपि वृद्धो न स्यात् । ततश्च ज्ञाया अयं ज्ञीय इत्यादि न सिद्धयेत् । असति हि प्रकृतसूत्रस्थैकग्रहणे यत्रा - दिव्यपदेशो मुख्यो नास्ति असहाये मध्ये अन्ते च स सर्वोप्य - विशेषादतिदेशस्य विषयः स्यात् । यदि त्वतिदेशसामर्थ्याज्ज्ञाशब्दे वृद्धत्वं तर्ह्यविशेषात्सभासन्नयनेपि स्यात् । वृद्धसंज्ञायामादिग्रहणं तर्हि व्यर्थमेवेति चेत् । हन्तैवमतिदेशस्यादि। ग्रहणस्य च सामर्थ्यात्सर्वत्र विकल्पापत्तिः । इहैकग्रहणे कृते त्वन्त्यमध्ययोर्व्यावृत्त्या वृद्धसंज्ञायामादिग्रहणं सार्थकमिति दिक् । यत्तु न्यासकृतोक्तम् । अतिदेशसूत्रे एकग्रहणाभावे वृद्धसंज्ञासूत्रस्थमादिग्रहणमनातिदेशिकप्रतिपत्त्यर्थं सदसहायानां ज्ञादीनामेव वृद्धसंज्ञां वारयेन्न तु सभासन्नयनस्य, सन्नयनेत्येतदन्ततांश्चतुरोऽचो ऽपेक्ष्यानातिदेशिकस्यादित्वस्य तत्र सत्त्वादिति । तच्चिन्त्यम् । परस्मिन्सति यस्मात्पूर्वो नास्ति स आदिरिति सिद्धान्तरीत्या मध्यस्थेप्यादित्वविरहात् । इयानेव हि विशेषः । असहाये सत्यन्त विशेषणविरहाद्विशिष्टाभावः, मध्यस्थे तु वि शेष्याभावाद्विशिष्ट।भाव इति । वार्तिकका रस्तु लाघवादपूर्वत्वमात्रमादिशब्दस्य प्रवृत्तिनिमित्तमनुत्तरत्वमात्रं चान्तशब्दस्य न तु सत्यन्यस्मिन्नित्यपि विशेषणं, गौरवात् । तथा चासहायेपि मुख्ययोरेवाद्यन्तयोः सम्भव इति मन्वानः सूत्रमेतत्प्रत्याचख्यौ । आह च । अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन्निति । भाष्यकारस्तु नैतन्मेने । सत्यन्यस्मिन्निति विशेषणम्
१८७
Page #188
--------------------------------------------------------------------------
________________
१८८ शब्दकौस्तुभः। [१ अ० क्षेपप्रयुक्तस्य गौरवस्य प्रामाणिकत्वात् । लोके. ह्ययमादिरंतोवेत्युतेऽवशिष्टमपि किंचिदस्तीति नियमेन प्रतीयन्ति। पदानियतोपस्थितिश्च शक्तिसाध्या । अनुभवमपलप्यैकदेशमात्र शक्तिकल्पने तु श्वशुरादिपदानामपि लाघवाद्भार्यात्वमात्रं पितृत्वमात्रं तद्घ टकपुंस्त्वमानं या शक्यतावच्छेदकं स्यादिति विशिष्टविषयकशक्त्युच्छेदेन सकलशिष्टव्यवहारव्याकोपः स्यादिति । नन्वेवमपि व्यपदेशिवद्वचनं कर्तव्यमेव, इयाय आरेत्यादौ धात्ववयवत्वं प्रा. थम्यमेकान्त्वं चाश्रित्य द्वित्वं यथा स्यात् । एकाच इति हि बहुव्रीहिरिति पक्ष्यते।न चेणो वृद्धयायादेशयोरत्तैश्च वृद्धौरपरत्वे च कृते आय आर इत्यनयोरेकाच्त्वं पचादेरिव मुख्यमेवास्तीति वाच्यम् । द्विवेचनेचीति रूपातिदेशेन इ ऋ अनयोरेव द्विरुतः। किञ्च यः पञ्चमलकारे स देवान् यक्षदिषितो यजीयानीत्यादौ सिब्बहुलं लेटीनि सिप् । तस्य पत्त्वं व्यपदेशिवद्भावेनैव साध्यं, प्रत्ययस्य यः सकारस्तस्य षत्वमिति सिद्धान्तात् । तस्माद्यपदेशिवदेकस्मिनित्येव सूत्र्यता किं प्रकृतसूत्रेण । व्यपदेशो नाम विशिष्टो मुख्यो ऽपदेशो व्यवहार एकाच इत्यादिः सोस्यास्तीति व्यपदेशी पचिप्रभृतिस्तस्मिन्निवासहायपि कार्य स्यादित्यर्थः । अत्राह भाष्यकारः । अवचनाल्लोकविज्ञानात्सिमिति। वचननिरपेक्षाल्लोकव्यवहारादेव व्यपदेशिवद्भावसिद्धराअन्तवादति व्यपदेशिवदिति चोभयमपि न सूत्रयितव्यमित्यर्थः। अस्ति हि लोके निरूढोयं व्यवहारोऽयमेव मे ज्येष्ठः पुत्रोयमेवमध्यमोऽयमेव कनिष्ठ इति। तथा अस्तायामसोष्यमाणायां च प्रथमगर्भे. णहतेति व्यवहरन्ति । तथा पूर्वमनागतोऽग्रेऽनाजिगमिषुश्वाह इदं मे प्रथममागमनमिति । ननु सर्वे इमे गौणा व्यवहारास्तत्कथं मुख्य चरितार्थ शास्त्रं गौणे प्रवर्तेतोत चेन्न । निरूढतरतया गौणस्याप्ग
Page #189
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः । स्य मुख्यसमकक्षत्वात् । ज्ञापकाच्च । यदयमिट ईटीति सिचो लोपं शास्ति तज्ज्ञापयति । व्यवदेशिवदेकस्मिन्निति । न बन्य. थेट लभ्यते । वल्रूपत्वेपि वलादित्वविरहात् । तथा दीर्घ इणः कितीत्यादीन्यपि ज्ञापकानि । न हि व्यपदेशिवद्भावं विना इणोभ्यासो लभ्यतइति दिक् । यत्तूक्तं कैयटेन । अर्थवता व्यपदेशिवद्भावात्करुन इत्यादौ तशब्दाकारस्यानर्थकत्वेन तत्र टिसं. ज्ञा सिद्धयआदिवद्भावो वचनेनैव साधनीय इति । अत्रेदं वक्तव्यम् । अर्थवता व्यपदेशिवद्भाव इति तावन्नेयं परिभाषा तस्या विध्यंगत्वात्। व्यपदेशिवद्भावस्तु लौकिक इत्युक्ततयातं प्रत्यंगत्वायोगात् । किन्तु शास्त्रे व्यपदेशिवद्भावयोजनाय शब्दार्थसमृदायमाश्रित्य तस्यैकदेशः शब्द इति व्युत्पादयितुमर्थवत्तापेक्षितेति परं तस्याशयः । अत एव षष्ठे निजौ चत्वार एकाच इत्येते. पु व्युत्पादनावसरे भाष्यकैयटयोरनर्थकेनापि व्यपदेशिवद्भावः स्वीकृतो लोक इव शास्त्रे ऽप्यनर्थकस्य व्यपदेशिवद्भावसम्भवात् । तस्मादर्थवतेति प्रायोवादमात्रं सूत्रप्रत्याख्यानं तु सम्यगे. वेति दिक् ॥
तरतमपौ पः॥ एतौ घसंज्ञा स्तः । कुमारितरा। कुमारितमा । घरूपेति इस्वः । नद्यास्तरो नदीतर इत्यत्र तु न भवति । तमपा साहचर्येण प्रत्ययस्यैव तरपो ग्रहणात् । यद्वा तरविति रूपं संज्ञाप्रवृत्तावाश्रितं तच्च परिनिष्ठिते प्रयोगे कापि नास्तीत्यौपदेशिकं गृह्यते । तच्च तरप्पत्ययस्यैवास्ति । अपि च प्रतिपदोक्तत्वमपीह सुलभम् । तेनावयवशो व्युत्पादिते नदीतरे नातिप्रसङ्गः । किञ्च समानाधिकरणे स्त्रीलिङ्गे परे ह्रस्वत्वं विधीयते । अन्यथा महिषीव रूपं महिषीरूपमित्यत्रापि स्यात् । सुप् सुपेति समासः । रूपमाकृतिः, महिषीवेयमाकृतिरि
Page #190
--------------------------------------------------------------------------
________________
१९०
शब्दकौस्तुभः ।
[ १ अ
त्यर्थः । सामानाधिकरण्यस्त्रीत्वे च स्वार्थिकत्वादातिशायनि कस्य स्तो न तु नदीतरे, अतो नोक्तदोषः । नन्वातिशायनिकमकरणएव तादी घ इति पितौ घ इति वा क्रियतां लाघवादिति चेन्न । प्रकरणोत्कर्षेणेह संज्ञाप्रकरणस्यान्यपि तरबस्तीति ज्ञापनार्थत्वात् । स चानिर्दिष्टार्थत्वात्स्वार्थे भवति । तेनायाच्तरं लोपश्च बलवत्तर इत्यादि सिद्धम् । केचित्तु सामान्यापेक्षं ज्ञापकमाश्रित्य ईयसुनोपि स्वार्थिकतामाहुः । तेनाहोमहीयस्तत्र साहसिक्यमित्यादि प्रयोगाः समर्थिता भवति ॥
बहुगणवतुडति संख्या ॥ एते संख्यासंज्ञाः स्युः । बहुकृत्वः संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । व हुधा, संख्याया विधार्थे धा । बहुभिः क्रीतो बहुकः, संख्याया अतिशदन्तायाः कन् । बहुशः । बव्हल्पार्थाच्छस्कारकादित्यनुवर्त्तमाने संख्यैकवचनाच्च वीप्सायामिति शस् । गणकृत्वः गणधा गणकः गणशः । तावत्कृत्वः तावद्धा तायत्कः तावच्छः । यत्तदेतेभ्यः परिमाणं वतुप् । आ सर्वनाम्नः, शेषं प्राग्वत् । कतिकृत्वः कतिकःकतिधा कतिशः । किमः ' संख्यापरिमाणे डति च । शेषं प्राग्वत् । स्यादेतत् । वैपुल्येपि बहुशब्दो वर्त्तते । बहुर्हिमवानिति, सङ्घे च गणशब्शः, भिक्षुकाणां गण इति । समवायश्च यो गण इत्यमरः । तथा च सङ्घवैपुल्यवाचिनोरप्यनयोः संख्या संज्ञा स्यादिति चेन्न । संख्यायते ऽनयेत्यन्वर्थसंज्ञाविज्ञानात् । तस्मात्संख्यावाचिनोरेव बहुगणशब्दयोरिह ग्रहणं तच्च नियमार्थम् । अनियतवहुत्ववाचिनां मध्ये ऽनयोरेव संख्या संज्ञा न तु भूर्यादीनामि
1
ति । तेन बहुविषययोर्चेकयोर्नियत बहुत्ववाचिनां ज्यादीनां च न व्यावृत्तिः । ननु नियमार्थत्वे सिद्धे सजातीयापेक्षत्वान्नि
Page #191
--------------------------------------------------------------------------
________________
१ पा. ५ आ.
शब्दकौस्तुभः ।
१९
यमस्य त्वदुक्तव्यवस्था सिद्धेयत् । नियमार्थत्वमेव तु दुरुपपादम् । विध्यर्थताया एवौचित्यात् । तथाहि । अस्ति ताव - कृत्रिमा कृत्रिमयोः कृत्रिमे काय्य सम्प्रत्यय इति परिभाषा । सा च न्यायमूला | संज्ञासूत्रेण संज्ञिविशेषे नियम्यमानो हि संज्ञाशब्दः कथं तदितरं बोधयेत् । एवं स्थिते बहुगणयोरिह ग्रहणाभावे संख्याप्रदेशेषु ग्रहणमेव न स्यात् । अकृत्रिमत्वात् । तस्मात्स्वसङ्ग्रहार्थमेव बहुगणग्रहणं न तु भूर्यादिनिवृत्त्यर्थमिति । अत्राहुः | संज्ञिविशेषे क्रियमाणः संज्ञानियमो यदि सामान्यापेक्षस्तदा युक्ताऽकृत्रिमस्य व्यावृत्तिः । विशेषपरत्वे तु सजातीयं कृत्रिमान्तरमेव नियमेन व्यावर्येत न त्वत्रिममपि । तदेतदुच्यते । उभयगतिरिह शास्त्रे भवतीति । कृत्रिमा कृत्रिमयोरुभ योरपि ग्रहणमित्यर्थः । अस्ति च संख्याप्रदेशे पूभयग्रहणे लिङ्गं संख्याया अतिशदन्तायाः कन्निति सूत्रे शदन्तपर्युदासः । न हि कृत्रिमा संख्या शदन्तास्तीति दिक् । तेन पञ्चधा पञ्चकृत्व इत्यादि सिद्धं भवति । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति तथापि वतुडत्योः केवलयोः संज्ञायाः प्रयोजनाभावात्सामर्थ्यात्तदन्तग्रहणम् । तद्धितविधौ हि ङयाप्प्रातिपदिकादित्यधिकृतं न च केवलस्य प्रत्ययस्य प्रातिपदिकत्वमस्तीति बोध्यम् । एतच्च सूत्रं भाष्ये प्रत्याख्यातम् । बहुपूगगणसङ्घस्य तिथुक् । वतोरियुक् । षट्कतिकतिपयचतुरां गिति सूत्रैईटि परे आगमा विधीयमाना बहुप्रभृतीनां डटो निर्वाहकं संख्यात्वं ज्ञापयन्तीति किमनेन सूत्रेण । ननु बहुपूगगणसङ्घेत्यादौ विशेषाश्रगणात्संघवैपुल्यवाचिनोरपि बहुगण - शब्दयोः संख्याकार्यं स्यादिति चेन्न । अनियतसंख्यावाचिनोरप्येतयोः संख्याकार्यं भवतीत्येतावन्मात्रज्ञापनेन चरितार्थ
Page #192
--------------------------------------------------------------------------
________________
१९२ शब्दकौस्तुभः । १० खे सति सर्वथा संख्यामप्रतिपादयतोरपि संख्याकार्यकल्पनस्य गौरवपरास्तत्वात् । भूर्यादीनां त्वनियतसंख्यावाचिना ग्रहणं न भवति नियतसंख्यावाचिनां प. वादीनामेव लोके संख्याशब्दत्वेन प्रसिद्धतरत्वात् । प्रसि. दापसिद्धयोः प्रसिद्धग्रहणस्य न्याय्यत्वात् । नन्वेवमपि बहुगणयोरिव पूगसंघादीनामपि धा शस् कृत्वसुजादिसंख्याकार्यप्रसङ्गः । न च बहुगणयोः सामान्यापेक्षं ज्ञापकं पूगादीनां तु डद्विषयकमेवेति वाच्यम् । अनुपपत्तेः । समानत्वेन एकसूत्रोपात्त
वेन च वैषम्ये बीजाभावादिति चेत् । मैवम् । लक्ष्यानुरोधेन कचित्सामान्यापेक्षं कचिद्विशेषापेक्षं ज्ञापकमित्याश्रयणात्तदनुरोधेन वैरूप्यस्य सोढव्यत्वादिति दिक् । इमां कुसृष्टिमसहमानेनैव सूत्रकृता सूत्रमिदं प्रणीतमिति तु परमार्थः । अत्र वार्तिकानि । अध्यर्द्धग्रहणं च समासकन्विध्यर्थम् । अनाधिकमध्यर्धम् । एकदेशवाचकोयमर्द्धशब्दः । तस्याधिशब्देन समासे कृते यौगिकार्थः प्रतीयते न संख्येति वार्तिकारंभोऽध्यर्दैन शूर्पण क्री तमद्धयर्द्धशूर्प दिसंख्यइत्यनुवर्त्तमाने तद्धितार्थेति समासः ततः शूर्पादअन्यतरस्यामित्यत्रष्ठजो वा अध्यर्द्धपूर्वेति लुक् । अध्यर्द्धन क्रीतमध्यर्द्धकम् । संख्याया अतिशदन्तायाः कनिति कन् । इह समासविध्यर्थमिति संबंधसामान्ये पष्ठी । समासे विधीयमाने समासनिमित्ते वान्यस्मिन्कार्ये विधीयमान इत्यर्थः । तेन द्विगुनिमितो लुगपि लभ्यते । तथाचाध्यर्द्धपूर्वेति सूत्रेऽध्यर्द्धग्रहणं न कर्त्तव्यं भवति । तदुक्तं,लुकि चाग्रहणमिति । अध्यर्द्धपूर्वपदश्च पूरणप्रत्ययान्तः । संख्येत्यनुवर्तते । पूरणप्रत्ययान्त इत्यस्य पूरणप्रत्ययान्तोत्तरपद इत्यर्थः। समासकविध्यर्थमित्येव । अर्द्ध पञ्चमं येषामिति बहुव्रीहिः । अर्द्ध
Page #193
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुभः । पञ्चमैराधिकैश्चतुभिः शूर्पः क्रीतमपञ्चमशूर्प, पूर्ववदअष्ठजो वा लुक् । अर्द्धपश्चमेन क्रीतमर्द्धपञ्चमकम् । अधिकग्रहणं चालुकि समासोत्तरपदवृद्धयर्थम् । धिकया षष्ठया क्रीतोधिकषाष्टिकः । अधिकसाप्ततिकः । तद्धितार्थेति समासः । प्राग्वतेष्ठञ् । अलुकीति वचनात् लुकि कर्तव्ये संख्यासंज्ञा नास्तीति द्विगुत्वमपि न तेनाध्यपूर्वद्विगोरिति लुङ् न । ततः संख्यायाः संवत्सरसंख्यस्य चेत्युत्तरपदवृद्धिः। नन्वलुकीति व्यर्थम् । उत्तरपदवृद्धयर्थमिति वचनादेव लुगमावस्या. क्षेप्तुं शक्यत्वादिति चेन्न । अर्हत्यर्थात्परेष्वर्थेषु ये प्रत्ययास्तेषां लुगप्राप्त्या तत्रैवोत्तरपदवृद्धः सावकाशत्वात् ॥
ष्णान्ता षट् ॥ षान्ता नान्ता च संख्या पदसंज्ञा स्यात् । षट् तिष्ठति पद पश्य,पञ्च सप्तेत्यादि । संख्येति किम् । विप्रुपः पामानः । ननु शतानि सहस्राणीत्यत्र नुमि कृते तस्य पूर्वभक्ततया नान्ता संख्येति षट्संज्ञा स्यादिति चेत् । अस्तु । न चैवं षड्भ्यो लुगिति लुक् स्यादिति वाच्यम् । सर्वनामस्थानसनिपातेन कृतस्य नुमः तदविघातकत्वात् । नन्वेवमप्यष्टानामिति न सिद्धयति । तथाहि । अष्टन् आमिति स्थिते परत्वानि त्यत्वाचाष्टन विभक्तावित्यात्वे कृते ऽनान्तत्वात्संज्ञायामसत्यां पट्चतुभ्यश्चेति नुन प्राप्नोतीति चेन्न । यथोदेशपक्षे आत्वात्मागेव पट्संज्ञा अन्तरङ्गत्वात् । ततः कृतेप्यात्वे एकदेशविकृ. तस्यानन्यतया षट्संज्ञकत्वेन नुटः सिद्धत्वात् । कार्यकालपक्षे तीक्तदोषस्तदवस्थ एव । किञ्च यथोदेशेप्यविधित्वादतिदेशो दुर्लभः । अत एव वश्चेत्यचः परस्मिन्नित्यस्य फलमिति कैयट इति चेन्न । अष्टनो दीर्घादिति दीर्घग्रहणेन कृतात्वस्यापि पटसंज्ञाज्ञापनात् । तथाहि । नः संख्याया इत्यायुदात्त
२५
Page #194
--------------------------------------------------------------------------
________________
१९४ शब्दकौस्तुभः। [१ अ० त्वं बाधित्वाघृतादिपाठादन्तोदात्तोऽष्टनशब्दःसाधितः।तस्माद्भिस्यष्टभिरष्टाभिरिति रूपद्वयं तत्रात्वाभावे मध्योदात्तमात्वपक्षे त्वन्तोदात्तमिति सिद्धान्तः । तत्रषतिचतुभ्यों हलादिरिति सूत्रेण षण्णां षड्भिरित्यादाविव विभक्तेरुदात्तत्वं प्राप्तं तदाधित्वा झल्युपोत्तममिति प्राप्त पत्रिचतुर्यो या झलादिविभक्तिस्तदन्ने पदे उपोत्तममुदात्तं भवतीति हि तस्यार्थः । तद्बाधनायाष्टनो दीर्घादित्यारभ्यते । दीर्घान्तादष्टनः परा ऽसर्वनामस्थानविभक्तिरुदात्ता भवतीति सूत्रार्थः । तत्र यद्यात्वपक्षे षट्संज्ञा न स्यातर्हि सावकाशोष्टनः स्वरः परत्वादात्वाभावपक्षे झल्युपोत्तममिति षट्स्वरेण वाषिष्यतइति किं दीर्घग्रहणेन । कृतात्वस्यापि षट् संज्ञायां सत्यां तु षट्स्वरस्याष्टनः स्वरोपवादः संपद्यते । न चाष्टनः स्वरः शासि सावकाश इति वाच्यम् । तत्रैकादेश उदात्तेनोदात्तइति सूत्रेणैव गतार्थत्वात् । अष्टनशब्दोन्तोदात्त इति समनन्तरमेवोक्तत्वात् । तेन दीर्घपक्षइव तदभावपक्षेपि विभक्तेरुदात्तता स्यादिति तद्वयावृत्त्यर्थ क्रियमाणं दीर्घग्रहणं सार्थकमेव । तस्माद्दीर्घग्रहणेनात्वपक्षेपि षसंज्ञा ज्ञाप्यतइति स्थितम् । न चैवं दीर्घग्रहणस्यात्वविकल्पज्ञापकत्वं न स्यादिति वाच्यम् । उभयज्ञापकत्वसम्भवात् । न ह्येकनैकमेव ज्ञाप्यतइति नियमः । यावता विनानुपपत्तिस्तावतो ज्ञाप्यत्वात् । तच्चैकमनेकं वेत्य. न्यदेतत् । प्रकृते चोभयं विना दीर्घग्रहणवैयानुद्धारादिति दिक् । यदि तु ष्णाः षकारनकाराकारा अन्ते यस्याः सा ष्णान्तेति प्रकृतसूत्रएवाकारोपि पश्लिष्येत तदा द्वाभ्यामित्यत्र प. त्रिचतुर्यो हलादिरिति विभक्तेरुदात्तत्वं स्यात् । आद्वाभ्यां हरिभ्यामिन्द्रयाहीत्यादावायुदात्तमेव तु द्वाभ्यामितिपदं पठ्यते त‘स्मादिहाकारप्रश्लेषो न वर्णनीयः किन्तूक्तप्रकार एवादर्तव्य इ.
Page #195
--------------------------------------------------------------------------
________________
१ पा. ५ आ. शब्दकौस्तुमः ।
१९५ ति स्थितम् । तथा सप्तमे योगविभागं कृत्वा तद्बलेनापि द्वधा भाष्ये समाहितम् । तथाहि । षड्भ्यो लुगित्यत्र षड्भ्य इति विभज्यते अष्टाभ्य औशिति सूत्रादष्टाभ्य इत्यनुवर्तते । तेन पड्भ्यो यदुक्तं कृताकारादष्टनोपि तत्स्यादिति सूत्रार्थः । न चैवं जश्शसोलगप्यतिदिश्यतेति वाच्यम् । औश्त्वविधिवैयर्थ्यांपत्तेः। अथ वाष्टन आ विभक्तावित्यस्मादनन्तरं राय इति योग विभज्य हलीत्युभयोर्योगयोः शेषो व्याख्येयः । तेनाष्टानामित्यत्र नुटः पश्चादेवात्वं न तु ततः प्राक् । न चैवं जश्शसोरात्वं न स्यादिति वाच्यम् । लाघवार्थमष्टभ्य इति निर्देष्टव्ये ऽष्टाभ्य औशति कृतात्वनिर्देशेन जश्शसोर्विषये आत्वानुमानात् । यत्रात्वं तत्रैवौश्त्वं यथा स्यादित्येतदर्थ हि तत्र दीर्घोच्चारणं कृतमिति । स्यादेतत् । हलीति यद्युभयोः शेषस्तर्हि प्रियाष्टन्शब्दे
औजसमौट्शस्टाङसिङसोसाम्ङयोस्सु वैकल्पिकतयेष्यमाणमात्वं न सिद्धयेत् । न च तत्रात्वं नेष्यतएवेति वाच्यम् । इतःपाचीनपक्षाणामतिव्याप्तिप्रसङ्गात् । तेषु ह्यात्वं प्राप्यतएव विभक्तिमात्रे तद्विधानात् । न च षड्भ्यो लुक् पट्चतुर्यथेति सूत्राभ्यां विधीयमानौ लुग्नुटौ यथा गौणतायां न स्तस्तथात्वमपि न स्यादेवेति वाच्यम् । वैषम्यात् । लगनुटगोविधौ हि षड्भ्य इति पदचतुर्थ्य इति बहुवचननिर्देशात् षडर्थमाधान्यएव तौ प्रवर्तते । आत्वविधौ स्वष्टन इत्येकवचननिर्देशाद्रौणेपि प्रियाष्टाभ्यामित्यात्वं प्रवर्त्ततएव । पदाङ्गाधिकारे तस्य तदुत्तरपदस्य चेति वक्ष्यमाणत्वात् । न च जश्शसोरष्टाभ्य औशिति कतात्वनिर्देशेनानुमीयमानमात्वं केवले प्राधान्ये चाष्टौ परमाशावित्यत्र यथा भवत्येवं गौणत्वेपि भविष्यतीति तदंशे नानुपप. त्तिरिति वाच्यम् । औरत्वं हि लुग्नुयाविव गौणत्वे न भव.
Page #196
--------------------------------------------------------------------------
________________
१९६
शब्दकौस्तुभः ।
[ १ अ०
ति । अष्टाभ्य इति बहुवचननिर्देशात् । अन्यथा हि कृतात्वानुकरणेप्येकवचनेनैव निर्दिशेत् । अष्टा औशिति अष्ट इति वा । स्पष्टं चैव सूत्रे भाष्यकैयटयोः । तथा चौश्त्वविधौ कृतात्वनिर्देश लेनानुमीयमानमात्वमपि प्राधान्यएव स्यान्न तु गौणतायामिति तदंशेप्यनुपपत्तिसाम्यात् । तस्माद, हलीत्युभयशेषश्चेन्न स्यादात्वं प्रियाष्टनः । टाडेङसिङसोसाम्सु तथैवौजसमौट्छसि । प्रागुक्तेषु तु पक्षेषु भवेदात्वममीष्वपि । फलभेदे महत्येवं कथं पक्षविकल्पनम् । अत्रोच्यते । प्रियाष्टन्शब्दस्याजादावात्वमनिष्टमेव । हलीत्युभयोः शेषस्य भाष्यएव सिद्धान्तितत्वात् । तथा सत्यौजसोः क्रमेणं प्रियाष्टानां प्रियाष्टान इत्येव रूपं स्यान्न तु प्रियाष्टौ प्रियाष्टा इत्यपीत्याशंक्य यथालक्षणमप्रयुक्ते इत्यभिहितत्वाच्च । अत एव यथालक्षणमिति प्रतीकमुपादाय न भवत्येवात्रात्वमित्यर्थ इति कैयटो ऽव्याख्यत् । एवं स्थिते प्राचीनाः पक्षा अपरितोषग्रस्ता एव व्यवस्थितविभाया गौणतायामजादिष्वात्वं न भवतीत्याशयेन वा योज्याः । उदार भाष्य कैयप्रामाण्यात् । तस्मात्प्रियानः सर्वेषु वचनेषु राजन्शब्दसाधारणं रूपं हलादौ तु हाहाशब्दसाधारणमपरं रूपम् । औश्नुटोस्तु प्राप्तिरेव नास्तीति प्रामाणि - णिकः पन्थाः । अत एव सर्वादीनि सर्वनामानीति सूत्रे हरदत्तेन गौणत्वऔन भवतीति स्पष्टमेवाभिहितम् । अत एवा - टाभ्य औशिति सूत्रे तदंतग्रहणमत्रेष्यते । परमाष्टावित्युक्त्वा प्रियाष्टान इत्यत्रात्वस्याभावादौश्न भवतीति का शिका संगच्छते । अत एव चाष्टन आविभक्ताविति सूत्रे तदन्तविधिश्वात्रेष्यते । प्रिया अष्टौ यस्य प्रियाष्टावित्यपि यथा स्यादिति काशिकाग्रंथोपि सङ्गच्छते । इलादावात्वस्य निर्वाधत्वात् । हरदतस्त्वष्टा
Page #197
--------------------------------------------------------------------------
________________
१ पा. ५ आ.
शब्दकौस्तुमः ।
१९७
भ्य औशिति सूत्रे प्रियाष्टान इत्यत्रेति वृत्तिग्रन्थमुपादाय यथा पुनर्गौणतायामात्वं न भवति तथा तद्विधावेव वक्ष्यतइति प्रतिज्ञायाष्टन आ विभक्ताविति सूत्रे एकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य तेनोपसर्जनेप्यष्टनि भवति तत्रापि विकल्पितत्वात् । प्रियाष्टा प्रियाष्टानौ प्रियाष्टानइत्यपि भवति । तत्राप्यात्वपक्षे भसंज्ञाविषये आतो लोपमिच्छंति प्रियाष्टः पश्येत्याद्यात्वाभावपक्षेप्यल्लोपे ष्टुत्वं मियाष्ट इति भवतीत्यंतेन ग्र न्थेन पूर्वप्रतिज्ञातार्थविपरीतं भाष्यवृत्त्यादिविरुद्धं च कथमभिहितवानिति तस्याशयं स एव प्रष्टव्यः । अल्लोपे ठुत्वमित्यपि तदुक्तिश्चिन्त्यैव । पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावेन ष्टुत्वायोगात् । न च पूर्वत्रासिद्धीये न स्थानवदिति निषेधः । तस्य दोषः संयोगादिलोपलवणत्वेष्विति सापवादत्वात् । ननु रषाभ्यां नो ण इति प्रतिपदोक्तं णत्वं तत्र गृह्यते न तु ष्टुत्वविधिलभ्यमपि विलंबितप्रतीतिकत्वादिति चेन्न । अपदान्तस्य मूर्धन्य इति सूत्रं संपूर्ण रषाभ्यामिति सूत्रे ऽनु. वर्त्य तत्रत्यस्य गग्रहणस्य पदांतस्येतिनिषेधसूत्रस्य च भाष्ये प्रत्याख्यातत्वात् । यथोत्तरं मुनीनां प्रामाण्यात् । न च मूर्द्धन्यशब्देन ष्टुशब्देन वा निर्वय॑माने णकारे वैषम्यमस्ति सत्रकाररीत्या कथंचित्संभवन्नपि न्यायोत्र भाष्यानुरोधात्त्याज्य एव । तथा च शपूर्वाः खय इति सूत्रे खपूर्वग्रहणं कर्त्तव्यमिति वातिकं प्रत्याचक्षाणो भगवानाह । अभ्यासजश्त्वचर्व सिद्धमित्येव एत्वतुग्ग्रहणं न कर्त्तव्यमिति । तथा च हलादिः शेषे कर्त्तव्ये तुकश्चुत्वेन निष्पन्नस्य चकारस्यापि चर्वेन सिद्धतयोचिच्छिषतीति रूपं सिद्धमिति तदाशयः कैयटेन वर्णितः। तदेकं प्रियाष्ट्न इत्यायेव रूपमुचितम् । न चैवं पूष्ण
Page #198
--------------------------------------------------------------------------
________________
१९८
. शब्दकौस्तुभः । [१ अ. इत्यादावपि नकार एव पठयेतेति वाच्यम् । तत्राट् कुप्वाङिति सूत्रेण णत्वप्रवृत्तेरिति दिक् ॥
डति च ॥ डत्यन्ता संख्या षद्संज्ञा स्यात् । कति सन्ति, कत्यद्राक्षीः । षट्वाज्जश्शसोर्लक् । संख्येतिकिम् । पातेर्डतिः पतयः। न चास्य संख्यासंज्ञापि स्यादिति वाच्यम् । वतुसाहचर्येण तत्र तद्धितस्यैव ग्रहणात् । इदं सूत्रं प्रत्याख्यातं भाष्ये । बहुगणवनुसंख्या । इति । संख्येत्यनुवर्तते। ततः ष्णान्ता षट् संख्या डतीत्युभयमप्यनुवर्तते । पूर्वसूत्रेप्यन्वर्थसंज्ञाविज्ञानात् । संख्याप्रश्नविषयस्यैव डग्रहणं न त्वौणादिकस्येति ॥ - तक्तवतू निष्ठा ॥ एतौ निष्ठासंज्ञौ स्तः । कृतः । कृतवान् । ननु विहितयोः प्रत्यययोरनेन संज्ञा । संज्ञया च विधानम् । वक्ष्यति हि तृतीये, निष्ठति । तथा चान्योन्याश्रय इति चेन्न । सूत्रशाटकवद्भाविसंज्ञाविज्ञानात् । तो भूते काले भवतो ययोविहितयोनिष्ठेत्येषा संज्ञा भविष्यतीति । स्यादेतत् । अनुबन्धाः कार्यार्थमुपादीयन्ते न तु श्रवणार्थ,तेषां लोपविधानात् । तथा च लुप्तानुबन्धस्य परिनिष्ठितस्य यत्र सारूप्यं तत्रक्वानुबन्धकार्य भवतु क्व वा नेति तु निश्चेतुमशक्यम् । न च काकादिवदुपलक्षणस्यापि व्यावर्तकता भविष्यतीति वाच्यम् । काकादिनापि हि वेदिका. पुण्डरीकादिकं स्थिरं किञ्चित्परिचाय्यते तद्वलाच्चोड्डीनेपिकाके व्यवहारो न सङ्कीर्यते । न चेह परिचेयान्तरमुपलभ्यते क्तप्रत्ययतन्प्रत्यययोः काकादिकल्पौ हि ककारनकारौ तदपगमे संवृत्ते तइत्यत्र परिचेयस्य परस्परव्यावृत्तस्य दुर्वचत्वादिति । अत्राहुः । कालकारकविशेषादयो अर्था एवात्र वेदिकापुण्डरीकादिस्थानापन्नास्तदर्शनाचानुबन्धस्मृतौ सत्यां तत्तत्प्रयुक्तं कार्य साधतया ज्ञायते । तथा लूनः शालिरिति केन चित्मयुक्त
Page #199
--------------------------------------------------------------------------
________________
१ पा. ६ आ. शब्दकौस्तुमः ।
१९९ लक्षणजेन कर्मभूतकालबलाक्तमत्ययो ऽयमिति निर्णीयते । लोतमालभेतेति प्रयुक्ते तु मेषवाची लोतशब्दस्तन्प्रत्ययान्तः प्रयुक्त इति निर्णीयते । हसिमृग्रिणवामिदमिलूपूर्विभ्यस्तनित्युणादिसूत्रात् । लोतः स्यादश्वमेषयोरिति तु पञ्चपादीवृत्तौ स्थितम् । तथा प्राभित्तघटं देवदत्त इति प्रयोगे कāकत्वाद्यवगमा. ल्लुङन्तस्यायं प्रयोगो न तु निष्ठान्तस्येति निर्णीयते । स्यादेतत् । अजिघृसिभ्यः क्त इति क्तमत्यये अक्तं घृतं सितामति व्युत्पादितम् । तत्रापि निष्ठा संज्ञा स्यात् । ततश्च निष्ठा च व्यजनादिति स्वरः स्यात् । निष्ठान्तं व्यकं संज्ञायामायुदातं स्यात्स चेदादिराकारो नेति सूत्रार्थः । न चेष्टापत्तिः । घृतं मिमिक्षइत्यादावन्तोदात्तस्यैव पठ्यमानत्वादिति । अत्राहुः । अतः कृकमीतिसूत्रे कमिग्रहणेनैव सिद्ध कंसग्रहणेन ज्ञापितमुणादयः क्व चिवुयत्पत्तिकार्य न लभन्तइति । अतो नात्र निष्ठा संज्ञेति । यद्वा घृतादीनां चेति फिदसूत्रेण सिद्धम् ॥ ___ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य
प्रथमे पादे पञ्चमान्हिकम् ॥ सर्वादीनि सर्वनामानि ॥ एतानि सर्वनामसंज्ञानि स्युः । तद्गुणसंविज्ञानोयं बहुव्रीहिः । तस्यान्यदार्थस्य गुणानां वर्तिपदार्थरूपाणां विशेषणानां कार्यान्वयितया संविज्ञानं यत्र स तद्गुणसंविज्ञानः । तत्र सर्व आदिर्येषां तानीति विग्रहः । तच्छब्दप्रयोगेणान्यपदार्थप्राधान्यं लभ्यते । एवं चित्रा गावो यस्य स इत्यादावपि । अन्यथा हि यस्य गावश्चित्रा इति गोशब्दार्थप्राधान्यं स्यात् । न चैवंविधेर्थे बहुव्रीहिरिष्यते । यत्तु वृत्तिवाक्ययोर्विशेष्यैक्यसम्पत्तये चित्राणां गवामयमित्यादि विग्रहवणनं मीमांसावाचिके कृतम् । तत्तु न मुनिवचसामनुकलम् ।
Page #200
--------------------------------------------------------------------------
________________
२००
शब्दकौस्तुभः । [१ अ० अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति वार्तिककृता वक्ष्यमाणत्वात् । भाष्यकृता च शेषो बहुव्रीहिरिति सूत्रे त्रिकतः शेषमाश्रित्य सू. त्राक्षरैरेवोक्तस्यार्थस्य साधितत्त्वात् । द्वितीया श्रितातीतादिभिस्तृतीया तत्कृतार्थेनेत्यादि क्रमेण हि षण्णां त्रिकाणां समास उक्तस्तदपेक्षया शेषः प्रथमारूपः त्रिकस्तस्यैव बहुव्रीहिसंज्ञेति वृष्टे देवे गत इत्यादेरिव चित्राणां गवामित्यस्यापि दुरापास्तंबहुव्रीहित्वम् । किञ्च मत्वर्थे बहुव्रीहिरिति कात्यायनवचनात्कथं चित्राणां गवामित्यत्र तत्प्रसक्तिः। ननु दण्डीत्यादावपि दण्डस्यायमिति विग्रहाभ्युपगमादस्मद्रीत्यायमेव मत्वर्थ इति चेत्तर्हि सुतरां मुनिवचनविरोधः । तदस्यास्त्यस्मिन्निति सूत्रेण प्रथमान्तादस्त्युपाधिकात्सबन्धिनि मतुम्विधानात् । समर्थानां प्रथमाइति सूत्रेण प्रथमनिर्दिष्टस्यैव प्रकृतित्वावधारणाच्च । नन्वेतान्यपि सूत्रवार्तिकभाष्यवचांसि कथं चिद्भक्त्वा नेष्याम इति चेत् । समर्थः पदविधिरित्यादीनि वीहिभिर्यजेतेत्यादिषु पदविधिभिन्नेष्वपि योजयित्वा सामर्थ्य च भाष्यादिसम्मताविपरीतमेव वर्णयन् भवादृशो निरंकुशः किंकिं न कुर्यात् । किन्तु व्याकरणाधिकरणे सिद्धान्तितं व्याकरणप्रामाण्यं कथं स्वेच्छया व्याकुलयसीति परम्पर्य्यनुयोगे समाधानं विभावय । तस्याचित्रा गावो यस्येत्येव विग्रहः सकलशिष्टसम्प्रदायसिद्धो मुनित्रयवचसामनुकूलश्चेति दिक् । आदिशब्दस्यावयववाचित्वादुद्भूतावयवभेदः समुदायः समासार्थस्तस्य च समुदायस्य युगपल्लक्ष्ये प्रयोगाभावादानर्थक्यात्तदङ्गेष्विति न्यायेन तदवयवेषु प्रवर्त्तमाना संज्ञा ऽविशेषात्सर्वशब्देपि प्रवर्त्ततइति युक्तं तद्गुणसंविज्ञानत्वम् । हलि सर्वेषामित्यादि निर्देशाश्वेह लिङ्गम् । जक्षित्यादयः षडिति सूत्रे तु जक्षिति योगं विभज्य जक्षेः संज्ञाविधानसा
Page #201
--------------------------------------------------------------------------
________________
२०१
१ पा. ६ आ. शब्दकौस्तुभः । मादेव इत्यादय इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । एतेन कतन्तेभ्यः कण्वादिभ्य इत्युभयत्रापि शकल शब्दसंग्रहार्थ यथा तत्पुरुषबहुव्रीह्योरेकशेष इति चतुर्थे वक्ष्यते । तथेहापि नपुंसकमनपुंसकेनेति वा स्वरभिन्नानां यस्योत्तरः स्वरविधिः स शिष्यतइति वा तत्पुरुषबहुव्रीह्योः सह विवक्षायां बहुव्रीहेः शेष इति परास्तम् । तद्गुणसंविज्ञानबहुव्रीहिणैव सर्वशब्दस्यापि संग्रहे सिद्ध एकशेषाश्रयणस्य गौरवपराहतत्वात् । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थ सर्वेषां नामानीति । तत्सामर्थ्याच्च सवार्थाभिधानसामर्थ्य विशिष्टानामेव संज्ञित्वमनुमीयते । तथा च तथाभूतानां गणे पाठस्यावश्यकतया प्रकरांतरजुषां च पाठे प्रमाणाभावादेव विशेषे ऽवस्थितानां संज्ञानामुपसर्जनानां च सवादित्वमेव नास्ति तेन तेषां गणकार्य संज्ञाप्रयुक्तकार्य चेत्युभयमपि न भवति । गणकार्य यथा त्यदादीनामः । तद् नाम कश्चित् । अतिक्रान्तस्तमतितत् । तथा ऽड्डतरादिभ्यः । अन्यमतिक्रांतमत्यन्यम् । अतिकतरम् । संज्ञाप्रयुक्तं यथा, सर्वनाम्नः स्मै । अतिसर्वाय । तदेतदभिप्रेत्योक्तं वार्तिककृता,संज्ञोपसर्जनमतिषेधः पाठात्पर्युदासः पठितानां संज्ञाकरणमिति। तस्मात्मसिद्धेन प्रवृत्तिनिमित्वेन प्रयुक्त इतरं प्रत्यनुपसर्जनीभूत एवेह संज्ञीति स्थितम् । यत्तु स्वरूपमात्राश्रयं कार्यं न तु गणपाठं संज्ञा वापेक्षते । यथा युष्मदस्मद्भया ङसोशित्यादि, तदुपसर्जनत्वपि भवत्येवेत्यवधेयम् । न चैवं युष्मद्युपपदइत्यादावपि त्वमादिप्रसङ्गः। लोकप्रसिद्धार्थपरतायामेव तत्मवृत्तेः । अभिव्यक्तपदार्था यइति न्यायात् । तदन्तग्रहणमत्र बोद्धव्यम् । द्वंद्वेचेति ज्ञापकात् । तच तत्रैव वक्ष्यते । प्रयोजनं सर्वनामाव्ययसंज्ञायामिति वार्तिकवचनाच । तेन परमसर्वतः परमसर्वत्र परमसर्वके इत्यत्र समस्तात्त
Page #202
--------------------------------------------------------------------------
________________
२०२ शब्दकौस्तुभः ।
[१ अ० सिल् त्रल् अकच्च सिद्धयति । न च तसिलादिविधौ प्रातिपदिकादित्यनुवृत्तेः सर्वनाम्ना च तद्विशेषणे तदन्तविधिर्भविष्य तीति वाच्यम् । समासप्रत्ययविधौ न तदन्तविधिरिति निषेधात् । न चैवमतिसर्वायेत्यादावतिप्रसङ्गः । उपसर्जनपर्युदासस्योक्तत्वात् । अत एव परमसर्वस्मा इत्यादौ स्मायादयो भवंत्येप। स्यादेतत् । असः अतस्मिन् अनेष इत्यादावप्यत्वसत्वस्मिनादीनि न स्युः। अतिसर्वइत्यत्रेवोपसर्जनत्वात् । तथा चाब्राह्मणइत्यादेाह्मणभिन्न इत्यादिक्रमेण पूर्वपदार्थप्राधान्येन विवरणं कुर्वन्ति । सत्यम् । वैयाकरणमते नसमासस्योत्तरपदार्थप्राधान्यमेव । नसूत्रे भाष्यकारेण तथैव सिद्धांतितत्वात् । तथाहि । आरोपितत्वं नअर्थः।तथा च मायामनुष्यमायामृगव्याजनिशाकरकपटब्राह्मणादिशब्देभ्य इव आरोपितो मिथ्याभूतोयं ब्राह्मण इत्येवं शाब्दबोधपर्यवसाने ब्राह्मणभिन्न इत्यादिकमार्थिकार्थविवरण न तु शाब्दोयमर्थः । अत एव एतत्तदोरिति सूत्रेऽनङ्समासइति सार्थकम् । अत एव चौत्सर्गिकी तत्पुरुषस्योत्तरपदार्थप्रधानतापि निर्वहतीति दिक् । ननु यदीह तदन्तविधिरिष्टस्तार्ह भाष्यविरोधः । तत्र हि संज्ञोपसर्जनप्रतिषेध इति वार्तिकस्य प्रत्याख्यानमुपक्रम्यार्थद्वारकं विभक्तिविशेषणमाश्रित्यातिप्रसंग उद्धृतः । सर्वनामार्थसमवेतसंख्याकारकायभिधायिनो डेः स्मै स्यादित्यादिनोक्तरीत्या तदंतविधौ सति त्वतिसर्वायत्यादौ समुदायस्य सर्वनामतयार्थद्वारकविभक्तियोगाश्रयणेपि स्मायादिप्रसंगस्तदवस्थ एव स्यादिति चेत् । सत्यम् । अत एवापरितोषाद्भाध्ये अथवा महतीयं संज्ञा क्रियतइति पक्षान्तरमुपन्यस्तामति गृहाण । ननु यदीयमन्वर्थसंज्ञा तर्हि पूर्वपदात्संज्ञायामग इति णत्वं स्यादिति चेत् । सत्यम् । अत एव निपातनाण्णत्वाभा
Page #203
--------------------------------------------------------------------------
________________
१ पा. ६ आ. शब्दकौस्तुभः ।
२०३ वः । सणवं तु रूपमसाध्वेव । निपातनेन णत्वशास्त्रस्य बाधित तत्वात् । अत एव शाश्वत्क इत्याचप्यसाध्वेव । येषां च विरोधः शाश्वतिक इति निपातनेनेसुसुक्तान्तादित्यस्य बाधितत्वात् । नन्वेवमपरस्पराः क्रियासातत्यइति निपातनेन सन्ततशब्दो बाध्येतेति चेन्न । तत्र सातत्यइत्यनेनैकदेशानुमतिद्वारा लुम्पेदवश्यमः कृत्य इति पूर्वाचार्य्यपठितस्य श्लोकस्यैव ज्ञापनात् । नन्वेवमपि पुराणमोक्तेषु ब्राह्मणकल्पेष्विति पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्नोति । सत्यम् । पृषोदरादिषु पुरातनशब्दस्य पाठो बोद्धव्यः । आगमशास्त्रस्याव्ययाटिलोपस्य चानि त्यतामात्रं पुराणति निर्देशेन ज्ञाप्यतइति तु तत्त्वम् । तदेवं बाधकान्येव निपातनानीति भाष्ये स्थितम् । यद्वा । नेदं संज्ञासूत्रम्, किन्तु गणशुद्धिमात्रफलकम् । यानि सर्वनामानि तान्येव सर्वादीनि न त्वितराण्यपीति व्याख्यानात् । यथा तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोगिते सूत्रे कुत्सनाभीक्ष्ण्ययोरिति योगं विभज्य गोत्रादीनीत्यनुवत्यैतयोरर्थयोर्यानि वर्तन्ते तान्येव गो. वादीनि इति गणशुद्धिपरतया व्याख्यास्यते तेन चनचिदिवगोत्रादितद्धिताम्रडितेष्वगतेः कुत्सने च सुप्यगोत्रादाविति सूअयोरपि विशिष्टार्थानामेव गोत्रादीनां ग्रहणं तथेहापि । ननूक्तरीत्या त्यदादनिाम इत्याद्यन्तर्गणकार्य सिद्धयतु सर्वनाम्नः स्मै इत्यादिकं तु कृत्स्नसकलादिशब्दष्वतिव्याप्तं स्यादिति चेन । गणपाठसामर्थ्यात्तत्र पठितानामेव ग्रहणात् । एतावानेव हि भेदः । यत्पूर्वोक्त पक्षे संज्ञा विधेया गणशुद्धिस्त्वार्थिकी आस्मिस्तु पक्षेगणशुद्धिःशाब्दी कृत्स्नादिव्यावृत्तिस्त्वदिति।अथवोभयमनेन क्रियते पाठशुद्धिः संज्ञा च ।तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणात् । तत्र सहविवक्षा विनापि वाचनिक एकशेषः । आकृतिप
Page #204
--------------------------------------------------------------------------
________________
२०४
शब्दकौस्तुभः । [१ अ ० क्षे हि प्रत्याख्यातं सरूपसूत्रमिको गुणवृद्धीत्यादिवच्छास्त्रप्रक्रियार्थ सत्सहविवक्षां विनाप्येकशेषं विधत्ते । तदित्यं पश्चापि पसाः स्थिताः । संज्ञाभूतानां व्यावृत्तिस्तु गौणमुख्यन्यायेनापि सिद्धयति । न चासौ पदकार्येष्वेवेति वाच्यम् । विशिष्टरूपोपादाने सर्वत्र तत्पत्तरित्युपपादितमोत्सूत्रे । वार्तकरीत्या त्वेकसंज्ञाधिकारे सर्वनामसंज्ञानन्तरमेकद्रव्यानिवेशिनी संज्ञेति संज्ञासंज्ञया सर्वनामसंज्ञा वाध्यतइत्यपि समाधानान्तरं बो. दव्यम् । यद्वा । पूर्वपरावरेति गणसूत्रेऽसंज्ञायामिति योग वि. भज्य पूर्वोत्तरयोः शेषो व्याख्येयः । उक्ताः सर्वादयो वक्ष्यमा. णाः स्वादयश्चासंज्ञायामिति । तस्मादुपसर्जनव्यावृत्तिरेवान्वर्थसंज्ञाश्रयणस्य मुख्यं फलम् । नन्वनुपसर्जनादिति योग प्र. कारान्तरेण व्याख्याय तबलेनैवान्तर्गणकार्य पारितं भाष्ये । तद्यथा । अनुपसर्जनेति लुप्तषष्ठीकं पदम् । अः आदिति च च्छेदः । अश्व अच्च तयोः समाहारः आत् । अकारात्परौ अ अत् इत्यादेशौ यत्र क्रियते तत्रानुपसर्जनस्य ग्रहणमिति परिभाषार्थः । तेन त्यदायत्वमड्डतरादिभ्य इत्यदड्भावश्च गौणता. यां न भवति । अकारात्परत्वेन विशेषणत्वं किम् । पञ्चम्या अत् युष्मानतिक्रान्तेभ्योतियुष्मत् । एकवचनस्य च युष्मानतिक्रान्तादतियुष्मत् । न ह्ययमकारात्परो विधीयतइति । तथा चोपसर्जनव्यावृत्तेरप्यन्यथासिद्धौ कि महासंज्ञयति चेन्न । अतिसर्वायत्यादिवारणस्य तदेकसाध्यत्वात् । न हीदमनुपसर्जनादित्यनेन साधयितुं शक्यते । एतदपरितोषादेव हि भा. ध्ये पक्षान्तराश्रयणमिति दिक् । एवं चानुपसर्जनादिति सूत्रं परिभाषात्वेनापि नोपयुज्यतइत्यर्थात्प्रत्याख्यानमेव भवतीत्यवधेयम् । स्यादेतत् । कौम्भकारेयसिद्धये सूत्रमारम्भणीयम् ।
Page #205
--------------------------------------------------------------------------
________________
२०५
१ पा. ६ आ. शब्दकौस्तुमः । तत्र हि कुम्भकारीशब्दादेव ढगुत्पादयितव्यः । अन्यथा कुम्भेत्युकारस्य वृद्धिने स्यात् । तथा च विशिष्टस्य स्त्रीप्रत्ययान्तताप्येच्या सा च तदैव निर्वहति । यदि टिड्ढाणनिति सूत्रे प्रत्ययग्रहणपरिभाषया ऽणित्यनेनाणन्तग्रहणे तेन च प्रातिपदिकविशेषणादण्णन्तान्तं प्रकृतिः स्यात् । तच्च समासप्रत्ययविधौ प्रतिषेध इति ग्रहणवता प्रातिपदिकेन तदन्तविधि!त च प्रतिषेधाहुर्लभम् । अनुपसर्जनादित्युपसर्जननिषेधसामर्थ्यातु प्रधानेन तदन्तविधौ ज्ञापिते कौम्भकारेयः सिद्धयतीति स्पष्टमेव । न च कृद्रहणे गतिकारकपूर्वस्यापीति परिभाषया कुम्भकारशब्दादेव स्त्रीप्रत्ययोस्त्विति वाच्यम् । अणिति हि त. द्वितोपि गृह्यते । औपगवीति यथा । कृद्रहणइति परिभाषा तु कृन्मात्रग्रहणे प्रवर्त्तते न तु कुदकुद्हणे, प्येवमर्थमेवेदं सूत्रमिति भाष्यकृतैव चतुर्थे स्थापयिष्यते । तत्कथमिहोक्तमनुपसर्जनादित्ययं योगः प्रत्याख्यायतइति । अत्रोच्यते । चतुर्थेसूत्रकाराभिप्रायवर्णनमात्रं करिष्यते । निष्कर्षे तु क्रियमाणे मू
वैयर्थ्यमेवायातीत्याशयेनेह भगवतोक्तं प्रत्याख्यायतइति । तथाहि । कारशब्दान्डीबुत्पत्तावपि कौम्भकारेयः सिध्यत्येव ष्यङः सम्प्रसारणमित्यत्र भाष्यकृता पठिष्यमाणया वाचनिक्या स्त्रीप्रत्यये चानुपसर्जनेनेति परिभाषयानुपसर्जने स्त्रीपत्यये तदादिनियमनिषेधेन कुम्भकारीशब्दाडगुत्पत्तेः । अत एव हि परमकारीषगन्धीपुत्र इत्यत्र व्यङन्तस्योच्यमानं सम्पसारणं परमकारीषगन्ध्याशब्दस्यापि भवत्येव । न चैवमतिकारीषगन्ध्यापुत्र इत्यादावतिप्रसङ्गः। अनुपसर्जनइत्युक्तत्वनापेसर्जने तदादिनियमनत्वात् । न चैवमर्धपिप्पलीत्यादी हल्ल्या . दिलोपो न स्यादिति वाच्यम् । हल्यादिसूत्रे दीर्घग्रहण
Page #206
--------------------------------------------------------------------------
________________
२०६
शब्दकौस्तुभः । [१ अ० सामर्थन तत्रोपसर्जनेनापि तदादिनियमो नास्तीति ज्ञापितस्वात् । वस्तुतस्तु निष्कौशाम्ब्यादौ समुदायस्याङ्यावन्तत्वेप्यवयवस्य ङयावन्ततया ततः परस्य सोलॊपप्राप्त तज्ज्ञापकम् । अर्द्धपिप्पल्यादावण्यवयवस्य ड्यन्ततयैव निर्वाहः । न च विहितविशेषणता वक्तुं शक्या। या सेत्यादावव्याप्तेः। न च तत्र हलन्ताद्विहितत्वेन निर्वाहः । कर्ता हर्तेत्यादावलोपापत्तेः । यः स इत्यादौ लोपापत्तेश्च । यद्वा । सुतिसीतिप्रत्ययः प्रकृतिराक्षिप्यते हलंत्यसूत्रे कैयटग्रन्थनिर्वाहाय विवरणे तथैव वर्णानात् । एवं च ज्ञापकं सुस्थमेकदेशस्याप्रकृतित्वात् । अत एव पंचमसमाप्तौ गोस्त्रियोरुपसर्जनस्यति सूत्रे च कैयटेन ज्ञापकत्वपक्ष एवोक्तः । ननूभयथापि माला दृष्टत्यादौ समुदायादावन्तत्वप्रयुक्तः सुः स्यात्ततश्चैकपद्यैकस्वर्ययोरापत्तिः । एकवाक्यतया विधिरिति पक्षेपि पचतिकल्पमित्यादिसिद्धयएकवचनमुत्सर्ग:इत्यस्यावश्याश्रयणीयत्वादिति चेन्नाड्याग्रहणस्यान्यार्थतया यथा कथंचित्पातिपदिकग्रहणे लिङ्गविशिष्टग्रहणेन ड्यावन्त: त्वात्सुबुत्पत्तेश्च वक्ष्यमाणत्वात् । इह च समुदायस्याप्रातिपदिकत्वात् । अर्थवत्समुदायानां समासग्रहणं नियमार्थमिति हि स्थास्यति । न चैवमपि कदा चित्कारीशब्दाड्ढक् स्यादेवेति वाच्यम् । एकाद्विर्वचनन्यायेन समुदायादेवोत्पत्तेः । कुम्भेनैकाथीभूतस्य निष्कृष्यापत्येन योग इति वक्तुमशक्यत्वाच्च । किइच मूत्रमारभमाणस्याप्येषैव गतिः। औपगवीत्यादाविव केवलात्कारशब्दादपि कदाचिन्ङीप्प्रसंगेन कौंभकारये पाक्षिकदोषस्य त्वत्पक्षेपि तुल्यत्वात् । स्यादेतत् । अक्रियमाणेस्मिन्सूत्रे कुम्भकारीत्यत्र ङीवेव न स्यात् । कुम्भेनैकार्थीभूतस्याणंतस्य स्त्रीत्वेनायोगात् । यस्य च स्त्रीत्वेन योगो विशिष्टस्य, न तद
Page #207
--------------------------------------------------------------------------
________________
१ पा. ६ आ. शब्दकौस्तुभः ।
२०७ णन्तम् । तस्मादमहत्पूर्वादिति निषेधेन ज्ञाप्यमानस्तदन्तविधिरुत्तरत्राप्यभ्युपगन्तव्यः। स च यथा पूर्वत्रोपसर्जनेनापि भवति न पदस्वस्त्रादिभ्यः, प्रियपंचा द्रौपदी, वनोरच, अतिधीवरीति तथा टिदादावपि स्यात् । ततश्च बहुकुरुचरेत्यादावतिमा सङ्गः । अतो निषेधसूत्रमिदं सार्थकम् । ननु पूर्वत्रोपात्तं तदन्तं च स्त्रियामित्यनेन विशेष्यते टिवाणनित्यादौ तूपात्तं टिदादिकमेव तेन बहुकुरुचरेत्यादौ टिदादेरस्त्रीत्वान डीप् । कुम्भकारीत्यादौ त्वणन्तस्य स्त्रियां वृत्तेस्तदन्तादपि डीप भविष्यतीति चेन्न। एतद्विषयविभागस्य दुरूहतया तज्ज्ञानार्थमेव सूत्रारम्भस्यो. चितत्वात् । नैतदेवम् । आरब्धेप्यस्मिन्सूत्रे व्याख्यानस्यैव शरणीयत्वात् । अन्यथा पंचाजीत्यत्राजानामस्त्रीत्वोपि तदन्तस्य स्त्रियां वृत्त्या टाप्पसङ्गात् । अतो विशेषणविशेष्यभावं प्रति कामचारादजायतष्टाबित्यत्र रिहाणवित्यादौ चोपात्तं स्त्रीत्वेन विशेष्यते वनोरचेत्यादौ तूपात्तं तदन्तं चेति सकलेष्टसिद्धेः सूत्र व्यर्थमेव । स्यादेतत् । तदन्तविधिज्ञापनार्थमेवेदं सूत्रमारम्भणीयम् । न चामहत्पूर्वेत्यनेनैव तत्सिद्धिरिति वाच्यम् । तस्य शा. पकत्वायोगात् । पंचाजीत्यादिसिद्धयर्थमजादिभिः स्त्रीत्वं विशेष्यतइति हि वक्ष्यते । तथा च महाशूद्रीत्यत्र समुदायस्व खिया वृत्तावप्यवयवस्यातथात्वेन सत्यपि तदन्तविधौ टापनमाप्नोनीति कथं तदन्तविधि ज्ञापयित्वा निषेधः पर्यवस्पेत् । मैषम् । इतरैरजादिभिः स्त्रीत्वविशेषणेपि शूद्रशब्देनाविशेषणात् । एवं च स्पष्टमेव बापकपर्यवसानम् । न चैवं पंचशूद्रीत्यत्रापि प्रसनः। जातिरित्यनेन शूद्रस्य विशेषणात् । स्यादेतत् । पूर्वसूत्रनिर्देशो वापिशलमधीतइतीति कात्यायनोक्तरीत्या सूत्रं सार्थकम् । तथाहि । अप्रधानमुपसर्जनम् । तथैव, पूर्वाचार्यसूत्रेषु लोके च व्यव
Page #208
--------------------------------------------------------------------------
________________
२०८.
शब्द कौस्तुभः ।
[ १ अ० हारात् । ततश्चापिशलिना प्रोक्त, मिञश्चेत्यण । ततोध्येत्र्यां तदधीतइत्यण् तस्य प्रोक्ताल्लुगिति लुक्। आपिशला ब्राह्मणी अत्र प्रोक्तार्थस्याणो प्रधानत्वा तदन्तान ङीप् । अण् यः अः अनुपसर्जन मप्रधानमिति विशेषणात् । न चैवमप्यधे त्र्यामुत्पन्नस्याणोनुपसर्जनतया तदाश्रयो ङीप् स्यादेवेति वाच्यम् । तस्य लुप्तत्वात् । न च प्रत्ययलक्षणं शक्यम् । वर्णाश्रये तनिषेधात् । टिड्ढाणमित्यत्र ह्यत इत्यनुवर्तते । अणा च अकारो विशेष्यते । अण्यो ऽकार इति न तु विपरीतो विशेषणविशेष्यभावः । वर्णस्याप्राधान्ये प्रत्ययलक्षणापत्तेः अतृणेडित्यत्र तृणह इम्वत् । ननु स्त्रियामित्यनेनाणो विशेषणानोक्तदोष इति चेन्न । काशकृत्स्निना प्रोता मीमांसा काशकृत्स्नी तामधीते काशकृत्स्ना ब्राह्मणी । अत्र द्वितीयेणि प्रोक्ताल्लुगिति लुप्ते प्रथमोप्यण स्त्रियामेवोत्पन्न इति तदन्ताद्ब्राह्मण्यां वर्त्तमानान् ङीप् स्यात् । तस्मात्प्रधानाद्यथा स्यादधानान्मा भूदित्येतदर्थमारंभणीयं सूत्रमिति । अत्रोच्यच्यते । अध्येष्यामभिधेयायामण ईकारेण भवितव्यम् । यश्चेहाध्ये त्र्याणुत्पन्नः स लुप्त एव । यश्च श्रूयते । तस्मादीकार उत्पन्नो लुप्तश्चेति पुनर्न भवति सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात् । तस्मादनुपसर्जनादित्ययं योगः प्रत्याख्यातइति भगवदुक्तिर्निर्बाधैवेति दिक् । सर्वादयश्च पंचत्रिंशत् । सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्त्रमज्ञातिधनाख्यायाम् । अन्तरंच हिर्योगोपसंव्यानयोः | त्यद् तद् यद् एतद् इदम् अदस एक द्वि युष्मद् अस्मद् भवतु किम् इति । तत्र सर्वविश्वशब्दौ कृत्स्नपर्यायौ सर्वशब्दस्य स्वांगारी - टामित्याद्युदात्तत्वे प्राप्तोदात्ततत्वं गणे निपात्यते तेन सर्वेषां वि
Page #209
--------------------------------------------------------------------------
________________
१ पा. ६ आ.
शब्दकौस्तुभः ।
कार इत्यत्रानुदात्तादेरव् सिद्धः स धनुदात्तादिप्रकृतिकाद्विधीयतइति ङयापसूत्रे भाष्ये स्थितं, प्रयोगे तु सर्वस्य सुपीत्यादात्त एव । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । यद्येवं तर्हि किमर्थमसौ सर्वादिषु पठ्यते । न ह्यत्र स्मायादयः सम्भवन्ति । काकचोस्तु नास्ति रूपे स्वरे : वा विशेषः । अवग्रहस्तु कप्रत्ययेपि पदकारैर्न क्रियते, चित्र इद्राजा राजका इदन्यके इत्यादौ तथैव निर्णीतत्वात् । न चोभाभ्यां हेतुभ्यामुभयोर्हेत्वोरित्यत्र सर्वनाम्नस्तृतीयाचेति पाक्षिकतृतीयासिद्ध्यर्थ इहपाठ इति वाच्यम् । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमिति वार्तिकेन गतार्थत्वात् । न च वृत्तिकृता सर्वनामनस्तृतीया चेति सूत्रे पठितत्वादिदं वार्त्तिकमपि सर्वनामसंज्ञासापेक्षमेत्रेति वाच्यम् । भाष्ये हेताविति सूत्रे तस्य पठितत्वात् । अत एवान्नेन कारणेन वसत्यन्नस्य कारणस्येत्युदाहृतं हरदत्तेन । अत्रोच्यते । उभशब्दस्तावद् द्विवचनमात्रविषयः । वृत्तौ तु द्विवच-नलोपाभासौ प्रज्युयते । उभाभ्यां पक्षाभ्यां विनीतनिद्रा इति विग्रहे उभयपक्षेत्यादिप्रयोगदर्शनात् । कथं तर्हि उभस्थाने उभ यशब्दसिद्धिरिति चेत् । इत्थम् । उभादुदात्तो नित्यमित्यत्रोभादिति योगो विभज्यते । अवयववृत्तेः संख्यावाचिन उभशब्दादवयविन्यर्थे अयच् स्यात् उभयोमणिः । ततो नित्यम् । उभशब्दावृत्तिविषये नित्यमयच् स्यात् । अनिर्दिष्टार्थत्वात्स्वार्थे | तदेतदुक्तं वार्त्तिककृता उभयोन्यत्रेति । एवं स्थिते उभयत उभयत्यादाविव कप्रत्ययेप्युभय एव प्राप्तः । अकचि तूभकावित्यादि सिद्धयति । न चेहाप्युभयइति स्यादेवेति वाच्यम् । अकजये सर्वादिषु पाठेनायचो बाधात्, अन्यथा पाठवैयर्थ्यापत्तेरिति दिक् । स्वाङ्गशिटामदन्तानामित्याद्युदात्तार्थं पाठ इति तु न
1
.
२७
२०९
Page #210
--------------------------------------------------------------------------
________________
२१००
शब्दकौस्तुभः ।
। १ अ० युक्तम् । गणएवान्तोदात्तस्य निपात्यमानत्वात् । अन्यथोमे भद्रे जोषयेते,उभाउ नूनम् । उभाभ्यां देव सविता,सपत्यतउभयोन॒म्णमयो,रित्यादावादात्तप्रसङ्गात् । उभयशब्दस्त्ववयवदयारब्धे ऽवयविनि वर्तते उभयो मणिरिति यथा, श्यामलोहिताभ्यामवयवाभ्यामारब्ध इत्यर्थः। तिरोहितावयवभेदत्वादेकवचनम् । उभयमेव वदन्ति मनीषिण इत्यादौ तु समुदायद्वयघटित: समुदायोर्थः । तिरोहितावयवभेदत्वं तु तुल्यमेव । यदा तु वर्गद्वयारब्धे महासमुदाये वर्तते तदा वय॑भिन्न वर्गद्वयन महाभेदविवक्षयोद्भूतावयवभेदत्वादहुवचनान्त एव,उभये देवमनुष्याः। तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपा इति यथा । यदा तु मागुक्तरीत्योभयो मणिरिति व्युत्पाद्य तादृशमेव मणिद्वयं सह विवक्ष्यते । तदैकशेषेण द्विवचनं प्राप्नोति । अनभिधानात्त न भवति । तथा च तद्धितश्चासर्वविभक्तिरिति सूत्रे कृत्तद्धितानां ग्रहणं च पाठइति भाष्यमवतारयन्कैयट आह । उभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तित्वमिति । हरदत्तस्तु तस्मिन्नेव सूत्रे उभयशब्दाद द्विवचनमंगीकृत्य पाठाश्रयणं तु पचतिकल्पं पचतिरूपमित्यादावतिप्रसंग वारयितुमित्याह । इहायजादेशस्य स्थानिवद्भावेन तयपत्ययान्ततया प्रथमचरमेति सूत्रेण जसि विभाषा प्राप्नोति व्यवस्थितविभाषया पूर्वविप्रतिषेधेन का नित्यमेव जसि सर्वनामतेति के चित् । विभक्तिनिरपेक्षत्वेनान्तरङ्गया नित्यसंज्ञया बहिरङ्गा वैकल्पिकी बाध्यतइति तु सिद्धान्तः । न वेति विभाषति सूत्रे भाध्यकारस्त्वाह । अयच् प्रत्ययान्तरमेव न त्वसौ तयस्यादेश उ. भानुदास इति सूत्रे तयपो ऽननुत्तेः । न चैवमुभयीत्यत्र टि. ड्ढाणनिति सूत्रेण तयबन्तत्वप्रयुक्तो डीप् न स्यादिति वाच्य
Page #211
--------------------------------------------------------------------------
________________
१ पा. ६: आ. शब्दकौस्तुमः। २११ म् । तत्र मात्रजिति मात्रशब्दात्मभूत्ययचश्वकारेण प्रत्याहारग्रहणात् । एवं च तयग्रहणमपि न तत्र कार्यम् । यद्वा द्वयसजिति प्रत्याहारः। तथा च दनज्मात्रचोरपि ग्रहणं न कर्तव्यमिति महदेव लाघवम् । वस्तुतस्तु प्रमाणे मात्रच्यसच्दघ्नच इति पाठ्यमिति भाष्याशयः । तथा च ततोपि लाघवम् । न चैवं कति स्त्रिय इत्यत्रातिप्रसङ्गः । अत इत्यनुः वृत्तेः, न षस्वस्रादिभ्य इति निषेधाद्वा । न चैवं तैलमांत्रेत्यादावतिप्रसङ्गः । सदृशस्याप्यस्य प्रत्याहारे ऽसन्निविष्टत्वादिति । अत्र कश्चित् । उभयेत्यर्थपरो निर्देशः । तेन व्यर्थी द्वयेषामपि मेदिनीभृतामिति माघप्रयोगः समर्थितो भवतीत्याह । तन्न । अर्थपरतायां वृत्तिकाराघभियुक्तवचनानुपलम्भात् । महाकविप्रयोगवलादेव कल्प्यतइति चेत् । न । महाकविभिरेव तद्विपरीतस्य बहुशः प्रयोगात् । तथा च माघः । गुरुदयाय गुरुणोरिति । कालिदासोपि । अस्मिन् द्वये रूपविधानयत्न इति । श्रीहर्षश्च । अये ममोदासितमेव जिव्हया द्वयपि तस्मिन नतिप्रयोजन इति । तस्माद् द्वयं द्वैधमिष्यन्ति गच्छन्तीति द्वयेषस्तेषां द्वयेषामितीषेः किवन्तस्य रूपं बोध्यम् । यत्तु कश्चिदाह । चाक्रवर्मणव्याकरणे द्वयशब्दस्यापि सर्वनामताभ्युपगमात्तद्रीत्याय प्रयोग इति । तदपि न । मुनित्रयमतेनेदानी साध्वसाधुविभागस्तस्यैवेदानींतनशिष्टर्वेदाङ्गतया परिगृहीतत्वात् । दृश्यन्ते हि नियतकालाः स्मृतयः । यथा कलौ पाराशरस्मूतिरित्यादीति शताच्च ठन्यतावशतइति सूत्रे सर्वैकवाक्यतया सिद्धान्तितत्वात् । डतरडतमौ प्रत्ययौ । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति तथापीह प्रयोजनं सर्वनामाव्ययसंज्ञायामिति वाचनिकस्तदन्तविधिः केवलयोः संज्ञाया:
Page #212
--------------------------------------------------------------------------
________________
२१२ . शब्दकौस्तुभः । [१ अ. प्रयोजनाभावाद्वा । अन्यो भिन्नः । अन्यतरान्यतमशब्दावव्युत्पनौ स्वभावात् द्विबहुविषये निर्धारणे वर्तते इति पस्पशायां कैयटः । । तत्रान्यतमशब्दस्य गणे पाठाभावान सर्वनामकार्यम् । नाप्यतरादिभ्य इत्याधन्तर्गणकार्यम् । तथा च प्रयुज्यते न तावत्सामान्यादिष्वन्यतमं तम इति । शाकटायनस्त्वन्यतरान्यतमौ इतरडतमान्तौ व्युत्पादितवान् । तन्मतेप्य न्यतरशब्दपाठस्य नियमार्थत्वादन्यतमशब्दोन्तर्गणकार्य सर्वनामसंज्ञाकार्य च न लभ्यतइति तयाख्यातारः । इत. रस्त्वन्यनीचयोरित्यमरः । त्व त्व इति द्वावप्यदन्तावन्यपर्यायौ, तत्रैक उदात्तः परो ऽनुदात्तः। एतं त्वं मन्ये दश पुत्रमुत्समित्युदात्तस्य प्रयोगः । उत त्वः पश्यनित्यादिरनुदात्तस्येति 'विवेकः । के चित्तु त्वदिति तान्तमेकं पठन्ति । तथा च जयदेवः प्रायुंक्त । त्वदधरमधुरमधूनि पिबन्तमिति । त्वत्तोन्यस्या अधर इति षष्ठीतत्पुरुषो न तु तवाधरस्त्वदधर इति । पश्यति दिशिदिशि रहसि भवन्तमिति पूर्ववाक्येन सहानन्ययापत्तेः।अनुदात्तश्चायम्।त्वत्वसमसिमेत्यनुच्चानीति फिदसूत्रात् । तथा च प्रयुज्यते स्तरीरुत्वद्भवति सूत उत्वादिति । त्वदिति सर्वनाम पठितोनुदात्तोयमन्यपर्याय इति तद्व्याख्यायां वेदभाष्यकाराः । इह मागुक्तरीत्योदात्तानुदात्तयोरकारान्त. योरनुदात्तस्य तकारान्तस्य च प्रामाणिकत्वं निर्विवादमेव । गणपाठे परं विप्रतिपत्तिः । तत्राप्यनुदात्तस्याकारान्तस्य ग"णपाठे न संशयः । उतो त्वस्मै तन्वमित्यादिप्रयोगात् । अवशिष्टयोर्मध्ये कतरस्य गणे पाठ इति तु संशयोदात्तप्रयोगाणां तत्रौदासीन्यात् । तस्मात्तान्तस्याकजादिकमुदात्तस्य वा स्मायादिकं क्वचिच्छाखायां प्रयुज्यते नवेति विभा.
Page #213
--------------------------------------------------------------------------
________________
१ पा.६ आ. शब्दकौस्तुमः। व्य तत्वं निर्णेयं बहुश्रुतरिति दिक् । वस्तुतस्त्वाद्यस्य तान्तच्छेद एव युक्तः । अन्यथा ऐक्ष्वाकशब्द इव स्वरसर्वना म्ना एकश्रुत्योभयसङ्ग्रहसम्भवावशब्दमेकमेवापठिष्यदिति ध्येयम् । त्वे वसूनि त्वे राय इत्यादयस्तु शेपत्ययान्तस्य युष्मदः प्रयोगो न तु त्वशब्दस्य। पदकारैः प्रगृह्यत्वप्रयुक्तस्येति शब्दस्य प्रयोगादिति स्थितं वेदभाष्ये । नेम इत्य प्रयोगश्व, प्रनेमस्मिन्ददृशे सोम इति । समः सर्वपर्यायः । नभन्ता. मन्यके समे । मानोवृकायवृक्येसमस्मै । उरुष्याणो अवायत: समस्मात् । उतोसमस्मिन् । तुल्यपयोयस्य तु समशब्दस्य न सर्वनामता । यथासंख्यमनुदेशः समानामिति ज्ञापकात् । कृन्मेजन्त इति सूत्रे एते दोषाःसमा भूयांसो वति भाष्यकारप्रयोगाच । एतेन समे यजतोत प्रयोगो व्याख्यातः । सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोरिति निघण्टुः । आद्रात्रीवासस्तनुते सिमस्मै । उच्छुक्रमकमजते सिमस्मात् । यद्यपीह त्वस्वसमसिमेत्यनुच्चानाति प्राप्तं तथापि सिमस्याथर्वणेन्त उदात्त इत्युदात्तता । अथर्ववेदप्रविष्टे मन्त्रे ऋग्वेदादिगतेपीत्यभियुक्तव्याख्यातत्वादित्यवधेयम्।पूर्वपरावरोत्तरापराःपंचदिक्कालयोस्तदवच्छिन्ने च । पूर्वस्यां दिशि पूर्वस्मिन्काले पूर्वस्यां वाप्याम् पूर्वस्मिन्गुरावित्यादि । दक्षिणाधरशब्दौ दिशि तदवच्छि. ने च । अर्थनियमचायं व्यवस्थायामित्युक्तेर्गम्यते । स्वाभिधेयेनापेक्ष्यमाणस्यावधेनियमो हि व्यवस्था । पूर्वादिशब्दानामुक्तोर्थो हि नियमेन कं चिदवधिमपेक्षते । स्थागापापचो भावइति क्तिनि प्राप्ते ऽत एव निपातनादङ् । व्यवस्थायां किम् । दक्षिणा गाथकाः । प्रवीणा इत्यर्थः । अधरे ताम्बूलरागः उत्तरे प्रत्युत्तरे वा शक्तः । कथं तार्ह तथा परेषां युधि चति कालिदासः ।
Page #214
--------------------------------------------------------------------------
________________
२१४
शब्दकौस्तुभः । [१ अ. अपरे प्रत्यवतिष्ठन्ते इत्यादि च । अत्राहुः । देशवाचितया व्यवस्थाविषयगोरेव परापरशब्दयोपचाराच्छत्रौ प्रतिधादिनि च प्रयोगः । न चैवमुपसर्जनता । न हि लाक्षणिकत्वमुपसर्जनलं किन्तु स्वार्थविशिष्टातिरसंक्रमः । स तु न वृत्तिमविष्टस्यापि प्रधानस्य न वा लाक्षणिकस्यापि . त्तिमप्रविष्टस्य । अत एव तस्मादहिमानित्यादौ ज्ञानलक्षणापक्षेपि सर्वनामकार्य,नयोहंसोसौ योसौसाहमित्यत्र भागत्यागलक्षणायामपि सर्वनामकार्यप्रवृत्तिरिति । भूवादिसूत्रएतान्यपीत्येतत्मतिपाद्यानि वस्तूनीत्यर्थ इति कैयटश्च । वस्तुतस्त्वत्र शत्रुत्वादिप्रकारकोबोधोऽनधादिशब्देभ्यो मित्रत्वादेरिवार्थिक शब्दात्तु देशान्तरनिष्ठत्वादिप्रकारक एवेति तत्त्वम् । असंज्ञायाङ्गिम् । उत्तराः कुरवः । सुमेरुमवधिमपेक्ष्य कुरुघूत्तरशब्दो वर्त्ततइत्यस्तीह व्यवस्था । प्रसिद्धस्वात्तु नावधेः प्रयोगः, मेघो वर्षतीत्यत्र जलस्य यथा । एवन्दिशः सपत्नी भव दक्षिणस्या इत्यादावपि वस्तुतो व्यवस्थास्तीति सर्वनामकार्य सम्भवत्येव । न च सं. ज्ञात्वानिषेधः । आधुनिकसङ्केतो हि संझा, न च दिक्षु सास्तीति पञ्चमे ऽस्तातिप्रकरणे कैयटहरदत्तादयः । अत्र दिक्षु चिरन्तनः कुरुषु त्वाधुनिकः सङ्केत इत्यत्र व्याख्यातृवचनमेव प्रमाणम् । स्वशब्दस्य चत्वारोथाः । आत्मा आत्मीयो ज्ञातिर्धनं चेति । स्वो ज्ञातावात्मनि स्वं त्रिष्यात्मीये स्वो ऽस्त्रि.यां धनइत्यमरः । यद्यपि स्वामिन्नैश्वर्यइति सूत्रे ईश्वरत्ववाच्यपि स्वशब्दः स्वीकृतस्तथाप्यसौ मत्वर्थीयामिनिष्प्रत्ययमात्रविषयो न तु केवलः प्रयोगाईः । तत्र ज्ञातिधनयोनिषेधादात्मात्मीययोरेव संज्ञा । आख्याग्रहणं किम् । आत्मीयत्वं पुरस्कृत्य ज्ञातिधनयोरपि प्रवृत्तौ सर्वनामता यथा स्यात् । आ
Page #215
--------------------------------------------------------------------------
________________
२१५
१ पा. ६ आ. शब्दकौस्तुभः । स्मात्मीययोरित्येव तु वक्तुमिहोचितम् । स्वस्मै इत्यादि । जसि विभाषाविधायके. ऽष्टाध्यायीस्थे मूत्रप्येवम् । यत्तु तत्र स्वमात्मीयइत्येव वक्तुमुचितमात्मवाचिनो नपुंसकतया जसि विभाषायामुपयोगाभावादिति के चित् । तच्चिन्त्यम् । सूत्रसामादेवात्मन्यपि पुंस्त्वलाभात् । अत एवामरकोशेप्यात्मनीति पूर्वान्वयि स्वमिति तूत्तरान्वयि । तथा च हेमचन्द्रः । चौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने इति । मेदिनीकारोपि । स्वः स्यात्पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीये स्त्रियां धनइति । वस्तुनस्तु पूर्वपरेत्यादित्रिसूत्र्यामर्थनिर्देशः पाठविशेषणम् । तेनेतरेषां पाठादेव पर्युदासः । तथा च विभाषा जसीति प्रकरणे पूर्वादीनि नवेत्येव लाघवात्कर्तव्यम् । त्रिसूत्री तु न पठनीयैवेति निष्कर्षः । अथवा गणपाठ एव पूर्वादिनवकपाठानन्तरं विभाषाजसीति कर्त्तव्यं पूर्वादीनि चार्थविशिष्टान्यनुवर्तनीयानि । न च सर्वादीनामप्यनुवृत्तिः शङ्कया । नेमस्य जसि विभाषारम्भात् । यद्वा । जस्ङसिङीना शिस्मास्मिनः,पूर्वादिभ्यो नवभ्यो वा, औङ आपः शी, नपुंसकाच्चति, ससमे न्यासः कर्त्तव्यः । परमार्थस्तु सप्तमे यथान्यासमेवास्तु । पू. वादिभ्यो नवभ्यो वेत्येतत्तु जसः शीत्यत्रानुवर्त्य वाक्यभेदेन सम्भन्त्स्यते वाछंदसीत्येतदमिपूर्व इत्यत्र यथा, तथा चेयं त्रिसू. त्री अष्टाध्याय्यां न पाठ्येति स्थितम् । असंज्ञायामिति तु नकाथमन्वर्थसंज्ञयाभिव्यक्तपदार्था यइति न्यायेन वा संज्ञाया व्युदस्तत्वात् । अन्तरशब्दस्तु नानार्थः । तथा चामरः । अन्तरमवकाशावधिपरिधानान्तार्द्धभेदतादर्थे । छिद्रात्मीयविनाबहिरवसरमध्येन्तरात्मनि चेति । तत्र बहिर्योगोपसंव्यानयोरेवार्थयोः संज्ञा । बहिरित्यनावृत्तो देशो बाह्यं चोच्यते । तत्राये अन्त
Page #216
--------------------------------------------------------------------------
________________
२१६
शब्दकौस्तुभः ।
[ १ अ०
रे अन्तरा वा गृहाः । नगरबाबा चाण्डालादिगृद्दा इत्यर्थः । द्वितीये नगराभ्यन्तरगृहा इत्यर्थः । उपसंव्यानशब्दोपि करणव्युस्पत्योत्तरीयपरः । कर्मव्युत्पच्या त्वन्तरीयपरः । उभयथापि बहिर्योगेण गतार्थत्वात् । उपसंव्यानग्रहणं न कर्त्तव्यमिति भा ये स्थितम् । केचित्तु शाटकानां त्रये शरीरसंयुक्तस्य तृतीयस्य चतुष्टये तु चतुर्थस्य तत्संयुक्तस्य वा तृतीयस्य वहिर्योगाभावादुपसंव्यानग्रहणं कर्त्तव्यं शाटकयुगाद्यर्थमिति वदतो वार्त्तिककारस्याप्ययमेवाशय आदिशब्दवलादवगम्यते । भाष्यमते तु बहिर्योगग्रहणं स्वर्यते तेन शीतोष्णास्यां कारिणीत्यादाविव गौणग्रहणात्परंपरया बाह्यसंबद्धस्यापि भविष्यतीत्याहुः । सत्यपि बहिर्योगे पुरीविषयतायां न सर्वनामता, अपुरीति च वक्तव्य - मिति वार्त्तिकात् । तद्धि गणसूत्रस्य शेषो न तु जसि विभाषाविधायकस्य अत इत्यधिकृत्य जसः शीविधानादाबन्तात्प्राप्त्यभावात् । अन्तरायां पुरि, प्राकाराद्वाह्यायां तदन्तर्वर्त्तिन्यां वेत्यर्थः । लिङ्गविशिष्टपरिभाषयैकादेशस्य पूर्वान्तग्रहणेन ग्रहणाद्वा प्राप्तिर्बोध्या । त्यत्र तद् एतौ पूर्वोक्तपरामर्शको, तत्राद्यश्छान्द.सः । एषस्यभानुरिति गणरत्नकारस्तन्न । तथा सति स्यश्छन्दसि बहुलमिति सूत्रे छन्दोग्रहणवैयर्थ्यापत्तेः । यदुद्देश्य समर्पकः । एतदिदमौ प्रत्यक्षोपस्थिते । अदस् व्यवहिते । एको Sन्यार्थे मधाने च प्रथमे केवले तथा । साधारणे समाने च संख्यायां च प्रयुज्यते ॥ द्विशब्दो द्वित्वविशिष्टे ऽलिङ्गः । संबोधनैक. विषयश्च युष्मदर्थः । अस्मच्छन्दस्तूच्चारयित्रर्थः । सलिङ्गः संबोधनव्यभिचारी च भवत्वर्थः । भातेर्डवतुरितिव्युत्पादितोयम् । यद्यप्यस्मात्स्मायादयो न सम्भवन्ति सर्वनाम्नस्तृतीयाचेति, निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमित्यनेनैव गतार्थ, त
3
Page #217
--------------------------------------------------------------------------
________________
शब्द कौस्तुभः ।
२१७
१ पा. ६ आ. थापि, फिनद्रिमयटः पूर्वनिपातष्ठक्छसौ तथा । आत्वैकशेषष्यविरहा अकच्च भवतः फलम् । फिञ् । भावतायनिः, त्यदादिस्वेन वृद्धत्वादुदीचां वृद्धादिति फिञ् । भवन्तमञ्चतीतिभवद्यङ्, विष्वग्देवयोश्चेति चकारेण सर्वनाम्नानुकर्षणादग्रादेशः । भवन्मयः, नित्यं वृद्धशरादिभ्य इति मयट् । भवन्मित्रः, सर्वनामसंख्ययोरिति प्रानिपातः । भावत्कः, भवदीयः, भवतष्ठकुछसावित्यत्र हि शत्रन्तनिवृत्तये वृद्धादित्यनुवर्त्यते । आत्वम् । भवादृक् । आ सर्वनाम्न इत्यात्वम् । देवदत्तश्च भवांश्च भवन्तौ त्यदादीनि सर्वैरित्येकशेषः । भवतो भावो भवत्तेत्यत्र सर्वनामसंज्ञया गुणवचनसंज्ञाबाधात् व्यक्ञ्विरहोपि फलम् । अन्यथा हि भावत्यमिति स्यात् | अकच्च, भवकान् । सर्वनाम्नो वृत्तिमात्रइति पुंवद्भावोपि फलम् । भवत्याः पुत्रो भवत्पुत्रः । किंशब्दः प्रश्ने आक्षेपे चेति दिक् । वृत्, सर्वादिगणो वृत्तः समाप्त इत्यर्थः । यदिद्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामृतस्थे इत्यत्र त्ववममध्यमपरमशब्देषु छन्दसि सकलविधिव्यत्ययात् स्याडागमः। न त्वेतदनुरोधेन सर्वादेराकृतिगणत्वमिति मंतव्यम् । अत एव छन्दस्यपि सर्वनामकार्यमेषां न नियतम् । ये मध्यमाः पितरः, विष्णोः पदे परमे इत्यादौ तदभावात् । व्यूहावुभौ तावितरेतरस्मात्, अन्योन्येषां पुष्करैरामृशान्त इत्यादि तु द्विः प्रयोगो द्विर्वचनमिति पक्षे तदन्तविधिना सिद्धम् । स्थाने द्विर्वचनपक्षे तु स्थानिवद्भावेनेत्यवधेयम् । ननु वस्नसादाविव प्रकृतिप्रत्ययविभागस्य संमोहात्स्थानिवद्भावेनापि पदत्वमात्रं स्यात् । न तु सर्वनामता सुविशिष्टे स्थानिनि तद्विरहादिति चेन्न । सन्नि योगशिष्टत्वेनान्तरङ्गमपि द्वित्वं बाधित्वा समासवच बहुलमिति समासवद्भावप्रयुक्तस्य लुकः प्रथमं प्रवृत्तेः । अंतरंगानपि विधी
२८
Page #218
--------------------------------------------------------------------------
________________
२१८
शब्दकौस्तुभः ।
[ १ अ०
न बहिरंगो लुग् बाधतइति वक्ष्यमाणत्वात् । ततः प्रत्ययलक्षणेन पदत्वमाश्रित्य द्वित्वप्रवृत्तेः । एतेन तत्तत्तामसभूतभीतय इत्यादि व्याख्यातम् । नन्वस्तुत्तरीत्येतरेतरस्मादित्यस्य स - द्धिः । अन्योन्येषामिति तु कथम् । न ह्यत्र समासवद्भावोस्तीति चेत् । तत्र प्रथमैकवचनान्तत्वं पूर्वपदस्य द्वितीयादयस्तु परपदइति वचनबलेनैव प्रकृतिप्रत्ययविभागस्य सिद्धेरिति दिक् । वन्येतरा जानपदोपदाभिरिति तु वन्या इतरे येभ्य इति बहुव्रीहिणा समाधेयम् । तपर इति ज्ञापकात्सर्वनाम्नः पूर्वनिपातो ऽनित्यः । पुत्रादेकात्पराजय इति तु प्राधान्यादिना आख्यातादित्यर्थे आख्यातणिजन्ताद् घञर्थे कप्रत्यये लाक्षणिकस्य सर्वनामताविरहात्समाधेयम् ॥
विभाषा दिक्समासे बहुव्रीहौ ॥ अत्र सर्वनामसंज्ञा वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दिङ्नामान्यन्तरालइति प्रतिपदोक्तो दिक्समासो गृह्यते । तेनेह न । या पूर्वा सैवोत्तरा यस्य भ्रान्तस्य तस्मै पूर्वोत्तराय । एवं च बहुव्रीहिग्रहणं न कर्त्तव्यम् । दक्षिणोत्तरपूर्वाणामिति द्वंद्वस्य लक्षणप्रतिपदोक्तपरिभाषयैव वारणात् । ननूत्तरार्थं तत् । तथाहि । एकं बहुव्रीहिवत्, आबाधेचेति द्विर्भावे एकैकस्मै देहि । दक्षिणदक्षिणस्यै इत्यादीष्यते । तत्रोत्तरसूत्रेण निषेधो मा भूत् । बहुव्रीहिरेव यो बहुवीहिर्न त्वतिदिष्टबहुबीहिस्तत्रैव यथा स्यादिति । मैत्रम् | समासग्रहणानुवृत्त्याप्युक्तार्थलाभात् । उत्तरसूत्रस्य प्रत्याख्यानाच्च ॥
।
न बहुव्रीहौ || बहुवीहौ कर्त्तव्ये सति सर्वनामसंज्ञान स्यातू । त्वकं पिता यस्य त्वत्कपितृकः । अहकं पिता यस्य मत्कपितृकः । द्वौ पुत्रौ यस्य द्विकपुत्रः । इह हि समास प्रवृत्तेः
Page #219
--------------------------------------------------------------------------
________________
१ पा. ६ आ.
शब्दकौस्तुभः ।
२१९
प्रागन्तरङ्गतया ऽकच् प्रवर्त्तेत स च समासे सत्यपि श्रूयेव । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । न हि वृत्तेः प्रागप्युपसर्जनतास्ति । ननु यदि प्रागेव प्राप्नुवन्नकच् निवर्तितस्तार्ह त्वकम्पितेत्यादि कथं विगृह्यते त्वत्कः पितेत्यादि कप्रत्ययदर्शनौचित्यादिति चेत् । भ्रान्तोसि । न हि यस्मिन्मक्रियावाक्ये उत्प्रेक्षामात्रगोचरे बहुबीहिसंज्ञा प्रवृत्ता सर्वनाम - संज्ञा च निषिद्धा तत्प्रयुज्यते । अपरिनिष्ठितत्वात् । किं तु वत्सदृशं बहुवीहिसंज्ञा शून्यं वाक्यान्तरमेव । यदाह कैयटः । अप्रयोगसमवायि यत्मक्रियावाक्यं तत्रायं निषेधो न तु लौकिके । तस्य पृथगेव प्रयोगात्तादर्थ्याभावादिति । अत एव दृष्टाः सर्वे येनेत्येव विग्रहो न तु सर्वा इति । राज्ञः पुरुष इत्यादिविग्रपि गतिः । अलौकिके वाक्ये डल्लोपोन इत्यादेरप्रवृत्तेः । अन्तरङ्गानपि विधीनिति सिद्धान्तात् । अत एव गोमत्प्रिय इत्यादौ सोलुगेव न तु हलुङयादिलोपः । तेन जुम्दीर्घादयो न प्रवर्त्तन्ते । भाष्ये स्वकल्पितृक इत्याद्येव रूपं स्वीकृत्येदं सूत्रं प्रत्याख्यातम् । यदाह, अकच्स्वरौ तु कर्त्तव्यों प्रत्यङ्गं मुक्तसंशयाविति । अङ्गम्प्रतीति प्रत्यङ्गम् । अनकारातेषु त्वत्पितृको इकिपुत्र इत्यादिष्वकच् । विश्वप्रिय इत्यादिष्वदन्तेषु तु स्वाङ्ग शिटामदन्तानामित्याद्युदात्ततोति विषantar इत्यर्थः । यथोत्तरं मुनीनां प्रामाण्यात् । भा व्योक्तयैव व्यवस्थेत्यवधेयम् ॥
तृतीयासमासे । अत्र सर्वनामता न स्यात् । मासपूर्वाय । लक्षणप्रतिपदोक्त परिभाषया पूर्वसदृशेति समासो गृह्यते न तु कर्तृकरणे कृतेत्यादिरपि तेन त्वया कृतं त्वत्कृतमित्यादौ निषेधो न । समासइत्यनुवर्तमाने पुनः समासग्रहणं गौणार्थ
Page #220
--------------------------------------------------------------------------
________________
२२०
शब्दकौस्तुभः ।
[ १ अ०
स्यापि संग्रहार्थम् । तेन समासार्थवाक्येपि निषेधः । मासेन पूर्वाय । अयं च लौकिके वाक्ये निषेधो न तु नबहुव्रीहाविति - बदलौकिके । अकारान्ते काकचोरविशेषेणानकारान्तानां प्रतिपदोक्ततृतीयासमासविरहेण चालौकिके निषेधस्य वैयर्थ्यापत्तेः ॥
द्वन्द्वे च ॥ इहोक्तसंज्ञा न स्यात् । पूर्वापराधराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । तथाहि । त्यदादीनां तावद् द्वंद्व एव नास्ति । त्यदादीनि सर्वैर्नित्यमित्येकशेषेण बाधितत्त्वात् । न च द्वंद्वे कृते एकशेष इति भ्रमितव्यम् । एकवछात्रस्वरसमासान्तप्रसङ्गेन द्वंद्वापवादस्वपक्षस्यैव स्थापयिष्यमा - णत्वात् । अन्यथा तेषामित्यादावपि द्वंद्वे चेति निषेधापत्तेश्च । त्यदादिभ्यः प्राचीनास्त्वदन्ताः । तत्र काकचोरविशेषः । सर्वनाम्नो वृत्तिमात्रे इति पुंवद्भावस्त्विष्यतएव । दक्षिणोत्तरपूर्वाणामिति । किञ्च सर्वनामसंज्ञानिषेधेनाप्यसौ दुर्वारः । तत्र हि मात्रग्रहणं कचित्सर्वनामत्वेन दृष्टानां सम्प्रत्य सर्वनामत्वेपि पुंवद्भावार्थम् । अत एव दक्षिणपूर्वायै इत्यत्र संज्ञाभावेपि पुंबद्भावः । नन्ववयवे संज्ञा चेन निषिद्धा तर्ह्यङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वचनादक्षिणोत्तरपूर्वाणामित्यादौ सुडागमादिप्रसङ्गः । न च निषेधवैयर्थ्यम् । अनाङ्गस्य त्रलादेन्यावृत्त्या चरितार्थत्वादिति चेन्न । अङ्गकार्येषु सर्वनाम्नो विहितस्यामो ङेङसिङयोरित्यादिक्रमेण व्याख्यानात् । विहितविशेषणत्वस्याश्रयणे प्रमाणं तु दक्षिणोत्तरपूर्वाणामिति भाष्यप्रयोग एव । तस्मात्समुदायस्यैवायं प्रतिषेधो नावयवा - नामिति स्थितम् । अत एव सर्वनामसंज्ञायां तदन्तविधिसद्भावे द्वंद्वे चेति ज्ञापकमित्युक्तम् ॥
विभाषा जसि ॥ जसीति कार्यापेक्षयाधिकरणसप्तमी ।
Page #221
--------------------------------------------------------------------------
________________
१ पा.६ आ. शब्दकौस्तुमः ।
२२१ जसाधारं यत्कार्य शीभावाख्यं तत्र कर्तव्ये द्वंद्वे उक्ता संज्ञा वा स्यात्। वर्णाश्रमेतरे। वर्णाश्रमेतराशीभावं प्रत्येवेयं विभाषति व्याख्यातम् । तेनाकच् न भवति । तस्मिन्कर्तव्ये द्वंद्वे चति नित्यं निषेधात् । अतस्तत्र कप्रत्यय एव भवति । वर्णाश्रमे. तरकाः । केन व्यवधानानेह शीभावः । अकचि कृते तु तन्मध्यपतितन्यायेन शभिावः स्यादेव ॥ . प्रथमचरमतयाल्पा कतिपयनेमाश्च ॥ एते जसः कार्य प्रति सर्वनामसंज्ञा वा स्युः। प्रथमे प्रथमा इत्यादि । शेषं रामवत् । नेमे नेमाः । शेषं सर्ववत् । इहापि प्राग्वच्छीभावं प्रत्येव संज्ञाविकल्पः । तेन प्रथमका इत्यादावकज् न । अन्यथा प्रथमके इति स्यात् । उभयशब्दस्य तु नेयं विभाषा किन्तु नित्या संज्ञेति गणव्याख्याप्रसङ्गेनोपपादितम् ॥ . पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ॥
स्वमज्ञातिधनाख्यायाम् ॥
अन्तरम्बहिर्योगोपसंन्यानयोः ॥ एषा त्रिसूत्री गणम. ध्येमि पठ्यते । सा च व्याख्याता तया यस्मिन्नेवोपाधौ नित्या संज्ञा प्राप्ता तत्रैव जसि विभाषानया विधीयते । पूर्वे पूर्वी इत्यादि । स्वे स्वा, आत्मीया इत्यर्थः । आत्मान इति वा । इह त्रिसूत्र्यां यद्वक्तव्यं तत्सर्वं गणव्याख्यावसरएवोक्तम् । विभाषाप्रकरणे तीयस्य डिस्पसंख्यानम् । द्वितीयस्मै द्वितीयायेत्यादि । एकादेशस्य पूर्वान्तग्रहणेन ग्रहणाल्लिङ्गविशिष्टपरिभाषया वा द्वितीयस्यै द्वितीयायै इत्याद्यपि सिद्धम् । एवं च विभाषा.द्वितीयातृतीयाभ्यामिति सूत्रं न कर्त्तव्यं भवति । अ. र्थवत्वात्, प्रतिपदोक्तत्वाच्च । द्वेस्तीयोः सम्प्रसारणं चेत्ययमेव गृह्यते । तेनेह न । प्रकारवचने जातीयर, पटुजातीयाय ।
Page #222
--------------------------------------------------------------------------
________________
२२२ शब्दकौस्तुभः ।
[.१ अ जात्यन्ताच्छ बन्धुनि, ब्राह्मणजातीयाय । मुखपार्थशब्दाभ्यां वसन्ताभ्यां गहादिभ्यश्चेति छः, मुखीयाय । पार्वतीयाय । तथा द्वितीयाय भागायत्यत्रापि न भवति । पूरणाद्भागे तीयादनित्यनि कृते यस्येति चेत्यकारलोपे च सति. तायस्य लाक्षणिकत्वादिति दिक् ॥ इति सर्वनामसंज्ञाप्रकरणम् ॥
स्वरादिनिपातमव्ययम् ॥ स्वरादयो निपाताश्चाव्य. यसंज्ञाः स्युः । प्राग्रीश्वरानिपाता इत्यारभ्याधिरीश्वरइत्येतत्पर्यन्तं, ये वक्ष्यन्ते ते निपाताः । नन्वेवं चादिष्वेव स्वरादयोपि पठ्यंता प्रकृतसूत्रं च त्यज्यताम् । अव्ययप्रदेशेषु निपातशब्दनैव व्यवडियतामिति चेन्न । चादीनां ह्यसत्ववाचिनामेव निपातसंज्ञा । यथा लोधं नयन्ति पशु मन्यमाना इत्यत्र सम्यगर्थस्य पशुशब्दस्य न तु सत्ववाचिनाम् । यथा पशूस्ताश्चक्रे वायव्यानित्यादौ, स्वरादीनां तु सत्ववचनानामव्ययसंशेष्यते । स्वस्ति वाचयति । स्वः पश्यति यथा । अथ प्राग्रीश्वरानिपाताः, स्वरादीनि, चादयो ऽसत्वे,इति कुतो न सूत्रितमिति चेन । एवं हि सति निपात एकाजनाङिति प्रगृह्यसंज्ञा स्व. रादीनामप्येकाचां प्रसज्येत । स्तोहि स्वरादिषु किमोत् दक्षिणादाजित्येकाचौ तद्धितौ । केन्प्रभृतयस्तु कृत एकाचः । यदि तु चादिरेकाजनाङिति क्रियेत, तदा चादीनामसत्ववचनत्वं विशे. पणं न लभ्येत । ततश्चास्यापत्यमिर्मदनस्तस्य संबोधनमे अवे. त्यत्र प्रगृह्यत्वं स्यात् । ननु चादयो ऽसत्वे इत्यत्रासत्वइति पाठविशेषणम् । तथा हि । चादय इति योगो विभज्यते । चादयो निपातसंज्ञाः स्युः । ततो ऽसत्वे । इह बास्ने चादन्यो ऽसत्वे ज्ञेयाः। ततश्च चादीनां सत्ववाचिनां पागत्पर्युदासस्तेन ए अवेत्यादौ न दोषः । एवं चोभे संझे कर्तव्ये
Page #223
--------------------------------------------------------------------------
________________
१ पा. ६ आ.
शब्दकौस्तुभः
२२३
अव्ययं निपाता इति । किन्तु प्रामीश्वरानिपाता इति वा अन्ययानीति वा सूत्र्यताम् । ततः स्त्ररादीनि । तद्धितश्चासर्वविभ क्तिरित्याद्यव्ययीभावश्चेत्यंतं सूत्रयताम् । ततश्वादयो ऽसत्वइत्यारभ्यं यावदधिरीश्वरे विभाषा कृञीति । तत्र यस्मिन्प्रदेशे निपातग्रहणं तत्र चादिग्रहणमस्तु । अव्ययप्रदेशे ऽव्ययग्रहणं वेति । उच्यते । अव्ययसंज्ञाविरहे ऽन्वर्थसंज्ञाबललभ्यं वक्ष्यमाणं प्रयोजनं न सिद्धयेत् । निपातसंज्ञाविरहे तु शान्तनवाचार्यप्रणीः तस्य निपाता आनुदात्ता इति फिट्सूत्रस्य विषयविभागो न लभ्येत । अथ फिटशिनवादिशब्दानामित्र निपातशब्दस्याप्यन्यत एवार्थाध्यवसायः तर्ह्यव्ययसंज्ञामात्रेण निर्वाह: सुकर एवेत्यवधेयम् । महासंज्ञाकरणमन्वर्थसंज्ञा विज्ञानार्थं न व्येति विविधं विकारं न गच्छति । सत्वधर्मान् लिंगसंख्याकारकादीन गृण्हातीति यावत् । तेनोपसर्जन प्रतिषेधः सिद्धः । अत्युच्चैसौ । अत्युच्चैस इति । अतिक्रान्तप्रधानत्वेन सत्वधर्मपरिग्रहान्नेहाव्ययसंज्ञा । ननु स्वरादिषूच्चैः शब्दः पठ्यते तत्र कथं तदन्तस्य संज्ञेति चेन्न । अन्वर्थसंज्ञयैव तदन्तविधेरपि ज्ञापनात् । अन्यथोपसर्जने प्रसङ्गाभावेन तन्निवृत्यर्थायास्तस्या वैयर्थ्यापचेः । तेन परमस्त्रः, परमोच्चैरित्यादौ स्वरादिप्राधान्ये ऽव्ययत्वं सिद्धम् । अव्ययसंज्ञाया अन्वर्थत्वमाथर्वणे प्रणवविद्यायां श्रुतिरपि दर्शयति । सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्यति तदव्ययमिति । एतेषु यन व्येति किन्तु सदृशमेकप्रकारं तदव्ययमिति योजना । यद्वा यस्मान्न व्येति तस्मादव्ययमिति । त्रिषु लिंगेषु सदृशं लिङ्गविशेषप्रतिपादने सामर्थ्याभावादिति भावः । विभक्तिषु कारकेषु वचनेषु चैकत्वादिसंख्यास्वव्ययीभावस्य यद्यपि लिंगकार -
Page #224
--------------------------------------------------------------------------
________________
२२४
शब्दकौस्तुभः । [१ अ. कसंख्यायोगोस्ति तथापि वचनादव्ययत्वम् ।। अथ स्वरादयः।। स्वरिति स्वर्गपरलोकयोः । स्वर्गे, छायैव या स्वर्जलधेर्जलेषु । परलोके, स्वर्यातस्य पुत्रस्यति । अन्तरिति मध्ये, अन्तर्बापश्चिरमनुचरः। प्रातरिति प्रत्यूषे, प्रातः संध्यामुपासीत । एते त्रयोंतोदात्ता इति काशिका । तच्चित्यं, स्वःशब्दस्य स्व: रितत्वात् । तथा च फिदसूत्रम् । न्यस्वरौ स्वस्तिाविति । प्रयोगश्च, अन्तरिक्षमयोस्वः । यत्तु प्रातःशब्द आधुदात्त इति कश्चित् । तन्न । प्रातरग्नि प्रातरिन्द्रं हवामहे इत्यादावन्तोदात्तस्यैव प्रसिद्धत्तरत्वात् । पुनरित्यायुदात्तो ऽप्रथमे विशेषे च । अप्रथमे पुनरुक्तम् । विशेषे, किं पुनर्ब्राह्मणाःपुण्याः। सनुतरित्य: न्त ने। सनुतश्चोरो गच्छति। उच्चैरिति महति। नीचै रित्यल्पे। शनैरिति क्रियामान्ये । ऋधगिति सत्ये । वियोगशीघूसामीप्यलाघवेष्वित्यन्ये । ऋते इति वर्जने । युगपदित्येककाले । आ: राद् दूरसमीपयोः। पृथगिति भिन्ने । एते सनुतप्रभृतयो नवान्तोदात्ता इति काशिका । शनैश्विद्यन्तो अद्रिवः ऋधगित्था समर्त्य, इत्यत्र तु शनैर्ऋधक्शब्दावायुदात्तौ प्रयुज्यते । त्यसिति अतीतेह्नि । श्वोनागतहि । दिवेति दिवसे । रात्राविति निशि । सायमिति निशामुखे । चिरमिति बहुकाले । मनागिति ईषदर्थे । ईषदित्यल्पे । जोषमिति सुखमौनयोः। तूष्णीमिति मौने । बहिस् अवस् इत्येतौ बाह्ये । समयेति समीपे मध्ये च, ग्रामं समया । निकषेत्यन्तिके । विलय लङ्कां निकषा हनिष्यति । स्वयमित्यात्मनेत्यर्थे । स्वयं कृतम् । हथेति व्य. थे। नक्तमिति रात्रौ । नअिति निषधे । हेताविति निमित्तार्थे । इद्धेतिमाकाश्ये । अद्धति स्फुटावधारणयोः। तत्वातिशययोरित्यके । सामीत्यर्द्धजुगुप्सितयोः। एते त्यस्मभृतयःसाम्यन्ता द्वाविंशतिर
Page #225
--------------------------------------------------------------------------
________________
१ पा.६ आ. शब्दकौस्तुमा ।
२२५ न्लोदात्ता इति काशिका | दिवा चित्तमाकण्वन्ति था सृजत्यधिः । भिः । नक्तं ददृशे कुह चिदेवेष्वित्यादौ तु आधुदात्तार: प्रयुज्यन्ते । वत् ॥ वत्प्रत्ययांतमव्ययसंज्ञं स्यात् । ब्राह्मणक्त् । : तेन तुल्यमित्यादिभिर्विहितो वतिरिह गृह्यते न तूपसर्गाद्धात्व-: र्थइति विहितः सत्वार्थकत्वात् । यदुद्वतो निवतो यासि व-. प्सत् । सनेति नित्ये । सना तात इन्द्रः, सनातनः । सनत् । इदमपि नित्ये । सनत्कुमारः । तिरसित्यन्तौ तिर्यगर्थे च । तिरोहितः । तिर काष्ठं कुरु । परिभूते तु लक्षणा । तिरस्कृतो. रिरिति यथा । सनेत्यादयस्तिरोन्ता आयुदात्ता इति काशिका । सनाच होता नव्यश्चसत्सि, तिरः पुरुचिदश्विनेत्यादौ त्वन्तो. दात्तं प्रयुज्यते । अन्तरेत्यन्तोदात्तोमध्ये विनार्थे च। त्वां मां चांतरा कमण्डलुः । त्वामंतरा तामरसायताक्षि । अन्तरेणति वर्जने । अन्तरेण हरिं न सुखम् । ज्योगिति कालभूयस्त्वे प्रश्ने शीघार्थे सम्प्रत्यर्थे च । कमिति वारिमूर्द्धनिंदासुखेषु । वारिणि,कज पाम् । मूनिकजाः कचाःनिंदायां,कंदर्पः । सुखे कंयुः । शमिति सुखे, शंकरः। सहसेत्याकस्मिकाविमर्शयोः । दिवः प्रसून सहसा पपात, सहसा विदधीत न क्रियाम् । स्त्रधेति पितृदाने । अलमिति भूषणपर्याप्तिशक्तिवारणनिषेधेषु । भूषणे अलङ्कारः। पर्याप्तौ अलमस्य धनं, बव्हित्यर्थः । शक्ती, अलं मल्लो मल्लाय, शक्त इत्यर्थः । वारणे अलमतिप्रसङ्गेन, निपंधे आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् । न वक्तव्यमित्यर्थः । वषडिति हविर्दाने । विनति वर्जने । नानेत्यनेकविनार्थयोः ॥ नाना भृतं देहभृतां समाजम् । नाना रीतिनिष्फला लोकयात्रा । स्वस्तीति मंगले । अन्यदित्यन्यार्थे । देवदत्त आख्यातोन्यच्च यज्ञदत्त इति... अस्तीति सत्तायाम् । अस्ति
Page #226
--------------------------------------------------------------------------
________________
२२६
शब्दकौस्तुभः । [१ अ० परलोक इति मतिरस्यास्तिकः । उपाश्चिति अप्रकाशोच्चारणरहस्ययोःक्षमति क्षान्तौ । क्षमा करोतु भवान् । विहायसेति वियदर्थे । विहायसा रम्यमितो विभाति । दोषेति रात्रौ । मृषामिथ्येत्येतौ वितथे । मुधेति व्यर्थे । क्त्वातोसुन्कसुनः, कुन्मकारसंध्यक्षरांताः, अव्ययीभावश्च । इदं गणसूत्रत्रयम् । अशाध्यायीस्थत्रिसूच्या समानार्थम् । वैयर्थ्य तूदरिष्यते। पुरेति अविरते चिरातीते भविष्यदासन्ने च । पुराधीते, अविरतमपाठीदित्यर्थः । पुरिलुड्चेति लट् । चिरातीते । पुरापि नवं पुराणम् । पुरेदमूर्ध्वं भवतीति वेधसा । समनंतरं भविष्यतीत्यर्थः । स्यात्मवन्धे चिरातीते निकटागामिके पुरेत्यमरः । मिथो इति रहःसहार्थयोः । मन्त्रयन्ते मिथो । मिथसित्यपि पूर्ववत् । प्रायसिति बाहुल्ये । मुहुसिति पुनरर्थे । प्रवाहकमिति समकाले उर्वार्थे च । के चित्तु प्रवाहिकेति पठन्ति । आर्यहलमिति बलात्कारे। शाकटायनस्त्वाह । आर्येति प्रतिब.. न्धे, हलमिति प्रतिषेधविवादयोरिति । अभीक्ष्णमिति पौन:पुन्ये । साकं सार्द्धमित्येतौ सहार्थे । नमसिति नतौ । हिरुगिति वर्जने। धिगिति निन्दाभलैनयोः । तसिलादिस्तद्धित एधापर्यन्तः । शस्तसी, कृत्वसुच,सुच,आस्थालौ,च्च्याश्चेति । तसिलादिरित्यादेरयमर्थः । पंचम्यास्तसिलित्यारभ्यधाचेत्येतदेतैः सूत्रैरुक्तो यस्तद्धितस्तदन्ताः स्वरादिषु बोद्धव्याः। तथा च बव्हल्पार्थाच्छस् । प्रतियोगे पंचम्यास्तासः। क्रियाभ्यावृत्तिगणने कृत्वसुच् । द्वित्रिचतुर्यः सुच् । इण आसिरित्युणादिसूत्रेण आसिप्रत्ययो विहितः । अया इत्युदाहरणम् । प्रत्नपूर्वविश्वेमास्थाल छन्दास । संपद्यकर्तरि चिः। विभाषा सातिकात्स्न्ये । देये त्रा च । एतदन्ता अपि ग्राह्याः । अम् इति, अमु च छन्दसीति
Page #227
--------------------------------------------------------------------------
________________
१ पा. ६ आ. शब्दकोस्तुभः ।
२२७ विहितः।आमित्यंगीकारे । आम् कुर्मः, किमेतिङव्ययघादाम् । कास्प्रत्ययादाममंत्र लिटीत्यपीति केचित् । प्रतामिति ग्लानौ । प्रशानिति समानार्थे । प्रशान् देवदत्तो यज्ञदत्तेन । प्रतानिति वि. स्तारे । मा इति निषधे । मा भवतु मा भविष्यति । माङिति निषेधाशंकयोः । मा कार्षीत् । अस्य पापं मा भूदिति । आकृतिगणश्वायम् । तेनान्येपि ग्राह्याः । तद्यथा । अमिति शैघूये अल्पे च । काममिति स्वाछंद्ये । प्रकाममित्यतिशये। भूय इति पुनरर्थे । सांप्रतमिति न्याय्य । परमिति कंत्वर्थे, गुणवानसि परमहं कारी।साक्षादिति प्रत्यक्षे। साचीति तिर्यगर्थे। सत्यमित्यर्दागीकारे। मक्ष्विति शैघूये । आश्विति च । संवदिति वर्षे । अवश्यामि ति निश्चये। सपदि शैघूये। बलवदित्यतिशये। बलवदपि शिक्षितानाम् । प्रादुस् आविस् इति प्रकाशे । अनिशं नित्ये । नित्यदा,सदा, अजस्रं, सन्तत,मेते सातत्ये । उषेति रात्रौ । उपातनो वायुः। रोदसी द्यावापृथिव्यर्थे । ओमिति ब्रह्मवाची । भूर्भुवरिति पृथिव्यंतरिक्षलोकयोः। भूर्लोकः। भुवर्लोकः। झटिति झगिति तर. सा शैघूये । द्राक् द्रुतं शैघूये, क्षिप्रमिति च । अतीवेत्यतिशये । सुष्टु इति प्रशंसायाम् । कु इति कुत्सितेपदर्थयोः । कापथः कवोष्णम् । अंजसेति तत्वशीघ्रार्थयोः। अ इति बहिरर्थे । मिथु इति द्वावित्यर्थे । मिथुमन्त्रयेते । विश्वगिति समंतात्भावे।भाजगिति शैघूये । भाजपचति । अन्वगित्यानुकूल्ये । चिराय चिररात्राय चिरस्यायाश्चिरार्थकाः। आधशब्दाच्चिरं चिरेण चिरादिति गृह्यन्ते । अस्तमिति विनाशे । आनुषगित्यानुपूर्थे । आनुषक् प्रविशतीह बन्धुता । अनुमाने ऽनुषगितिशाकटायनः । आनुषादीत दान्तं के चित् । अन्नस् इति शीघसाम्पतिकयोः । अम्न एव गच्छति । अम्नरवेति रेफोवा । स्थाने
Page #228
--------------------------------------------------------------------------
________________
२२८
शब्द कौस्तुभः ।
[ १ अ०
इति युक्तार्थे । वरमिति हि ईषदुत्कर्षे । दुष्ठु निष्कृष्टार्थे । बलादिति हठार्थे । शुइति पूजायाम् । शुनाशीरः । क्षमेति क्षान्तौ । अर्वागिति प्राचीने | शुद्धि शुक्लपक्षे । वदि कृष्णपक्षे । इति स्वरादिः ॥
·
तद्धितश्चासर्वविभक्तिः ॥ तद्धितान्तः शब्दोव्ययं स्याछ । यस्मात्सर्वा वचनत्रयात्मिका विभक्तिर्नोत्पद्यते किं त्वेकवचनम् । ततः तत्र । तद्धित इति किम् । एकः द्वौ बहवः । असर्वविभक्तिरिति किम् । औपगवः । ननु गोदौ वरणा इत्यादावतिव्याप्तिः । न च लुब्योगाप्रख्यानात्, योगप्रमाणे च तदभावे दर्शनं स्यादिति पठतः सूत्रकृतो मते नैते तद्धितान्ता इति वाच्यम् । एवमपि पञ्चैव पञ्चकाः शकुनयः, उभयो मणिः, पचतिकल्पं, पचतिरूपमित्यादावतिव्याप्तदुवारत्वादिति चेतू । अत्राह वार्त्तिककारः, सिद्धन्तु पाठात् । तसिलादयः प्राक्याशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । मान्तः कृत्वोर्थः । तसिवती, नानाञाविति । न च इवेप्रतिकृतावित्यधिकारे प्रत्न पूर्व विश्वमात्थाल्छन्दसि इति विधानात्तदन्तस्यासङ्ग्रह इति वाच्यम् । प्रकारवचने थालिति प्रकरणएव प्रत्नादिभ्य इवेथालछन्दसि । प्रकारवचने इदमस्थमुरिति पठितुं शक्यत्वात् स्वरादिगणे आस्थालाविति पाठेन सिद्धत्वाच्च । मान्तइति । आम् अम्चेत्यर्थः । तसि, प्रतियोगे पञ्चम्यास्तसिः । तेनैकदिक्, तसिश्चेति द्वावपि गृह्येते । स्यादेतत् । सूत्रमते कथमुक्तिसम्भवः यावता कर्मणि द्वितीया कयोर्द्विवचनैकवचने इत्यादीनां स्वादिवाक्येनैकवाक्यतापक्षे ऽव्ययेभ्यः स्वादीनां मामिरेव नास्ति । अव्ययादाप्सुप इति ज्ञापकेन तु सर्वा विभक्तयः । उच्यन्ते । अव्ययेभ्यः सप्तानामपि विभक्तीनां त्रीण्यपि वचनानि । तथा सप्तानामप्येकवचनान्येव । अथवा प्रथमाया एव
Page #229
--------------------------------------------------------------------------
________________
१ पा. ६ आ. शब्दकौस्तुमः ।
२२९ वचनत्रयम् । यद्वा प्रथमाया एकवचनमेवेति पक्षचतुष्टयं यद्यपि ग्रन्थेषूपलभ्यते । तथापि प्रथमैकवचनमात्रमेवति चतुर्थपक्षएव क्षोदक्षमः । तमेव गृहीत्वा सूत्रस्याप्युक्तिसम्भवः स्पष्टः । इतरत्तु पक्षत्रिकमभ्युच्चयवादमात्रेणोपन्यस्यते न तु तात्त्विकम् । तथाहि । यदि कर्मणि द्वितीयैव अभिहिते प्रथमैव । एकत्वे एकवचनमेवेत्यादिरर्थनियमः । यदि वा द्वितीया कर्मप्रयवेत्यादिः प्रकृतार्थापेक्षो विभक्तिनियमः । यदि वा एकवाक्यत्वे सामान्यापेक्षवचनविभक्तिनियमपि वा अव्ययादाप्सुप इति सामान्यापेक्षज्ञापकाविभक्तिसिद्धिस्तदा अविशेषात् ससानामपि विभक्तीनां त्रीण्यपि वचनानाति पक्षो लभ्यते । यदा तु द्वित्वे द्विवचनमिति मूत्रयित्वा एकवचनमित्येव पृथक् सूव्यते । तदन्यथानुपपरया च कर्मण्येव द्वितीया न करणादौ द्वित्वबहुत्वयोरेव द्विवचनबहुवचने न त्वेकत्वइत्यादिक्रमेण सजातीयापेक्षो नियमः । ततश्चाव्ययेभ्यः सकलविभक्तिपाप्तावेकवचनमित्यनेन नियमः क्रियते। यत्रैकवचनं चान्यच्च प्रामोति तत्रैकवचनमवेति । यदि वा सामान्यापेक्षनियमाश्रयणादव्ययादमाप्तावेकवचन मिति सूत्र क्रियते तस्य च ङ्याप्मातिपदिकादित्यनेनैकवाक्यता । तथा च ङ्यावादिभ्यः कर्मादिष्वेकवचनं सिद्धमेवेति । एतत्सूत्रबलादव्ययभ्य एव भवति तिङतात्तु न भवति । एकवचनमित्यस्याप्राप्तपापणार्थत्वोप ङ्याप्सूत्रेणैकवाक्यत्वात् प्रदेशान्तरे पाठसामर्थ्याच्च । स्वातन्त्र्येयणापि ङयाप्सूत्रं विधायकमिति द्वित्वे द्विवचनामित्यादनियामकत्वं सङ्गच्छते । तदाव्ययेभ्यः सर्वाण्येकवचनानीति द्वितीयः पक्षो लभ्यते । यदा तु द्वितीया कर्मण्येवेत्यादिः सामान्यापेक्षः प्रत्ययनियमो ऽव्ययेभ्यस्तु प्रथमैव । प्रथमा प्रातिपदिकार्थएवति
Page #230
--------------------------------------------------------------------------
________________
२३०
शब्दकौस्तुमः । [१ अ. नियमेन हि कर्माद्याधिक्यस्थलएव सानिवार्यते । द्वयेकयोरिति तु यथान्यासमेव तत्र चैकस्वएवैकवचनं न संख्यान्तरे इति सजातीयापेक्षप्रत्ययनियमपक्षस्तदा निःसंख्येभ्योः व्ययेभ्यः प्रथमाया वचनत्रयमपि भवतीति तृवीयः पक्षो लभ्यते । त्रिष्वप्यमीष पक्षेषु पचतिकल पचतिरूपमित्यादौ दोषः । तत्र हि प्रथमैकवचनमात्रमिष्यते उक्तपक्षत्रये ऽप्यधिक प्रामोति । तस्माद् द्वितीयपक्षरीत्या सकलैकवचनानि प्रापय्यैकवचनमित्येकत्वस्य विवक्षितत्वात् प्रथमातिक्रमे कारणाभावात्प्रथमैकवचनमेव कर्तव्यमिति सिद्धान्तः । एवं च सत्यपि सूत्रस्योक्तिसम्भवे पचतिरूपमित्यादावतिव्याप्तिभयात्परिगणनमेव कर्तव्यं सूत्र तु न कर्त्तव्यमिति स्थितम् ॥ . कृन्मेजन्तः ॥ कृयो मांत एजंतश्च तदन्तमव्ययसंगं स्यात् । स्वादुङ्कारं भुक्ते । वक्षेरायः । तुमसे इति वचेः सेप्रत्यये रूपम् । नन्वेवं कारयांचकारेत्यामंतस्य न प्राप्नोति । अत्रातिभावितयालिटः कृतेपि मान्तत्वाभावात् । सत्यम् । स्वरादिवामिति पाठात्सिद्धम् । यदि तु तत्र तद्धितस्यैव ग्रहणं तीह कृदंतत्त्वादुत्पन्नानामपि मुपामाम इति लुग भविष्यति । तत्रहि ले. रिति नानुवर्तते । न चैवं तरबादेरपि लुगापत्तिः । अपरिसमासार्थतया तरवाद्युत्पत्तेरेवाभावात् । अपरिसमाप्तार्थत्वं च संख्याकादिविषयकोत्थिताकांक्षत्वम् । अत एवानुप्रयोगामार्थ्यते। आमन्तार्थगतप्रकर्षादिप्रतीतिस्तु अनुप्रयोगादत्पन्नेन तरवादिना भविष्यति । अत एव मूत्रितं कृश्चानुप्रयुज्यतइति, अनुशब्दो हि व्यवहितस्य विपरीतस्य च प्रयोगनिवृत्तयइति वक्ष्यते । यद्वा पूर्वसूत्रोक्तनिष्कर्षरीत्या आमन्तात् सोरेवोत्पत्तौ हल्ङ्या . दिलोपो भविष्यति । अस्तु वा कुन्दतं यन्मेजन्त मिति वाक्यार्थः ।
Page #231
--------------------------------------------------------------------------
________________
१ पा. ६ आ. शब्दकौस्तुभः ।
२३१ आमंतं हि प्रत्ययलक्षणेन कृदंत, श्रूयते च मान्तम् । न चैवं प्रतामौ प्रतामो, लवमाचक्षणो लौरित्यादावतिप्रसंग इति वाच्यम् । स्वरादिषु प्रशान् शब्दस्य पाठेन धातोः प्रत्ययलक्षणेन क. दन्तत्वमुपजीव्याव्ययसंज्ञा न भवतीति ज्ञापितत्वात् । न च मोनोधातोरिति नत्वे कृते नैतन्मान्तमिति कथं ज्ञापकतोति वाच्यमानत्वस्यासिद्धत्वात् । न च शानतेजन इत्यस्यार्थान्तरवृत्तित्वे शानयतीत्यादिप्रयोगसिद्धयर्थ चुरादित्वस्वीकारेण नित्यसन्नन्तत्वाभावात्तस्यैवायं स्वरादिषु पाठ इति वाच्यम् । अनभिधानात् । तस्मारिकपोनुत्पत्तेः । अत्र च ज्ञापकत्ववर्णनपरं भाष्यमेव प्रमाणम् । अव्ययामित्यन्वर्थसंज्ञाबलादसत्वार्थस्य साम्यवाचिन एवं प्रशान्शब्दस्य तत्र ग्रहणं न तु शान्तिमद्वाचकस्य । तेन प्रशामौ प्रशाम इत्युदाहरणं न विरुध्यते । स्वस्त्यादीनां तु सत्ववाचिनामपि पाठसामर्थ्यांदव्ययत्वमिति विशेषः । अन्तग्रहणसामोनित्ययोगे बहुव्रीहिराश्रीयते । तेनौपदेशिक एज् गृह्यते । नेह, आधये चिकीर्षवे कुम्भकारेभ्यः । वस्तुतस्त्वंतग्रहणं व्यर्थम् । लक्षणप्रतिपदोक्तपरिभाषयैवातिप्रसंगभंगात् । ननु वर्णग्रहणे इयं परिभाषा न प्रवतते । अन्यथैचोयवायाव इत्यादावतिप्रसंगादिति चेन्न । एवमपि बहिरङ्गपरिभाषया सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषया वेष्टसिद्धः । अयमत्रार्थः । सन्निपातः संश्लेषः तनिमित्तो यो विधिः स तद्विघातस्यानिमित्तम् । तं सनिपातं यो विहति स तद्विघातस्तस्येत्यर्थः । एवं च सुप्सन्निपातलक्षणस्य घेड़ितीति गुणस्य बहुवचने झल्येदित्येत्वस्य चाव्ययसंज्ञा प्रति निमित्तत्वं नेत्यवधेयम् । तथा परिभाषायाः प्रयोजनान्तराण्यपि सन्ति दिङ्मात्रं तूच्यते।श्रीपं कुलं तस्मै श्रीपाये
Page #232
--------------------------------------------------------------------------
________________
२३२
शब्दकौस्तुभः । [१० त्यत्रातोलोपो न मवति । तथा : अगव्यीत् । अनान्यी. त् । यस्य इल इति लोपो न । तथातिजरं कुलम् । अतिज रेण अतिजरैः अतिजरादित्यत्र अम् इन ऐस् आत् इत्येतेषु अकारमुपजीव्यकृतेषु सत्सु जरसादेशो न भवतीत्यादि । अनित्या चेयं परिभाषा कष्टाय क्रपणे न यासयोरित्यादिज्ञापकात् । तेनानिमानित्यत्र स्वनुड्भ्यां मतुबित्यन्तोदानावस्वान्तात् परस्य मतुप उदात्तस्वे कृतें शेषनिघातेन प्रकृतेस्नुदात्तत्वं भवत्येवेति दिक् । गौग्लानौरित्यत्र नेदं सूत्रं प्रव
ते । उणादीनामव्युत्पन्नत्वात् । व्युत्पत्तिपक्षेपि चिरव्ययमित्युणादिसूत्रेण डौंडो प्रत्ययान्ताश्व्यन्ता एवाव्ययमिति नियमस्य कृतत्वात् ॥
. स्कातोसुनकसुनः। एतदन्तमव्ययं स्यात् । कृत्वा पुरामूर्यस्योदेतोः । पुरावस्सानामपाकतॊः । भावलक्षणेस्थे. कृञ्चदिचरितमिजनिभ्यस्तोसुन्। धुरा कुरस्य विसृपो विरशिन् । पुरा जत्रुभ्य आतृदः । सृपितृदोः कमुनिति कसन् ॥
.:: .... . . अव्ययीभावश्च ।। अयमव्ययसंज्ञः स्यात् । विषयपरिगणनं कर्तव्यम् । लुकि मुखस्वरोपचारयोनिवृत्तौ चेति । उपानि प्रत्यगि, अव्ययादाप्सुप इति मुपो लुक् । उपाग्नि मुखः प्रत्यग्नि मुखः।मुखं स्वामित्युत्तरपदान्तोदात्तत्वे प्राप्ते नाव्ययदिशब्दगोमहतस्थूलमुष्टिपृथुचत्सेभ्य इति प्रतिषेधः । तथा च बहुव्रीही प्र. कृत्येति पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च समासस्वरेणान्तोदाचम् । विसर्गस्थानिकस्य सकारस्योपचार इति प्राचां संज्ञा । तनिवृत्तौ यथा । उपपयः कार उपफ्यः कामः । इहाता कमीति प्राप्तं सत्वमनव्ययस्येति पर्युदस्यते । इह मुखस्वरनिवृत्तिरे
Page #233
--------------------------------------------------------------------------
________________
१. पा. ६ आ.
शब्दकौस्तुभः ।
1
व मुख्यं प्रयोजनम् । लुक् तु नाव्ययीभावादत इति विशेषप्रतिपेधात् सिद्धः। उपचारनिवृत्तिरपि न प्रयोजनम् । अतः कुंकमीत्यत्रानुत्तरपदस्थस्येत्यनुवृत्यैव तत्सिद्धेः । परिगणनं किए । उ पाग्न्यधीयान । पराङ्गवद्भावेन षाष्ठमामंत्रितस्य चेत्याद्युदात्तत्वं यथा स्यात् । तत्र ह्यव्ययानां प्रतिषेत्र उपसंख्यात उच्चैरधीयानेत्यादौ मा भूदिति । तथोपाग्निकमित्यादौ अव्यय सर्वनाम्ना - मित्यकज् न । उपकुंभंमन्यः खित्य नव्ययस्येत्यनुवर्तमाने ऽरु. द्विषेति मुम्प्रतिषेधो न । उपकुंभीभूतः । अस्य च्वावित्यस्योपसंख्यानिकः प्रतिषेधो न भवति । वस्तुतस्त्विदं सूत्रं न कर्त्तव्यम् । लुक उपचारनिवृत्तेचान्यथोपपत्तेरुक्तत्वात् । मुखस्वरनिवृत्तिः परमवशिष्यते, तत्र केचिदाहुः । मुखस्वररात्रेष्यतएव । यद्येतावत् प्रयोजनं स्यात् तत्रैवायं ब्रूयान्नाव्ययीभावाच्चेतीति भाष्यस्वरसादिति । अन्ये तु अव्ययमव्ययं भवतीत्यन्वर्थसंज्ञाविज्ञानादेव मुखस्वरनिवृत्तिर्भविष्यतीति । स्यादेतत् । स्वरादित्वेनैव सिद्धत्वात्तद्धितश्चेत्यादिचतुःसूत्री व्यर्था । तत्र हि तसिलादिस्तद्धित एधापर्यन्त इत्यादिना च्व्यर्थाचेत्यन्तेन आसिमौणादिकं वर्जयित्वा तद्धितथासर्वविभक्तिरित्यस्यार्थः संगृत्यते । कृन्मकारसन्ध्यक्षरान्त इत्यनेन कृन्मेजन्त इत्यस्यार्थः संगृत्यते । क्त्वातोसुन्कसुनोव्ययीभावश्चेति सूत्रद्वयं तु स्वरूपेणैव पठ्यतइति । अत्राहुः । पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन प्रागुक्तं लड्मुखस्वरोपचारा इति परिगणनं लभ्यते । न लोकाव्ययेत्यत्राव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेध इति वक्ष्यमाणं च लभ्यतइति । वस्तुतस्तु मास्तु चतुःसूत्री, अव्ययीभावश्चेति तु गणेपि मास्तु उक्तरीत्यान्वर्थसंज्ञयैव सिद्धेः । तोसुन्कसुनोरप्रतिषेध इत्येव लाघवात् पठ्यतामिति युक्तः पन्थाः ॥
२३३
Page #234
--------------------------------------------------------------------------
________________
२३४
| शब्दकौस्तुभः ।
[ १ अ०
शि सर्वनामस्थानम् ।। शि इत्येतत्सर्वनामस्थान संज्ञं स्यात् । वारीणि, सर्वनामस्थाने चासम्बुद्धाविति दीर्घः । यदि तु प्रदेशेष्वेव शौ चेत्याद्युच्येत तर्हि सुटि न स्यात् । अथ शिसुटोरित्युच्येत तर्हि नपुंसकसुटोपि ग्रहणं स्यात् । शिग्रहणं तु शसर्वे स्यात् । तस्मात्संज्ञा तावत्प्रणेया महासंज्ञाकरणं तु पूर्वाचार्यानुरोधात् ॥
सुडनपुंसकस्य ॥ सुडिति प्रत्याहारः । नपुंसकभिन्नस्य स्वादिपञ्चवचनानि उक्तसंज्ञानि स्युः । राजा राजानौ राजान इत्यादि । प्राग्वद्दीर्घः । अनपुंसकस्येति किम् । सामनी । विभाषा ङिश्योरित्यल्लोपाभावे दीर्घो न भवति । अनपुंसकस्येति पर्युदासस्तेनास्य सूत्रस्य स्त्रीपुंसयोरेव प्रवृत्तिरिति नपुंसकेन विधिर्नापि प्रतिषेधः । तेन वनानि सन्तीत्यत्र पूर्वसूत्रेण प्राप्ता संज्ञा भवत्येव, प्रसज्यप्रतिषेधे तु सापि निषिध्येत । यद्यप्यनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति समाधातुं शक्यते तथापि असमर्थसमासो वाक्यभेदश्चेति गौरवं स्यादेव । यद्वा सुदस्त्रीपुंसयेोरिति वक्तव्ये ऽनपुंसकस्येति सूत्रयतः प्रसज्यप्रतिषेध एव संमतः । गौरवं च प्रामाणिकम् । एतेन हि के चिन्नन्समासा असामर्थ्यपि साधव इति ज्ञाप्यते । तेनाश्राद्ध भोजी ब्राह्मण इत्यादि सिद्धं भवति ॥
नवेति विभाषा ।। इतिशब्दः काकाक्षिन्यायेनोभाभ्यां संबध्यते । स च पदार्थविपर्यासकृत् । तेनार्थ एवेह संज्ञी संज्ञा च । निषेधविकल्पयोर्विकल्प संज्ञा स्यात् । न च तयोरपदार्थतया ऽनन्त्रयप्रसङ्गः । एतत्सूत्रारंभसामर्थ्यादेव विधिवाक्येषु विकल्पवाचिपदस्य लाक्षणिकत्वात् । उभयत्रविभाषार्थं चेदं सूत्रम् । प्रातविभाषायाममाप्तविभाषायां च नास्योपयोगः । तथाहि । विभाषो
Page #235
--------------------------------------------------------------------------
________________
१ पा. ६ आ.
'शब्द कौस्तुभः ।
. २३५
पपदेन प्रतीयमाने इति प्राप्तविभाषा । तत्र स्वरितत्रित इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषाश्रुत्या पक्षे तन्निवृत्तिमात्रं क्रियते, पक्षे भवतीति त्वनुवादः । तथा विभाषोर्णोरित्यप्राप्तविभाषा । अणुवीदित्यत्र परत्वात् सार्वधातुकमपिदिति नित्यङित्वाभ्युपगमात् । तत्र ऊर्णवितेत्यादावभावांशस्य स्थितत्वाद्भाव शिमात्रपरता, विभाषाश्वेरित्युभयत्रत्रिभाषायां तु यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव विकल्पः स्यात् । कित्सु तु यजादित्वानित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव विकल्पः स्यान्न तु पित्सु । न च पित्सु विधिमुखेन, कित्सु निषेधमुखेनेत्युभयथापि प्रवृत्तिरस्त्विति वाच्यम् । वैरूप्यलक्षणत्राक्यभेदापत्तेः । संज्ञाकरणे तु सति श्रुतक्रमानुरोधेन नेतिनिषेधः प्रथमं कित्सु प्रवर्त्तते ततः किकिद्रूपे सर्वस्मिन् लिटि ऐकरूप्यं प्रापिते सति पक्षे भवतीत्यैकरूप्येण विधिमुखेनैव विकल्पः प्रवेर्तते । आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्त्तते इति दर्श
इदं सूत्रमारभ्यते । यदा तु मतिलक्ष्यं विभाषाश्वेरित्येतद्भिद्यते । . तदा कचिद्विधिमुखेन कचिन्निषेधमुखेन मवृत्तेः संभवान्भेदं सूत्रमारंभणीयम् । तथा च वार्तिकम्। अशिष्यो वा विदितत्वादिति । वस्तुतस्त्वातिपक्षेपि प्रदेशेष्वेव नवाश्वेरित्यादि पठित्वेदं सूत्रं प्रत्याख्यातुं शक्यम् । युक्तं चैतत् । अन्यथान्यार्थमप्यारब्धा संज्ञा विभाषोर्णोरित्यत्र प्रवर्त्तेत । प्रतिषेधाश्च बलीयांसो भवन्ती1 ति औणुवीदित्यत्रापि सार्वधातुकमारीदित्यस्य निषेधस्ततो विकल्पश्च स्यात् । नन्वारभ्यमाणे सूत्रे नवेत्यखण्डनिपातस्यार्थो निषेध एव संज्ञीति किं न स्यादिति चेन्न । तथा सति नबहुव्रीहावि त्यनेनैव सिद्धौ विभाषा दिक्समासइत्यस्य वैयर्थ्यापत्तेः । इतीति किम् | घुसंज्ञावत् स्वरूपमिति वचनाच्छब्दस्य संज्ञा मा भू
Page #236
--------------------------------------------------------------------------
________________
२३६
शब्दकौस्तुभः ।
[१ अॅ० त् । तथाहि सति विभाषाश्चरित्यस्य नवाशब्दः श्वयतेरादेश इत्यर्थः स्यात् इतिशब्दे तु सत्यर्थः संज्ञीति लभ्यते । तथाहि । लोके ह्यर्थप्रधानः शब्दः गौरित्ययमाहेत्यादौ तु शब्दस्वरूपपरः संपद्यते । व्याकरणे तु स्वरूपमितिपरिभाषणात् स्वरूपपरत्वम त्सर्गिकम्, इतिशब्दसमभिव्याहारेत्यर्थपरतेति विशेषः । अर्थस्यैव संज्ञात्वमपि, न तु विभाषाशब्दस्येत्युक्तम् । तेन हक्रोरन्यतरस्यामित्यादावपि वैरूप्योद्धारो बोध्यः । एतत्प्रसंगेन त्रिविधा आप विभाषाः मायेण भाष्ये विवेचिताः। तत्राप्राप्तविभाषामध्ये प्रोयाङ, अचिविभाषेति पठितम् । अत्र वदन्ति । अप्राप्तविभाषेयमिति सत्यं, किं तु त्रिसंशया इत्युपक्रम्य प्राप्ते ऽप्राप्ते उभयत्र वेत्येवंरूपकोटित्रयप्रकारकसंशयविषयीभूतानामेव व्युत्पाद्यमानत्वादत्रापि कोटित्रयस्योक्तिसंभवो वक्तव्यः । स च दुर्वचः । तथाहि । निजेगिल्यतइत्यत्र ग्रोयडीति नित्यं लत्वं विभाषायास्तु तत्र प्रा. प्तिरेव नास्ति । गिलति गिरतीत्यादौ तु विभाषा, ग्रोयडीत्य स्य तु प्राप्तिरेव नास्ति, तत् कुतः प्राप्तविभाषापक्षः । अथोच्येत, अचिविभाषत्यत्र यङीत्यनुवर्य यनिमित्तस्य रेफल्याचि अनन्तरे वा लत्वमिति व्याख्यानादस्त्येवोक्तिसंभव इति। तन्न । निजेगिर य अच् इतिस्थिते हि ग्रोयङीति प्राप्नोति । न चास्या मवस्थायां विभाषायाः प्राप्तिः । अच्परत्वाभावात् । अथ ब्रूया: विभाषारंभसामर्थ्याधङ्लुकः पूर्व ग्रोयडीत न भवतीति, एवमप्युभयत्रविभाषात्वं दुर्लभमेव । गिरति गिलतीत्यादौ विभाषायाश्चरितार्थत्वेन यलुकः प्रा. गेव ग्रोयडीत्यस्य प्रवृत्तेरुभयोरसमानकालिकत्वात् । न च लसस्यासिद्धतया ततःप्रागेव लुगिति वाच्यम् । अन्तर्भूतयङपेक्षत्वे.
Page #237
--------------------------------------------------------------------------
________________
१ पा. ६ आ.
शब्दकौस्तुभः ।
२३७
नान्तरङ्गं त्वं प्रति बहिर्भूताच्प्रत्ययापेक्षत्वेन बहिरङ्गस्य लुको सिद्धत्वात् पूर्वाभावेन पूर्वत्रासिद्धमित्यस्याप्रवृत्तेरिति । अत्रोच्यते । प्राप्तविभाषाले तावत् समनन्तरोक्तरीत्यैवोक्तिसंभवः । उभयत्रविभाषात्वे त्वित्थम् । अन्तरङ्गानपीति न्यायेन लत्वात् पूर्व लुकू । च लुनिमि. मजेव दुर्लभः । तस्यार्थापेक्षत्वेन बहिरङ्गतयासिद्धत्वात् पूर्वाभावेन पूर्वत्रासिद्धमित्यस्याप्रवृत्तेः । तथा चाचः पूर्वमेव लत्वं स्यादिति वाच्यम् । कृतितुग्विधिग्रहणेन हि बहिरङ्गपरिभाषाया अनित्यत्वज्ञापनात् । धर्मिग्राहकप्रमाणेन लुक इव तदुपजीव्यानां समासादीनामपि प्राबल्यसिद्धेश्व । ननु कृते ऽचि तनिमित्ते लुकि च सति निजेगिर अच् इति स्थिते प्रोयङीति न प्राप्नोति यपरत्वाभावात् प्रत्ययलक्षणं तु नलुमतेति निषिद्धम् । तत्र ह्यङ्गस्येत्यनेनाङ्गाधि-कारो न निर्दिश्यतइति वक्ष्यते । न च स्थानिवद्भावः । लुका लुप्तं न स्थानिवदिति निषेधात् । अज्झलादेशत्वाच्च । तथा च कथमुभयत्र विभाषेति चेत्र । नधातुलोपसूत्रप्रत्याख्यानपक्षे पृथगल्लोपाश्रयणेन स्थानिवद्भावसम्भवात् । न च पूर्वत्रासिद्धे न स्थानिवदिति निषेधः । तस्य दोषः संयोगादिलोपलत्वणस्वेष्विति सापवादत्वात् । यद्यप्यचिविभाषेत्यस्य पूर्वत्रासि द्धमिति प्रोगङीति प्रत्यासिद्धत्वाद्विप्रतिषेधासम्भवः । ततश्व सत्यामपि यङीत्यस्य निवृत्तावुभयत्र विभाषात्वं न सम्भवति । तथाप्यधुनेत्यादिवल्लाघवार्थममुनेत्येव वक्तव्ये नमुनइत्युक्तेर्यो - 'गविभागार्थतया न योगे योगो ऽसिद्धः किं तु प्रकरणे प्रकरणमिति चासिद्धत्वं न भविष्यतीत्याशयेनोभयत्रविभाषात्वे उक्तिसम्भवो बोद्धव्यः । सिद्धान्ते तु विभाषाया असिद्धत्वादेव
:
Page #238
--------------------------------------------------------------------------
________________
२३८
शब्दकौस्तुभः ।
[ १ अ
नित्यं लत्वं समुदायलोपवादिनां तु मते अजपेक्षयान्तरङ्गत्वानित्यं लत्वमिति व्यवस्थितविभाषेति वा समर्थयितव्यम् । इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे षष्ठमान्हिकम् ॥
इग्यणः सम्प्रसारणम् ॥ यणः स्थाने इक् भवतीत्येवंरूपो वाक्यार्थः यणस्थानिक इग्रूपो वर्णश्चेत्युभयमपि सम्प्रसारसंज्ञं स्यात् । तत्र व्यङः सम्प्रसारणमित्यादिषु विधिप्रदेशेषु वाक्यार्थस्य ग्रहणं सम्प्रसारणाच्चेत्याद्यनुवादप्रदेशेषु वर्णस्येतिविवेकः । पूर्वसूत्रादितिशब्दानुवृत्तेर्वाक्यार्थस्य संज्ञित्वमिति लभ्यते । तत्प्रत्याख्यानपक्षे तु वाक्यमेव संज्ञि । न चैवं तदेव विधेयं स्यादिति वाच्यम् । वाह ऊद् सम्प्रसारणमितिसामानाधिकरण्यबलेन तदुपस्थापितार्थस्यैव विधेयत्वनिर्णयात् । न चैवमपि ष्यङः सम्प्रसारणमित्यादौ दोषतादवस्थ्यम् । सामान्यापेक्षज्ञापकाश्रयणात् । ननु तथापि वाक्यतदर्थयोरन्यतरस्य संज्ञित्वमस्तु वर्णस्य तु कथ मिति चेत् । तन्त्रातृस्येकशेषाणामन्यतमाश्रयणेनार्थद्वयाभ्युपगमादित्यवेहि । अत्र च विधेयानुवाद्यसमर्पक विभक्तया सूत्रे निर्देश एव लिङ्गम् । आह च । विभक्तिविशेषनिर्देशस्तु ज्ञापक उभयसंज्ञात्वस्यति । उभयोः संज्ञेति षष्ठीतत्पुरुषः । भर्तृहरिश्श्राह । सम्प्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः । प्रविभागस्तथा सूत्र एकस्मिन्नेवजायते । तथा द्विर्वचनेचीति तन्त्रोपायादिलक्षणः । एकशेषेण निर्देशो भाष्यएव समर्थित इति ॥ तन्त्रं च शब्दतंन्त्रमर्थतन्त्रं बेति मतभेदेन व्यवस्था बोद्धव्या । अर्थभेदाच्छन्दभेदे आयः पक्षः । शब्देक्ये द्वितीयः । आद्येपि व्यंजकध्वनिमात्रभेदे व्यङ्गयैक्ये आवृत्तिरेवेत्यादि बोध्यम् । एवं च तन्त्रस्वमैकरू
:
Page #239
--------------------------------------------------------------------------
________________
१.
१ पा. ७ आ. बदकोश। "पाय २३९ प्येण भवेत्तुल्योपकारतः । उपकारान्यथाले. तु भवेदावृत्तिलक्षणमिति मीमांसकमर्यादानुरोधो वैयाकरणने कत्तव्यः । तस्य भाष्यादिसकलवैयाकरणग्रन्थाविरुदत्वात् । मूलयुक्तिशून्यतया दुरुपपादत्वाचेति दिक् । यद्वा । वाक्यार्थ एव संझी अनुवादे तु तन्नित्तो वर्णो लक्ष्यते..। सम्प्रसारणाज्जातं स. म्प्रसारणमिति । अथ वा वर्ण एव संझी । विधिप्रदेशेषु तु सूत्रशाटकवद्भाविसंज्ञाश्रयणीयति । सर्वेप्येते पक्षा भाष्ये स्थिताः । स्मादेतत् । अदुहितरामित्यत्र लकारस्य यगः स्थाने उत्तमपुरुपैकवचनमिद । तस्य च सम्प्रसारणसंज्ञायां सत्यां हल इति दीर्घः स्यात् । तरपं प्रति लङन्तस्याङ्गत्वादिति । अत्राहुः । संख्यातानुदेशाधकारस्थानिकस्यैव इकारस्य संज्ञा न तु लकारस्थानिकस्येति । अत्रेदमवधेयम् । वाक्यार्थः संज्ञीति पक्षे तस्योद्देश्यविधेयसंसर्गरूपतया तत्र यथासंख्यपरिभाषोपस्थितौ यणः स्थाने इक्स्यायथासंख्यमित्यवान्तरवाक्यार्थः सोयं सम्प्रसारणसंशः स्यादिति महावाक्यार्थः । न चाबान्तरवाक्याथै गृहीत्वा यातिवातिद्रातीत्यादावतिप्रसाः । तस्य संज्ञासम्बन्धमात्रफलकत्वात् । अन्यथा प्याः सम्प्रसारणमित्यादेवैयापत्तेरतो नोक्तदोषः । अहीत्यादेस्तज्जत्वाभावाच्च । उभयसंज्ञात्वपक्षेपि उपस्थितत्वायथासंख्यप्रवृत्त एव वर्णः संजीति । अतो ऽदुहितरामित्यत्र नातिप्रसङ्गः । इदं च कर्मकर्तरि रूपमिति हरदत्तः । उपलक्षणं चैतत् । केवले कर्तर्यपि सम्भवात् । वर्ण एव संजीति पक्षे तु यथासंख्यं दुर्लभम् । अनुवादे परिभाषाणामनुपस्थानस्योपपादितत्वात् । न चैवं स्थानेयोगोप्यस्मिन्पक्षे न लभ्येतेति वाच्यम् । षष्ठी स्थानेयोगेत्यत्रानुवर्त्य एतत्सूत्रस्य व्याख्येयत्वात् । उक्तं हि इ.
Page #240
--------------------------------------------------------------------------
________________
२४०
शब्दकौस्तुभः । [१ अ. कोंगुणवृद्धीइतिसूत्रे । सिद्धं तु षष्ठयाधिकारे वचनादिति । इहैव वा सिंहावलोकनन्यायेन स्थानग्रहणापकर्षास्तु । यथासंख्यं तु दुर्लभमित्युक्तम् । कथं ताई अदुहितरामित्यत्र नातिप्रसंग इति चेत् । तन्त्रावृत्याचाश्रयणेन संमसारणस्येत्यत्र तनावि. तब्रहणात् । यद्वा । कार्यकालपक्षे यणः स्थाने संप्रसारणमिग्भवतीतिः वाक्याथादनुवादतैव नास्ति सत्र परिभाषोपस्थितौ सस्यां यथासंख्यप्रवृत्त एव संज्ञी । स एव संप्रसारणस्येत्यादौ उपतिष्ठते । अथ या स्थानक्रमेण संबन्धो लौकिकन्यायसिद्धत्वादनुवादेषि सुलभः । यथासंख्यसूत्रं परं न प्रवर्ततामिति दिक् । शुभ्यामित्यत्र हल इति दी? न । दिवउदिति तपरकरणात् । अत एव घुलोक इत्यत्र संप्रसारणस्यति दीर्थो न । नन्वेवं भाव्यमानोप्युकारः सवर्णान्गृह्णातीत्यर्थे ज्ञापकतया कथमस्योपन्यास इति चेन्न । तस्य वाक्यार्थः संझीति पक्षणो: तत्वात् । संप्रसारणस्येत्यत्र सद्भावितग्रहणाद्वा । पक्षान्तरे तु ऋतउदिति ज्ञापकं वोद्धव्यम् । नन्वेवमक्षावौ अक्षाव: इत्यादौ ऊठः संप्रसारणसंज्ञायां संप्रसारणाच्चति पूर्वरूपं स्यादिति चेन । संप्रसारणपूर्वत्वे समानांगग्रहणस्य वार्तिककृता कृतत्वात् । सत्मत्याख्यानपक्षे तु वार्णादांग बलीय इत्युवङ् भविष्यति । वाक्यार्थः संजीत्यादिपक्षान्तरे तु पूर्वरूपप्राप्तिरेव नास्ति । एतो जीन इत्यादौ तु हल इति सूत्रसामर्थ्यात्सम्प्रसारणनिर्वृत्तस्यादेशोपि दीर्घम. वृत्तिः । वर्णसंज्ञापक्षोपि अल्विधौ स्थानिवद्भावासम्भवेन हल इतिसत्रारम्भसामर्थ्यात्सम्पसारणस्यादेशे कार्यप्रवृत्तेर्वाच्यत्वादिति दिक् ॥
' आद्यन्तौ दकितौ ॥ टिकितौ यस्योक्तौ तस्य क्रमादा:
Page #241
--------------------------------------------------------------------------
________________
१ पा. ७ आ. शब्दकौस्तुभः ।
२४१ द्यन्तावयवौ स्तः । भविता । यापयति । पुरस्तादपवादा इतिन्यायेन स्थानेयोगत्वस्यायमपवादः । प्रत्ययः परश्चेत्यनेन तु परत्वाबाध्यते । तेन चरेष्टः,गापोष्टक,व्रीहिशाल्योढेक्,इत्यादयः परा एव भवन्ति । परेण परिभाषाप्रकरणेन साहचर्यात्परिभाषेयम् । भाष्ये तु संज्ञापक्षोपि स्थापितः । तथाहि । टकिताविति कर्मधारयः । इत्संज्ञको टकारककारी आद्यन्तयोः संज्ञे स्तः । तथा च इद् इति बहुव्रीहिः इट् आदिर्यस्येति विग्रहः । तथा च स्थानेन्तरतमपरिभाषया तव्यस्य इतव्यादेशे सिद्धमिष्टम् । एवं यापयतीत्यत्र यातेर्याप् आदेशः पुः क् यस्येति व्याख्यानात् । न चैवमाद्यन्तौ टकौ इत्येवास्त्विति वाच्यम् । आलजाटचौ ठस्येक इत्यादावपि टकयाराधन्तसंज्ञात्वप्रसङ्गात् । इत्संज्ञकत्वेन तु देशविशेषो लक्ष्यते। तेन इत्संज्ञकस्य यो देशस्तत्रावस्थितौ टको संज्ञे । न चाटचष्टकार इकादेशस्य ककारश्च तथेति नोक्तदोषः । नन्नास्मिन्पक्षे लुङ्लङ्लक्ष्वित्यादिना भू इत्यस्याभू इत्यादेशः स्यात्स चोदात्त इत्यन्तोदात्तः प्रसज्येत । नैष दोषः।
ट् उदात्तश्च यस्येति त्रिपदबहुव्रीह्याश्रयणात् । विशेषणस्यापि उदात्तस्य सौत्रः परनिपातः। तेनोदात्ताकारादिरादेश इति सिद्धम् । न चैवमप्याडजादीनामित्यत्र दोषतादवस्थ्यम् । अनुवृत्तेनोदात्तशब्देन सह श्रूयमाणस्य बहुव्रीह्यसम्भवादिति वाच्यम् । आडजादीनामिति सूत्रस्य प्रत्याख्यास्यमानत्वात् । वक्ष्यति हि,अजादीनामटा सिद्धमित्यादि ।
मिदचोन्त्यात्परः ॥ सन्निविष्टानामचा मध्ये अन्त्यो योच् तस्मात्परो मित्स्यात् स च पूर्वान्तः । स्थानेयोगस्य परश्चे ति परत्वस्य चापवादः । वनानि । यशांसि । रुणद्धि । ननु पूर्वयोगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्याप
Page #242
--------------------------------------------------------------------------
________________
२४२
शब्दकौस्तुभः ।
[ १ अ०
वादोस्तु न तु प्रत्ययः परश्चेत्यस्यापीति चेन्न । बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यतइतीहाभ्युपगमात् । अन्यथा श्रमो मित्करणं व्यर्थं स्यात् । न च श्रवणार्थ एव श्रमो मकार इति वाच्यम् । तृणह इति निर्देशात् । अच इति जात्यभिप्रायेणैकवचनम् । निर्द्धारणे षष्ठी । न चान्त्यादि - त्यनेन सामानाधिकरण्यादच इति पञ्चम्यवास्तामिति वाच्यम् । शे मुचादीनामित्यादावन्त्यस्याचो ऽसम्भवेनैतत्परिभाषा - या अवृत्तावलोन्त्यपरिभाषाप्रसङ्गात् । तथा च तत्र मित्करणवैयर्थ्यापत्तेः । पूर्वसूत्रे आद्यन्तावितिसमासनिर्देशेपीहान्तग्रहणमात्रमनुवर्त्तते एकदेशएव स्वरितत्वप्रतिज्ञानात् । तेन मित्पूर्वन्तः । यदि त्वभक्तः स्यात्तदा ताता पिण्डानामित्यादौ शेश्छन्दसि बहुलमिति शेर्लोपे कृते नलोपो न स्यात् । प्रातिपदिकान्तत्वाभावात् । तथा वलिह इत्यत्र वहाभ्रे लिह इति खशि अरुर्द्विषदजन्तस्येति मुमि मोनुस्वार इत्यनुखारो न स्यात् । अपदान्तत्वात् । यदि त्वादिग्रहणमनुवर्त्य परादिः क्रियेत तदा वारिणे इत्यादी घेडतीति गुणः स्यात् । वलिह इत्यत्रानुस्वारो न स्यात् । अतिशयितः सखा येषां तान्यतिसखीनि ब्राह्मणकुलानीत्यत्र सख्युरसम्बुद्धाविति णित्वप्रयुक्ता वृद्धिः प्रामोति । सा हि गौणत्वेपीष्यते अस्थ्याद्यनङ्खत् । एतच्चेह सूत्रे भाष्यकैयटयोः स्फुटम् । तस्मात्पूर्वान्तपक्ष एवात्र स्थितः । अत्र वार्त्तिकम् । अन्त्यात्पूर्वो मस्जेरनुषङ्गसंयोगादिलोपार्थम् । मग्नः । मग्नवान् । ओदितश्चेति निष्ठानत्वम् । तस्यासिद्धत्वात्कुत्वम् । मस्जिनशोर्झलीति नुम् । स च यद्यन्तादचः परः स्यात्तदानिदितामित्यनुषङ्गलोपो न स्यात् । उपधाभूतस्य नकारस्यानुषङ्ग इति प्राचां संज्ञा । अथ स्कोरिति सलोपे
Page #243
--------------------------------------------------------------------------
________________
१ पा. ७ आ. शब्दकौस्तुमः ।
२४३ कृते नकार उपधात्वाल्लुप्यतामिति चेत् । न । नलोपं प्रति स्कोरितिलोपस्यासिद्धत्वात् । बहूनां समवाये समुदायस्यैव संयो. गसंज्ञति पक्षे सलोपस्यामाप्तेश्च । तथा च मक्ता मङ्क्तव्यमित्याद्यपि प्रयोजनं बोध्यम् । भर्जिमोश्च । अन्त्यात्पूर्वो मित् इत्यनुवर्तते । भृजी भर्जने । अस्मादौणादिके अचि कुते ऊमागमः । भरूजा । मर्च शब्दार्थे । चुरादिकः । अस्मादच इरित्यौणादिक इप्रत्यय ईमागमः । निपातनात्सिद्धम् । भरूजाशब्दो ह्यङ्गुल्यादिषु पठ्यते मरीचिशब्दो बाव्हादिषु । उणादिषु तु मृकणिभ्यामीचिरिति ईचिप्रत्ययं कृत्वा मरीचिशब्दो व्युत्पादितः । तदुपायान्तरं बोध्यम् ॥
एच इग्घूस्वादेशे ॥ आदिश्यमानेषु ह्रस्वेषु मध्ये एच इगेव स्यात् । हेशब्दमतिक्रान्तं कुलमतिहि कुलम् । चित्रगुः । अतिरिः। अतिनु । यदत्र वक्तव्यं तदेओङ्सूत्रएवोक्तम् ॥
षष्ठी स्थानेयोगा ॥ अनेकसम्बन्धपरतया सम्भाव्यमाना षष्ठी स्थानप्रयुक्तसम्बन्धपति बोध्यम् । अस्तभूः । अस्तेः समीपो ऽनन्तरो वेति संशये तत्स्थाने उच्चारणीय इत्यर्थः । स्थानं च प्रसङ्गदर्भाणां स्थाने शरैः प्रस्तरितव्यमितिवत् । तथा चेगुच्चारणे प्रसक्ते यणुचारणीय इत्याअर्थपर्यवसाने सामीप्यादयः सम्बन्धा अर्थाद्वयावृत्ताः । योगः सम्बन्धः । स बहुविधोस्त्यस्य। इति योगा । अर्शआदित्वान्मत्वर्थीयोच । स च भून्नि । अन्यथा विशेषणवयापत्तेः । तेनानेकसम्बन्धपरतया सम्भाव्यमानत्यर्थो लभ्यते । अयोगति वा छेदः । अनिश्चितयोगविशेषेत्यर्थः । योगेत्ययोगेति वा किम् । अदुपधाया गोहः । शास इद व्हलोरित्यादौ शास इत्यत्र मा भूत् । सति हि तत्रापि स्थानेयोगत्वे गोहिशासोः स्थाने धातुमा
Page #244
--------------------------------------------------------------------------
________________
२४४
शब्दकौस्तुमः । [१ अ. प्रस्योपधायाश्च अदितौ स्यातामिति दिक् । यद्वा । स्थाने योगो यस्या इति बहुव्रीहिः । अब एव निपातनात्सप्तम्या अलुक् । यद्वा । स्थानेन योगोस्या इति विग्रहः । निपातनादेत्वम् । न चानयोः पक्षयोोहः शास इत्यादावतिप्रसङ्गः । परिभाषाणामनियमे नियन्तुं प्रवृत्तेः । युक्तं चैतत् । आकाक्षापूर्वकत्वात्सम्बन्धस्ये, ह चोपधासविधानेनावयवषष्ठीत्वे निगीतआकांक्षाविच्छेदात् । लोकोप हि पंथानं पृच्छन्तं प्रत्यमुष्मिनक्काशे दक्षिणो ग्रहीतव्यो ऽमुष्मिन्नुत्तर इत्यादाबुपदिष्टे सति यत्र मार्गद्वैधात्संशयस्तत्रैव तदुपतिष्ठते न त्वसंदिग्धे तिर्यपथपीति दिक् । भाष्यकारास्त्वाहुः । अस्तरित्यादा. वनेकसंबंधप्रसंगेपि लक्ष्यानुरोधादन्तरंगत्वात्स्थानिवदादेश इति ज्ञापकाच्च स्थानेयोगतैव व्याख्यास्यते । तस्मानायमेतस्य सूत्रस्य सूत्रार्थः । किं तु षष्ठयंतमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमिति सूत्रार्थः । तदेतदुच्यते निर्दिश्यमानस्यादेशा भवंतीति । तेन पादः पदित्यस्यायमर्थः पाच्छब्दान्तं यदगं तदवयवस्य पाच्छब्दस्य सर्वस्य पदादेश इति । अलोत्यस्यादेः परस्येति तु योगी आरंभसामर्थ्यादस्य बाधकौ । अनेकालशित्सर्वस्येत्यनेन तु सहाविरोधादस्य समुच्चयेन प्रवत्तिरिति । एवं स्थिते तंत्राद्याश्रयणेन प्रागुक्तोपि सूत्रार्थः सु. पचः । फलं तु स्फुटप्रतिपत्तिरिति दिक् ॥ ..
स्थानेन्तरतमः ॥ प्राप्यमाणानां मध्ये सदृशतम आदेशः स्यात् । सादृश्यं च चतुर्धा । स्थानतोर्थतो गुणतः प्रमाणतश्चेति । स्थानतो यथा । सुध्युपास्यः । मध्वरिः । धात्रंशः । लाकृतिः । यत्तु यथासंख्यसूत्रेणैवेहान्यथासिद्धिरित्युक्तं भाष्यादौ । तदभ्युच्चयमात्रम् । अर्थतः साम्यविवक्षायां यथासं
Page #245
--------------------------------------------------------------------------
________________
१.पा. ७ आ. शब्दकौस्तुमः । .२४५ रूपालामात् । इको हि षष्टिः यणस्तु सतेति वैषम्यात् । अथेक्शब्दाचण्शब्दाच्च प्रथमं चतुर्णी चतुर्णामुपस्थितेरस्त्येव साम्यमिति चेतहि सुध्युपास्थेति दीर्घस्य कथं यणादे. शः। इकारेण ग्रहणादिति चेत्तहि तृतीयेन ऋकारेण चतुर्थेन लकारेण च परस्परस्य ग्रहणाल्लाकृतौ रेफप्रसङ्गः धात्रंशे च लकारप्रसङ्गः, यवौ च सानुनासिकनिरनुनासिको न व्यवतिष्ठेयातामिति दिक् । दैत्यारिः श्रीश इत्याधपीहोदाहरणम् । अर्थतो यथा । वातंड्ययुवतिः । वतंड शब्दाद्वतंडाच्चेत्यपत्ये यञ् । तस्य लुखियामिति लुक् । सारिवादित्वान् कीन् । वतंडी चासो युवतिश्चति विग्रहे पोटायुवतीत्यादिना समासः। पुंवत्कर्मधारयेत्यतिदिश्यमानः पुंशब्दो वडापत्यवाचिनो वतंडीशब्दस्य तदपत्यवाची वातंड्यशब्दो भवति । गुणतो यथा। पाकः। त्यागः। चजोः कुघिण्ण्यतोरति चकारस्याल्पप्राणस्याघोषस्य तादृश एव ककारः। जकारस्य तु घोषस्याल्पप्राणस्य नादवतः स्थाने तादृगेव गकारः । प्रमाणतो यथा । अमुम् । अमू। अमून् । अदसो. सेरित्यनेन स्वस्थ हुस्खो दीर्घस्य दीर्घ उकारः । इह स्थाने इत्यनुवर्तमाने पुनः स्थानेग्रहणादन्योपि वाक्यार्थः सम्मतः । ताल्वादिरूपे स्थाने योन्तरतमस्तत्मयुक्तान्तर्यवानिति यावत् । स प्राप्यमाणानां मध्ये स्यादिति । तदुक्तम् । यत्रानेकविधमान्तर्य तत्र स्थानत आन्तय बलीय. इति । तेन चेता स्तोतेत्यादौ प्रमाणत आन्तर्यवानप्यकारो न भवति । वाक्यभेदे च तमग्रहणमेव लिङ्गम् । एकस्मिन्नेव वाक्यार्थे संमते हि स्थानेंतरइत्येव ब्रूयात् । सिद्धान्ते तु वाग्घरिरित्यादौ सोष्मणः सोष्माण इति द्वितीया प्रसक्ताः। नादवतो नादवन्त इति तृतीयाः प्रसक्ताः । तमग्रहणास्तु चतुर्थी भवन्ति । ते हि सोष्मा
Page #246
--------------------------------------------------------------------------
________________
• २४६
शब्दकौस्तुभः ।
[ १ अ
or नादवन्तश्च । ऊष्मा ऊष्मत्वं वर्णधर्मस्तत्सहिताः सोष्माणः । तथा च बह्वृचानां प्रातिशाख्यम् । वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोन्त्य इति । शादय ऊ ष्याणः सस्थानेन द्वितीया इकारेण चतुर्था इति शिक्षा । इह - त्रीणि वाक्यामि, ऊष्मशब्दश्च धर्मिवचनः । शषसहा ऊ - ष्माण इति प्रथमवाक्यार्थः । सस्थानेनेति । इत्थंभूतलक्षणे तृतीया । हशषसाः क्रमेण ख छ ठ थानां द्वितीयानां सस्थानाः । यथा हादय उष्माण स्तथैव खादयोपीत्यर्थः । फकारस्य तु यद्यपि सस्थान ऊष्मा नास्ति तथापि तस्य विशिष्यैव ऊष्मत्वं बोध्यम् । हकारेण चतुर्था इति । यथा हकार ऊष्मा एवं तेपीत्यर्थः । नन्वेवमिष्ट उप्स इत्यादावान्तर्यादर्धमात्रस्य यणः स्थाने अर्द्धमात्र इक् स्यात् । दध्यत्र सुध्युपास्य, इत्यादौ तु मात्रिकद्विमात्रिकयोरिकोस्तथाविध एव यण् स्यादिति चेन्न । अर्द्धमात्रस्येको मात्रिकाद्वमा त्रिकव्यंजनस्य च लोकवेदयोरप्रसिद्धत्वात् । योस्ति स एव भविष्यति । इह भाष्ये अन्तरतम इति सप्तम्यंतपाठोप्युपन्यस्य दूषितः । सथाहि । अन्तरतमउरण् रपर इति संहितया तावत्सूत्रकृदपाठीत् । पदकारास्तु व्याख्यातारः । तत्र सप्तम्यंतमपि श क्यं छेत्तुम् । षष्ठीति चानुवर्त्तते । अन्तरतमे स्थानिनि षष्ठी उपसंहर्त्तव्येति सूत्रार्थः । एवं चाकः सवर्णे दीर्घ इत्यत्र विधेयस्य दीर्घस्यान्तरतमे स्थानिन्यक इति षष्ठया उपसंहारात्सिद्धमिष्टम् । तथा वान्तो यि प्रत्ययइत्यत्र एच इत्यनुवृत्तायाः षष्ठया वांतादेशस्यांतरतमयोरोदौतोरुपसंहारात्सिद्धम् । अन्यथा एज्मात्रस्य वान्तादेशः स्यात् । अत्रेदं दूष ष्णम् । इको यणचीति यण दूस्वानामेव स्थान तु दीर्घाणाम् ।
Page #247
--------------------------------------------------------------------------
________________
१ पा. ७ आ. शब्दकौस्तुभः ।
२४७ अर्द्धमात्रस्य हि मात्रिका सभिकृष्ट इति तत्रैवेक इति षष्ठया उपसंहारात् । तथेको गुणवृद्धी अचोणिति इति षष्ठयोर्गुणवृद्धयोः रन्तरतमेष्वेव इक्ष्वक्ष चोपसंहारात् । नेता लविता नायको लावक इत्यादावेव स्यात् । चेता स्तोता चायकः स्तावक इत्यादौ तु न स्यादिति दिक् । तदेवं सप्तम्यंतपक्षस्य दुष्टत्वात्प्रथमांतपक्ष एव युक्त इति स्थितम् । स्यादेतत् । एवं सति एज्मात्रस्य वातादेशः स्यादिति चेत्। अत्राहुः। पूर्वसूत्रे तावद्यथासंख्यं प्रवृत्तम् । अन्तरतमपरिभाषा-वा। अर्थाधिकारश्चेहाश्रीयते । याशो वान्तादेशः पूर्व दृष्टोकारस्थानिको ऽव् औकारस्थानिकश्चात् तादृशो यि प्रत्यये भवतीति सूत्रार्थः । यद्वा । वांत इति न करिष्यते । न चैवं चेयं नेयामित्यादावतिप्रसङ्गः । क्षय्यजय्याविति योगो विभज्य कण्ठतालव्यस्य चेद्भवति क्षिज्योरेवेति नियमपरत. या व्याख्यानात् । क्षिज्योः शक्यार्थएवेति द्वितीयसूत्रार्थः । तेनार्हाद्यर्थे तयोरपि नेति बोध्यम् । नन्वेवमपि शारिवादिगणपठितेन नृनरयोवृद्धिश्चेति सूत्रेण नरशब्दस्य नारीति रूपं न सिद्धयेत् । तथा हि । नरशब्दस्य कीन्संनियोगेन वि.. धीयमाना वृद्धिरलोत्यस्येत्यंत्यस्य स्यात् । तथा च यस्योति चेति लोपेन तस्यानिवृत्तौ वृद्धिवचनं व्यर्थ स्यात् । न: च नृशब्दार्थ तदिति वाच्यम् । एवं हि सति नुवृद्धिश्चेत्येव: ब्रूयात् । न च नरशब्दोपि परत्वाद्यस्यति लोपे कृते वृद्धिर्भव-: न्ती नानार्थकोति वाच्यम् । प्रत्ययसभियोगशिष्टत्वेन वृद्धरभतरङ्गत्वात् । ननु वचनसामान् वृद्धथा लोपो बाध्यताम्, आहो स्विदन्तरङ्गपरिभाषां वाषित्वा परत्वाद्यस्यति लोपे कृते. वृद्धिर्भवत्विति संशये परिभाषाबाध एवं न्याय्यः। तदुक्तम् । अङ्गगुणविरोधे च तादादिति । किश्च काह कठित्यत्र ज्ञा
Page #248
--------------------------------------------------------------------------
________________
२४८ : . शब्दकौस्तुमः ।
[१ भ० पितत्वेनानुमेयाषा: परिभाषाया एवं बाधेनोपपत्तौ साक्षातस्य यस्येतिलोपस्य बाधो ऽनुचितः । तथा च लोपे कृते वृद्धिरिति सिद्धं नारीति रूपमिति चेत् । सत्यं सिद्धं, किन्तु सप्तम्यंतच्छेदपक्षएव । तत्र हि प्रकृतितोंतरतमनिर्वृत्तिरिति वृद्धयन्तरतमे स्थानिनि षष्ठया उपसंहारात् अकारस्य वृद्धिर्भवति । प्रथमांतछेदपक्षे त्वादेशतोतरतमनिवृत्तिरित्यलोत्यस्यति वचनाद्रेफस्य स्यात् ॥ तस्मात्सिद्धांते नारीति रूपं नरशद्वस्य दुःसाधमिति पूर्वः पक्षः॥अत्राहुः । नरशद्वपाठस्य प्रत्याख्यानमेव भाष्यकृतोभिप्रेतं सप्तम्यंतपक्षनिराकरणभाष्येण तथैवानुमानात्। न चैवं नरशद्वाजानिलक्षणङीष सति नरीति रूपं स्यादिति वाच्यम् । इष्टापत्तेः । तथा च प्रयुज्यते किंनरीणां नरीणामिति । यद्वा । नरशब्दस्य नियतपुल्लिंगत्वमेवास्तु । तथाच कातिप्रसभः । उक्तप्रयोगस्तु पुंयोगलक्षणे डीषि भविष्यति । यथन्या. सेपि तस्य दुर्वारत्वात् । अथ वा नृनरयोरित्यत्रात इति वर्तते । अजाधतष्शाबिति सूत्रात् । तच्चानुवृत्तिसामर्थ्यात्षष्ठया विपरिणतं नरशब्देन सह वैयधिकरण्येन संबध्यते। न तु नृशब्देन । असंभवात् । तस्मात्सिदं नारीति। अत्रेदं वक्तव्यम् । प्रत्याख्यायतां नाम नरशब्दः। ननरयोरिति पठतःसूत्रकृतो मते तु कथमुक्तिसं. भवः । न च नरीत्येवेष्टमिति वाच्यम् । वृद्धिविधायकसूत्रमध्ये नरशब्दपाठस्य वैफल्यापत्तेः। अत इत्यनुवृत्या समर्थनमपि क्लिष्टम् । ए. कदेशानुवृत्तिविभक्तिविपरिणामाद्याश्रयणात् । किञ्च नृनरयो रिति गणपाठे पठ्यते न त्वष्टाध्याय्याम् । गणे चात इति न प्रकृतम् । तथा शार्डरवाद्यत्र इत्यादिशब्देन गणसूत्रमापि ह. दयमागमय्य तत्रात इत्यस्यान्वयो वाच्यः । स च क्लिष्टतर इति स्पष्टमेव । तस्मादित्थं समाधेयम् । नर इति रान्तं लुप्ताकारा
Page #249
--------------------------------------------------------------------------
________________
१ पा. ७ आ. शब्दकौस्तुमः । . २४९ नुकरणं तस्य अः परः । नुश्च नरस्यवति इन्दः । चागणे प्राठाच्च डीन् । यद्वा । स्थानेन्तरतम इत्यत्र तन्त्रेण द्वेधा छेदः सूकृतः सम्मतः भाष्योक्तरीत्या लौकिकन्यायाश्रयणने सूत्रप्रत्याख्यानपक्षोप हि प्रकृतित आदेशतश्चेत्युभयथाप्यन्तरतमनिवृत्ति रस्त्येव । सूत्रकृतो मते वाचनिकी सा । भाष्यकृतस्तु न्या. यसिद्धेत्यन्यदेतत् । तथा च वान्तो यि नृनरयोरित्यादि सर्व . मुस्थमेव । अत एव चतुर्थे स्थानितोन्तरतमनिवृत्तिमाश्रित्य नारीति रूपं साधयन्हरदत्तोपि न विरुध्यते । इको यणचीत्यादावतिप्रसङ्गः परमवशिष्यते । स च त्वादिभ्यः प्वादीनां हस्व इत्यादिज्ञापकेन वाचनिक्या न्यायमूलिकाया वा स्थानितोन्तरतमानिवृत्तेरनित्यतामाश्रित्य परिहर्त्तव्य इति दिक् । सूत्रप्रत्याख्यानप्रकारस्तूच्यते । सभायामास्यतामित्युक्ते हि पण्डिताः पण्डितैः सह समासते, शूराः शूरैः, कवयः कविभिः,न तु सङ्करेण । किं बहुना गवां सधं प्रति गौर्धावति, अश्वो ऽश्वानामित्यादिव्यवस्था तिर्यक्ष्वपि दृश्यते । तस्मात्पथमवाक्यार्थस्य लोकत एव लाभान तदर्थ सूत्रमारम्भणीयम् । एवं स्थानत आन्तर्य बलीय इत्यपि लोकत एव सिद्धम् । तथाहि । भूयः सहचरितयोरश्वयोर्गवोर्वा सजातीयान्तरसंबलने सत्यपि कृशत्वपाण्डत्वादिगुणसदृशानपि हित्वा स्थानसाम्यपुरस्कारेणैव परस्परापेक्षा दृश्यते । तदेवं लोकतः सिद्धे किं वचनेनेति ॥
उरण रपरः ॥ ऋवर्णस्य स्थाने यो ऽण् स प्रसङ्गावस्थायामेव रप्रत्याहारपरस्स्यात् । ऋकारेण सावात्रिंशत उपस्थाने सति स्थानेंतरतमपरिभाषया रश्रुतिमतः स्थाने रपरो लश्रुतेस्तु लपर इति विवक्तव्यम् । कृष्णद्धिः, तवल्कारः, ऋलस्थाने
Page #250
--------------------------------------------------------------------------
________________
२५०
'शब्दस्तुभः ।
[ १ अ०
यो ऽण् इति ग्रन्थस्तु यथासंख्यभ्रमापादको संगतश्च । शब्दतः साम्येनाभिमता निर्वाहात् । न हि सूत्रे शब्दद्वयमस्ति । अर्थतस्तु नतरां साम्यम् । अथात्र न यथासंख्यमभिमतं तार्ह किं वृत्तिमध्ये द्वयोरेव विशिष्योल्लेखनेन । आ च आ च रलौ ऋलोः स्थानमिति विग्रहे उश्च उल् च ऋलोरिति विग्रहे वा द्वन्द्वस्य दुलभत्वाच्च । स हि विरूपाणामपि समानार्थानामित्येकशेषेण बाध्यते । चित्रगुशब्दस्य चित्रगवी परतायामिव साधुत्वनिर्वाहार्थं लक्षणामाश्रित्य लक्षितलक्षणया शक्यार्थे पर्यवसानमिति कथं चिन्निर्वाहस्तु ग्रन्थे श्रद्धालुभिरास्थेय इति दिक् । अत्र पक्षचतुष्टयं सम्भाव्यते । उः स्थाने रपरो ऽण् स्यादिति रपरत्वः विशिष्टो ऽण् विधीयतइति प्रथमः पक्षः । उः स्थाने अणामनणां च प्रसङ्गे अणेवेति नियमः । स च रपर इति वाक्यभेदे - न रपरत्वं विधीयतइति द्वितीयः पक्षः । उः स्थाने योणित्यनू - द्य तस्य रपरत्वं विधीयतइति तृतीयः । प्रसंगावस्थायामेव रपरत्वं विधीयतइति चतुर्थः । तत्राद्ये पक्षे नामाप्तेषूदात्तादिषु विधीयमानोण् तेषां बाधकः स्यात् । तैरनवरुद्धस्य विषयस्या - लाभात् । एवं तदा वचनव्यक्तिः । षष्ठीनिर्दिष्टमात्रस्य भवन्नादेशोन्तरतमः स्यात् । ऋवर्णस्य त्वण् रपर इति । ततश्चोदात्तानुदात्तस्वरितानुनासिकेषु दोषः । तथाहि । कृतिरित्यत्र नित्यादिर्नित्यमिति प्राप्तम् ऋकारं बाधित्वा ऽण् रपरः स्यात् । तथा प्रकृतं प्रहृतमित्यत्र गतिरनन्तर इति पूर्वपदप्रकृतिस्वरे कृते शेषनिघातमुदात्तादनुदात्तस्येति स्वरितं च बाधेत । तथा नृपाहीत्यत्र नृपइति ज्ञापकात्पूर्वसवर्णदीर्घसंभवेप्यनुनासिकं बाविस्वा ण् रपरः स्यात् । किञ्च कर्त्ता कारक इत्यत्र गुणवृद्धी बाधित्वान् भवन्नकार एवेति नियमाभावात् कदा चिदिकार उ
Page #251
--------------------------------------------------------------------------
________________
१ पा. ७ आ. शब्दकौस्तुमः । २५१ कारश्च स्यात् । अपि च ये ऽमी प्रतिपदोक्ता इत्वोत्वादय ऋत इद्धातोरुदोष्ठयपूर्वस्यति तेषु रपरत्वं न स्यात् । द्वितीये तु गुणवृद्धयोर्न दोषः । अणनणोः प्रसक्तावणेवेति नियमेन कर्ता कारक इत्यादिसिद्धेः । ननु इस्वे स्थानिनि सर्वा वृद्धिरनन्तरतमा तारक इत्यादौ दीर्घे तु सर्वापि प्रमाणतोतरतमेत्यविशेषादुभयत्रापि सकलवृद्धिप्रसंगे नियमोस्तु, गुणस्तु कर्ता इत्यादौ मात्रिक एव प्राप्तः । तरितेत्यादौ द्विमात्रस्य तु द्विमात्र एकेव प्राप्तः । तथा च अणनणोः प्रसंगाभावेन नियमाप्रवृत्तौ दीर्घवेडेच स्यात् । हूस्वेषु त्वकारो भवन्नपि रपरोन स्यात् । यो हिमथमवाक्येनाणेवेति नियम्यते । तस्यैव द्वितीयेन रपरत्वं विधीयते । तथा च गुणे दोषोस्त्येवेति चेत् । चजोः कुघिण्ण्यतोरित्यादौ सावकाशायाः स्थानेन्तरतमपरिभाषाया वृद्धिविधौ चरितार्थयाप्युरणपर इत्यनया गुणप्रसङ्गे रपरत्वेन बाध्यत्वात् । तस्माद द्वितीयपक्षे गुणवृद्धयोने कश्चिदोष इति स्थितम् । उदात्तादिषु दोषस्तु स्यादेव । तथा प्रतिपदोक्तेष्वित्वादिष्वपि । तृतीये तूदात्तादिषु न दोषः। तत्तविधिभिरन्तरतमपरिभाषासंस्कृतैक्रवर्णस्यैव विधानात् । किरतीत्यादावपि न दोषः । गुणवृ. द्धयोस्तु दोष एव । तथाहि । आन्तयेतो मात्रिकस्य मात्रिके गुणेरपरत्वे च कर्तेत्यादि यद्यपि सिद्धयति तथापितरितेत्यादावेडेव स्यात्तथा अविशेषाद् वृद्धित्रयेपि प्रवृत्ते अकारस्याण्त्वाद्रपरत्वे कृते कारकस्तारक इत्यादि यद्यपि सिद्धयति तथापि कायकस्तावक इत्याद्यनिष्टमप्यापद्यते । यत्तु पूर्वसूत्रे भाष्यकारैरिमं पक्षमाश्रित्य समाहितमनान्तर्यमेवैतयोरान्तर्यमिति । यच्च तत्रैव वार्तिककारैरुक्तं संप्रयोगो वा नष्टाश्वदग्धरथवदिति । तदुभयमपि पाक्षिकं बोध्यम् । तथाहि । यदा ऋत्वजात्यवच्छि
Page #252
--------------------------------------------------------------------------
________________
२५२ शब्दकौस्तुमः । [१ अ. अस्प कोन्तरतम इति परीक्ष्यते अवजात्यवच्छिन्नश्च कस्येति । सदाऽनुरूपमतिसंवन्धिराहित्येनैव धर्मेणैतयोरान्तर्यम् । न ह्यान्तर्य चतुर्देति मुनित्रयोक्तिरस्ति प्रत्युत सोष्मणः सोष्माण इति भाष्याद् वृत्तेश्चानियम एव लभ्यते । एवं च नष्टाश्वदग्धरथन्यायोपि जात्यवच्छेदेन परीक्षायामेव । व्यक्तिपुरस्कारेण परीक्षायां तूक्तरीत्या दुष्टोयं पक्षः । तथा चात्र सूत्रे वातिकम् । य उस्स्थाने ऽण् स रपर इति चेद् गुणवृद्धयोरवाप्रतिपत्तिरिति । किञ्चास्मिन्पक्षे क रेफपरत्वं क वा लकारपरत्वमिति व्यवस्थापि दुरुपपादा स्यात् । स्वतन्त्रः कति निर्देशान विनिमयो प्रोयङयचिविभाषेत्यारम्भाच्च न विकल्प इति समर्थनेपि प्रतिपत्तिगौरवं स्यादेव । रेफस्य पूर्वान्तता साधयितुमाद्यन्ताविति सूत्रात्समासैकदेशभूतमन्तग्रहणमनुवर्त्य तस्य रपर इत्यन्यपदार्थविशेषणीभूतेन रेफान्वयश्च वाच्य इति महान्लेशः । चतुर्थपक्षे तु नैतदुपयुज्यतइति वक्ष्यामः । तस्मानिर्दोषत्वाच्चतुर्थपक्ष एवाश्रितः । स चेत्थमुपपादनीयः । स्थाने शब्दद्वयमिहानुवर्तते तत्रैकमुः स्थाने यो ऽणित्यनुवादपि स्थानसम्बन्धलाभाय । द्वितीयं तु प्रसङ्गावस्थायामेव रपरो भपतीति कालविधानार्थम् । स्थानेन्तरतमसूत्रे स्थानशब्दस्य ताल्वादिपरत्वेपि शब्दाधिकाराश्रयणादिह प्रसङ्गपरत्वं बोध्यम् । एवं च गुणवृद्धयोः प्राप्तयवस्थायामेवाणो रपराः सम्पन्ना इति प्रमाणतोन्तरतमावैङावैचौ बाधित्वा स्थानतोन्तरतमोणेव भवतीति न कश्चिद्दोषः । एव मुदात्तादिविधिष्वप्यन्तरतमत्वाहकारो भवति नतु अर् इर् इत्यवधेयम् । न चैवं कर्नत्यादावनेका. ल्त्वात्सर्वादेशप्रसङ्गः । आनुपूर्येण सिद्धत्वात् । तथाहि । स्थानित्वमुपजीव्य प्रवृत्तं रपरत्वं सर्वादेशतां नापादयति ।
Page #253
--------------------------------------------------------------------------
________________
१ पा. ७ आ. शब्दकौस्तुमः । २५२ उपजीव्यविरोधात् । तथा च पूर्वसूत्रे वार्षिकम् । सर्वादेशप्रसङ्गस्त्वनेकालत्वात् । न वानेकालत्वस्य तदाश्रयत्वाहवर्णादेशस्याविघात इति । अण्ग्रहणं किम् । रीझिकादीनां रपरस्वं मा भूत्। मात्रीयति। क्रियते । तथा ढकि लोपोपिरपरः स्यात् । एवे च सूत्रवैयापत्तौ सामर्थ्यादनेनालोन्त्यविधि बाधित्वा सर्वादेशः स्यात् । तथा होतापोतारावित्यत्रानकोप रपरत्वे संयोगान्तलोपे च कृते तस्यासिद्धत्वावलोपो न स्यादिति दिक् । अथ यो रिकादिष्वण स रपरः कुतो नेति चेत् । अनादेशत्वात् । आदेशत्वं हि समुदाये विश्रान्तम् । न चैवं कृष्णार्दिरित्यादौ रपरत्वं न स्यात्पूर्वपरसमुदायस्य स्थानित्वादिति वाच्यम् । पूर्वपरयोरिति द्विवचननिर्देशेन सहितयोरवयवयोरेव स्थानित्वावगमात् । अत एव द्वयोः स्थानिनो. भिन्नादिषु नत्ववद् द्वावादेशौ मा भूतामिति तत्रैकग्रहणं कृतम् । तस्माहकारस्यापि स्थानित्वमस्त्येव । तदुक्तम् । यो त्धुभयो। स्थाने भवति लभते ऽसावन्यतरतो व्यपदेशमिति । तस्मादेकादेशेपि रपरत्वं भवतीति स्थितम् । स्यादेतत् । उक्तरीत्या ऋत उदित्युकारादेशस्यापि रपरत्वं स्यात् । तथा च विभक्तिसकारस्य रुत्वे कृते पूर्वस्य रोरीति लोपे दूलोपइति दीर्पण मातूः पितू. रिति प्रामोतीति चेत् । मैवम् । रुत्वस्यासिद्धत्वेन रात्सस्यति सकारलोपे रेफस्य विसर्गेण रूपसिद्धेः। नन्वेवं मातुःकार्यमित्यत्र षत्वं स्यात् । इदुदुपधस्य चापत्ययस्येति सूत्रात् । न चायं प्रत्ययविसर्जनीय एवेति वाच्यम् । अकारस्य प्रत्ययावयवत्वेप्यात्ययतया तदादेशस्य सुतरामतथात्वादिति चेत् । उच्यते । ऋत उदित्येकादेशस्य परादिग्रहणेन ब्रहणादस्ति तावत्सान्तस्य प्रत्ययसंझ सकारे लुप्ते त्ववशिष्टस्यैव प्रत्ययसंज्ञा । एकदेशवि
Page #254
--------------------------------------------------------------------------
________________
२५४
शब्दकौस्तुमः [१ अ. कृतस्योपसंख्यानात् । स्थानिवदादेश इत्यत्रादेशग्रहणाद्वा । अत एव यङो यकारे लुप्ते अकारस्य प्रत्ययसंज्ञेत्युक्तम् । तथाचामत्ययस्येति षत्वनिषेधः सिद्धः । न चैवं प्रत्ययाक्यवस्था. निकत्वेपि प्रत्ययस्थानिकत्वाभावात् षत्वं स्यादेवेति वाच्यम् । अप्रत्ययस्येत्यनुवादे परिभाषानुपस्थानेन स्थानेयोगस्य दुर्लभत्वात् । अवयवावयविभावस्य षष्ठयर्थत्वसम्भवात् । नन्वप्रत्ययस्येति पर्युदासः तथा च पूर्वान्तत्वेनैकादेशग्रहणात्पत्वं स्यादेव । किञ्च प्रसज्यप्रतिषेधपक्षेपि सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात् । अप्रत्ययो यो विसर्गस्तस्य पत्वं स्यादिति वाक्यार्थः। तथा चाग्निः करोतीत्यादौ स्थानिवद्भावेन विसर्गस्य प्रत्ययत्वान्मा भूत् षत्वम् । मातुःकार्यमित्यादौ तु स्यादेवेति चेत्। इहेदं तत्त्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठो ज्ञापकएकादेशशास्त्रेण नित्तात्परस्य षत्वं न स्यादिति । यद्वा प्रसज्यप्रतिषेधवैयधिकरण्यान्वयावेव ज्ञाप्यते । यत्तु भाष्यं लुप्यते प्रत्ययो रात्सस्यति । यच्च कैयटकृतं तव्याख्यानम् । उत्वे कृते ऽवशिष्टः सकार एव प्रत्ययसंज्ञः स च लुप्त इति । तदुभयमपि चिन्त्यम् । इह सिद्धं तु प्रसंगे रपरत्वादिति पक्षे यद्यप्यरारादिरूपेण विधानादभक्तत्वादिशकैव नास्ति तथापि संप्रयोगो वेति पूर्वसूत्रोक्तरीत्या तृतीयपक्षमाश्रित्य भाष्ये पक्षत्रयं चिन्तितम् । तत्राभक्तत्वपक्षे परादित्वपक्षे च ववे इत्यादावुरदत्वेरपरत्वे च कृते हलादिशेषेण रेफो न निवर्तेत । अभ्यासावयवस्यानादेहल एव तेन निवर्तनात् । तस्मादन्तग्रहणमनुवर्त्य पू. न्तिपक्ष एवेह स्थापित इति संक्षेपः॥ __ अलोन्त्यस्य ॥ स्थानषष्ठीनिर्दिष्टस्य यदुच्यते तत्तदन्त्यस्यालः स्थाने बोध्यम् । त्यदादीनामः । सः । यः । स्थानष
Page #255
--------------------------------------------------------------------------
________________
१. पा. ७ आ.
शब्दकौस्तुभः ।
२५५
ष्ठीति किम् । आर्द्धधातुकस्येट्, तृच ऋकारात्पूर्वो मा भूत् । इदं च षष्ठीस्थानेयोगेति सूत्रस्यानुवृत्तेर्लभ्यते । अल इति किम् । पदस्येत्यधिकृत्य विधीयमानं वसुसंस्विति दत्वं परमानदुद्भयामित्यादावन्त्यस्य पदस्य मा भूत् । एतेनाल इति जसन्तमाश्रित्यालात्मका आदेशा अन्त्यस्य स्युरिति व्याचक्षाणाः परास्ताः । अन्त्यस्य पदस्यापि प्रसङ्गात् । किं चैवं लाघवार्थमलन्त्यस्येत्येव सूत्रयेत् । अपि चारुर्मनश्चक्षुश्चेतोर होरजसां लोपः पादशतस्य संख्यादेरिति लोपो ढकि लोपश्च सर्वादेशः स्यात् । ततश्च विरजीकरोतीत्यादि न सिध्येत् । यत्तु अल इति जसन्तमिति पक्षे अनेकाल्शित्सर्वस्येति सूत्रे अनेकाल्ग्रहणं न कर्त्तव्यमिति लाघवोपवर्णनं, तदपि न । षष्ठीति पक्षेपि ङिच्चेत्यत्र ङिदेवाने काल अन्त्यस्य स्यात् । न तु अङिदपीति नियमाश्रयणेनाने कालग्रहणप्रत्याख्यानसम्भवात् । वस्तुतस्तु पक्षद्वयेप्यनेकालग्रहणं कर्त्तव्यमेव । अन्यथा ऽतो भिस ऐसित्यादिपञ्चमीनिर्देशेष्वने कालप्यादेशः परस्यादेः स्यात्। सत्यनेकाल्ग्रहणे परत्वात्सर्वादेशः । अत एव तस्मादित्युत्तरस्यादेरिति न सूत्रितम् । तथाहि । अलोंत्यस्येत्यस्य द्वावपवादौ । आदेः परस्य, अनेकालशित्सर्वस्येति । तत्र प्रथमस्यावकाशः । ईदासः, बहोर्लोप इति । आसीनः, भूयान् । द्वितीयस्यावकाशः । अस्तेर्भूरित्यादि । अतो भिस इत्यादेः परत्वात्सर्वा - देशत्वे सिद्धं रामौरत्यादि । न चादेः परस्येत्यत्राल इति जसन्तमनुवर्त्य रामैरित्यादि साधनीयमिति वाच्यम् । तथा सति भूयान् भूमेत्याद्यसिद्धयापत्तेः । तदेवं कार्यस्यान्त्येल्यनुसंहारो व्याख्यातः । ङिच्चेत्याद्यग्रिमसन्दर्भानुगुणत्वात् । यद्वा । षष्ठया एवायमनुसंहारः । या स्थानेयोगा षष्ठी सान्त्यस्यालो बोध्ये
।
Page #256
--------------------------------------------------------------------------
________________
२५६
शब्दकौस्तुभः
[ १ भ०
ति । अत्र पक्षे ङिच्चेत्यस्यायमर्थः यत्र ङिदादेशो विधीयते तत्र या षष्ठी सा अन्त्यस्याल इति । एवमग्रेपि ॥
1
ङिच्च ॥ ङिदने कालप्यन्त्यस्य स्यात् । दध्ना । दध्ने । अनन्यार्थङित्वेष्वनङादिषु चरितार्थमिदं तातङि परेणानेक्राशित्सर्वस्येत्यनेन बाध्यते । ननूत्सर्गापवादयोरयुक्तो विप्रतिषेध इति चेत् । सत्यम् । सर्वादेशेपि तातङि गुणवृद्धिप्रतिषेधरूपं प्रयोजनं सम्भाव्यते । तावता च किञ्चिद्विलम्बेन प्रवृत्तोयमपवादोप्यस्मिन्विषये उत्सर्गेण समकक्षतामापत्र इति युक्तो विप्रतिषेधः । यद्वा । एरुरित्यस्यानन्तरन्तिह्योस्तादिति वक्तव्ये ङित्करणं गुणवृद्धिप्रतिषेधार्थमेवेति विप्रतिषेधोपपत्तिः । अस्तु वा विनापि विप्रतिषेधं सर्वादेशः । प्रदर्शितस्य गुणवृद्धिप्रतिषेधार्थत्वस्य सर्वादेशतामन्तरेणानुपपत्तेः ॥
आदेः परस्य । परस्य यद्विधीयते तदादेरलो बोध्यम् । ईदासः । अत्र तस्मादित्युत्तरस्येत्युपतिष्ठते । तेनादेशकारः । आसीनः ॥
अनेकाल शित्सर्वस्य || अनेकाल् आदेशः शिच्च सर्वस्य स्यात् । अस्तेर्भूः । भविता । इदम इशू । इतः । ङिच्चोति नियमात्सिद्धे ऽनेकालग्रहणमपवादविप्रतिषेधार्थमित्युक्तम् । यत्तु वृत्तिकारैर्जश्शसोः शिरिति शित उदाहरणं दत्तम् । तच्चि - न्त्यम् । सर्वादेशतां विना तत्र शिवस्यैवालाभात् । सर्वादेशवाया श्रानृपूष्पादनेका लत्वेनैव जल्डादेशादिष्विव सिद्धत्वात् । तथाहि । णल्डाशिप्रभृतयो यदा सर्वादेशास्तदा प्रत्ययसंज्ञाः । ततः प्रत्ययादित्वप्रयुक्ता इत्संज्ञा । ततो लोपः । तत एकालत्वे सत्यपि न सर्वादेशत्वक्षतिः । उपजीव्यविरोधापत्तेः | अत एव हि कर्तेत्यादौ न सर्वादेशतेत्युक्तम् । शकारेणानुबन्धेन इश्य
Page #257
--------------------------------------------------------------------------
________________
१पा. ७ आ. शब्दकौस्तुभः ।
२५७ भ्रतीनामनेकालत्वादेव सिद्धे शिद्रहणं नानुबन्धकृतमनेकाल्त्वमिति ज्ञापनार्थम् । तेन दिवउत् अर्वणस्त्रसावित्यादेर्न सर्वादेशतेति बोध्यम् । ननु कथं ज्ञापकता घ्वसोरेद्धावभ्यासलोपश्चेत्येतदर्थतया शिद्ग्रहणस्य चरितार्थत्वात् । तत्र हि लोपश् इति छिद्यते संज्ञायां च कृतं शित्त्वं तत्रानुपयुक्तं सत्संज्ञिनि फलति, उन्मुटष्टित्ववदिति सिद्धान्त इति चेत् । सत्यम् । अनेकान्ता अनुबन्धाइति पक्षे नानुबन्धकृतमनेकाल्त्वमित्यत्य प्रयोजनाभावात्तदभिप्रायको लोपशितिच्छेद इति सिद्धान्तः । एकान्ता इति पक्षे तूक्तरीत्या ज्ञापकमावश्यकम् । ध्वसोरित्यत्र तु लोप इत्येव छेदः । लोपोयीति प्रकृते पुनर्लोपग्रहणसामर्थ्यात्सर्वादेशः । वार्तिकमते तु नानर्थकेलोन्त्यविधिरित्येव सिद्धम् । न चानभ्यासविकारेष्विति पर्युदासस्यायं विषयः। लोपस्य विकारत्वाभावात् । रूपान्तरापतिर्हि विकारः । यथा भृक्षामित् अतिपिपोश्चेत्यादिः । अत एव पस्पशायां लोपो विकारात्पृथगुपातः लोपागमवर्णविकारज्ञो हि वेदं परिपालयिष्यतीति । उक्तं च पृषोदरादीनीत सूत्रे कैयटेन । द्वौ चापरौ वर्णविकारनाशाविति । वस्तुतस्तूपदेशावस्थायामेवान्तरङ्गनयेत्संज्ञा । अत एवोच्चरितप्रध्वंसिनोनुबन्धाः स्मर्यमाणाः सन्त एव कार्य निर्वाहयन्तीति सिद्धान्तः। इदं चोत्तरसूत्रे एव कैयटे स्फुटम् । तथा च दिव उत् अर्वणस्त्रित्यादेरेकाल्त्वादेकान्तपक्षेपि न सर्वादेशता प्रसज्यते । एवं च नानुबन्धकृतमनेकाल्त्वमिति ज्ञापनं. व्यर्थम् । शिदहणं च.सुतराम् । इदम इश् इदं किमोरीशकीतीशीशोस्तु शकारोच्चारणसामर्थ्यात्सर्वादेशतायाः प्राङ् नलोपः। यत्तुं कृतेपि सर्वादेशे प्रयोजनाभावाच्छकारस्येत्संज्ञा न स्यादिति हरदत्तेनोक्तम् । तन्न । लोपस्यैव प्रयोजनत्वात् ।.
३३
Page #258
--------------------------------------------------------------------------
________________
२५८
शब्दकौस्तुभः । [१ अ. न चैवमुच्चारणवैयर्य, सर्वादेशत्वसम्पादनेन कृतार्थत्वादिति दिक् । तस्मादिह सूत्रभाष्यकृतोरभिप्रायश्चिन्त्यः । इह नानेका. शिदिति पठित्वा अन्त्यस्यादेरित चानुवांनुसंहारद्वयनिषेधे सर्वस्येति शक्यमकर्तुम् ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे सप्तममान्हिकम् ॥
स्थानिवदादेशोनल्विधौ ॥ आदेशः स्थानिवत्कार्यं लभते प्रवर्तयति च । तृतीयान्ताद्वतिना स्थानिना तुल्यं वर्ततइति वाक्यार्थलाभात् । यद्रूपवैकल्यादुपदेशाप्रवृत्तौ सत्यामतिदेशो मृग्यते तच्चेद्रूपं स्थान्यलो ऽसाधारणं न भवेत् । आवधिषीष्ट। अत्र हन्तर्विधीयमानमात्मनेपदमतिदेशाधेरपि भवति । आ. डोयमहन इत्यत्र हि अल्नाश्रीयते। रामायेत्यादौ सुपिचेति दीर्घकतव्ये यद्यपि यत्रादौ इत्यलाश्रीयते तथापि न तत्र तद्विरहप्रत्युक्ताः सुपिचेत्यस्याप्रवृत्तिः । यादेशस्य यत्रादित्वात् । सुप्त्ववैकल्यातूपदेशस्याप्रवृत्तिः। सुप्त्वञ्चेह यद्यपि ए इत्यस्मिन्नलि वर्तते तथापि न तदलो ऽसाधारणम् । भ्यामादौ समुदाय विश्रान्ते। इदं च कार्यकालपक्षाश्रयेणोक्तम् । यथोद्देशपक्षे तु सुप्संज्ञाया अपि शास्त्रीयत्वात्सैवातिदिश्यते । तत उपदेशेनैव दीर्घ इति न किञ्चित्कष्टम् । एतेनारुदितामरुदितमित्यादाविडागमोपिः व्याख्यातः । तत्रापि सार्वधातुकसंज्ञातिदेशसम्भवादिति दिन। अत्र धात्वङ्गकृत्तद्धिताव्ययसुप्तिपदादेशाः प्रयोजनमिति वृ-; तिकृतः । उदाहरणदिक् चेयम् , न तु परिगणनमिति भ्रमितव्यम् । च्ले सिजित्यादीनामसङ्ग्रहापत्तेः । क्रमेणोदाहरणा-, नि । अस्तेर्भूः । आर्द्धधातुके विवक्षिते । अत एवाङ्गात्त्पृथक् धातूपादानम् । धातुत्वाद्धातुप्रत्ययाः । भव्यम् । केन काभ्यां कैः । अङ्गत्वादिनादेशदीर्घम्भावाः । कृत् । प्रकृत्य । कृत्वा।
Page #259
--------------------------------------------------------------------------
________________
१.पा. ८ आ.
शब्दकौस्तुभः ।
स्वस्य पिति कृतीति तुक् । अद्यतनम् । तद्धितत्वात्तदन्तत्वप्रयुक्ता प्रातिपदिकसंज्ञा । कदश्वः । स्थानिवद्भावेनाव्ययत्वादव्ययपूर्वपदप्रकृतिस्वर इत्याहुः । तच्चिन्त्यम् । स्थानेन्तरतमपरिभाषया गतार्थत्वाम् । अधोध इति तूदाहरणमाष्टमिकद्वित्वस्य स्थाने द्विर्वचनरूपत्वात्संभाव्यते किन्तु तत्रापि फलं दुर्वचम् । तस्मादधोधःकाम इत्युदाहार्यम् । अतः कृकमीति प्राप्तस्य सस्वस्याव्ययत्वात्पर्युदासः । यत्तु वृत्तौ प्रस्तुत्येत्यव्ययादेशोदाहरणम् | तच्चिन्त्यम् । क्त्वामात्रस्यानव्ययत्वात् । तदन्तविधेः सर्वैकवाक्यतया सिद्धान्तितत्वात् । न च जहत्स्वार्थायां वृत्तौ क्त्व आ नर्थक्यात्सर्वे सर्वपदादेशा इत्यभिप्रायेणेदमिति वाच्यम् । हूस्वस्य पिति कृतीति तुगभावापत्तेरिति दिक् । सुप् । रामाय | तिङ् | अपचताम् । तिङन्तत्वात्पदत्वम् । वः, नः । पदत्वादुत्वादि । नन्वेवमध इत्यस्यापि पदादेशत्वादेव गतार्थतेति चेत्सत्यम् । गोवलीवर्दन्यायेनाव्ययग्रहणादिति दिक् । इहकाभ्यामित्यादावादेशः कार्यं लभते केन कैरित्यादौ तु परस्य प्रवर्तयतीति विवेकः । ननु वत्करणं मास्तु, स्थान्यादेश इत्येतावताप्यसंयोगाल्लिट् किदित्यादाविव वत्यर्थलाभात् । यदाहुः । परत्र परशब्दः प्रयुज्यमानो विनापि वर्ति वत्यर्थे गमयतीति । न च स्थानी आदेशं प्रतिपद्यतइत्येव वाक्यार्थः किं न स्यादिति वाच्यम् । तत्तदादेशविधायकैरेव गतार्थत्वात् । न चादेशः स्थानिरूपमापद्यते । वचनद्वयप्रामाण्याच्च विकल्प इति वाच्यम् । वा लिटीत्यारम्भात् । न च चक्षिङः ख्याम् आदेशः स्थानीति वचनद्वयप्रामाण्यात्सर्वत्र विकल्पापत्तौ लिव्येवेति नियमार्थं तत्स्यादिति वाच्यम् । एवमपि विभाषा लुङ्लुङोरित्याद्यप्राप्तविभाषासु वाग्रहणवैफल्यापत्तेः । अस्तिभूभ्यां रूपद्वयसि -
२५९
Page #260
--------------------------------------------------------------------------
________________
२६० शब्दकौस्तुभः । [१ ० दावस्तेभरित्यस्य वैयापत्तेश्च । अत्राहुः । पत्करणाभावे स्था-' नी आदेशस्य संज्ञा स्यात् । प्रायेण ह्यस्मिन्पादे संज्ञासूत्राण्येवारभ्यन्ते । ततश्चाङगेयमहन इत्यात्मनेपदं वधेरेव स्यान्न तु ह. न्तेः । न च स्वरूपमिति हन्तेरपि ग्रहणम् । अशब्दसंज्ञोत निषेधात् । न च स्थानिनः संज्ञात्वे सिद्धं धर्मिणमित्यादिन्यायबाधः । अनेकशक्तःशब्दस्य शक्त्यवच्छेदेन संज्ञिनि विनियोग इति पक्षे सं. शाया एवोदेश्यकोटिनिवेशात्ान चैवमाडो वधियम इत्येव ब्रूयादि. तिवाच्यम् । वध हिंसायामिति भौवादिकस्यापि ग्रहणापत्तेः।न चैवमाडो वधयम इति पठ्यताम् । अकारस्य विवक्षितत्वाच्चन भौवादिकतिप्रसंग इति वाच्यम् । सकलहन्त्यादेशसंग्रहार्थमाङो यमहन इत्यस्यैव वाच्यत्वात् । तथा चावधिष्टवदाजघ्ने इत्यत्रा. प्यात्मनेपदं सिद्धम् । तथाहि । हन्तेलिटि लसामान्यापेक्षत्वादन्तरगत्वात्तिवादिषु कृतेषु परत्वनित्यत्वाभ्यां शेषात्कर्तरीति बाधित्वा लिदि धातोरिति द्विःप्रयोगे ऽभ्यासस्य चुत्त्वे ऽभ्या. सात्परस्य घंत्वे एकदेशविकारासम्भवेन समुदायस्य समुदायादेशत्वादन्त्यादेशत्वं ततो वधिना सह तुल्ययोगक्षेमतवति दिक् । अस्तु वा स्थानिन आदेशः संज्ञा । तथाप्यनिष्टं तुल्यमेव । त. थाहि । अस्यतिवक्तीत्यत्र ख्यातिपदेन चक्षिङव गृह्येत । कृत्रिमत्वात् । तथा च समचक्षिष्टेत्यत्राङ् स्यात् आख्यतेत्यत्र च न स्यात् । न चैवं चक्षिङ इत्येव ब्रूयात् । अनुबंधानर्देशेनापि य.
लुग्वारणसम्भवादिति वाच्यम् । एवमपि गाङ्कुटादिसूत्रे गाडा इङ्गाङोग्रहणापत्तेः । इङित्यवचनसामर्थ्याद छुभयगतिः स्यात् । गमेरिट परस्मैपदेवित्यत्र विणिडिकामेव ग्रहणं स्यात् । तस्मात्कर्त्तव्यमेव वत्करणम् । नन्वेवं वत्करणाभावा. धीनलाघवानुरोधात्संज्ञाप्रकरणादन्यत्रैव स्थानिवद्भावप्रकरणं
Page #261
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः । - २६१ क्रियतामिति चेन । तथा सत्यादेशग्रहणं विना वाक्यार्थानिर्वाहे बहुगौरवापसेः। सिद्धान्ते त्वादेशग्रहणमातारच्यमानमानुमानिकसंग्रहार्थ भवतीति तहलेनैकदेशविकृतस्योपसंख्यानमि. ति वार्तिकं प्रत्याख्यास्यते । अपि च काममतिदिश्यतां वेति वक्ष्यमाणमपि वत्करणायत्तमिति दिक् । स्यादेतत् । यदि संज्ञाप्रकरणे वत्करणं विना अतिदेशालाभस्ताई कित् ङित् इत्यादौ का गतिरिति चेत् । उच्यते । किदिति न संज्ञा । न क्त्वा सेडिति ज्ञापकात् । नहि क्त्वः कित्संज्ञा प्राप्ता या निषिध्येताननु मृडमृदेति प्राप्ता सा निषिध्यताम् । वचनद्वयसार्थक्याय च विकल्पो ऽस्त्विति चेन्न । मृडमृदेत्यत्रैव वाग्रहणस्य सम्भवात् । किश्चैवं निष्ठाशीङित्यादि व्यर्थ स्यात् । न हि शीडादिभ्यो निठायाः केन चित्संज्ञा प्राप्ता । एवं डिदित्यतिदेशः, कित्साहचर्यात् । किं च डिदित्यस्य संज्ञात्वे अहिज्यादिसूत्रे ऽस्यैव ग्रहणं स्यात् कृत्रिमत्वात् । तथा च नवश इति सूत्रं व्यर्थ स्यात् । बावश्यतइत्यत्र संप्रसारणामाप्तेः । किं च किति चेत्यत्रास्याग्रहणं स्यात् संज्ञास्वरूपानुच्चारणात् । तथा च गाछुटादीत्यत्र कुटादिग्रहणं व्यर्थ स्यात् । बहुगणेत्यत्र तु संख्येत्यतिदेशः । अन्यथा टिघुभादिवदेकाक्षराया एव संज्ञायाः कर्त्तव्यतापत्तेः । किकिनौ लिट्चेत्यादि तु न संज्ञाप्रकरणं तेन लिड्वदित्यतिदेशो निर्वाध इति दिक् । अथादेशग्रहणं किमर्थम् । स्थानिवदित्येतावतैव संबन्धिशब्दमहिम्ना तल्लाभात् । यथा पितृवदधीते इत्युक्ते पुत्र इति गम्यते इति चेत् । सत्यम् । द्विविध आदेशः । अस्ते रित्यादिः प्रत्यक्षः । तेस्तुरित्यादिस्त्वानुमानिकः। सत्र होकारेणेकारान्तः स्थान्यनुमीयते । उकारेण चोकारान्त आदेशः । तथा च तेस्तुरित फलितार्थः । तत्रासत्यादेशग्रहणे
Page #262
--------------------------------------------------------------------------
________________
२६.२
शब्दकौस्तुमः । . [१ अ० प्रत्यक्षस्यैव ग्रहणं स्यानानुमानिकस्य । आदेशग्रहणसामर्थ्यास्तूभयपरिग्रहः। तेन पचात्वित्यादेस्तिङन्तत्वात्पदसंज्ञा सिद्धयति । नन्वेरुरित्यादि यथाश्रुतमस्तु । एकदेशविकृतस्यानन्यत्वाच्च पदत्वं भविष्यतीति चेन्न । अर्थवत्येव स्थान्यादेशभाववि. श्रान्तेवाच्यत्वात्तस्यैव प्रसङ्गसम्भवात् । तथाहि । षष्ठीस्थानेयोगेत्युक्तम् । स्थानं च प्रसङ्गः । स चार्थवतः । अर्थप्रत्यायनार्थ शब्दप्रयोगात् । यद्यपि च्ले: सिजादाक्सम्भवीदम् । तथापि सति सम्भवे ऽर्थप्रयुक्तप्रसङ्ग एव ग्राह्य इत्यादेशग्रहणेनैव ज्ञाप्यते । उक्तञ्च । सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्त्वं नोपपद्यते ॥ पदमिहार्थवत् । पद्यते ऽनेनेति व्युत्पत्तेः । यद्यपि सर्वविकारे मुतरां नित्यत्वानुपपत्तिः । तथापीह विकार एव नास्तीति तात्पर्यम् । तथा च वार्तिकम् । कार्यविपरिणामावति।कार्यमिह ज्ञानं योग्यताबलात् । तथा च ज्ञाननिष्ठमुत्पादविनाशादिकं विषये आरोप्यते इति भावः । नन्वेवं बुद्धिविपरिणाममात्रस्य स्थान्यादेशभावत्वे ऽपवादेप्युत्सर्गकृतं स्यात् । तथाहि । कप्रत्ययान्तादप्यण्णन्तत्त्वप्रयुक्तो डीप स्यात् । अत्राह वार्तिककारः । सिद्धन्तु षष्ठीनिदिस्य स्थानिवद्वचनादिति । षष्ठीस्थानेयोगेत्यनुवृत्तरिति भावः । नचापवादः षष्ठीनिर्दिष्टस्य स्थाने विधीयते । नाभिनमश्चेत्यादौ तु पष्टयाः स्थाने प्रथमा बोध्या । विश्रवणरवणेत्यादीनि तु शब्दा. न्तराणि प्रत्ययविषयाणि बोध्यानि ॥ विश्रवःशब्दात्तु प्र. स्थयो न भवति । अनभिधानादिति भावः । तथा च विदूराज्य इति सूत्रे भाष्यम् । वालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रेति च ब्रूयाज्जित्वरीवदुपाचरोदिति । अस्मिन्पक्ष षष्ठीनिर्दिष्टस्य स्थाने आदेशा विधीयन्तइति वृद्धिसूत्रस्थं भाष्यं
Page #263
--------------------------------------------------------------------------
________________
१ पा. ८ आ.
शब्दकौस्तुमः 1
यथाश्रुतमेवेति निर्वाधम् । यतु स्थान्यर्थाभिधानसमर्थस्यैवादेशतेत्येवंपरतया कैयटेन भङ्क्त्वा व्याख्यातम् । तदत्रत्यपक्षान्तराभिप्रायेणेत्यवधेयम् । अथ वा श्यनः शित्करणं ज्ञापकम् । अपवादे उत्सर्गकृतं नेति । न च पिश्वनिवृत्त्यर्थं तदिति वाच्यम् । नित्त्वादेव तत्सिद्धेः । नित्त्वं ह्याद्युदात्तार्थम् । इयनः पित्वे तु पित्वादनुदात्तत्वे लसार्वधातुकानुदात्तत्वे च धातुस्वरणैव सिद्धौं किं निश्वेन । न चानेकाक्षु विशेषः । दिवादौ तदभावात् । वावृत्तुवर्त्तनइत्यस्तीति चेन्न । वाशब्दस्य त्रिकल्पार्थत्वात् । न च भ्वादिपाठेन सिद्धेस्तद्वैयर्थ्यम् । भ्वादिपाठस्य वृद्भयः स्यसनोरित्याद्यन्तर्गणकार्ये उपक्षीणत्वात् । नन्वेवं ततो वावृत्त्यमाना सा रामशाला न्यवीक्षतेति भट्टिप्रयोगानुपपत्तिरिति चेन्न । तत्र वाशब्दस्येवार्थतया कामयमानेव न तु तथा । किं तु छलनार्थमागतेत्यर्थात् । अत्र कैयटः । ताच्छील्यादिविषये चानशियनो नित्वं प्रकृतेराद्युदात्तार्थ स्यादिति । त त्र हि लसार्वधातुकाभावादनुदाचाप्राप्त्या चित इत्यन्तोदात्तत्वमेव प्राप्तमिष्टं च । तत्रानिष्टार्थमेव नित्त्वं किन्न स्यादिति तस्याशयः । न त्वेतद्युक्तम् । अन्यत्र विकरणेभ्य इति पर्युदासाच्छ्चन्स्वरस्य दुर्बलत्वात् । न च नित्वसामर्थ्यात्तद्वाधः । लसार्वधातुके चरितार्थत्वात् । तत्र स्थानिवद्भावलब्धेन पित्वेन गतार्थतेति चेन्न । इह नित्वेनातिदेशपर्युदासयोरन्यतरस्मिन्नवश्यवाध्ये ऽतिदेशवावस्यैव न्याय्यत्वात् । पूर्वान्वाधन्ते नोत्तरानिति न्यायाच्च । यत्तु कैश्चिच्चानशन्तस्याद्युदात्तत्वमिष्टमित्येवंपरतया कैयटग्रन्थं व्याख्याय विकरणेभ्योन्यत्रेति पर्युदासस्तु यत्र त्रिकरणः स्वरभाक् तद्विषयः। इह तु त्रिकरणान्तमेव स्वर भाक् । सौवर्यः सप्तम्यस्वदन्तसप्तम्य इति सिद्धान्तादित्युक्तम् । तदेतन्निर्मूलम् । घुसंज्ञासू
२६३
Page #264
--------------------------------------------------------------------------
________________
२६४
शब्द कौस्तुभः ।
[ १ अ०
त्रशेषस्थेन खरसूत्रस्थेन च भाष्येण विरुद्धं चेत्युपेक्ष्यम् । किञ्चातोनुपसर्गेक इति कापवादस्य गापोष्टगिति टकः कित्करणं ज्ञापकम् । नापवादे उत्सर्गकृतं भवतीति । अनल्विधाविति किम् । तेन तस्मात्तस्य तस्मिंश्च विधौ मा भूत् । तत्राला विधौ यथा । व्यूढोरस्केन । अत्र सोपदादाविति विसर्जनीयस्य स्थाने विहितस्य सकारस्य स्थानिवत्वाद्विसर्जनीयस्य अट्सूपदेशादव्यवायइति णत्वं प्राप्तम् । अलः परस्य विधौ यथा । द्यौः । पन्थाः । सः । अत्र हल्ङयादिलोपो न भवति । अलो विधौ यथा । दिव उत् । द्युकामः । लोपो व्योर्बलीति लोपो न भवति । उत्त्वविधानन्त्वहर्विमलघु इत्यादौ चरितार्थम् । आले विधौ यथा । यजेक्तः, इष्टः । क इष्टइत्यत्र सम्प्रसारणस्य स्थानिवत्वात्कयष्ठेत्यादाविव हशिचेत्युत्त्वं न भवति । स इष्ट इत्यत्र एतत्तदोः सुलोपो न भवति । अनल इत्युक्तेपि सम्बन्धसामान्ये षष्ठया प्रागुक्तानेकविभक्तयर्थसङ्ग्रहो यद्यपि सम्भवति तथापि विधिशब्दोपादानमप्राधान्येनाप्यल आश्रयणे निषेधार्थम् । तेन प्रपठ्येत्यादि सिद्धम् । अत्र हि वलादेरित्यप्राधान्येनालाश्रितः न तु प्राधान्येन । स्यादेतत् । स्थान्यनुबन्धकार्याण्यपि ता निषिध्येरन् । तथा च प्रदीव्येत्यत्र स्थानिवद्भावेन कित्वं न लभ्येतेति चेत् । न । अनेकान्ता अनुबन्धा इति पक्षे अनुबन्धानां स्थान्यल्त्वाभावात् । एकान्तपक्षेप्यन्तरङ्गेण लोपेनादेशसम्बन्धात्प्रागेवानुबन्धानामपहारात् । न ल्यपीति लिङ्गाच्च । यत्तु सेपिच्चेति ज्ञापकमुच्यते । तत्पाक्षिकम् । अपिद्वचनसामर्थ्यात्स्थानेन्तरतम परिभाषया प्राप्तमनुदात्तत्वं न भवतीत्यस्यापि सुवचत्वात् । यद्यपि सामान्यातिदेशे विशेषानतिदेश इति सिद्धान्तः । उपस्थितसामान्यप्रयुक्त धर्मैस्तदाक्षिप्तव्यापक सामान्य
Page #265
--------------------------------------------------------------------------
________________
१ पा.. ८ आ.
शब्द कौस्तुभः ।
२६५
धर्मैश्च विध्याकांक्षापूरणे सत्यनुपस्थितस्य विशेषस्य ग्रहणे प्रमाणाभावात् । अत एव ब्राह्मणवदस्मिन् क्षत्रिये वार्त्तवव्यमित्युक्ते माठरादिविशेषकार्य नातिदिश्यते । अत एव चाशं. सायां भूतवच्चेत्यत्र भूतसामान्ये विहितयोर्लुनिष्ठयोरेवातिदेशो न तु भूतविशेषे विहितयोर्ललिटोरपीति सिद्धान्तः । त थापीह सूत्रे नल्यपीति लिङ्गाद्विशेषोप्यतिदिश्यते । किति परतो विहितमत्त्वं निषेडुं हि नल्यपीत्यारभ्यते । कित्त्वञ्च त्क्वाविशेषधर्मः । सेट्के तदभावात् । तेन प्रदीव्येत्यादि सिद्धम् । तस्मान्नल्यपीत्येव सूत्रं विशेषातिदेशेऽनुबन्ध कार्यातिदेशे चेत्युभयत्रापि ज्ञापकमिति स्थितम् । यत्तु प्राञ्चः । अनल्विधाविति निषेधो विशेषातिदेशज्ञापक इति । तच्चिन्त्यम् । व्यूढोरस्केन क इष्ट इत्यादौ विसर्गत्वस्य यण्त्वस्य च व्यापकीभूतयोरत्वहश्त्वयोर्निषेधेन चरितार्थत्वात् । यदपि त्वादेशे कृत्त्वप्रत्ययत्वाद्यतिदेशमभ्युपेत्य कइष्ट इत्यादौ हत्वादिविशेषातिदेशो न प्राप्नोतीति मिश्रैरुक्तम् । तत्र विसर्गत्वयण्त्वयोरट्त्वहस्त्वे कथं विशेषधर्माविति विपश्चित एव विदाङ्कुर्वन्तु । यद्यपि तत्स्थानापन्नस्तद्धर्मं लभतइति न्यायसिद्धम् । अत एव व्रीहिस्थानापन्नेषु नीवारेषु वचनं विनैव व्रीहिधर्मा अवघातादयः क्रियन्ते । तथापि तेषां प्रकृतापूर्व साधनत्वप्रयुक्ततया युक्तं नीवारादावनुष्ठानम् । आङो यमहन इति हन्तेरात्मनेपदं तु न हिंसाद्यर्थाभिधानप्रयुक्तं येन वधौ भवेत् । किन्तु स्त्ररूपमितिवचनात्स्वरूपविशेषप्रयुक्तम् । अत एवाऽतृणेडित्यादौ न भवति । तस्मायुक्त एवातिदेशारम्भः । स्यादेतत् । मा भून्नयायेन गतार्थता । ज्ञापकात भविष्यति । तथाहि । युष्मदस्मदोरनादेशइति सूत्रे ऽनादेशग्रहणं ज्ञापयति, आदेशः स्थानिवत्स्या
1
'.
३४
Page #266
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ. दिति । अदोजग्धिरिति सूत्रे तिकितीत्येव सिद्धेल्यग्रहणमनल्विधावितीममंशं ज्ञापयति । अप्राधान्येनाप्यलाश्रयणे निषेध इत्यंशं च, तथा च किं सूत्रेणोत । उच्यते । उत्तरार्थ तावस्थानिवदादेश इति कर्त्तव्यमेव । तस्यैव योगविभागमात्रेणोपपत्तौ सत्यामापत्तिकं वचनं न कल्प्यम् । एवं स्थिते ऽन. ल्विधावित्ययमप्यंशः स्पष्टप्रतिपत्त्यर्थ क्रियते । उत्तरसूत्रे द्विती. यविधिग्रहणस्यानुवृत्त्यर्थ च । तत्प्रयोजनं तु तत्रैव वक्ष्यते । एतदेव च सकलमभिसन्धायोक्तं भगवता । आरभ्यमाणेप्यस्मिन्सूत्रइति । स्यादेतत् । अस्तु सूत्रारम्भः । तथापि कार्यातिदेश एवायमिति कुतः, प्रकारान्तराणामपि सम्भवात् । तथाहि । अतिदेशः षोढा । निमित्तव्यपदेशतादात्म्यशास्त्रकार्यरूपाति. देशभेदात् । तत्र निमित्तमशक्यमतिदेष्टुम् । ब्राह्मण्यवत् । न हि ब्रामणस्याग्रभोजनादौ निमित्तभूतं ब्राह्मण्यं वचनशतेनापि क्षत्रिये ऽतिदेष्टुं शक्यते । पूर्ववत्सन इत्यत्रापि प्रकृतिगतं निमित्तं डिग्त्वादि न सन्नन्ते ऽतिदिश्यते । किं तु प्रकृतिगतमेव तत्सना व्यवधाने सत्यप्यात्मनेपदं प्रवर्त्तयतीत्येतावन्मात्रमतिदिश्यते । एतावतैव च निमित्तातिदेशोयमिति व्यवहारः । न चायं कार्यातिदेश एवास्तामिति वाच्यम् । चिकंसते प्रचित्रंसतइत्यादाविप्रसङ्गात् । निमित्तातिदेशपक्षे त्वनुपसर्गः प्रपूर्वश्च क्रमिरेवेह सना व्यवहितोप्यात्मनेपदं प्रवर्तितवानिति स्नुक्रमोरनात्मनेपदनिमित्तइति नियमादिण न भवति । निमितं हि तत्र फलोपहितमेव गृह्यते न तु स्वरूपयोग्यतामात्रमिति वक्ष्यामः । सिद्धं त्वात्मनेपदेन समानपदस्थस्येदप्रतिषेधादिति वार्तिकरीत्या विहापि कार्यातिदेशता सुवचा न्याय्याचति तत्रैव वक्ष्यते । व्यपदेशातिदेशस्त्वाचन्तवदेकस्मिन्नित्येक
Page #267
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः।
२६७ स्मिन्नप्यादिरन्त इति च व्यपदेशेतिदिष्टे तत्तत्सूत्रैरेव कार्याणीति भावः । तथा च पाञ्चः । आद्यन्तवव्यपदेशो निमित्तं पू. वत्सन इति । एतच्च निर्मूलमिति तस्मिन्नेव सूत्रे हरदत्तः । तस्यायं भावः । कार्यातिदेश एव तत्र युक्तः । सर्वातिदेशानां कार्यार्थतया कार्यस्यैव प्राधान्यात् । अत एव कार्यातिदेशाभ्युपगमे यत्र बाधकावतारस्तत्रैव प्रकारान्तरानुसरणम् । न चाचन्तवत्सूत्रे तदस्ति । प्रत्युत व्यपदेशातिदेशपक्षे एव बाधकम् । तथाहि । कुरुते कुर्वे इत्यादावन्त्यव्यपदेश आदिव्यपदेशश्चास्तु । तथाप्यन्त्योजादिर्यस्येत्येवंरूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात् । कुर्वातइत्यादौ दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे तु न कश्चिद्दोष इति । तादात्म्यातिदेशस्तु पिनयोरमेदातिदेशः ( सुबामन्त्रित पराङ्गवत्स्वरइति यथा । तेन यत्तो दिवो दुहितमत्त भोजनमित्यादावामान्त्रितस्य चेत्याष्टमिकसूत्रेण पदात्परस्यामन्त्रितस्य क्रियमाणो निघातो दिवो दुहितरिति समुदाये प्रवर्तते । शास्त्रातिदेशस्तु कर्मवत्कर्मणेत्यत्र पाक्षिको वक्ष्यते । कार्यातिदेशो गोतोणिदित्यादिः। रूपातिदेशस्तु द्विवचनेचि तृज्वक्रोष्टुरित्यादिः । तदिह कार्यातिदेश एवेत्यत्र किं विनिगमकमिति चेत् । उच्यते । कार्यस्य प्राधान्यात्तदतिदेश एवायम् । अतिदेशान्तरे बाधकसत्वाच्च । तथाहि । निमित्तव्यपदेशातिदेशौ तावत्पाक्षिकावित्युक्तम् । शास्त्रातिदेशोप्येवम् । तादात्म्यातिदेशस्तु द्वयोः सहावस्थितयोः स्यात् । सुवामंत्रितयोरिव । इह तु स्थानी आदेशेन अपहृत इति तदसम्भवः । रूपातिदेशे वादेशविधानं व्यर्थ स्यात् । न च वंचनद्वयमामाण्याद्विकल्पः । विभाषालुङ्लुङोरिति विकल्पारम्भात् । तस्मास्कार्यातिदेश एवायमिति स्थितम् । यत्तु न्यासकारेणोक्तम् ।
Page #268
--------------------------------------------------------------------------
________________
२६८
शब्दकौस्तुभः । [१ ० व्यपदेशातिदेशस्संज्ञापक्षे पर्यवसनः । स च वत्करणसामर्थ्या: देव न भविष्यतीति । तत्रे वक्तव्यम् । अस्तीह संज्ञापक्षाद्वैष. म्यम् । तथाहि । आङोयमहन इत्यादौ वधेरेव ग्रहणं स्यान तु हन्तेः । तथा केन कस्मादित्यादावङ्गकार्यादीनि न स्युरिति सं ज्ञापले दोषद्वयम् । न चेदं व्यपदेशातिदेशेस्ति । स्वरूपमिति वचनाद्धि हन्तेर्हन्तिरेव संज्ञा । तद्व्यपदेशस्य वधावप्यतिदेशे धुभाभ्यामात्मनेपदं लभ्यते । न तु हन्तेरेव । एवं स्थानिनिष्ठानां धात्वङ्गादिव्यपदेशानामादेशेतिदेशाद्धात्वङ्गादिकार्याण्य. पि सुलभान्येव । तस्मात्माधान्यात्कार्यातिदेशोयमित्येव तत्त्वम् । अत्र वार्तिककाराः। तस्य दोष इत्युपक्रम्य तयादेशे उ. भयप्रतिषेधः, ड्याग्रहणे ऽदीर्घः, आहिभुवोरीदप्रतिषेध इत्यादि पेठुः । तत्रोभयशब्दे यथा नातिप्रसङ्गस्तथा सर्वादिगणव्या: ख्यावसरे एवोपपादितम् । ङ्याग्रहणेपि डी ई आ आबिति दी. र्घप्रश्लेषादतिखट्वेनातिखट्वे इत्यादौ नातिप्रसङ्गः । न चैवमप्यतिखवायेत्यत्र दोषतादवस्थ्यम् । उपसर्जनस्त्रीप्रत्यये तदा दिनियमसत्वात् । न चैवं प्रश्लेषवर्णनवैयर्थ्यम् । अतिखट्व इ. त्यादावंगाधिकारविरहेणावयवाहाबन्तात्परत्वमाश्रित्य हल्ङयादिलोपापत्तेः । न हि तत्र विहितविशेषणाश्रयणं युक्तम् । य: स इत्यादावतिव्याप्तेर्यासेत्यादावव्याप्तेश्चेत्युक्तम् । अत एव सूत्रकारोपि तत्र दीर्घग्रहणं कृतवान् । दीर्घप्रश्लेषस्तु तत्पत्या. ख्यानाय वर्ण्यतइत्यन्यदेतत् । युक्तं चैतत् । वार्तिकमते ऽतिखवायेत्यादावंगाधिकारवलेन कथं चिनिर्वाहेपि जरसे नसे पृ. ते इत्यादावतिप्रसंगस्य दुरित्वात् । मुतामिच्छन्सुतीरित्यादौ सुलोपापत्तश्चेति दिक् । अस्तु वा आकारान्तरमपि पश्लिष्य तसामर्थ्यान्मध्ये ह्रस्वतामापन्नस्य परिहार इति दिक् । आहि
Page #269
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः।
२६९ भुवोरिति वार्तिकन्त्वित्थं भाष्यकाराः प्रत्याचख्युः । आत्येत्यत्र आहे. स्थानिवद्भावेन प्राप्तोपि ब्रुव ईण्न भवति । आहस्थ इति ज्ञापकात् । तेन हि झलादौ परे थत्वं विधीयते । न च कृतेपीटि भूतपूर्वगत्या झलादित्वात्थकारोस्त्विति वाच्यम् । एवं हि सत्याथमेव विदध्याल्लाघवात् । तिबादीनां पञ्चानामपि शलादितया णलादीनामपि भूतपूर्वगत्या झलादित्वात् । तस्मादाहस्थ इति ज्ञापकादाहेरिड्वधौ स्थानिवद्भावो नेति स्थितम् । अस्ते रिति विहितस्य भुवोपि स्थानिवत्वनिषेधो न वक्तव्यः । अस्तिसिचोपृक्तइति द्विसकारकनिर्देशेन सकारान्तादेवास्तेः परस्येड्विधानादिति । स्यादेतत्। अस् स् इति सकारद्वयनिर्देशे धातुत्वाभावात् श्तिबेवानुपपन्नः । पदमध्यप्रविष्टेन सकारेण सिचो विशेषणासम्भवे सिजाश्रयस्य ईटः प्रसङ्गश्च । न चास्तेः सान्तत्वेन विशेषणसामर्थ्यात्सिप्रयुक्तोपीण नेति वाच्यम् । तथापि स्वतन्त्रस्य भवतेरतिप्रसङ्गस्य दुर्वारत्वात् । तथा चार्थभेदाभावेषि स्वतंत्रास्वतंत्राभ्यां भूभ्यां अभूवीत् अभादीत रूपयापत्तिः । यप्वेतदोषोपन्यासपूर्वकं माधवाचार्यैरुक्तम् । सिचोल्पाचकत्त्वाहहुविषयत्वेनाभ्यर्हितत्वाच्च पूर्वनिपाते कर्तव्ये ऽस्तिसिच इति वचनात्तन्त्रादिना विद्यमानात्सिच इत्यर्थो लभ्यते । अत एवं श्तिप्पयोगोपि सार्थकः । अन्यथा सिजस्भ्यामित्येव ब्रूयात् । न चैवमसतावस्यतौ चातिप्रसङ्गः । विकरणव्यवधानेन ताभ्यां परस्यापृक्तसार्वधातुकस्यासम्भवादिति । तच्चिन्त्यम् । एवमपि रितप्पत्ययासमाधानेन द्विसकारको निर्देश इति भाष्यस्यानि
हात् । एतेन सिच्च अस्च सिच स् । समाहारद्वन्द्वे लुप्तपश्चमीकं पदम् । अयस्मयादित्वेन भत्वान कुत्वजश्त्वे । अस्ति च तत्सिजस् चेति कर्मधारयः । तेन लुप्तासिचो भूभावेनापहृताद
Page #270
--------------------------------------------------------------------------
________________
२७०
शब्दकौस्तुभः ।
[ १ अ०
स्तेश्च परस्य नेति कल्पनापि प्रत्युक्ता । उक्तरीत्या रूपसिद्धावपि भाष्यानिर्वाहात् । तस्मादिह भगवतो ऽभिप्रायान्तरमेव वक्तव्यमिति । अत्रोच्यते । अस्तिसिचम् स् इतिच्छेदः । सान्तादस्तेर्नतु कृतभावात् । सान्तात्सिचः श्रूयमाणादिति यात्रत् । तथा च सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु श्तिपः प्राक् । येन माधवोक्तः शितप्प्रत्ययानुपपत्तिरूपो दोषः स्यात् । अत एव सिचो ऽपृक्त इति द्विसकारको निर्देश इत्युक्तं भाये । अन्यथा ह्यस्तीति निर्देश इत्येव ब्रूयात् । नन्वेवम स्तिसिचोक्तइति संहिता कथं निर्वहतीति चेत् । इत्थम् । संयोगान्तस्य लोप इति द्वितीयः सकारो लुप्यते । ननु लुप्तविभक्तिकं स् इति पदम् । न चैतत्संयोगान्तम् । तथा च संयोगान्तं यत्पदं तस्य विधीयमानो लोपः कथमिह स्यादिति चेन्न । संयोगान्त - स्य पदान्तस्य लोपः स्यादिति व्याख्यानात् । संयोगेति हि लुप्तषष्ठीकं पृथक् पदम् । संयोगस्य पदस्येत्युभयं चान्तस्य विशेषणम् । एष एव च सूत्रकृतोप्याशयः । यदि ह्ययं बहुव्रीहिः पदं चान्यप दार्थ इति वृत्तिकार कृतं व्याख्यानं संमतं स्यात्ततग्रहणं न कुर्यात् । संयोगेन पद विशेष णादेव तदन्तलाभात् । अपि च सरूपसूत्रे पृथक् सर्वेभ्यो विभक्तावेकशेष इति पक्षे वृक्षस्स् इति प्रसज्येतेत्याशंक्य संयोगान्तलोपात्सिद्धमिति भाष्यग्रन्थः प्रकृतव्याख्यानएवानुकूलः । यत्तु तत्र कैयटो वक्ष्यति । वस्तुतस्संयोगान्तस्य लोपाद्धलुङयादिलोपादिति । तन्तु मूलस्वरसविरुद्धम् । अत्र व्याचक्षतइत्युपक्रमादपरितोषग्रस्तञ्च । अत एव हलन्त्यसूत्रे अन्योन्याश्रयोद्धारार्थमन्त्य लकारस्येत्संज्ञायां णलो लित्वं स्वरार्थ क्रियमाणं ज्ञापकमिति प्रक्रम्य, ननु लकारः श्रवणार्थ एवेत्याशं क्यापृक्तं हलिति हल्ग्रहणं णल्व्यावृत्तये क्रियमाणं णलोपृक्ततां
1
Page #271
--------------------------------------------------------------------------
________________
... २७१
१ पा. ८ आ. शब्दकौस्तुभा। ज्ञापयतीति वक्ष्यति । तस्य ह्ययमाशयः । भेत्तेत्यादौ डादेशो हल्ग्रहणस्य व्यावो न संभवति । सुतिसीतिप्रत्ययः प्रकृतेराक्षेपेण हलन्तायाः प्रकृतेः परेषां स्वादीनां लोपः । न चडादे प्रति तासन्ता प्रकृतिरिति । एवं चेहापि वृक्षस् इत्यस्य प्रकृतित्वाभात्कथं हल्ङयादिलोपः । आस्तिसिचोपृक्तइति द्विसकारको निर्देश इति प्रकृतग्रन्थोप्युक्तव्याख्यायामनुकूल एव । नन्वस्तूक्तरीत्या संयो. गान्तलोपस्तथापि तस्यासिद्धत्वाद्रोरुत्वं दुर्लभामिति चेन्न । सं. योगान्तलोपो रोरुत्वे इति वार्तिकेनासिद्धत्वनिषेधात् । हरिवो मेदिनं त्वा इत्यादिवत् । सिचोपृक्तइति प्रकृतनिर्देश एव च वार्तिकोक्तार्थे ज्ञापको बोध्यः। अथ वा अस्तु वृत्तिकारोक्त एव संयोगान्तस्य लोप इति सूत्रस्यार्थः । अन्तग्रहणन्तु प्रत्येकं संयोगसंज्ञति पक्षे संयोगावन्तौ यस्योत द्वित्वागतयेस्तु । संयोगसं. ज्ञासूत्रे भाष्यकैयटयोस्तथैवाभिधानात् । प्रकृते तु मास्तु संयोगान्तलोपः। किन्तु द्वयोः सकारयोः रुत्वे कृते अतो गोरत्यनेन एक एवोकारो भविष्यति विधेयविशेषणस्यैकत्वस्य पश्वेकत्ववद्विवक्षितत्वात् । रोरिति जातिपरनिर्देशनातः परत्वस्य पूर्वत्वस्य च सम्भवात् । जातिपरत्वे प्रकृतिनिर्देश एव प्रमाणमस्तु । न च परत्वादशि चेति प्रथमस्यैव रोरुः स्यादिति वाच्यम् । रुत्वस्यासिद्धतया हश्परत्वाभावात् । न चाश्रयासिद्धत्वमिति वाच्यम् । स्थान्यंशे तथात्वपि निमित्तीभूतहशशे तदसम्भवात् । एष एव च द्विसकारकनिर्देशं वदतो भाष्यकारस्याशयः । न तु संयोगान्तलोप इति । अत एव नुदावदेति सूत्रे शुषः क इत्यादि बहुयोगविच्छिन्नस्य नकारस्य कथमनुवृत्तिरित्याशङ्कयान्यतरस्यानध्याख्येति संहितापाठेन नकारान्तरपश्लेष इत्युक्तं भाष्ये । हलोयमामिति लोप इति हि तस्याशयः।
Page #272
--------------------------------------------------------------------------
________________
२७२
शब्दकौस्तुमः ।
[ १ अ०
पूर्वोक्तरीत्या तु संयोगान्तलोपेनैव सिद्धौ संहितापाठपर्यन्तं नोपन्यस्येत् । संहितायामपि हि हलोयमामिति लोपस्य बहिरङ्गत्वत्रिपादस्थित्वाभ्यामसिद्धत्वात्संयोगान्तलोपेनैव भाव्यम् । संयोगान्तलोपे यणः प्रतिषेधः, न वा झलो लोपाद्वहिरङ्गल क्षणत्वाद्वेति वार्त्तिकोक्तपक्षत्रये प्रथमचरमयोस्तस्य दुर्वारत्वात् । तस्मात्समुदाये प्रत्येकं वा संयोगसंज्ञेति पक्षद्वयानुरोधेनेह समाधानद्वयं व्यवस्थितमिति भाष्यार्थः । पूर्वोक्तरीत्या सिच इति समाहारमाश्रित्य तदुपरि म् इतिच्छेद इति पक्षे त्वस्तिग्रहणप्रत्याख्यानपरतयापदिं भाष्यं योजयितुं शक्यमिति दिक् । एतेन संयोगान्तस्य लोप इति सूत्रे ऽन्तग्रहणं शक्यमकर्त्तुमिति प दमञ्जरी प्रत्युक्ता । पक्षद्वयेपि प्रयोजनस्योक्तत्वात् । विद्यमानं यत्सिचस् इति पक्षे वा योज्या । वस्तुतस्तु झल इति वत्सस्येत्यपकृष्यते तत्सामर्थ्यात्संयोगान्तस्य पदत्वाभावेपि लोप इत्यलम् । यत्तु सिचः परत्वादीटि प्राप्ते आहिभुवोरीदमतिषेध इति वार्त्तिकबलानिषेध इति कौश्चिदुक्तम् । तन्न । तस्य दोष इत्युपक्रमात्स्थानिवद्भावप्रतिषेधपरेणोक्तवार्त्तिकेनास्तेः परत्वमुपजीव्य प्रवृत्तस्येटो निवृत्तावपि सिच्प्रयुक्तस्यानिवार्यत्वात् । अस्थादगादित्यादावुक्तदोषतादवस्थ्याच्च । तस्मात्प्रागुक्तेष्वेवान्यतमः पन्थाः शरणमित्यलं बहुना । वध्यादेशे वृद्धितत्वप्रतिषेध इद्विधिश्चति वार्त्तिकान्तरम् । अस्यार्थः । इन्तेर्बुलि कृते बहुलन्तण्यन्नवधकगात्र विचक्षणाजिराद्यर्थमिति वार्तिकेन संज्ञाछन्दसोर्वधादेशः । स च हलन्त इति मत्वा वृद्धिरापाद्यते । हनस्तोचिण्णलोरिति तकारश्च । तयोः कर्त्तव्ययोः स्था निवद्भावः प्रतिषेधः । तथा आवधिषीष्ठेत्यादौ स्थानिवद्भावेनाङ्गतयैकाच इति निषेधः प्राप्तः । तस्मिन्नपि कर्त्तव्ये स्थानि
•
Page #273
--------------------------------------------------------------------------
________________
१. पा. ८ आ. शब्दकौस्तुभः ।
२७३. वद्भावनाङ्गता नेति वाच्यम् । तदेतदिविधिश्चेत्यनेनार्थादुक्तम् । एतदपि भाष्ये प्रत्याख्यातम् । तथाहि । धादेशस्तावददन्तः । अन्यथा ऽवधीदित्यत्रातो हलादेरिति वृद्धिप्रसङ्गात् । एतच्चोतरसूत्रे भाष्ये एव स्पष्टम् । वधक इति तु नायं ण्वुल् किं तु हनो वघश्चेत्यौणादिकसूत्रेण क्वुन्प्रत्ययः । तथा चेह वृद्धितत्वयोः प्रसङ्ग एव नास्ति । आवधिषीष्टेत्यादाविनिषेधोपि न भवति । वध्यादेशे आधुदात्तनिपातनसामर्थ्यात् । न चैवं सतिशिष्लेन - तेन यदावधिषीष्टेत्यादौ प्रत्ययस्वरो बाध्येतेति वाच्यम् । आर्द्धधातुकीयानामादेशानां प्रत्ययविवक्षामात्रेण प्रवृत्त्या प्रत्ययस्वरस्यैव सतिशिष्टत्वादिति । स्यादेतत् । इविधिश्वेत्यंशे पूर्वपक्ष एव शिथिलः । तथाहि । उपदेशनुदात्तादिनिषिध्यते । न च वधिस्तथा । स्थानिवद्भावनायं तथेति चेन्न । अल्विधौ स्थानिवद्भावविरहात् । सत्यम् । नेह स्थानिवद्भावं ब्रूमः । किन्तु हन्त्युपदेश एव वधेरुपदेशः। कृअपदेश इव कर्ता कर्तुमित्यादौ करित्यादीनाम् । स्थानिवद्भावस्त्वङ्गसंज्ञार्थ मग्यतइत्यु. क्तमेव । नन्वेवमपि परिहारग्रन्थो ऽसङ्गत एव । यदि हि प्रागेव प्रत्ययोत्पत्तेर्वधादेशाभ्युपगमस्तहि वधभावात्सीयुटि चिण्वद्भावों विप्रतिषेधेनेति स्यसिचसूत्रीय वार्तिकं विरुध्येत । अन्तरङ्गबहिरगयोर्विप्रतिषेधायोगात् । तथा च कर्मणि सीयुटि वधिषीष्टेत्येकमेव रूपं स्यात् । इष्यते तु घानिषीष्टेति द्वितीयमपि । अत्रोच्यते । वार्तिकमते आर्द्धधानुकइत्यस्य विषयसप्तमीत्वोपि लिडिलुङीत्यादीनां परसप्तमीत्वाभ्युपगमेन विप्रतिपेधः सम्भवत्येव । अत एवेहायुदात्तनिपातनासंभवादिविधिश्वेत्युपसंख्यातम् । भाष्यकाराणां त्वयमाशयः । आर्द्धधातुकइतिवल्लिङीत्यादिरपि विषयसप्तम्येव । तथा चायुदात्तनिपातनेनैकोपपत्तौ इव
Page #274
--------------------------------------------------------------------------
________________
२७४
शब्दकौस्तुभः । [१ अ० विश्चेति न कर्तव्यमेव । घानिषीष्टेति कथं सिध्यदिति परमवशिष्यते । तत्रेदमुत्तरम् । प्रतिपदविधेर्बलीयस्त्वाचिण्वद्भाव इ. ति । एतच्च स्यसिसूत्रे कैयटेन स्पष्टमुक्तम् । तस्माद्वार्तिकमते विप्रतिषेधाच्चिण्वद्भावः । भाष्यमते तु प्रतिपदोक्तत्वादिति विवेक । एतेनैकाच उपदेशइति सूत्रेप्या धातुकीयाः सामान्येन भवन्तीत्यादिभाष्यग्रन्था व्याख्याताः । यत्तु तत्र कैयटौनोक्तं विप्रतिषेधे उपपत्तिश्चिन्त्येति । तत्तु प्रागुक्तोपपत्तिरेव स्मर्तव्येत्येवंपरम् । स्यादेतत् । प्रतिपदविधित्वं किमिह विवक्षितम् अनवकाशत्वं वा साक्षादुपादानमात्रं वा । नाद्यः । स्यसिसूत्रे हनग्रहणस्य प्रघानिष्यतइत्यादौ लब्धावकाशत्वात् । तत्रत्यस्य सीयुट्ग्रहणस्य तु कारिषीष्टेत्यादौ कृतार्थत्वात् । न चाजन्तादी. नां चतुर्णा स्यादिचतुष्कसम्बन्धे अस्वरितत्वाच्च यथासंख्याभावे हन्तेः सीयुटीति योंशस्तस्यानर्थक्यमेव । अन्तरङ्गत्वाद्धि वधः भावे कृते तस्य स्थानिवत्वेन हन्तिग्रहणेन ग्रहणात्सीयुटि चिण्वदिटि कृते ण्यल्लोपावियङिति पूर्वविप्रतिषेधेनाल्लोपे सति वधिषीष्टेत्येव रूपं स्यादिति वाच्यम्। अन्तरङ्गेण वधिनापहारे न्याय्ये सत्यसंभवादेव हन्तेः सीयुटा समं संबंधायोगात् । संभवे व्यभिचारे च स्याद्विशेषणमर्थवदिति न्यायात् । अत एव भस्त्रादिसूत्रे आतः स्थाने इत्येतत्स्वशब्दस्यैव विशेषणं न तु भस्वादीनामिति वक्ष्यते । तथा नित्यं क्रीडाजीविकयोरित्यत्र क्रीडायां तृचो ऽसम्भवादकेनैव तदन्वय इति वक्ष्यते । नान्त्यः । वधादेशेपि हनो वधलिङगीत साक्षादपादानस्याविशिष्टत्वात् । अन्तरगत्वस्याधिकत्वाच्चेति चेत् । अत्रोच्यते । चिण्वदिट्चेति चकारस्यानुक्तसमुच्चयार्थत्वेन व्याख्यानाद्धन्तेरपि परस्य सीयुटश्चिण्वद्भावो विधीयते । तस्य चानर्थकत्वमेव प्रतिपदविधित्व
Page #275
--------------------------------------------------------------------------
________________
१ पा. ८ आ.
' शब्दकौस्तुभः ।
२७५
म्- | अनुक्तसमुच्चयार्थत्वं चास्य भाष्यकार एव वक्ष्यति । चं भगवान्कृतवांस्तु तदर्थमिति । अत एव लाभात्सूत्रमत्याख्यानपक्षे कृतेपीटि णिलोपः सिद्धयति । सूत्रारम्भेपरमिट् चासिद्धस्तेन मेलुप्यते णिरिति वक्ष्यमाणं बोध्यम् । यद्वा किडीति सामान्यमार्धधातुके सीयुटीति विशेषः । इन्तेरित्युभयत्राविशिष्टम् । तथा चापवादत्वमेव चिण्वदिडिति नास्त्यसम्भवः । येन हन्तिः सियुटा नान्वियात् । तथा च कैयटोक्तं प्रतिपदविधित्वमपि सम्यगेव । युक्तञ्चैतत् । यदि ह्यसम्भवस्तार्ह चेनाप्यसंभविनो विधानायोगेन प्रागुक्तपक्षस्य दुर्बलत्वात् । अथ वा वक्ष्यमाणनिष्कर्षरीत्यान्तरङ्गं बलीय इत्यस्यासिद्धं बहिरंङ्गमित्यनेन मत्याख्यानात्तस्य च कृति तुग्ग्रहणेनानित्यत्वाल्लक्ष्यानुरोधेनेह त्यागाद्युक्तो विप्रतिषेधः । अथ वा लिङीति परसप्तम्येवास्तु । परत्वाच्च चिण्वदिट् । आयुदात्तनिपातनं तु मास्तु । न चैवं वधिषीष्टेत्यत्रेण निषेधापत्तिः कर्चेत्यादाविवेति वाच्यम् । वधे
द्वापदेशौ । हंत्युपदेशो वध्युपदेशश्चेत्येकाच इति सूत्रे भाष्ये एव स्पष्टम् । तथा च वध्युपदेशे ऽनेकाच्त्वादिनिषेधो न भविष्यति । एकेति विशेषणसामर्थ्याद्धयनेकाच्कोपदेशो व्यावर्त्यते । नन्वच इत्युक्ते ऽजन्तस्यैव स्यात् । मैवम् । पचादीनामनुदात्तत्वस्य वैयर्थ्यापत्तेः । अत एवैकत्वविवक्षया अच इ. त्यस्यैको योच् तद्वत इत्यर्थे लब्धे एकग्रहणसामर्थ्यादुक्तार्थलाभः । न च यत्रैकाग्रहणमिति परिभाषाप्रवृत्तये एकग्रहणमिति युक्तम् । शब्दविशेषमनादृत्य एकाच इत्यर्थमेवाश्रित्य परिभाषा - प्रवृत्तेः सुवचत्वात् । न चैवमिहैव विशेषणसार्थक्ये तिपाशपेत्यादिपरिभाषाज्ञापकत्वं न स्यादिति वाच्यम् । शीङः सार्वधातुके गुणः दीङो युचीत्यादिसानुबन्ध निर्देशानामेव त
Page #276
--------------------------------------------------------------------------
________________
२७६
शब्दकौस्तुमः । [१ अ. ज्ज्ञापकत्वसम्भवात् । तदेवं सर्वथापि वधेः परस्येडस्त्येवेति स्थितम् । अत एवानिदकारिकासु व्याघूभूतिनादन्तपयुदासः कु. तः अदन्तमूदन्तमृताञ्च वृबृजावित्यादिना । यत्तु कौमुद्या भावकर्मलकारव्युत्पादनावसरे घानिषीष्टेत्युदाहृत्य पक्षे वधादेश इत्युक्तं तत्तूक्तरीत्या भाष्यमते वार्तिकमते वा उभयथापि निर्बाधमेव । एवं स्थिते पक्षे वधादेश इति प्रतीकमुपादायेदन्तु सिद्धान्तविरुद्धंभाष्यादौ वधादशानभ्युपगमादिति वदन् प्रसादकारः प्रत्युत स्वस्यैव कलंकमाविरकरोत् । यदपि तेन स्वकीयभ्रमबीजभूतं वार्तिकमुदात्तं हनिणिडादेशप्रतिषेधश्चीत । नैतल्लिङि प्राप्तस्य निषेधपरं किं तु स्यादिष्वपि चिवदित्यतिदेशेन प्राप्तस्य । अत एवाङ्गाधिकारादाङ्गस्यैवातिदेशो न तु हनिणिङादेशानाम् अनाङ्गत्वादित्यङ्गाधिकारबलनैव भाष्ये तद्वार्तिकं प्रत्याख्यातम् । यद्यप्येतत्सिद्धान्तग्रन्थेष्वविवादमेव तथाप्यन्धस्येवान्धलग्नस्यति न्यायेन प्रसादग्रन्थं दृष्ट्वा बाला मा भ्राम्येयरित्येतदर्थमस्माभिः स्फुटीकृतम् । प्रकृतमनुसरामः । आकारान्तान्नुक्षुमतिषेधः । लोडादेशे शाभावजभावधित्त्व. हिलोपैत्वप्रतिषेधः । त्रयादेशे सन्तप्रतिषेधः । आमविधौ च । स्वरे च वस्वादेशे । एतान्यपि पञ्च वार्तिकानि प्रत्याख्यातानि। तथाहि । विलापयनि भापयतीत्यत्र नुक्षुको न भविष्यतः। ली ई भी ई इतीकारप्रश्लेषात् । हूस्वप्रश्लेषाद्वा । तथा । शिष्टात् हतात् भिन्तात् कुरुतात् स्तादित्यत्र परत्वात्ताताङि कृते शाहो, इन्तेजः, हुझल्भ्योहेद्धिः, उतश्चप्रत्ययादसंयोगपूर्वाद, घ्वसोरेद्धावित्येते विधयो यद्यपि प्राप्नुवन्ति तातङ: स्थानिवद्भावेन हिग्रहणेन ग्रहणात् । तथापि सकृद्गतौ विप्रतिषेधे यदाधितं तदाधितमेवेति न्यायान भावन्त । एवं पुष्णीता
Page #277
--------------------------------------------------------------------------
________________
१ पा. ८ आ.
शब्दकौस्तुभः ।
२७७
दित्यत्र हल : भः शानज्झाविति न भवति । उभयोर्नित्ययोः परत्वात्तातङः प्रवृत्तेः । तथा तिसृणामित्यत्र परत्वात्तिसृभावेन बाधितस्त्रय इति त्रयादेशोपि वाधित एव । एवञ्चतस्रस्तिष्ठ - न्तीत्यत्र परेण चतसृभावेन चतुरनडुहोरित्याम् बाध्यते । तथा । अशासन्त्वाविदुषी सस्मिन्नहन्नित्यत्र विदेः शतुर्वसुरिति वस्त्रादेशस्य शतृग्रहणेन ग्रहण। च्छतुरनुमोनद्यजादी इति सूत्रेणान्तोदाचाच्छत्रन्तात्परत्वमुपजीव्य प्राप्तं नद्या उदात्तत्वम्, यस्यैवं विदुषोग्निहोत्रं जुव्हतीत्यत्र विदुष इत्यत्र षष्ठया उदात्तत्वं च न भवति । अनुम इति निषेधात् । तथाहि । अविद्यमान उम् यस्येति बहुव्रीहिः । उमिति च सनाशंसेत्युकारात्प्रभृत्यानुमो मकारात्प्रत्याहारः । तनादिकृब्भ्य इत्युकारात्प्रभृति वा । तत्र च वसोः सम्प्रसारणं चान्तर्भूतम् । नन्वेवं द्वितीयपक्षे लुनता अच्छारखं प्रथमा जानती गादित्यादावपि निषेधापत्तिः । तनादिकृञ्भ्य इत्युपक्रमे श्नाप्रत्ययस्यापि तत्रान्तर्भावादिति चेत् । न । शतरि परे नाप्रवृत्तावपि शतुरनुम् कत्वानपायात् । नुमागमग्रहणपक्षेपि हि शतुरेव तद्राहित्यं विशेषणं न तु शत्रन्तस्य । मुञ्चता मुञ्चते इत्यादावपि निषेधापत्तेः । इदन्तु वार्त्तिकं सिद्धान्तेपि स्थितम् । गोः पूर्वणित्वात्वस्वरेषु प्रतिषेध इति । चिऋग्वग्रमित्यत्र हि सर्वत्र विभाषागोरिति पूर्वरूपं प्राप्तम् । नान्तः पादमिति पाठस्येको गुणवृद्धीति सूत्रे षाष्ठभाष्ये च स्थितस्वेन तद्रीत्या सर्वत्रेति सूत्रस्यापि पूर्वरूपविधायकत्वौचित्यात् । कैस्तु शाकलसूत्रे स्वश्चेति चकारेण प्रकृत्येत्यनुकृष्यतइति भाच्यदर्शनात्प्रकृत्यान्तः पादमिति पाठमनुसृत्य वार्त्तिकस्थं पूर्वपदं तत्प्राप्तिपूर्वक प्रकृतिभावोपलक्षणमिति सूचितवान् । न च सर्वत्र विभाषत्येङ इत्यनुवर्त्त्याल्विधित्वाभिषेधः सुवचः । हे चि
Page #278
--------------------------------------------------------------------------
________________
२७८
: शब्दकौस्तुमः । . [१ अ. अगो. अग्रमित्यत्रैवमप्यातिप्रसङ्गात् । नात्र स्थान्यल आश्रयणम् । स्वत एव एडन्तत्वात् । चित्रगुरित्यत्र गोतोणिदिति णिवं प्राप्तम् । चित्रगुं चित्रगूनित्यत्र त्वा गोतोम्शसोरितिषाष्ठवार्तिकरीत्या आत्वं प्राप्तम् । अत्र णित्त्वाग्रहणं तु शक्यमकतुम् । गोत इति तपरकरणसामर्थ्यादवे णित्वात्वाप्रवृत्तेः। औतोमिति पाठस्यैव स्थापयिष्यमाणत्वाच । अचिनवमित्यादावतिप्रसङ्गस्य शसा साहचर्येणापि वारणसम्भवात् । स्त्रर । बहुगुमान् । इह इस्वनुड्भ्यां मतुबित्युदात्ततायानगोश्वनिति निषेधः प्राप्तः । तस्मादोः पूर्वस्वरयोरिति पठनीयमिति स्थितम् । एवं च नगोश्वनिति सूत्रे वृत्तौ यत्पठ्यते बहुगुना बहुगुम्यामित्यादावन्तोदात्तादुत्तरपदादन्यतरस्यामिति प्राप्तः प्र. तिषिध्यतइति । तच्चिन्त्यम् । भाष्यवार्तिकाविरुद्धत्वात् ॥
... अचः परस्मिन्पूर्वविधौ ॥ परनिमितो ऽच आदेश: स्थानिवत्स्यात्स्थानिमूतादचः पूर्वत्वेन यो दृष्टस्तस्य तस्माद्वा निमित्तभूताद्विधौ कर्तव्ये । वव्रश्च । इहोरदित्यत्वस्य स्थानिवद्भावेन नसंप्रसारणइति निषेधाद्वकारस्य न संप्रसारणम् । न च पूर्वसूत्रेण गतार्थता । अलिधित्वात् । न च परनिमित्तत्वमसिद्धमिति वाच्यम् । अगाक्षिप्तप्रत्ययनिमित्तकत्वात् । न च प्रागभ्यासविकारेभ्योगाधिकार इति वाच्यम् । आसप्तमाध्यायसमातेरिति पक्षस्य सिद्धान्तयिष्यमाणत्वात् । पूर्वस्माद्विधौ यथा । तन्वन्ति । तन्वते । इह. यणादेशस्य स्थानिवद्भावानेद । तत्र हि तन् इत्यङ्गं निमित्तम् । तच्चोकारात्पूर्वमिति । अच इति किम् । विश्नः । प्रश्नः । द्यूत्वा । स्यूत्वा । अभिग़त्य । तथाहि । विश्नः प्रश्न इत्यत्र छकारस्य शकारः. परनिमित्तकः तस्य स्थानिवद्भावाच्छेचति तुक् प्राप्तः । अच इ
Page #279
--------------------------------------------------------------------------
________________
१ पा. ८आ. शब्दकौस्तुभो।
२७९ ति पचनान्न भवति । स्यादेतत् । इहान्तरणत्वात्पूर्वमेव तुका भाव्यम् । न च वार्णादाङ्ग बलीय इति शकारः स्यादिति वाच्यम् । यत्र ह्येकमेव निमित्तीकृत्य युगपदाङ्गवार्णयोः प्राप्तिस्तत्र वार्णादाङ्ग बलीयः । यथा करोतेलिटि पलि क अ इति स्थिते गौरित्यत्र सावकाशामचोणितीति वृद्धिं बाधित्वान्तरजत्वात्माप्तं यणं वृद्धिरेव बाधते । प्रश्न इत्यत्र तु शस्य न निमित्तम् । तुकस्तु छः । भिन्नकाला चानयोः प्राप्तिः । ननु यत्रै. कस्मिन्विषये युगपच्च प्राप्तिस्तत्रैवेयं परिभाषेत्यत्र किं प्रमाणमिति चेत् । धर्मिग्राहकमानमेवेति गृहाण । तथाहि । अभ्यासस्यासवर्णेइति सूत्रे ऽसवर्णग्रहणमस्याः परिभाषाया ज्ञापकम् । ए. तच्च षष्ठे प्रथमान्हिकान्ते भाष्ये स्थितम् । तद्धीपतुः ऊपतुरित्यादिवारणाय नोपयुज्यते । अन्तरङ्गेण सवर्णदीर्पण तत्रेयङवडोबर्बाधात् । तौ हि ह्यङ्गसंज्ञामभ्याससंज्ञां चापेक्षमाणौ बहिरंगौ । न चैवमप्यपवादत्वात्ताव स्यातामिति वाच्यम् । येन नाप्राप्तिन्यायेन तयोर्यणं प्रत्येवापवादत्वात् । नन्वियेषेत्यादौ प्रवृत्तस्यापि गुणस्य इयायेत्यत्र प्रवृत्ताया वृद्धश्च द्विवचनेचीति रूपातिदेशेनापहारे द्वित्वे च कृते सवर्णदीर्घस्यापि मा. प्त्या सोपि येननाप्राप्तिन्यायेनेयङवभ्यां बाध्यतेति चेत् । तहि कृतेप्यसवर्णग्रहणे निर्दिषयतापत्तिः । असवर्णग्रहणसामर्थ्यापुनर्गुणवृद्धी सवर्णदीर्घ बाधित्वा स्यातामिति चेत् । न । इय
त्यादौ चरितार्थत्वात् । नन्वेवं सत्यसवर्णग्रहणं विनापि येन नाप्राप्तिन्यायेनेयर्तीति यणो बाधने सिद्ध तन्न कुर्यादिति चेत् । तर्हि सामर्थ्यादियेषेत्यादौ गुणादिप्रवृत्तिरिति फलितोर्थः । तथा च पुनरप्यसवर्णग्रहणं व्यर्थमेव । अर्तेश्चेति सूत्रयित्वा खोरिति चानुवयतेंरिकारस्य लाघवादियडि विधेये ऽभ्यासस्य:
Page #280
--------------------------------------------------------------------------
________________
२८..
शब्दकौस्तुभः । [१ अ० त्युक्तिसामर्थेनापीयेषेत्यादेः सुसाधत्वात् । नन्वर्त्तरिति रितपा निर्देशे अरियर्तीति यङ्लुकि इयङ् न स्यादिति चेत् । तीरित्येवोच्यताम् । इणो यणिति साहचर्याच्च धानुग्रहणं भविष्यति । अंगेन उविशेषणाद्वा । तेन अारमातक्रांतैरत्यभिरित्यादौ नातिप्रसङ्गः । नन्वेवमपीयेषेत्यत्रेव ईषतुरित्यत्रापीयङ् स्यादिति चेत् । न । अन्तरंगेण दीर्पण बाध इत्युक्तत्वात्। न चैवमियेषेत्यत्रापि तुल्यमिति वाच्यम् । तत्र गुणसम्भावनायां विनाशोन्मुखेन निमित्तेन दीर्घाप्रवर्त्तनात् । वक्ष्यते हि समर्थानां प्र. थमादिति सूत्रे समर्थग्रहणमकृतव्यूहाः पाणिनीया इति परिभाषां ज्ञापयतीति । अत एव सौथितिक्षमाणिरित्यत्र भाविन्या आदिवृद्धया अन्तरङ्गस्यापि सवर्णदीर्घस्य निमित्तविघातादप्र. त्तिर्मा भूदिति सावुत्थितिर्वायीक्षमाणिरित्यनिष्टरूपं वारयितु समर्थग्रहणम् । परिनिष्ठितत्वं च तत्र समर्थशब्दस्यार्थः । कृतमपि निवर्तयन्तीति वा ज्ञाप्यताम् । फलं तु तुल्यमेव । गौरवं परमधिकमितिदिक् । ततश्चेयेषेत्यादौ गुणे कृते सवर्णदीर्घाप्राप्तौ यणि प्राप्त तस्यैवेयङपवादः । ईषतुरित्यादावन्तरङ्गत्वात्सवर्णदार्पण बाध्यतइत्यसवर्णग्रहणमनर्थकं सत्ज्ञापकमेवोक्तपरिभाषायाः। ननु गुणेन कथं निमित्चविघातोऽचः परस्मिन्निति स्थानिवत्त्वेन सवर्णदीर्घमाप्तेस्तदवस्थत्वादिति चेन्न । दीर्घस्य पूवपरविधित्वेन तस्मिन्कर्तव्ये स्थानिवद्याभावात् । पूर्वस्यैव विधौ हिसः न तु पूर्वपरयोरिति विधिग्रहणव्यावर्त्यनिरूपणावसरे उपपादयिष्यमाणत्वात् । सवर्णे यो विधिः सोपि सवर्णस्यविधिरिति तत्र कर्त्तव्ये नपदान्तेति निषेधाच्च । एतेनासवर्णग्रहणे कृते स्थानिवद्भावनेयेषेत्यत्रेयङ् न स्यात् । न चासवर्णग्रहणसामच्छ्रिौतासवर्णमाश्रित्येयङ् प्रवर्त्ततां घ्नन्तीति घत्ववादिति
Page #281
--------------------------------------------------------------------------
________________
१पा..८ आ. शब्दकौस्तुमः ।
२८१ वोच्यम् । तथा सति परिभाषाशापनासम्भवात् । इयतीत्येकमयोजनाय खुश्चेति वक्तव्ये उभ्यासस्यति वचनसामर्थ्याद्रवन्तावियडमगैःणलीवातास दीर्घमप्यविशेषाद्वाधेयातामिति तद्वचा वृत्त्यैवासवर्णग्रहणस्य चरितार्थत्त्वादिति प्रत्युक्तम् । सवर्णे परे न.. भवर्तीति प्रसज्यप्रतिषेधाश्रयणात् । तत्र चोक्तरीत्या स्थानिवभावे प्रतिषिद्धे इयत्यादौ यण एव प्राप्त्या तदपनादवेन नितियोरियडुवङोरन्तरक्षेण दीर्पण ईषतुरित्यादौ बाघसम्भः वात् । सा च ज्ञाप्यमाना समानाश्रये युगपत्माप्तौ चेत्येवरूपविशेषविषयैव लक्ष्यानुरोधेनेति प्राचां भावः। अत एव स्यान इति सिवेरौणादिके नपत्य ये वलोपापवादे ऊठि च कृते सि ऊ न इति स्थितेन्तरङ्गत्वायण, न त्वाङ्गोप्युपधागुणः । व्याश्रयस्वात् । न चोठं बाधित्वा परत्वाद्गुणः शङ्कयः । लघुभूतामिग्लक्षणामुपधामङ्गं चापेक्षमाणस्य गुणस्य बव्हपेक्षत्वेन बहिरा त्वात् । एतच्च येनविधिरिति सूत्रे कैयटे स्पष्टम् । वृत्तिकारोप्यो वम् । प्रकृतमनुसरामः । उक्तरीत्या तुकि कृते शादेश तथा च विश्नप्रश्नयोस्तुक्. श्रूयेतैवेति तनिवृत्तौ यत्नान्तरमास्थेयम् , अच इत्यस्य प्रत्युदाहरणान्तरञ्चति चेत् । सत्यम् । अस्त्येक यत्नान्तरम् । च्छनोरिति सतुकनिर्देशस्य पाष्ठभाष्यादौ स्थितत्वात् । स्यादेतत् । अकृतव्यूहाः पाणिनीयाः कृतं वा निवर्तयन्तीति परिभाषाभ्यां विश्नप्रश्नयोः सिद्धौं किं सतुकनिर्देशेनः । न चोक्तपरिभाषयोरनित्यत्वज्ञापनं तत्फलम् । तेन चाखायितेति सिद्धम् । अन्यथा. यस्य हल इति भाविनं. लोपमालोक्य मामेवात्वं न क्रियेत, कृतं वा निवत्येत, त्वकपितृको ऽतिमककानित्यादौ चाकच् न श्रूयेतेति वाच्यम् । अदोजग्धिरिति सू.. प्रे ल्यग्रहणस्य प्रत्ययोत्तरपदयोरिति सूत्रे उत्तरपदग्रहणस्यः
Page #282
--------------------------------------------------------------------------
________________
२८२ .
शब्दकौस्तुभः । [१ अ० च क्रमेण ल्यब्लुकोरन्तरङ्गबाधकताज्ञापनार्थतया सिद्धान्तप्रत्येषु प्रसिद्धस्यैवोक्तपरिभाषाद्वयानित्यत्वज्ञापकत्त्वसम्भवात् । अथ नियुक्तिकः सिद्धान्तप्रवादो न श्रद्धेयः ल्यबुत्तरपदग्रहणयोरपासविध्यर्थत्वादकृतव्यूहपरिभाषावशादप्राप्तेः स्पष्टत्वादिति चेतहि मा भूतां ल्यबुत्तरपदग्रहावपि । अकृतव्यूहपरिभाषया आनत्यत्वे प्रकृतिप्रत्यापत्तिवचनस्यैव ज्ञापकत्वसम्भवात् । मास्तु वा तदपि । केणः सोचिलोप इत्यादिनिर्देशानामेव ज्ञापकत्वात् । तथाहि । क इ स उ इतीदुतोः पदान्तरमयुक्ते यणादेशे कृते आद्गुणस्य निमित्तविघातादकृतव्यूहा इति न्यायेन गुणो न स्यात् । न चासिद्धम्बहिरङ्गमन्तरङ्गं बलीय इति परिभाषाभ्यां निस्तारः । वृक्ष इ इदमित्यादौ कृतपि दीर्घे निमित्ताविघातेन तत्र पचावेदमित्यादौ च सावकाशयोयोरप परिभाषयोर्येन नाप्राप्तिन्यायेनाकृतव्यूहपरिभाषाबाध्यत्वात् । अन्यथोपेयुषो जग्मुष इत्याद्यपि न सिध्येत् । एवं विश्न इत्यत्र गुणं निषर्बु क्रियमाणं नङो ङित्वमवाकृतव्यूहपरिभाषा ज्ञापयेत् । समर्थानामिति च मास्तु । अत एव समर्थः पदविधिरिति सूत्रे ऽकर्तव्यं च क्रियते समर्थानां प्रथमादिति भाष्यं सङ्गच्छते । तस्मात्, प्रत्यापत्तिसमर्थत्वल्यबुत्तरपदग्रहाः । सतुकत्वं च पश्चापि न कार्याणीत्यवस्थितम्। अत्रोच्यते । वार्णादाङ्गम्बलीय इति परिभाषाया अनित्यत्वं ज्ञापयितुं सतुकग्रहः।तथाहि । समानाश्रयइति माचां ग्रन्थाननुसृत्य प्रागुक्तं,न तु क्षोदक्षमम् । व्याश्रयेष्वपि बहुधा तस्स्वीकारात् । तथा चकैयटेनासिद्धवत्सूत्रेशुन इत्यत्र वार्णादाङ्गस्य पलीयस्त्वात्पूर्वैकादेशं बाधित्वाऽल्लोप उक्तः । न च तत्रोभयोरकाराशे समानाश्रयत्वमस्त्येवोति वाच्यम्। विश्नः स्योन इत्यत्रापि छकारेकारांशसाम्येन व्याश्रयत्वोपन्यासविरोधात् । किञ्चाङ्गस्य,
Page #283
--------------------------------------------------------------------------
________________
२८३
१ पा. ८ आ. शब्दकौस्तुमः। आड्रीनयोः, शीडोरुट्, अचः परस्मिन् , येनविधिः, उपेंयिवाननाश्वान्, आडजादीनाम्,अजादेद्वितीयस्य, अदसऔसुलोपश्च,सार्वधातुकमपित्,उपसर्गाद-हस्वऊहतेः,स्नुक्रमोरनात्मनेपदइत्यादिसूत्रेषु कैयटहरदत्तादिसकलग्रन्थाः समानाश्रयतां कचिदादृत्य कचिदनादृत्य प्रवृत्ताविति स्पष्टमेव सिद्धान्तपरिशालिनाम्। षाष्ठभाष्ये प्रथमाह्निकान्ते वार्णादाङ्गमिति परिभाषायाःप्रयोजनान्यपि व्याश्रयसाधारणान्येव । नमाङयोग इतिसूत्रस्थकैयटग्रन्थे प्यवमेव । आतोनुपसर्गेक इति सूत्रे भाष्येप्येवमेव । तस्माद्बहिरङ्गपरिभाषाऽकृतव्यूहपरिभाषयोरिव वार्णादाङ्गमित्यस्या अप्यनित्यत्वमेव शरणम् । तच्च सतुक्कग्रहणेन ज्ञाप्यते । न च परस्मिपूर्वविधावपि स्थानिवद्भावेन तुकं वारयितुं सः । अन्यार्थतया ऽवश्यकत्र्तव्येनाच इत्यनेन गतार्थत्वात् । एवञ्चान्यार्थ क्रियमाणं सतुकग्रहणमकृतव्यूह इत्यस्याप्यनित्यतां कामं ज्ञापयतु । प्रकृतसूत्रे विश्न इति प्रत्युदाहरणन्तु यथाश्रुतरीत्या । एवं स्थिते नङो ङित्वस्य गुणनिषेधे चरितार्थत्वादकृतव्यूहपरिभाषायां ज्ञापकान्तरमास्थेयम् । तच्च प्रत्ययवचनमुत्तरपदग्रहणं समर्थग्रहणं वा । तेभ्यो लघुत्वात् ल्यग्रहणमेवेति तु निष्कर्षः। आचारकिबन्तार्थ प्रत्ययग्रहणं तवममादिवाधनार्थमप्राप्तविध्यर्थश्वोत्तरपदग्रहणमिति हि स्थास्यति । मपर्यन्तानुत्तिरेव ज्ञापिकेति हरदत्तोत्पेक्षा त्वन्तरङ्गस्यापवादबाध्यत्वादयुक्तति सप्तमे व. क्ष्यते । एवञ्च पामाधन्तर्गणसूत्रे विष्वगित्युत्तरपदलोपश्चाकतसन्धेरित्यत्राकृतसन्धिग्रहणमप्यनावश्यकम् । वीक्षमाणादिभ्यः . कृतसन्धिभ्य एव तद्धिता इति स्पष्टीकरणाथै वास्तु । एवं त्रियाः पुंवदिति सूत्रे नत्येषा परिभाषा सर्वत्राश्रीयतइति कैयटः समीचीन एव । आभात्सूत्रस्थकयटस्तु निमित्तापायइति परिभा
Page #284
--------------------------------------------------------------------------
________________
२८४
शब्दकौस्तुभः ।
?
[ १ अ० .पा. भाण्यासम्मतेत्येवंरूप आपाततः । छ्वोः शूट्सूत्रे न हीदं वचनं नापि न्याय इत्येवंरूपो हरदत्तग्रन्थोप्यापातत एव । समर्थानामिति सूत्रे परिभाषापरिष्कारस्य स्वयमेव कृतत्वात् । अथ वाक्तपरिभाषयोर्मध्ये ऽकृतव्यूहपरिभाषैव लाघवादादर्त्तव्या न तु कृतमपीति गौरवादित्येवम्परतया कथञ्चिद्वन्यो नेयः । फलन्तु निर्विवादम् । ज्ञापकान्तराणामपि सुलभत्वात् । तद्यथा । चाविति सूत्रं दीर्घं विदधदिह ज्ञापकम् । अन्तरने हि यणि कृते प्रती इत्यादौ कथं दीर्घस्य विषयलाभः । लौकिकन्यायोपीह सुवचः । लोके हि निमित्तमुभयविधमपि दृष्टम् । कार्यस्य स्थि सौ नियामकं तदनियामकं च । आद्यं यथा, न्यायनये ऽपेक्षाबुद्धिः सनाशेन द्विखनाशाभ्युपगमात् । तथा वेदान्तनये मारघस्य विक्षेपस्थितिनियामकत्वमुपाधेः स्फटिकलौहित्यादिस्थितिनियामकत्वं च प्रसिद्धमेष । द्वितीयं तु दण्डादि । तलाशेपि घटनाशादर्शनात् । एवं स्थिते लक्ष्यानुरोधेनेहापि द्वैविध्यं कथं न भवेत् । तथा च यस्य च लक्षणान्तरेण निमित्तं विहन्यते नासावनित्य इत्यस्य क चिदाश्रयणंक चिन्नेत्येवंरूपे सिद्धान्ते लौकिकद्विविधव्यवहार उपष्टम्भकत्वनादाहृतः कैयटादिभिः । बालिसुग्रीवयोर्युध्यमानयेोभगवता वालीने हतेपि न सुग्रीवस्य वाळितः प्राबल्यं व्यवहरन्ति । भगवत्सहायैः पाण्डवैर्जये ल• उधेोपि पाण्डवानां प्राबल्यं व्यवहरन्ति चति दिक् । स्थादेत तु । यदि छ्वोरिति सतुक्कनिर्देशस्तार्ह राल्लोपे तस्यैवानुवृत्तिः स्यात् । तथा च हू: हुरौ हुर इत्यत्र लोपो न स्यात् । वितुकस्वात् । न चानुवृत्तिसामर्थ्यातुकं विनैव तत्र गृह्यताम् । राधोहिंसायामित्यत्रात इत्यनुवृत्तेप्यवर्ण इवेति वाच्यम् । बकारमाश्रान्वयस्यापि सुवचत्वात् । यतु सतुक्कवि तुक्कौ द्वावपीह नि
Page #285
--------------------------------------------------------------------------
________________
१. पा. ८ आ. सब्दकौस्तुभः। १४५ दिश्यते इति, तमासमाहरदेव एकवचनापोइतरोरयाने बानचनापत्ते।कारयो:समाहारे समासं कृत्वावकारणेतस्तरपोगर्टदं करिष्याम इति चेत् । न । समागरे टचप्रसमात् । बवासंख्यासम्भवापत्तेश्च । अत्रोच्यते । छकारवकारयोः समाहारद्वन्दे कुते छकारान्तरस्य द्वन्द्वान्तरमस्तु । आदेशोपि शन्दप्रश्लेषः । तथा चान्तरतम्याचथासंख्यन्यायाच्चेष्टं सिद्धम् । अस्तु मासतुकस्यैव निर्देशः । राल्लोपे तु सामर्थ्यात्केवलस्यानायः । नध्याख्येति नत्वानियाल्लिनाथ । मूर्च इत्यत्र हि छलो विना नत्वमाप्तिरेव न सम्भवति । एवं मूत्तौंधना द्रवमूर्तिस्पर्शयोः श्य इत्यादिनिर्देशा अपि साच्छन्तइति दिक् । अस्मिन्पक्षे अब इस्यस्य प्रत्युदाहरणन्तु धूत्वा स्यूत्त्वति । अत्र धूठः स्थानिवत्त्वाघण् न स्यात् । ननु स्वाश्रयमन्त्वं भविष्यति । अतिदेशानां स्वाश्रयकार्यानिवर्तकत्त्वादिति चेत् । न । विधिग्रहणप्रयोजनकथनावसरे इह सूत्रे स्वाश्रयनिवृत्तेः सिद्धान्तयिष्यमाणत्वान् । न: नेवमपि योत्र पण्विधावाश्रीयते अन् नासावादशः । यथादेश ऊडिति समुदायः नासौ यविधी निमित्तमिति चेत् । न । अ. नुबन्धानामनेकान्ततया एकान्तस्वेप्युच्चरितमध्वंसितयोकारस्यैवादेशत्वात् । पतिनिर्देशादभावोप्यतिदिश्यतइति वक्ष्यमाणत्वाच्च । एवमभिगत्येत्यपि प्रत्युदाहरणम् । अत्र बनुनासिकलोपः परनिमित्तकस्तस्य स्थानिवद्भावाबूस्वस्यापतिकृतीति तुरन पामोति । अथ परस्मिमिति किमर्थम् । युवजानिः। अत्र जायाया निकट स्थानिवद्भाधलापोन पामोति स्वाश्रयनिवृत्तिरभावातिदेशच वक्ष्यताति युक्तमेव । किञ्च व्याघूस्यव पादावस्य व्यापार पादस्यलोपो ऽहस्त्यादिभ्य इत्यपरनिमित्तको लोपस्ततो गर्गादित्वायम् । वैयाघूपधः । लोपस्य स्थानिवद्रावा:
Page #286
--------------------------------------------------------------------------
________________
२८६
शब्दोस्तुमः [१ अ. त्पादन पदिति पदाको न स्यात् । वचनसामर्थ्याद्भविष्यतीति चे, त्पादेनेत्यादावतिमसः। किश्च पादशतस्यति लोपवचनसाम
त्स्थिानिवद्भावामहत्तौ सत्यां द्विपदिकेत्यादौ पद्भाववचने चरितार्थमिति क तस्य सामर्थ्यम् । परस्मिन्निति कृते तु वैयाघू. पद्य इत्यादौ पद्धावस्य चरितार्थतया पादेनेत्यादावेकादेशस्य स्थानिवद्भावात्पद्भावो नेति स्थितम् । नन्वेकादेशो नाचः किं. लचोः। तत्कथं स्थानिवत्वमिति चेन्न । वर्णनिर्देशे जातिग्रहणात् । अत एव श्रायसौ, मौमती , चातुरौ ; आनडुहावित्यादि सिध्यति । श्रेयसो ऽपत्यमित्यण् । देविकाशिंशपादित्यवादीसश्रेयसामित्याकारादेशः । ततश्चतुर्योप्यणन्तेभ्य औपत्यये एकादेशस्यादिवत्वात्प्राप्तौ नुमामौ न भवतः । तथा उदवाहे । उदकं वहतीति कर्मण्यण् । संझायामुदभावः । ततो ङावेकादेशस्यादिवत्वाद्भत्वे सति प्राप्तो वाह ऊन भवति । पूर्वविधावि. ति किम् । नैधेयः । निपूर्वादाब उपसर्गे घोः किः । आतोलोपः । यचः । इतश्चानिय इति ढक् । आकारलोपस्य स्थानिवत्वे तु सति व्यकत्वव्यपदेशेन द्वयकत्वं विरुद्धत्वाबाध्येत । नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते । नन्वेवमपि विधिग्रहणं मास्तु । पूर्वस्यति षष्ठया कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेत् । न । पूर्वस्य विधिः पूर्वस्माद्विधिरिति समासद्वयलाभार्थ विधिग्रहणम् । पंचमीसमासे उदाहरणं तु तन्वन्तीत्युक्तमेव । स्यादेतत् । यदि पंचमीसमासोपष्टिस्तार्ह विगणय्येत्यादि न सिध्यति । ल्यपिलघुपूर्वादित्ययादेशे कर्तव्ये ऽल्लोपस्य स्थानिवद्भावात् । न चारम्भसामर्थ्यम् । अनुगमय्येत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते । पूर्वस्माद्विधौ स्छानिवत्वमनित्यम् । निष्ठायांसेटीति ज्ञापकात् । तथाहि । तत्र सेटीति पदं न
Page #287
--------------------------------------------------------------------------
________________
१ पा. ८ आ.
शब्दः 1
२८७
तावदनिड्व्यावृत्यर्थम् । णिजन्तात्तदसम्भवात् । ननु संज्ञापितः पशुरित्यत्र यस्यविभाषेतीनिषेधः सम्भवत्येव । सनीवन्तेति विकल्पितेकत्वादिति चेत् । न । यस्यविभाषेत्यत्रैकाच इत्यनुवृत्तेः । अन्यथा दरिद्रित इतीन्न स्यात् । तस्मात्कालावधारणार्थं सेइग्रहणम् । इटि कृते णिलोपो न तु ततः प्राणिति । अन्यथा कारितमित्यादौ णिलोपे कृते एकाच उपदेशइतनिषेधः स्यादिति सेटीति बदतो भावः । पूर्वस्माद्विधौ स्थानिवत्त्वे तु न प्राप्त एव निषेधः । णिचा व्यवधानात् । तस्मात्सेग्रहणमनित्यतां ज्ञापयतीति स्थितम् । तथा चाष्टमे अन्त इति सूत्रे हरदत्तः । अनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः । निष्ठायां सेटीति सेग्रहणात् । एतच्च स्थानिवद्भावप्रकरणे एव व्याख्यातामिति । यद्यपी प्रकरणे स्वयं न व्याख्यातं तथापि न्यासकारादिभिर्व्याख्यातमिति तद्भन्थस्यार्थः । लेखकप्रमादाद्रन्थभ्रंशो वा कल्प्यः । एतेन ओः पुयणिति सूत्रे यदत्र वक्तव्यं तद् द्विर्वचनेचीत्यत्रैवोक्तमित्यपि हरदत्तग्रन्थो व्याख्यातः । तथा च वस्वेकाच्सूत्रे कैटः । पूर्वस्मादपिविधावित्येतदनित्यमिति । माधवाचार्यास्तु । परिव्रढय्य गत इत्यत्रासिद्धतामुद्भाव्य व्याथयत्वात्तां परिहृत्य पूर्वस्मादपीति स्थानिवत्त्वमाशंक्य प्रवेभिदय्य प्रस्तनय्येत्यादिभाष्योदाहरणबलेन समादधुः । यद्वा । ल्यपि - लघुपूर्वादित्यनेन सामर्थ्यादन्यपदार्थस्य वर्णस्यापेक्षायां वर्णग्रहणे जातिग्रहणाद्व्यवधानेपि न दोष इति । केचित पंचमीसमास इह मास्तु । प्रयोजनाभावात् । तथाहि । वेभिदिता, माथितिकः, अपीपचमिति प्रयोजनत्रयं भाष्ये उक्तम् । तत्र बेभिदितेति तावदन्यथासिद्धम् । एकाचउपदेशइत्यत्र विहितविशेषणाश्रयणात् । माथितिकति मायतं पण्यमस्येति विग्रहे त
Page #288
--------------------------------------------------------------------------
________________
२८८
शब्दकौस्तुनः । [ १० दस्यपण्यामिति उकि तस्येकादेशे यस्येति चेत्यल्लोपे कृते इ. सामुक्तान्तादिति कादेशोः न भविष्यति । अनल्विधाविति निषेधेन स्थानिवद्भाषासम्भवात् । ठस्येक इत्यत्र स्थान्यादेशयोरकारस्य उच्चारणार्यतया वर्णमात्रस्य स्थानित्वात्। अस्तु वा स्थान्यादेशयोरकारस्यः विवक्षा । न चैवमनल्बिाधित्वाकादेशप्रसङ्गः। सन्निपातपरिभाषया समाधानात् । न चापीपचत्रित्युदाहरणम् । इह हि अन्तेरकारस्य चकारस्य चातोगुण इति पररूपत्वे तस्य परं प्रत्यादिवद्रावाज्निग्रहणेन ग्रहणे सति सिअभ्यस्तेति जुस् प्राप्तः। णिलोपस्यैकादेशस्य वा स्थानिवद्भावाम भवतीति वाच्यम् । वेत्तेहि लन्येवानन्तरो शिः सम्भवतीति तत्साहचर्यादभ्यस्तादपि लङ एव झे विधानात् । न च सिचा साहचर्याल्लुङोपि ग्रहणमस्त्विति वाच्यम् । विप्रतिषेधेपरमिति परसाहचर्यस्य बलीयस्त्वादिति । अत एव भबतेर्यङ्लुङन्ताल्लुङि अबोभूवमिति माधवः । पंचमीसमासप्रयोजनतया अपीपचबित्युदाहरतो भगवतस्तु नेह साहचर्य नियामकतया सम्मतम् । कृत्वोर्थग्रहणादि सापकात्साहचर्य न सघेत्राश्रीयतइत्युक्तं दीधीवेवीटामिति सूत्रे । तस्माद्यलुकि भुवो लुछि जुसेवोचितः । आत इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्याप्तस्तन्मात्रपरताया माधवेनैवोक्तत्वात्।अम्यस्ताश्रयस्य जुसो दारत्वात् । यदि तु लापवादात इति नियमः सामान्यापेक्षस्तदा जुसभावे ऽदभ्यस्तादित्यत्, तथा चाबोभूनुरबोभूवदिति पक्षभेदेनरूपद्वयं लभ्यते। नित्यत्वन को गुणवाधकत्वात् । माधवोदासहतमबोभूवमिति तु चिन्त्यमेव । अन्त्यादेशस्य दुर्लभत्वात् । अपीपचमित्येतत्सिद्धये च पञ्चमीसमास आश्रयणीयः । विगनय्यस्यादावतिमसास्य तु पूर्वोक्ता एवोद्धाराः स्मर्तव्या इति
Page #289
--------------------------------------------------------------------------
________________
१ पा. ८ आ.
शब्दकौस्तुभः ।
२८९
युक्तः पन्थाः । ननु पञ्चमीसमासो मास्त्विति वदतो मते तन्वन्तीत्यत्रेट् स्यादिति कुतो नोद्भावितमिति चेन्न । बहिरङ्ग - स्य यणोसिद्धत्वात् । न च नाजानन्तर्यइति निषेधः । अनन्तरे कार्यविधौ यत्राच आनन्तर्यमिति कैयटेना भ्युपगमात् । कथं तर्हि तन्वन्तीति पञ्चमीसमासोदाहरणं प्राग्दत्तमिति चेत् | हरदत्तमतेनेत्यवेहि । स हि यत्रान्तरङ्गे बहिरङ्गेवा अ चोरानन्तर्यमिति व्याख्यत् । नन्वेवं नपदान्तसूत्रे दध्यत्रेति वृत्तिमुपादाय स्थानिवद्भावप्रतिषेधसामर्थ्याद्वहिरङ्ग परिभाषा न प्रवर्त्ततइति मिश्रोक्तिर्विरुध्येत । बहिरङ्गे यणि अचोराश्रयणेन नाजानन्तर्यइति निषेधादेव परिभाषाया अप्रवृत्तेः । किञ्च सं योगान्तस्य लोप इति सूत्रे असिद्धं बहिरङ्गमिति परिभाषामाथित्य क्रियमाणं यणः प्रतिषेध इति वार्त्तिकस्य प्रत्याख्यानमपि विरुध्येत । अपि च । लणिति सूत्रे उरणपर इति परेण चेत्कर्त्रर्थमित्यत्र रेफद्वयं श्रूयेतेत्युक्तं तदपि विरुध्येत । रोरीति लोपसम्भवात् । असिद्धपरिभाषायाश्वोक्तरीत्या निषेधात् । किञ्च नधातुलोपइति सूत्रे प्रेद्धमित्यत्रत्यभाष्येण संयोगान्तस्येत्यत्र यण इत्यस्य प्रत्याख्यानभाष्येणापि विरोधः । किञ्च एत ऐ इत्यत्र पचावेदमित्यादौ अतिप्रसङ्गमाशंक्य बहिरङ्गतया स्वीकृतं समाधानमपि भज्येतेति दिक् । तस्माद्धरदत्तकृता व्याख्या पूर्वापरस्वग्रन्थेन भाष्येण च विरुद्धेति चेत् । सत्यम् । अत एवम व्याख्यां नधातुलोपसूत्र एवानुपादेयामवोचाम । केण इत्यादि - ज्ञापकान्नाजानन्तर्यइत्यस्यानित्यतामाश्रित्य वा कथंचित्समर्थनीयम् । स्यादेतत् । कैयटमतेप्यचोरिति द्वित्वं विवक्षितं न वा । आधे मूलभूतज्ञापकविरोधः । नहि कोसिचत्कोस्येत्यादावनन्तरे पत्वविधावचोराश्रयणम् । द्वितीये तु मूलभूतं ज्ञापकं सम्भवेत्
३७
Page #290
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
यदीणग्रहणं पूर्वेण स्यात्, तत्तु परेणैवेति स्थितम् । अथ परेग्रहणे हलोपि के चिदन्तर्भवन्तु नाम । अजानन्तर्यन्तु न गतमित्याशयः । तर्ह्यस्तु कथं चिज्ज्ञापकनिर्वाह: । अयजइन्द्रं वृक्षइन्द्रमित्यादौ परत्वात्सवर्णदीर्घस्तु दुर्वारएव । न ह्यत्रासिद्धं बहिरङ्गामीति प्राप्नोति । नाजान्तर्यइति निषेधात् । नन्वन्तरङ्गं बलवदिति परिभाषान्तरेणेदं सिद्धयति । तथा च विप्रतिषेधसूत्रे अन्तरङ्गं चेत्युपक्रम्य इण्डिशीनामाद्गुणः सवर्णदीर्घत्वादिति प्रयोजनं पठितमिति चेत् । सत्यं पठितम् । किन्तु बहुतमप्रयोजनानि पठित्वा असिद्धपरिभाषयैव गतार्थत्वान्नेयं कर्त्तव्येत्युपसंहृतम् । एतेन प्रकृतसूत्रे पदव्या मृद्वयेत्युदाहरणदूषणप्रस्तावे ऽसिद्धपरिभाषां भाष्यकारैरुदाहृतामन्तरङ्गम्बलीय इत्येतदुपलक्षणतया व्याचक्षाणापि कैयटः प्रत्युक्तः । विप्रतिषेधसूत्रस्थभाव्यविरोधात् । तस्मादिह सिद्धान्ततत्त्व मन्यदेव वक्तव्यमिति । उच्यते । अन्तरङ्गपरिभाषाया निरपवादत्वादसिद्धपरिभाषायास्तु नाजानन्तर्य इति सापवादत्वादुभयोरावश्यकता । विप्रतिषेधसूत्रस्थं भाष्यन्त्वभ्युच्चयपरमेवेति भागवृत्तिकाराः । कैयटलघुविवरणादयोप्येवम् । बृहद्विवरणकारास्तु । नाजानन्तयइति परिभाषा मास्तु । तज्ज्ञापकतया यत्सम्मतं तेनासिद्धपरिभाषाया अनित्यत्वमेव ज्ञाप्यतइत्याहुः । अस्मिथ पक्षे विप्रतिषेधसूत्रस्थं नाजान्तर्य इति भाष्यमप्यनित्यत्वपरतया भङ्क्त्वा नेयम् । अन्यथा हि तत्रैवान्तरङ्गं बलीय इत्यस्य प्रत्याख्यानं विरुध्येत । अत एव वृत्तौ नलोपः सुप्स्वरेत्यत्र वृत्रहभ्यामित्यत्र नलोपस्यासिद्धत्वात् ह्रस्वस्येति तुक नेत्युपक्रम्य संनिपातवहिरङ्गपरिभा पाभ्यां गतार्थतामाशङ्क्य परिभाषाद्वयस्याप्यनित्यतां ज्ञापयितुं `तुंग्ग्रहणमित्युक्तम् । अत एव तत्र मिश्रैरप्युक्तम् । बहिरङ्गपरि -
२९०
Page #291
--------------------------------------------------------------------------
________________
१ पा. ८. आ.
शब्दकौस्तुमः ।
२९१
भाषाया अनित्यत्वात् या सेत्यत्र बहिरङ्गमपि त्यदाद्यत्वमन्तरङ्गे टापि नासिद्धमिति । तथा प्रतिदीन्न इत्यादिसिद्धयेप्यसिपरिभाषाया अनित्यत्वं स्वीकृतम् । अत एव चाक्षरित्यत्र यलोपे कार्ये ऊ नासिद्ध इति दिक् । एतदपवादश्चाकृतव्यूहा इत्यादिः । उत्सर्गापवादयोर्द्वयोरप्यनित्यत्वे स्थिते लक्ष्यानुरोध एव व्यवस्थाहेतुरिति सर्वे सुस्थम् । स्यादेतत् । पूर्वस्येति सम्बन्धसामान्ये षष्ठी । सम्बन्धश्च द्विविधः । कार्यित्वेन निमित्तत्वेन वा । एवं च विधिग्रहणं विनैव समासद्वयस्य फलं लब्धं विधिग्रहणे सत्यपि हि पूर्वस्मान्निमित्तत्वेनाश्रितादिति व्याख्येयमेव, अन्यथा हे गौरित्यत्र गकारात्परस्य विधौ वृद्धेः स्थानिवद्भावादेहूस्वादिति सम्बुद्धिलोपः स्यात् । सत्यम् । विधिग्रहणं योगविभागार्थम् । तेन पूर्वस्य विधौ स्थानिवदेवेति नियमात्स्वाश्रयं व्यावर्त्यते । यद्वा । मास्तु योगवि भागः । विधिग्रहणसामर्थ्याद्विधिमात्रे स्थानिवद्भावो भविष्य - ति । शास्त्रीये ऽशास्त्रीये च । तेन पटयतीत्यादौ वृद्ध्यभावो ऽशास्त्रीयोपि सिध्यति । नन्वेवमपि पूर्वसूत्रादेव विधिग्रहणमनुवर्त - यिष्यते । सत्यम् । पुनावैधिग्रहणात् द्वितीयो नियमः क्रियते । पूर्वस्यैव विधौ स्थानिवन तु पूर्वपरयोर्विधाविति । तेन ईयतुरिति सिद्ध्यति । अन्यथा हि इणोतुसि द्विर्वचनेचीति यणादेशस्य स्थानिरूपातिदेशाद् द्वित्वे कृते द्वित्वकाले यणोपहारात् पुनः प्रवृत्तिवेलायां व्याश्रयत्वेन वार्णादा बलीय इत्यस्मिन्नप्रवृत्ते वर्णमात्राश्रयत्वेनान्तरङ्गत्वात्सवर्णदीर्घः स्यात् । न चाकृतव्यूहा इति यणिति वाच्यम् । निमित्तविधाताभावात् । कृतेपि यणि स्थानिवत्त्वेन सवर्णदीर्घप्राप्तेः । ततश्च सवर्णदीर्घे कृतेन्तादिवचेत्यनेनाभ्यासग्रहणेन ग्रहादभ्यासहस्वत्वे दीर्घ
Page #292
--------------------------------------------------------------------------
________________
२९२ शब्दकौस्तुभः । [१ ० इणः कितीति दीर्घत्वे कृते दीर्घविधानसामर्थ्यादिणो यणभावे ई अतुरिति स्वात् । सिद्धान्ते तु पूर्वपरयोविधौ स्थानिवन्त्वाभावानिमित्तविघातेनाकृतव्यूहपरिभाषयेणो यणि सिद्धं रूपम् । यद्वा । स्थानिवदिति वतिबलेनाभावोप्यतिदिश्यते । उत्तरसूत्रे द्विवचनादिग्रहणाल्लिङ्गात् । विधिग्रहणं तु पूर्वस्यैव न तु पूर्वपरयोरित्येतदर्थमिति दिक् । इह स्थान्यादेशनिमित्तानां त्रया‘णां सन्निधानाविशेषेपि स्थान्यपेक्षमेव पूर्वत्वं गृह्यते न तु आदे. शापेक्षं निमित्तापेक्षं वा । वैयाकरण इत्यत्र आयादेशापत्तेः । तदक्तम् । अचः पूर्वत्वविज्ञानादैचोः सिद्धमिति । नन्वेवं समायेत्यत्र जग्ध्यादेशप्रसङ्गः, ण्यल्लोपाविति पूर्वविप्रतिषेधेन णिलोपे कृते ततः प्रत्ययलक्षणेन वृद्धौ सत्यामेकदेशविकृतस्यानन्यतया दिग्रहणेन ग्रहणात् । एवं घात्यादित्यत्र वधादेशमसङ्ग इति चे न । आदिघात्योरपि स्थानिद्वारा ऽनादिष्टादचः पूर्वत्वात् । ननु स्थानिनः पूर्वत्वेपि आदेशस्य किमायातम् । नानादिष्टादचः पूर्वत्वं नाम शास्त्रीय कार्य यत्स्थानिवदादेश इति पूर्वसूत्रेणातिदिश्यतेति चेन्न । अनादिष्टादचः पूर्वत्वमुपजीव्याचः परस्मिन्निति शास्त्रे प्रवर्तायतव्ये स्थानिवदादेश इत्यस्य प्रवृत्तिसम्भवात् । तथा चाचः परस्मिन्नित्यतिदेश एव शास्त्रीय कार्य तच्च पूर्वसूत्रेणातिदिश्यतइति फलितोर्थः । अत एव नपदान्तसूत्रे सवर्णग्रहणं कृतम् । अन्यथा नसोरल्लोपे कृते पश्चाद्भवमनुस्वारो नानादिष्टादचः पूर्व इति तस्य विधौ स्थानिवद्भावविरहात्सवर्णग्रहणं व्यर्थमेव स्यात् । नवं क्षत्रियकण्डूतिरिति न सिद्धयति । तथाहि । कण्डूयतेः क्तिचि अल्लोपयलोपयोः कृतयोरल्लोपस्य स्थानिवन्त्वेनोवङि कृते ऊकारस्यानादिष्पादचापूर्वस्य स्थाने जातस्योत्रका स्थानिवदादेश इति स्थानि
Page #293
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः। . २९३ बद्भावेनानादिष्टादचः पूर्णत्वादचः परस्मिन्नितिस्थानिवत्वेनाकारेण व्यवायादूठोऽभावेन स्थानिवत्त्वादेवलोपोव्यालीतिवलोपा. भावेन हलिचति दीर्थे कृते कण्डूत् तिरिति प्राप्नोति । यत्तु यः स्थानिद्वारा पूर्व उवङ् न तस्योट कस्य तार्ह वकारस्य यस्य चोट वकारस्य न स स्थानिद्वारा पूर्व इति । तन्न । तेस्तुरितिवत्कण्डू इत्यस्य कण्डुव् इति आदेशात्। तस्य च कण्डुऊ इत्यादेशे कर्तव्ये स्थानिवद्भावावश्यम्भावात् । उक्तं हि । सर्वे सर्वपदादेशा इति । अन्यथा निराध घात्यादित्यादावपि स्थानिवद्भावानापत्त्या मूलशैथिल्यापत्तेरिति । अत्रोच्यते । अनादिष्टादचः पूर्वतायाः स्थानिद्वारकत्वमानित्यम् । नपदान्तसूत्रे कण्डूतिरिति भाष्योदाहरणाज्ज्ञापकात् । आतोनुपसर्गेक इति सूत्रे कविधौ सर्वत्र प्रसारणिभ्यो ड इति वार्तिकस्य तत्प्रघट्टकभाष्यस्य च पर्यालोचनयाप्यवमेव लभ्यते । तथा च तत्र भाष्यम् । योनादिष्टादचः पूर्वस्तत्त्कार्ये स्थानिवत्त्वं होति । स्थानिद्वारके तु पूर्वत्वे गृह्यमाणे सम्पूर्णः प्रघट्टक एवासङ्गतः स्यादिति तत्रैव स्फुटीकरिष्यते । तत्रत्यः कैयटस्त्वापाततः । एतेन तितउमाचष्टेतितापयतीति हरदत्तग्रन्थोप व्याख्यातः । तत्र हि णौ टिलोपे कृते तस्य स्थानिवन्त्वादचोणितीति वृद्धयभावपि अत उपधाया इति वृद्धौ आकारे कृते तस्य स्थानिद्वारा उकारात्पूर्वत्वेन पुग्विधावुकारलोपस्य स्थानिवत्त्वात्पुङ् न पामोति । न च यस्य पुकु आकारान्तस्य, नासौ पूर्वः,यश्च पूर्व आकारो, न तस्य पुगिति वाच्यम् । एकदेशविकृतस्यानन्यतया सर्वेसर्वपदादेशा इत्युक्तरीत्या चाकारान्तस्यापि पूर्वत्वानपायात् । तस्मात् स्थानिद्वारकं पूर्वत्वमनित्यमित्येव हरदत्तस्य शरणम् । अत्र के चित् । तितापयतीत्यसामेव । तथाहि । तितउ णिच् इति स्थिते टि
Page #294
--------------------------------------------------------------------------
________________
२९४ शब्दकौस्तुभः। [१० लोपश्च प्रामोत्यत उपधाया इति वृद्धिश्च । उभयोनित्ययोः परत्वादृद्धिः । ततष्टिलोपे कृते स्वत एवानादिष्टादचः पूर्वमादन्तं न तु स्थानिद्वारोति पुङ् न प्राप्नोति । तस्माच्छपि णिचो गुणे कृते एचि वृद्धावायादेशे तितायतीति भवति। न च तिता णिच् इति स्थित अन्तरङ्गत्वादाद्गुणे शप्ययादेशे तितयतीति स्यादिति वाच्यम् । शपि हि गुणे सति वृद्धिरेचीति बाधेनाद्गुणस्य निमित्तविघातस्योत्पत्स्यमानतया ऽनव्यूहपरिभाषया पूर्वमन्तरङ्गस्याप्याद्गुणस्याप्रवृत्तेः । अकृतव्यूहपरिभाषा ह्यन्तरङ्गपरिभाषाया अपवाद इत्युक्तम् । न च शपि गुणस्याचः परस्मिन्निति स्थानिवन्त्वादाद्गुणस्य न निमित्तविधात इति वाच्यम् । पूर्वस्यैव विधौ स्थानिवद्भावो न तु पूर्वपरयोविधावित्युक्तत्वात् । तस्मात्तितायतीत्येव साधु । न तु तितयति तितापयतीति वा । चङि तु तिता णिच् चङ् तिप् इति स्थिते तनोतेर्डउः सन्वच्चेति व्युत्पतिपक्षे ऽनभ्यासस्येति द्वित्वनिषेधे टिलोपस्य चङ्परनिहासे स्थानिवत्त्वनिषधाद् इस्वाभावे णिलोपे तस्य स्थानिवत्त्वादसिद्धत्वाद्वा ऽऽतोलोपाभावे दीर्घविधि प्रति स्थानिवत्वनिषेधात्सवर्णदीप॑ ऽतितादिति भवति न त्वतितापदिति । अत्रेदं वक्तव्यम् । परत्त्वाद्वृद्धिरित्यसङ्गतं नित्यत्त्वेन दिलोपात् । न च वृद्धिनित्या । अचः परस्मिन्नितिकार्यातिदेशेन वृद्धिप्राप्तावपि लक्षणान्तरण प्राप्नुवन्ननित्य इति न्यायेनानित्यत्वात् । एवं च हरदत्तोक्तिः सुष्ठ्वेव । किं तु अनित्यत्वपि स्थानिद्वारकं पू. वत्वमिह नेष्यते इत्यस्मिन्नर्थे प्रमाणंचिन्त्यम् । तदेवं स्थानिद्वा. रकं वा स्वनो वा उभयथाप्यचः पूर्ववमिह गृह्यते इति स्थितम् । विधीयते इति विधिरिति कर्मणि किप्रत्ययः । पूर्वस्येति शेषे षष्ठी । अनुवादे परिभाषानुपस्थानात् । पुगाद्यागमपि विधेये
Page #295
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः ।
२९५ स्थाविवद्भावः । अच इत्यत्र तु आदेश इति समभिव्याहारात् योग्यताबलात् स्थानिसम्बन्धलाभः , षष्ठीस्थानयागेत्यतः पूर्वसूत्रे ऽनुवर्तितस्य स्थानेग्रहणस्येहाप्यनुवृत्तति प्रसिद्धः पन्थाः। न्यासकारस्तु निमित्तापेक्षमादशापेक्षं वा पूर्वत्वामित्यपि पक्षौ भाष्ये उपन्यस्तत्त्वात्स्वीचकार । वैयाकरणादौ तु बहिरङ्गयोरैचोरसिद्धत्वान्न दोष इत्याह । इदं च नाजानन्तर्यपरिभाषाया बहिरङ्गपरिभाषाया एव वा अनित्यतोत मागुक्तमुपष्टभ्य समर्थनीयम् । अस्मिन्पक्षे विधिरिति भावे किः षष्ठी तु अनभिहिः तत्वाकर्मणीत्यपि सुस्थमेव । किं तु निमित्तापेक्षया पूर्वत्वे त्यदाद्यत्वस्य स्थानिवत्त्वात् द्वाभ्यामित्यादौ दीर्घो न स्यात् । ई. द्यतीतीत्वस्य स्थानिवत्वादिगन्तलक्षणो गुणो न स्यात्, देयमिति । तथा गुणवृद्धयोः स्थानिवत्त्वाल्लवनं लावक इत्यवावौ न स्याताम् । द्वयोरेकस्य, देयमृणे, किरतो लवनइत्यादिनिर्देशोपटम्भेनानित्यताश्रयणं तु क्लिष्टामति दिक् । पूर्वत्वं च नाव्यवधानगर्भ किं तु व्यवहितसाधारणम् । तस्मिन्नितिनिर्दिष्टइति सूत्रे निर्दिष्टग्रहणाल्लिङ्गात् । चपरानिहासे निषेधारम्भाच्च । तेन पटयति अवधीदित्यादौ स्थानिवद्भावः सिद्धयति । वधादशो ह्यदन्तः। स्यादेतत् । पटयतीत्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वं प्राप्नोति । न च स्थानिवद्भावः । जश्त्वविधौ तत्पतिषेधात् । सत्यम् । कर्मसमर्पकात् प्रातिपदिकादेव णिजुत्पत्तिर्न तु सुबन्तादिति वक्ष्यमाणत्वात् । सुबन्ताणिजिति पक्षेपि इष्टवदित्यतिदिष्टया भसंज्ञया पदसंज्ञाया बाधात् । पटुमित्यस्यैव हि भसंज्ञा प्रवृत्तेति कथं तत्र पदसंज्ञा प्रवर्तत । तत्र चाप्रवृत्ता कथन्तरामेकदेशविकृते लभ्येत । स्रग्विणमाचष्टे सजयतीत्यादौ हि मातिपदिकाणिजुत्पचिरिति पक्षेप्येषैव गतिरिति वक्ष्यामः।
Page #296
--------------------------------------------------------------------------
________________
२९६ शब्दकौस्तुमः । [१ अ० अवधीदित्युदारणं तु भाष्यमते। आर्द्धधातुकीयाः सामान्येन भवन्तीति पूर्वसूत्रे एवोपपादितत्वेनार्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति लोपसम्भवात् । वार्तिकमते तु लिङगीति प. रसप्तमीत्युक्तम् । तथा च अत् पदित्यादाविवातो लोपो न प्राप्नोति । अत एव हलन्त एकायमादेश इति तन्मतम् । वृद्धिस्तु न भवति । वध्यादेशे वृद्धितत्वप्रतिषेध इति पूर्वसूत्रस्थवार्तिकात् । एवमखनको बहुखट्रक इत्यादौ केण आपोन्यतरस्यामिति हूस्वस्य स्थानिवद्भावात् इस्वान्तेन्त्यात्पूर्वमिति खकाराकारस्योदात्तो न भवति किन्तु कपिपूर्वमित्युत्तरपदा न्तोदात्तत्वमेव भवति । अचितीक बहुचितीक इत्यादौ तु चि. तेः कपीति दीर्घस्य स्थानिवद्भावाच्चिशब्दकारस्य उदात्तता भवति । न चोभयत्रापि स्वरविधौ न स्थानिवदिति निषेधः श
क्यः । लोपाजादेशमात्रविषयः स इति वक्ष्यमाणत्वात् । एवं पव्यामृदयति बहुभिर्वृत्तिकारैरुदाहृतत्वात् मूर्द्धाभिषिक्तमिति भाष्ये व्यवहृतमप्युदाहरणं साध्वेव । अकृतव्यूहन्यायेन प्रथम पूर्वयणादेशायोगात् । न चैवं का हर्येत्यादावुदात्तयण इति विभक्तेरुदात्तत्त्वं न स्यादिति वाच्यम् । स्वरविधौ व्यञ्जनस्याविद्यमानवद्भावेन पूर्वयणमेवाश्रित्य तत्समाधानात् । न च पूर्वस्मादपि विधौ स्थानिवद्भावाद्वयञ्जनमेव नेति वाच्यम् । रेफस्यादिष्टादचः पूर्वत्वात् स्थानिद्वारकस्य पूर्वत्वस्यानित्यत्वात् । निष्ठायां सेटीति सेग्रहणेन पूर्वस्माद्विधौ स्थानिवद्भावस्यानित्यत्वाच्च । तस्मान्मू भिषिक्तमुदाहरणमितिपक्षो नातीव दुःष्यति । अत एव ह्याश्रीयमाणायामेव प्रकृतौ स्थानिवत्त्वमिति पक्षे अकुर्व्याशामलुन्याशां व्यत्यजन्याशां राय्याशामित्यत्र क्रमेण येचेत्युलोप ईहल्यघोरितीखं येविभाषारायोहलीत्यात्वं च प्रा
Page #297
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः
२९७ प्नोतीति भाष्यवार्तिक योरुक्तम् । यन्त्वन्तरङ्गं बलादिति वा ऽसिद्धपरिभाषां वाश्रित्य पछ्या मृदयेत्युदाहरणनिराकरणपरं भाष्यं तत्तु अकृतव्यूहवचसो ऽनित्यताभिप्रायेण कथं चिन्नेयमिति दिक् ॥
न पदान्तद्विवचनवरेयलोपस्वरसवर्गानुस्वारदीर्घनश्चार्वधिपु ॥ पदान्तादिकर्मकेषु विधिषु पूर्वेग प्राप्तः स्थानिवद्भावो न स्यात् । पदान्ते । कानि सन्ति । को स्तः । इह यणावादेशयोः कर्त्तव्ययोः नसोरलोपो न स्थानिवत् । न चानादिष्टादचः पूर्वत्वविरहादेव न स्थानिवदिति वाच्यम् । वाक्यादपोबृत्य पदानि संस्क्रियन्तइति पक्षेऽनादिष्टादचःपूर्वत्वस्य सन्त्वात्। न हि पदान्तरनिरपेक्षमेव पदामिह शास्त्रे संस्कार्यमिति नियमः । युष्मद्युपपदइत्याद्यनुशासनस्यासंगतिप्रसङ्गात् । एतच्चाङ्गसंज्ञासूत्रे कैयटेन ध्वनितम् । केवलपदसंस्कारपक्षे अदद्रीच इत्यादी अच इत्यल्लोपो न स्थानिवदित्युदाहार्यम् । विधिशब्दश्चेह न कर्मसाधनः । तथात्वे हि कर्मधारयो वा स्यात् । शेषषष्ठयन्तेन सह तत्पुरुपो वा । नाद्यः । विधिशब्दस्य क्रियाशब्दतथा पूर्वनिपातप्रसङ्गात् । नान्त्यः। पदान्तस्य कस्मिंश्चित्कर्त्तव्ये न स्थानिवदिति पर्यवसानेन वृक्ष इत्यत्र वलोपापतेः । द्वन्द्वनिर्दिष्टेषु द्विवचनादिषु अनन्वयापत्तेश्च । तस्माद्भावसाधन एवाऽन्तरङ्गत्वाच्च । अत एव कर्मषष्ठ्यन्तेन समासः । शुकी तटीत्यादौ पदसंज्ञायां कर्तव्यायां यस्येति लोपः स्थानिवदेव । न हि स्वादिष्विति सूत्रेण पदस्यान्तो विधीयते येन निषेधः स्यात् । किं तु संज्ञामात्रम् । तत्रापि यथोद्देशपक्षः । जश्त्वादिकार्यकालले पूर्वत्रासिद्धे नेति निषेधापत्तेः । एकदेशविकृतस्यानन्यत्वादेतस्वानित्यत्र रुः प्राप्तः । बहिरङ्गस्यासिद्धत्वान्नति वक्ष्यते । भा
Page #298
--------------------------------------------------------------------------
________________
२९८ शब्दकौस्तुभः। [१० ध्ये तु पदसंज्ञायाः पदान्तता स्वीकृत्य पदे अन्व इति भसंज्ञापि पदकार्यमिति च द्वेधा समाहितम् । तत्रान्त्ये षडिके वचनसामादिति बोध्यम् । वाचिकषडिकौ तु पञ्चमे वक्ष्येते । द्विव. चने । सुध्युपास्यः । स्थानिवद्भावनिषेधसामर्थ्यादेव बहिरङ्गपरिभाषापीह न प्रवर्तते । नाजानन्तर्यइति निषेधाज्ञा । करे इ. ति निपातनादलुक् द्वन्दश्च । वरे योजादेशः स न स्थानिवत् । यायावरः । यातेनित्यं कौटिल्ये इति यङ् यश्चयङ इति वरच् । तनिमित्तको ऽतो लोपः। स च आतो लोप इटि चेत्यालोपे कर्चव्ये न स्थानिवत् । नन्विह परनिमित्तकत्वमेव नास्ति । आधातुकइति विषयसप्तम्यभ्युपगमात् । अत एव हि अचोयदिति सूत्रे ऽग्रहणं कृतम् । अन्यथा हलन्ताण्ण्यतो विशेषविहिततया परिशेषादच एव यद्भविष्यति किं तेन । विषयसप्तम्यां तु दित्स्य पित्स्यमित्यादावजन्तभूतपूर्वादपि यत्सिद्धये अज्ग्रहणमिति यतोनाव इत्यायुदात्तस्सिध्यति । सत्यम् । वरेग्रहणेन परसप्तमी. पक्षो ज्ञाप्यते । तथा चानुदात्तेतश्च हलादेरिति सूत्रे आदिग्रहणं कृतम् । हलन्तादिति मा विज्ञायाति । अस्ति च हलन्तविशेषणस्य व्याव| जुगुप्सनो मीमांसन इति । विषयसप्तमीत्वेवि. हापि अतोलोपे हलन्तत्वाधुचा भाव्यमवति हलन्तविशेषणवैयर्थ्यात्सामर्थ्यादेवादिपरिग्रहसिद्धौ हल इत्येव ब्रूयात् । एवं च यातेर्यङन्ताक्तिचि अतो लोपे यलोपविधि प्रति स्थानिवत्त्वनिषे. घायलोपे च यायातीति स्थिते यङकारलोपस्य स्थानिवत्त्वादातों कोप इटि चेत्याकारलोपे पुनर्यलोपे यातिरिति भवति। न च पुनराकारयकारयोर्लोपे सति क्तिप्रत्ययमात्रं श्रूयेतेति वाच्यम् । आल्लोपस्य स्थानिवत्वात् । चिणोलुङ्न्यायेनासिद्धत्वाद्वा । यलोपे उदाहरणान्तरमपि । तद्यथा । कण्डूयतेः
Page #299
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुभः । २९९ क्तिच् । कण्हूतिः । क्तिन्निति तु काशिकायां प्रमादः । अप्रत्ययादित्यनेन बाधात् । न च ज्ञप्तिरित्यादाविवेह आबादित्वकल्पनं बहुलग्रहणं वा शरणीकरणाहम् । भाष्यकारेणैव कण्डूये-: त्येव भवितव्यमिति वदता एतस्यापशब्दतोक्तेः । तस्मादयंक्तिजेव ततोल्लोपयलोपो अल्लोपस्य स्थानिवत्वादुवङ् ततश्छ्वोः शूडित्यूठ । न चोठ्यपि स्थानिवत्वम् । आदिष्टादचः पूर्वत्वात् । अत एव ऊठः पुनरुवङ् न भवति । सर्वे सर्वपदादेशा इत्याश्रित्य स्थानिद्वारकं पूर्वन्त्वं यद्यपीह वक्तुं शक्यते भाष्यमते लोलुवः पोपुव इत्यादौ यथा । तथापि स्थानिद्वारकं पूर्वत्वं काचित्कमेवति पूर्वसूत्र एवोक्तम् । तथा तिष्ठतेयङन्तात् क्तिच अल्लोपयलोपयोस्तेष्ठीतीति स्थिते अल्लोपस्य स्थानिवन्त्वादियन यलोपः। तेष्ठितिः । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोरेरनेकाच इति यणि यलोपे कृते पेप्तिरिति भवति । शो तनूकरणे । यङन्ताक्तिचि अल्लोपयलोपाल्लोपेषु पूर्वत्रासिद्धे नति स्थानिवन्त्वनिषेधाच्छशां प इति पन्खे कृते शाष्टिरिति भवति । एवं चेचीयतेश्चेक्तिरिति दिक् । तदेवं वरेयलोपति नैकं निमितं किं तु द्वे इति स्थितम् । के चित्त वरई इति ईकारं प्रश्लिष्य ईकारे परतो विधौ न स्थानिवदिति व्याचख्युः । तेनामलक्याः फलमामलकम् । नित्यं वृद्धशरादिभ्य इति मयट् । फले लुक् । ततो लुक् तद्वितलुकीति डीपो लुक् । स च यस्येतिलोपे न स्थानिवत् । पूर्वोक्तव्याख्याने तु लुका लुप्तं न स्थानिवदिति व.. चनं करिष्यते । तत्र च लुप्तमिति नपुंसके भावे क्तः । लुङ् न स्थानिवदिति फलितोर्थः । स्वरे । चिकीर्षकः । सनो ऽतो लोपो लितीति ककारेकारस्योदात्तन्त्वे कर्तव्ये न स्थानिवत् । न च लितीत्यस्यारम्भसामर्थ्यम् । कारक इत्यादौ सावकाश
Page #300
--------------------------------------------------------------------------
________________
३००
शब्दकौस्तुभः । [१ ० त्वात् । भाष्ये तु आकर्षिक इत्युदाहृतं, तदापाततः । ष्ठलो लिस्वसामर्थ्यात् स्थानिवद्भावकृतव्यवधाने सत्यपि लित्स्वरस्य सुवचत्वात् । घ्नन्तीत्यादौ कुत्त्ववत् । सवर्णानुस्वारयोश्शिण्डिापिण्डिानसोरल्लोपोत्रन स्थानिवत् । अनुस्वारस्यानादिष्टादघः पूर्वत्वं तु स्थानिद्वारेत्युक्तम् । यद्यपि सवर्णग्रहणमात्रेणानुस्वारोप्याक्षेप्तुं शक्यते तथापि विशेषापेक्षं ज्ञापकामित्यपि सम्भाव्यत । तथा च यत्र न परसवर्णप्रसङ्गः शिंषन्चीत्यादौ वत्र स्थानिवद्भाव निषेधुमनुस्वारग्रहणम् । अचः परस्मिन्निति सूत्रे उक्तरीत्या अभ्यासस्यासवर्णइत्यादिषु सवर्णइति निषेधस्य लब्धावकाशतया शिण्डीत्यादेरापि असि
यापचेश्चेति दिक् । दीर्घ । प्रतिदीन्ना । इह हलि चीत दीर्षे ऽल्लोपो न स्थानिवत् । यत्तु काशिकायामुक्तम् उपधायां चेति दीर्घ इति, तत्मामादिकम् । तथा च उपधायां चेत्यत्रोक्तम् । प्रतिदीन्वेत्यत्र हलिचेति दीर्घ इति । यद्वा । आचारकिबताकि चेति किपि समाधेयम्। नन्वेवमनुनासिकस्य किझलो. रिति दीर्घः स्यात् । सत्यम् । अकृतव्यूहपरिभाषया भाविनमल्लोपमालाच्यान्तरङ्गोपि दीर्थो न करिष्यते, जग्मुष इत्यत्रे. डागमनकारादेशाविवति बोध्यम् । ननु स्थानिवत्त्वाभावेप्यसिदं बहिरङ्गमित्यल्लोपस्यासिद्धत्वादी? न स्यादिति चेत् । न । कृतितुग्विधिग्रहणेन बहिरङ्गपरिभाषाया अनित्यत्वस्य ज्ञापितस्वात् । यथोद्देशपक्षे षाष्ठी परिभाषां प्रति दीर्घस्यासिद्धतयान्तरङ्गाभावेन परिभाषाया अप्रहत्तेश्च । जशि । सग्धिश्च मे । बधान्ते हरी । तथाहि । अदनं ग्धिः । अदेः क्तिनि बहुलं छन्दसीति पस्लादेशः । घसिभसोहलिचेत्युपधालोषः । सलोझलीति सकारलोपः । घिसकारे सिचो लोप इत्यस्य भाष्यकृता
Page #301
--------------------------------------------------------------------------
________________
शप
१ पा. ८ आ. शब्दकौस्तुभः । नाश्रयणात् । वार्तिकमते छान्दसो वर्णलोपः । झषस्तथोरिति धत्वम् । न च तस्मिन्कर्त्तव्ये पूर्वस्मादपीति स्थानिवद्भावः। पञ्चासमासस्यानित्यतायाः पूर्वसूत्रएवोपपादितत्त्वात् । घस्य झलाञ्जशिति जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । समाना ग्धिः सन्धिः । सहस्यस सज्ञायामिति सूत्रात्स इत्यनुवर्त्तमाने समानस्य छन्दस्यमूर्द्रप्रभृत्युदष्विति सूत्रेण समानस्य सभावः । बन्धामिति भसेलोट् । तसस्ताम् । शपः इलुः । अन्तरङ्गत्वाद् द्वित्वमभ्यासकार्यम् । ततो घसिभसोरित्युपधालो. पादि प्राग्वत् । चरि । जक्षतुः । जक्षुः । घसेलिट् अतुस् उस् च । गमहनेत्युपधालोपः । खरि चेति चर्व प्रति न स्थानिवत् । तत्र वार्तिकम् । स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवदिति । तेनान्यः स्थानिवदेव । पञ्चभिररनिभिः क्रीताः पश्चारत्नयः । वेदे तु पश्चारत्न्यः । जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्ग्युपधाया इति गुणाभावे यण । तस्य स्थानिवद्भावादिगन्तकालेत्यादिना पूर्वपदप्रकृतिस्वर इत्याहुः । यद्यपि अ. सिद्धं बहिरङ्गमित्यनेनापीदं सिध्यति तथापि अकृतव्यूहपरिभाषामाश्रित्य योज्यम् । अचितीको खट्वक इत्यत्र हूस्वान्तेन्त्या. त्पूर्वमित्यस्य क्रमेण प्रवृत्त्यप्रवृत्ती फलमिति तु पूर्वसूत्रे एवोक्तम् । न च तत्र बहिरङ्गपरिभाषायाः प्रसङ्गोस्ति । किर्योगिर्योः । व्युत्पत्तिपक्षे हलि चेति दीर्घः प्राप्तः । यणः स्थानिवद्भावान्न भवति। अच इरित्यधिकारे भुजेः किच्च, कृगृशपृकुटिभिदिछिदि. भ्यश्चेति इ. स च कित् । यत्तु हरदत्तेन न्यासकृता च कृयोरिच्चेत्युपन्यस्तं तत् क चिदुणादिवृत्तौ अन्वेषणीयम् । वाय्वोः। इह यलोपो न । अस्मिंश्च वार्तिके स्वरग्रहणमात्रमावश्यकम् । कियोगियोंरिति तु उपधायां चेति सूत्रे वृत्तिकारोक्तरीत्या उ
Page #302
--------------------------------------------------------------------------
________________
३०२ शब्दकौस्तुमः ।
[१ अ० णादीनामव्युत्पत्तिपक्षालम्बेनापि सिद्धम् । वाग्बोरिति तु बहिरङ्गस्यासिद्धतया सिद्धम् । किलुगुपधात्वचङ्परनिसकुत्वेखूपसंख्यानम् । पूर्वत्रासिद्धे च । तस्य दोषः संयोगादिलोपल. त्वण त्वेषु । अस्यार्थः । क्वौ विधि प्रति न स्थानिवत् । लवमाचक्षाणो लौः । अत्र णिचि यष्टिलोपो यश्च क्वौ णिलोपस्तदुभयं वोः शूडिति वकारस्य क्विन्निमित्ते उठि कर्तव्ये न स्थानिवत् । एत्येवत्यूस्विति वृद्धिः । तथा पिपठिषि ब्राह्मणकुलानीति दीधीवेवीटामितिसूत्रे यदुदाहृतं तदपि क्वौ विधि प्रतीति व्याख्याने एव सङ्गच्छते । क्वौ लुप्तं प्रति न स्थानिवदिति व्याख्याने तु लौः पिपठिषीत्युभयमपि न सिद्धयेत् । णिचि टिलोपस्य स्थानिवद्भावे कठो ऽसम्भवात् । पिपठियतेरप्रत्यये अतो लोपे नपुंसकबहुवचने शौ झल्लक्षणे नुमि कर्तव्ये अतो लोपस्य स्थानिवत्वनिषेधेन नुम्प्रसङ्गाच्च । एतच्च दधिीवेवीटामिति सूत्रे कंड्वादिसूत्रे च मिश्रयन्थे स्फुटम् । कैयटोपि दीधीवेवीटामित्यत्र क्वौ विधि प्रतीत्यर्थो व्यवस्थितो न तु क्वौलसं न स्थानिवदितीत्याह । अत्र व्यवस्थितइति वदता क्वौ लुप्तं न स्थानिषदिति पक्षोपि क्व चिदाश्रीयतएव, नियमः परं नास्तीति मूचितम् । लुप्तमिति नपुंसके भावे क्तः । एवं च सख्युर्गोमान् पदः त्वम् अहमिति सिद्धम् । तथाहि । ख्यत्यात्परस्यतिसूत्रे भाष्यम् । सखीयतेः सख्युः लूनीयतेलून्युरिति । तत्र सखीयतेः क्विपि अल्लोपे यलोपे अल्लोपस्य स्थानिवद्भावात् परत्वात्किलोपं बाधित्वा इकोयणचीति यण स्यात् । ततो यलोपे सखो लून इति स्यात् । अत एव को लुप्तं न स्थानिवदिति तत्र यणं परिजहार कैयटः । तथा उगिदचामिति सूत्रे अ. धातुभूतपूर्वस्यापि नुमर्थमधातुग्रहणमित्युक्त्वा गोमन्त्यतेरम
Page #303
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुभः । त्ययेगोमानित्युदात्दृतं भाष्ये । तत्राप्यस्लोपस्य स्थानिवत्त्वासर्वनामस्थानपरत्वं नास्तीति नुम् न स्यात् । न चाधातुग्रहणसामर्थ्यात्स्थानिवद्भावकृतव्यवाये सत्यपि नुम् स्यादिति वाच्यम् । आचारविबन्तारिकप्चति किपि चरितार्थत्वात् । तस्मा
को लुप्तं नेत्येव शरणम् । नन गोमन्त्यतेर्गोमततेर्वा उभयथापि गोमानिति न सिध्यति । अत्वसन्तस्योति दीर्घविधौ अधातोरिति विशेषणात् । सत्यम् । तत्राधातुग्रहणमसन्तस्यैव विशेषणं न त्वत्वन्तस्यापीति वक्ष्यमाणत्वान्न दोषः। तथा येनविधिस्तदन्तस्यति सूत्रे केवलोपि पाच्छन्दोस्ति । पादयतेः पात् । पद इति भाष्यम् । अत्रापि स्थानिवद्भावाव्यवधानेन पद्भावो न स्यात् । क्वौ लुप्तं नेति सिध्यति । अत एव पादस्य पादहस्त्यादिभ्य इति न सूत्रितम् । प्रतिपदोक्तस्यास्यैव पदादेशो मा भूत् । किं तु क्विबन्तस्यापि यथा स्यादिति । एवं च पा. दस्य लोप इति गुरुनिर्देशं कुर्वता सूत्रकृतैव क्वौ लुप्तं न स्थानिवदिति ज्ञापितम् । तच्च क्वाचित्कमिति तु प्रकृतसूत्रस्थेनैवं विज्ञायते क्वौ लुप्त नेति भाष्यस्यार्थः। विशब्दमाहात्म्यात ख्यत्यात्सूत्रादिभाष्याच्चति व्यवस्थितशब्दं प्रयुञानेन कैयटेन ध्वनितम् । युष्मानाचष्टे युष्मयति । ततः क्विपि णिलोपे सौ त्वाहौसौ इति कर्त्तव्ये णिलोपो न स्थानिवत् । तदुक्तम् । स्थानिव-त्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते इति । स्थानिवत्त्वमिति । लोपस्येति शेषः । णेः क्वौ लुप्तत्वादित्यन्वयः । अस्तु तार्ह क्वौलुप्तमित्याप नित्यमेव । तावतापि लवमाचक्षाणो लौरित्यस्य सिद्धेरिति चेत्र । पिपठित्यस्यासिद्धिप्रसङ्गात् । देवयतेर्दयूरिति तु इह कैयटेन यदुदाहृतं क्वौ लुप्तं नेति सिध्यतीति । तस्यायमाशयः । यद्यपीह क्यो विधि
Page #304
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः । [१ अं० प्रत्यू सिद्धः । तथापि तस्य स्थानिद्वारा अनादिष्टादचः पूर्वत्वेन णिलोपस्य स्थानिवद्भावादचोणितीति वृद्धिप्रसङ्गः । तस्मात्क्वौ लुप्तं नेत्येव शरणम् । यत्तु लोपो व्योरिति सूत्रे कण्डूयतेः क्यजन्तादप्रत्यये कण्डूः कण्डवाविति व्युत्पादयन् कैयट आह । अल्लोपस्य स्थानिवद्भावाद्यण । तस्य ऊत् । न च ऊठि कर्त्तव्ये स्थानिवन्त्वेन प्रतिबन्धः स्यादिति वाच्यम् । पकारस्यादिष्टादचः पूर्वत्वादिति, तत्तु स्थानिद्वारकं पूर्णत्वमनित्यमित्याश्रित्य तद्रीत्या तु दयूरित्याप ससाधमेव । ननूभयथापि दयूरित्यत्र प्रत्ययलक्षणेन वृद्धिः स्यादेवेति चेत् । न । बहिरङ्गस्य ऊठो हाई प्रत्यसिद्धत्वात् । एवं च स्थानिवद्भावे सत्यपिन का चित्क्षतिः। बहिरङ्गत्वेनैव सर्वसमाधानात् । तस्माइयारीत पक्षद्वयेपि सिद्धयतीत्येव तत्त्वम् ।नन्वेकदेशविकृतस्यानन्यत्वादिव औत्स्यादिति चेन्न । निरनुबन्धपरिभाषया अधातुग्रहणानुवृत्तेर्वा अक्षयूरित्यत्र न औदिति दिव औत्सूत्रे भाष्ये एव स्पष्टत्वात् । यद्यबिगिदचामिति सूत्रे अधातुभूतपूर्वादित्यर्थस्तथापीह शब्दाधिकार इति भावः । एतेन हलिचेति दीर्घः दीव्यतीति नामधातुप्रकरणे कौमुदीप्रासादौ प्रत्युक्तौ । दिवोर्ड विरिति न्यासोहितसूत्रेण डिविरिति वदन्माधवोपि दिव्यतीति ह्रस्वमेवोपजगाम । प्रकृतमनुसरामः । द्विवचनादौ तु ओः सुपीति यण । दय्वौ दय्व इत्यादि खलपूवत् । कण्डूः कण्डुवौ कण्डुव इत्यादि तूवडेव । संयोगपूर्वकतया यणो ऽप्राप्तोरति दिक् । अत्रायं संग्रहः । सख्युरोमान पदस्त्वं च क्वौ लुप्तस्य निदर्शनम् । अनित्यत्वे पिपठिषि क्वौ विधौ लौर्द्वयोर्दयूः । लुक् न स्थानिवत् । आमलक्याः फलम् आमलकम् । फले लुकः प्रत्याख्यानपक्षे तु पञ्चभिः पद्वीभिः क्रीतः पंचपटुरित्युदाहार्यम् । तथा पंच इन्द्राण्यो ऽग्नाय्यश्च देवतास्य पञ्चेन्द्रः पञ्चाग्निः डीषा स.
Page #305
--------------------------------------------------------------------------
________________
१ पा. ८ आ.
शब्दकौस्तुभः
३०५
नियुक्त आनुक ऐकारश्च श्रूयेत । न च सन्नियोग शिष्टन्यायेन निवृत्तिः । परतद्धितलुङ्निमित्ताया ङीनिवृत्तेः पूर्वयोरानुगैकारयोर्निवृत्तौ कर्त्तव्यायामचः परस्मिन्निति स्थानिवत्त्वात् । ये तु पूर्वोक्तरीत्या वर ई इतीकारमश्लेषं कुर्वन्ति तेषामिह लुग्ग्रह - णं न कार्यम् । उपधात्वे कर्त्तव्ये न स्थानिवत् । तेन परिखाशब्दाच्चातुरर्थिके आणि कृते वृद्धाद केकान्तखोपधादिति पारिखशब्दात्खोपधलक्षणे छप्रत्यये पारिखीयः सिध्यति । अन्यथा उपधासंज्ञायाः पूर्वविधित्वेन तत्र कर्त्तव्यायामाल्लोपः स्थानिवत्स्यात् । नन्वेवं पटयतीत्यादौ वृद्धिः स्यादिति चेन्न । यत्रोपधासंज्ञामुपजीव्य प्रत्ययो विधित्सितस्तत्रैवायं निषेध इति भाष्ये स्थितत्वात् । अत्र चङ्परनिर्द्धासग्रहणमेव ज्ञापकम् । कथं तर्हि भाष्ये यलोपे सौरी बलाकेत्युदाहरणं दत्वा उपघाविधौ नेत्येव सिद्धमित्युक्तमिति चेत् । अनास्थावादमात्रं तदित्यवेहि । तत्र हि तेनैकदिगित्यणन्तान्ङीप्यल्लोपद्वयस्यापि यलोपे कर्त्तव्ये स्थानिवद्भावे निषिद्धे समानाश्रयस्याणो लोपस्याभीयत्वेनासिद्धताया यलोपः सिद्ध्यतीति यलोपे न स्थानिवदित्यस्यैव सौ- : रीत्युदाहरणम् । उपधात्वं तत्र लोपे उपयोगि न तु प्रत्ययविधाविति स्थितम् । चङ्परे णौ यो ह्रस्वः स चङ्पर निर्द्वासस्तन स्थानिवत् । वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन । प्रथमणिचो लोपस्य स्थानिवत्त्वादनुपधाकार इति णौचङीत्युपधाह्रस्वो न प्राप्नोति । णिसामान्यग्रहणादप्येतत्सिद्धम् । इदं तूदाहरणम् । वारि आख्यत्, अवीवरत् । न च नाग्लोपीति निषेधः शङ्क्यः । परत्वाद् वृद्धौ सत्यां टिलोप इत्यभ्युपगमेनाग्लोपित्वाभावात् । अत एव हलकलेत्यदन्तनिपातनं सार्थकम् | कुत्वे न स्थानिवत् । अर्चयतेरौणादिकः कम
"
5
1
३९
*
M
Page #306
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः । [१ अ० त्ययः । अर्कः । पाचयतेः क्तिच् । पाक्तिः । चोः कुरिति कुत्वे णिलोपो न स्थानियत् । इह सूत्रे जश्चवित्येव सिद्धे विधिग्रहणं द्वन्द्वाश्रयेण विध्यन्तरोपसंग्रहार्थम् । तव्युत्पादनार्थ च क्विलुगित्यादि वार्तिकमिति निष्कर्षः। तत्रापि क्विचपरनिासोपधानां ग्रहणमावश्यकम् । लुक ईकारप्रश्लेषेण गतार्थत्वात्कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम् । चजोरिति कुत्वे वोदाहरणमन्वेषणीयम् । पूर्वत्रासिद्ध च न स्थानिवत् । पापच्यते: क्तिच् । पापक्तिः । यायज्यतेायष्टिः । पाचयतेः पाक्तिः । या. जयतेाष्टिः । इहाल्लोपणिलोपौ कुत्वषत्वयोर्न स्थानिवत् । एवं लेहयतेलेढिः । दोहयतेयॊग्धिः । वेशयतेर्वेष्टिः । दाशयतेर्दाष्टिरित्यायुधम् । न्यायसिद्धं चेदम् । अचः परस्मिनित्यतिदेशं प्रति त्रिपादीस्थस्यासिद्धतया तस्मिन् कर्त्तव्ये ऽतिदेशाप्राप्तः । न चैवं स्थानिवत्सूत्रस्याप्यप्रवृत्तौ राम इति विसर्गों न स्यादिति वाच्यम् । प्रत्ययः परश्चेत्यादिनिर्देशैभॊभगोअघो इति सूत्रे ऽश्ग्रहणेन च सत्मवृत्तापितत्त्वादित्यवधेयम् । एवं स्थिते द्विवचनसवर्णानुस्वारदीर्घजश्चरः सूत्रे न पाठ्याः । किं तु नपदान्तवरेयलोपस्वरेष्वित्येव पाव्यमिति भाष्यवार्तिकयोः स्थितम् । स्यादेतत् । याद दीर्घग्रहणं त्यज्यते तार्ह साप्तमिके दीर्घविधौ स्थानिवद्भावः प्रसज्येत । तथा च चिण्णमुलोरति सूत्रे पडताणिजन्ताद्वा णिाचे तताश्चाण अशंशामि अशामीति यवुनडियन्ते तम सिद्धयेत् । न च दीर्घग्रहणसामर्थ्यात्स्थानिपद्भाववाधः कमर्णिसूत्रे हरदत्तायुक्तरीत्या चिण्णमुलोदीर्घ इत्यप्र कैयटायुक्तरीत्या चाहिडि अहोडीत्येतत्सिद्धया अहेडीत्यस्य निवृत्त्या तस्य चरितार्थत्वात् । उच्यते । णित्वजात्यैक्यं गृहीत्वा अशामीति सिद्धम् । अशंशामाति तु यङ्लुगन्ताण्णिचि भवि
Page #307
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः ।
३०७ ष्यति । न हि यङ्यङ्लुकोः स्वरे ऽर्थे वा कश्चिद्विशेषोस्ति । येन यङयेव साधयितुं क्लिश्येत । एवञ्च माहितमित्यायपि सि द्धम् । पूर्वस्मादपि विधौ स्थानिवद्भावेन णिचा व्यवधाने सति ग्रहोलिटीति दीर्घस्याप्रवृत्तेः । सूत्रमते तु विहितविशेषणाश्रयणाद ग्राहितमित्यादौ न दीर्घः । अत एव यङन्तात्तृचि जरीगृहीते. त्यत्र न दीर्घः स्थानिवद्भावात् । सूत्रमते विहितविशेषणाच्चेति स्थितम् । यलुगन्तात्तु तृजादाविटो दीर्घो भवत्येवोत माधवः । द्विः प्रयोगो द्विवचनं पाष्ठमिति सिद्धान्तात् । ग्रहेविहितत्वानपायात् । यङ्लुको ऽनैमित्तिकतया ऽज्झलादेशतया लु. का लुप्तत्वाच्च स्थानिवद्भावोपि नास्तीति माधवस्याशयः । व. स्तुतस्तु यङ्लुक्यपि इटो दीर्घो ऽनिष्ट एव । एकाचोद्वेपथमस्येति सूत्रे भाष्यकैयटादिपोलोचनया तथैव निर्णयात् । तथा च तत्र ग्रहेरङ्गादिति भाष्यमुपादाय कैयट आह । तृचो हिजरिगृहीत्यङ्गं न तु ग्रहिः। विशेषणसामोद्धि यथाश्रुतरूपाश्रयणमिति । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं तथापि युक्तिसाम्याघङ्लुङन्तपि न दीर्घ इति लक्ष्यते । अत एकाचोद्वे इति सूत्रे हरदत्तोपि यङन्ते दीर्घमाशङ्कयाह । एकाचउपदेशइत्यतो दीर्घविधावेकाग्रहणमनुवर्ततइति । न ह्यत्र पक्षे यङ्लाक दी. घस्योक्तिसम्भवोप्यस्ति । नन्वेवं ग्रहोलिटीति सूत्रे यङ्लोपे चोक्तमिति वार्तिकव्याख्यावसरे स्थानिवद्भावाद्विहित तविशेषणाश्रयणाद्वा यङन्ते दीर्घ परिहरन् कैयटो विरुध्येत । यङ्लुगर्थे यथाश्रुतरूपाश्रयणस्यैकाग्रहणानुवर्तनस्य वा आव. श्यकतया तेनैव गतार्थत्वादिति चेन्न । ग्रहोलिटीत्यत्रत्यकैयटग्रन्थस्योपायस्योपायान्तरादूषकत्वादिति न्यायेन यङन्ते उपायान्तराभिधानपरत्वात् । अत एव तत्र कैयट आह । अन्यत्रास्य दोष
Page #308
--------------------------------------------------------------------------
________________
३०८
शब्दकौस्तुमः । [१० स्य सम्यगुढ़तत्वादिति । एवं हि वदन् तत्रत्यपरिहारस्याव्यापकतामेकाचसूत्रोक्तस्यैवावश्यादर्तव्यतां चाभिप्रति। न च यथाश्रुतरूपपक्षे गृहीतमित्याद्यसिद्धिः । अङ्गसंज्ञाप्रवृत्तिवेलायां यथानुतरूपस्यैव तत्र सत्त्वात् । ग्राहितादौ तु नैवम् । एकाच इति समाधानं तु णिभिन्नविषयकमेव । तस्मात् , यङ्लुङन्ताणिज. न्ताच्च यङन्ताच्च ग्रहेरिटः । द्विधा त्रिधा चतुर्की च दीर्घो नेति व्यवस्थितम् ॥ माधवग्रन्थस्तु विहितविशेषणपक्षस्य मुख्यतां पक्षान्तराणामभ्युच्चयतां च परिकल्प्य कथं चिन्नेय इति प्रतिभातीति दिक् । तस्य दोष इत्यादेरयमर्थः । तस्य पूर्वत्रासिद्धे. चेत्यस्य स्थलत्रये दोषः । अतिप्रसक्तिः। तस्मात्तत्र स्थानिवद्भावस्य प्रतिप्रसवः कर्तव्य इत्यर्थः । तेन वाक्यर्थ वास्यर्थमित्यत्र स्कोरिति लोपो न । निगार्यते । निगाल्यते । अचिविभापेति लत्वं सिद्धयति । तथा माषवपनीत्यत्र णत्त्वं न भवति । अल्लोपस्य स्थानिवत्वेन नकारस्य समासान्तत्त्वाभावात् । न चासत्यापि स्थानिवद्भावे डीवेव समासान्तो न तु नकार इति वाच्यम् । डीबुत्पत्तेः प्रागेव समास इति द्वितीये वक्ष्यमाणत्वात। एवं स्थिते तक्षयतेः क्विपि तक , रक्षयते स्तु रक् , इत्यादि बोध्यम् । अत्र हि संयोगादिलोपे कर्तव्ये णिलोपस्य स्थानिबद्धावान तत्मवृत्तिः । संयोगान्तलोपे तु स्थानिवद्भावनिषेधाद्भवत्येवासौ । गोरट् इति तु शुद्धात्वियपि बोध्यम् । यत्त्वचः परस्मिनिति सूत्रे दध्यत्रेति भाष्यमुपादाय कैयटेनोक्तम् , पूर्वत्रासिद्धे चेत्येतदत्र नास्ति, तस्य दोष इत्यत्र संयोगादिलोपस्य संयोगोपलक्षितलोपोपलक्षणत्वादिति । तन्न वास्तवम् । किन्तु तत्रत्यपूर्वपक्षिणोभिप्रायवर्णनमात्रम् । अत एव नपदान्तेति सूत्रशेषे तेनैवोक्तम् । स्कन्दयतेः स्कन् । तक्षयतस्तागति । यतु
Page #309
--------------------------------------------------------------------------
________________
१ पा. ८ भा. शब्दकौस्तुमः । 'सिद्धकाण्डे श्चुत्वं धुत्वइति वार्तिकव्याख्यावसरे कैयटेनोक्तम् । मधुगितीष्यते मधुडिति प्रामोतीति । ततु सकारोपदेशसामादिति बोध्यम् । सन्श्चोततीत्यत्र शितुगित्यस्याप्रवृत्त्या सकारश्चरितार्थ इति चेत्ताह क्वौ लुप्तमिति समाधेयम् । कुस्मनाम्नोवेत्यत्र कूरिति माधवादात्दृतं सम्यगेव । तत्र सामर्थ्यविरहेण संयोगादिलोपाप्रवृत्तोति दिक् । स्यादेतत् । इह संयोगादिग्रहणं मास्तु । न चैवं वाक्यर्थमित्यादौ स्कोरीत लोपापत्तिः । स्कोः संयोगेत्यत्र झलोझलीत्यतो झल इत्यनुवर्तते । तच्चोपसर्जनस्यापि संयोगेत्यस्य विशेषणम् , न तु प्रधानयोरपि स्कोः । अव्यभिचारात् । ततश्च झलन्तो यः संयोगस्तदाघोः स्कोर्लोपः स्यादिति सूत्रार्थात्,बहिरङ्गतया यणोसिद्धत्वाद्वा । अत एव हि दध्यत्रेत्यादौ संयोगान्तलोपो न प्रवर्तते । तथा चाष्टमे वार्तिकम् । न वा झलो लोपादाहिरङ्गलक्षणवाद्वोत । न चैवमपि काष्ठत राष्ट्ररक् इत्यादि न सिध्येदेवेति वाच्यम् । अनभिधानात्तत्र किप एव दुर्लभत्वात् । अनभिधानं च काष्ठशगेव नास्तत्यिाष्टमिकभाष्यबलेन न्यायसाम्यानिीयतइति । अत्रोच्यते । कुस्मयतेः कूरित्यादिसिद्धये संयोगादीति वाच्यमेव । किञ्च तक रक् इत्याद्यर्थमपि वक्तव्यम् । न चानभिधानम्। प्रमाणाभावात् । कैयटादिभिरुदात्तत्वाच । न च काष्ठशगेव नास्तीति भाष्यं तत्र प्रमाणम् । न्यायवैषम्यात् । तथाहि । काष्ठशक स्थातेत्यत्र झल्परो यः संयोगस्तदादेः ककारस्य लोपमाशङ्कय तदुक्तम् । तेन यत्र कलोपप्रसक्तिस्तदभिप्रायकमनभिधानम् । अत एव कान्तेभ्यः क्विप नेत्येवम्परतया तद् व्याख्यातम् । न च णिजन्तेभ्यः क्विपि कलोपप्रसक्तिरस्ति । णिलोपस्य स्थानिवद्भावात् । न च पूर्वत्रासिद्धेचेति तनिषेधः । संयो
Page #310
--------------------------------------------------------------------------
________________
३१०
शब्दकौस्तुमः । ---[१ अग मादिलोपे प्रतिप्रसवस्य जागरूकत्वात्। तस्मात्सयोगादिलोपग्रहणं कर्त्तव्यमेवेति स्थितम् । इदं त्वधेयम्। संयोगान्तस्यलोप इत्यत्र न वा अलो लोपाबहिरङ्गलक्षणत्वाद्वति द्विधा सिद्धान्तव्यवस्थापनात् । कूरिति संयोगान्तलोपोपि दुर्लभः । तेन कुस्म् इत्येव भवति प्रथमपक्षे। द्वितीयपक्षाभिप्रायेण तु माधवः । नन्वे.. क्मपि लवग्रहणं व्यर्थम् । निगाल्यतइत्यत्र सत्यापि णिलोफे प्रत्ययलक्षणेन लत्वसिद्धेः । न च वर्णाश्रयत्वम् । धातोः स्वरूपे तत्मत्यये कार्यविज्ञानात् । इदं च दाण्डिनायनादिसूत्रे भ्रौणहत्येति तत्वनिपावनेन ज्ञापयिष्यते । किश्चान्तरात्त्वादपि लत्वं. सुवचमिति । अत्रोच्यते । तृणहइमित्यत्राचि नेत्यनुवर्तते । हलाति निवृत्तम् । तथा चावणेडित्यादिसिद्धये प्रत्ययनक्षणं नारम्भणीयम् । किं तु नियमार्थं तदारम्भ इति भाष्ये स्थितम् । इतरव्यावृत्तिमात्रफलकं प्रत्ययलक्षणसूत्रम् । तत्तत्कार्याणि तु स्थानिवत्सूत्रेण निर्वाह्याणि । तत्र च प्रदीव्येतीनिवृत्तये अप्राधान्येनाप्यलाश्रयणे निषेधः स्थितः । तथा चाचि प्रत्यये विधीयमानं लत्वं स्थानिवद्भावं विना दुर्लभमेव । यदप्यन्तरङ्ग त्वाल्लल्वमित्युक्तं, तदपिन । अकृतव्यूहपरिभाषया लत्वाप्रवृत्तेः। किञ्चोपसर्गस्यायताविति सूत्रे पक्षद्वयं वक्ष्यते । अयतिपरत्वं उपसर्गस्य विशेषणं रेफस्य वेति । तत्राये पक्षे पल्ययतइति सिध्यति प्लायतइति तु व सिध्येत्. । एकादेशे कृते व्यपवर्गाभावात् । उभयत आश्रये अन्तादिवद्भावायोगाच । तस्मात्तत्र स्थानिवद्भावेनैव व्यपवर्गो वक्तव्यः । स च पूर्वत्रासिद्ध चेति निषिद्ध इति लत्वे प्रतिप्रसवः सार्थक एवः । द्वितीयपक्षे तु पल्ययतइति न स्यात् । यकारेण व्यवधानात् । प्लायत इत्यत्रैव प२ लत्वं स्यात् । पूर्वत्रासिद्धचेति स्थानिवत्वनिषेधेन तत्र रेफ
Page #311
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः ।
३११ 'स्यायतिपरत्वाविघातात् । कृते त्विह लत्वग्रहणे येन नाव्यव. धानन्यायेन पल्ययत इत्यत्रापि लत्वं सिध्यति । स्फुटं चेदमष्टमे भाष्यएव । तस्मादिह लत्वग्रहणं कर्त्तव्यमेवेति स्थितम् । णत्वग्रहणं तु व्यर्थम् । तथाहि । माषवपनीति तावद्वहिरङ्गपरिभाषयापि सिद्धम् । न च पहिणोति प्रमीणीतइत्यादिसिद्धये तदिति वाच्यम् । अचः परस्मिन्निति सूत्रस्य प्रवृत्तिं विनाप्येकदेशविकृतस्यानन्यतया हिनुमीनेत्यस्य प्रवृत्तिसम्भवात् । न च ष्णान्ताषाडिति सूत्रे वर्णितरीत्या प्रियाष्ट्न इत्यादिसिद्धये णत्वग्रहणमिति वाच्यम् । कार्यकालपक्षे बहिरङ्गपरिभाषयैव तस्यापि सिद्धेः । यथोद्देशपक्षस्तु न ग्रहीष्यते। प्रत्याख्येयेन णत्वेन सह फलसाम्यार्थम् । एतेन प्रियाष्ट्ण इति णत्वाभ्युपगमपरः पदमञ्जरीग्रन्थोप्यपास्तः । बहिरङ्गपरिभाषायाअनित्यत्वेपीहतदप्रवृत्ती प्रमाणाभावात् । तस्मादिह णत्वग्रहणं वृथति स्थितम् । प्रत्युत णत्वे स्थानिवत्त्वाभ्युपगमे बाधकमप्यस्ति । तथाहि । अनितेरन्त इति सूत्रेऽन्त इति योगं विभज्य हे पाण् इति रूपसिद्धये पदान्तस्योति प्रतिषेधं बाधितुमन्तइति सूत्रेण पदान्तस्यानितर्णत्वं विधीयतइत्येका व्याख्या । अन्तशब्दं समीपपर्यायमाश्रित्य निमित्तसमीपस्थो योनितेर्नकारस्तस्य णत्वं निमित्तसमीपस्थस्यानितेर्यो नकारस्तस्य णत्वमिति च योगविभागं विनापि व्याख्यानद्वयं भाष्ये स्थितम् । तत्र प्रथमपक्षे प्राणितीत्यादावेकेनाकारेण व्यवधानोप वचनसामर्थ्याण्णत्वं प्रवर्त्तते । द्वितीयपक्षे त्वेकादेशस्यादिवद्भावाद्रेफादव्यवहितस्यानितेः सम्भवात्मवर्चते । पर्यनितीत्यत्र तु वर्णद्वयेनैकेन च व्यवायात्पक्षद्वयपि णतं न प्रवर्ततइति स्पष्टमष्टमे । याद चेह णत्वग्रहणं क्रियते तार्ह पर्यनितीतिवत्माणि
Page #312
--------------------------------------------------------------------------
________________
३१२
शब्दकौस्तुमः । [१ अ. तीत्यत्रापि द्वयेनेकेन वा वर्णेन यथासम्भवं व्यवधानाण्णत्वं न स्यात् । न च वचनसामर्थ्यात्स्थानिवद्भावकृतं व्यवधानमाश्रयिष्यते वृत्रघ्न इति कुत्वइवति वाच्यम् । निरणिति दुरणितीत्यत्र चरितार्थत्वात् । न चैवं निर्दुरोरनितरित्येव ब्रूयात् । न त्वनितेरन्त इति सामान्यलक्षणं प्रणयेदिति वाच्यम् । आवृत्तिमाश्रित्य हे माणित्यत्र णत्वस्य प्रतिप्रसवार्थ निर्दुरोरित्यपेक्षया ऽन्त इत्युक्तावक्षरलाघवानुरोधाच्च सामान्यलक्षणप्रणयनसम्भवात् । तस्मादाष्टमिकभाष्यपोलोचनेनेह णत्वग्रहणं न कर्तव्यमिति निर्णीयते । अत एव व्यूढोरस्केनेत्यत्र णत्वं न । अन्यथा विसर्गस्यादत्वेन तदादेशस्य सस्य स्थानिवद्भावाण्णत्वं स्यात् । इह णत्वग्रहणस्य प्रयोजनाभावस्तूक्त एव । ततश्च तस्य दोषः संयोगादिलोपलत्वयोरित्येव वाच्यम् । वस्तुतस्तु तदपि न वाच्यम् । पूर्वत्रासिद्धे चेति यसिद्धत्वादेव न्यायसिद्धमित्युक्तम् । तच्चासिद्धत्वमनित्यम् । अधुनेतिवदमुनेति वाच्ये नमुनइत्युक्तेर्नेति योगविभागात् । नुटीति वाच्ये नामीतिलिङ्गाच्च । अनश्व इत्यादेरङ्गस्येत्यनेन व्यावृत्तौ सत्यामपि अक्षण्वन्त इत्यादौ हि दीर्घ बारायितुं हि नामीत्युक्तम् । रुधादिभ्यः श्रम् श्नानलोप इति सूत्रद्वये भाष्यकैयटाद्यालोचनेनारम्भसामर्थ्यात्सन्निपातपरिभाषाया इवासिद्धत्वस्याध्यविशेषाद्वारे माप्ते नरसीत्युक्तिरिति चेन्न । कति तुग्रहणादिना समिपातपरिभाषाया अनित्यत्वज्ञापनात्सामर्थ्याद्वाध इति पक्षेप्यक्षण्वन्त इत्यादावुभयबाधे गौरवाच्च । तस्मादनित्यताज्ञापनार्थमेव तत् । तेन सिद्धकाण्डमपि संगृहीतं भवति । एतेन रामो रामेभ्य इत्यादौ रुत्वस्यासिद्धत्वादोरुकारस्येत्संज्ञालोपो कथं स्यावामित्येतदपि समाहितम् । प्रत्ययः परश्वेत्यादिलिङ्गा
Page #313
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुमः च । यत्त्वनुनासिकनिर्देशसामादित्संज्ञालोपौ प्रत्यसिद्धत्वं नेति । तन्न । तरुमलमित्यादौ हशिचेत्यस्य व्यावृत्तये अतोरोरित्यत्र सानुनासिकस्यैव निर्देशाभ्युपगमेन चारितार्थ्यात् । राम इत्यादावपि सानुनासिकश्रवणस्यापाद्यमानतया चारितार्थ्यस्य स्पष्टत्वादिति दिक् । तेन संयोगादिलोपलत्वयोरसिद्धताविरहास्थानिवत्वं भविष्यतीति सकलेष्टसिद्धिः॥
द्विवचनेचि ॥ रूपातिदेशोयम् । द्वित्वनिमित्ते ऽचि योजादेशः सः स्थानिवद्रूपं लभते द्वित्वे कर्तव्ये । चक्रतुः । चक्रुः । द्वित्वनिमित्तत्वेनाविशेषणादिह न । दुपति । सुस्यूषति । न ह्यूद् द्वित्वनिमित्तम् । नन्वेवं चक्रवारीत यणोपि स्थानिवद्भावो न स्यात् । अतुसो द्वित्वनिमित्तत्वेप्यकारस्यातथात्वात् । सूत्रन्तु चक्रे इत्यादौ सावकाशमिति । सत्यम् । इह निमित्तशब्देन साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकत्वमाश्रीयते न तु साक्षादेवेत्याग्रहः। लक्ष्यानुरोधात् । किञ्चसूत्रे निमित्तशब्दो नास्त्येव । किन्तु लक्षणया वा द्विरुच्यतेस्मिन्निति द्विवचनमिति व्युत्पत्त्या वा द्विवचनमस्त्यस्मिन्निति अर्शआधचा वा द्विवचननिमित्तं लब्धव्यम् । तच्च प्रकारत्रयं साक्षात्परम्परासाधारणे प्रयोजकेपि सुवचम् । एतच्च ठस्येक इति सूत्रे कैयटे स्पष्टम् । अत एव कर्णोतेः सनि सनीवन्तेतीट्पक्षे विभाषोोरिति डि. स्वविरहे ऊर्णनविषतीति सिद्धम् । सन्नन्तस्य द्वित्वविधानपि सनो द्वित्वप्रयोजकत्वेन तस्मिन् गुणावादेशयोर्द्वित्वे कर्तव्ये स्थानिवद्भावात् । तदुक्तम् । तद्भावभावितामात्रेणेह निमित्तत्वमिति । वस्तुतस्तु द्विवचनाक्षिप्तः प्रत्ययो ऽचीत्यनेन विशेष्यते । परस्मिनित्यनुवर्तते । अमीषां मध्ये देवदत्तात्परमानयेत्युक्ते यथा सजातीयन मनुष्यान्तरेणाव्यवहितः पर आनीयते । तथे
Page #314
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः। [१० हापि प्रत्ययान्तरेणाव्यवहितः परो गृह्यते । तेन द्वित्वनिमिते अजादौ प्रत्यये प्रत्ययान्तरेणाव्यवहिते परे सति योजादेशः स स्थानिवत्स्यादिति सूत्रार्थः । एवं च चक्रतुरित्यादौ न काप्यनुपपत्तिः । वक्ष्यमाणज्ञापकवलेन णिचा व्यवहिने प्रवृत्तावपि दिदयनीयिषतीत्यादावनेकप्रत्ययव्यवधानादप्रवृत्तिः । अपी. प्यदित्यत्र वर्णव्यवधानपि प्रत्ययान्तराभावात्प्रवृत्तिः । अनुवादे परिभाषानुपस्थानपि निर्दिष्टपरिभाषाकर्तव्यस्य निर्वाहश्चेति बोध्यम् । अत एवेह परस्मिन्नित्यनुवर्ततइति न्यासकारः । तथा 'द्विवचनेनेह प्रत्ययाक्षेपं वदन् णिज्भिन्नेन व्यवहिते ज्ञापकस्या. महात्तिं ब्रुवन्कैपटोप्येतदभिरैति । उर्णनविषतीत्यादिसिद्धये तु सद्भावभावितामात्रेण निमित्ततोत स्वीक्रियतएवेत्यवधेयम् । न. न्वेषमरिरिषतीति न सिद्धयेत् । ऋधातोः सनि स्मिपूर्झज्वशांसनि इत्तीटि कृते इस्शब्दनिमित्तकस्य गुणस्य स्थानिवद्भाचे अजादोर्द्वितीयस्येतीसो द्वित्वप्रसङ्गात् । इष्यते तु रिस्शब्दस्य द्वित्वम् । अत्रोच्यते । न हि कार्या निमित्ततयाश्रीयतइति दीधीवेवीटामित्यत्रोपपादितत्वानेह इस शब्दो निमित्तम् । अतो न स्थानिवद्भावः । न चैवं सन्नन्तस्य कार्यित्वादूर्गुनविषतीत्यपि न स्यादिति वाच्यम् । मत्वर्थीयेनेनिना कार्यमनुभवत एव कार्यित्वलामात् । तत्र तु द्वितीय एकाच् द्वित्वरूपं कार्यमनुभवति न तु सन् । अरिरिषतीत्यत्र तु रिस्शब्दस्यैव कार्यभाक्त्वमिति वैषम्यात् । नन्वेवमचीत्यस्य जेधीयते देध्मीयतइति व्याव] न सङ्गच्छते । घीय ध्मीय इति द्वितीयाजवधिकस्यैकाचः कार्यतया यङोष द्वित्वनिमित्तत्वाभावादिति चेत् । सत्यम् । अधिजगे इत्येवाग्रहणव्याव_मस्तु । तत्र हि गाइनल्लिटौति द्विलकारकनिर्देशमाश्रित्य लावस्थायामेत्र गाङा
Page #315
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुभः । देश इति भाष्यएव स्पष्टम् । इदञ्च वार्तिकमतमनुसृत्योकम् । तत्र लिटि लिङीत्यादीनां परसप्तमीत्वाभ्युपगमात् । भाष्यमते त्वार्द्धधातुकीयाः सामान्येन भवन्तीत्यभ्युपगमाल्लिटीत्यादयोपि विषयसप्तम्यवेत्युक्तं स्थानिवत्सूत्रे । तन्मते त्वचीत्यस्य जग्ले इत्यादि व्यावय॑म्बोध्यम् । तथाहि । आदेच इति सूत्रे ऽशीति परसप्तमीति पक्षे शिदिति कर्मधारयाश्रयणाद्यास्मविधिस्तदादावल्ग्रहणइत्यस्य प्रवृत्त्या आदिशितोन्यस्मिन्परे विधीयमानमात्वं लावस्थायां क्रियते । अतो न स्थानिवत् । न चान्तरङ्गत्वात्तिवादिष्वेशि च कृते आत्वं स्यात्तथा च स्थानिवत्त्वं दुर्वारमिति वाच्यम् । नसम्प्रसारणेसम्प्रसारणं ल्लिटिवयोय इति द्विलकारकनिर्देशमाश्रित्य तं च तत्रानुपयुक्तत्वादिहानुवर्त्य ल्लिटि तु लावस्थायामेवेत्यात्वविधौ व्याख्यानात् । कथं तर्हि जेघीयते देध्मीयत इति भाष्यवृत्त्यादिषु प्रत्युदात्हतमिति चेत् । प्रातिशाख्यरीत्येत्यवेहि । तथाहि । अनुस्वारो व्यजनं चाक्षराङ्गमित्युक्त्वा स्वरान्तरे व्यञ्जनान्युत्तरस्येति तत्र मूत्रितम् । एवं च नेनिजत्यनेनिजुरित्यादावेकाच्कस्य धातोः सम्पूर्णस्य द्विवेचनादभ्यस्ताश्रयमद्भावजुसादि सिध्यतु । द्वयच्के तु मध्यवर्तिनां हलामुत्तराङ्गत्वात्प्रथमाजन्तमेव द्विरुच्यताम् । यथा दरिद्रातौ द इति । जाग” जा इति । न चैतावता क चिद्रूनिष्टमापद्यते येन प्रातिशाख्यपरिभाषामुपेक्ष्य नटभाविद्यञ्जनानीति चाश्रित्य दर जाग् इत्यादि द्विरुच्यते । अत एव चतुरश्छयतावाद्यक्षरलोपश्चेति सङ्गच्छतइति दिक् । यदा तु पाष्ठभाष्यवार्तिकरीत्या द्वितीयाजवधिक एकाच गाते , गालिटीति च विषयसप्तम्याश्रीयते , अनैमित्तिकमात्वं शिति तु प्रतिषेध इति वा अशितीति विषयसप्तमी वा आश्रीयते, तदा
Page #316
--------------------------------------------------------------------------
________________
३१६
शब्दकौस्तुमः । [१ अ. जेघीयते अधिजगे जग्ले इति त्रिविधस्यापि व्यावय॑स्यासम्भवादचीत्यस्य फलं किमिति विभावनीयं सूरिभिः । स्यादेतत् । भसेः कसौ घसिमसोहलीत्युपधालोपे कृते द्वित्वं मा भूदित्येतदर्थमज्ग्रहणं भविष्यतीति चेत् । सत्यसति वा द्वित्वे श्वानिति श्रुतौ विशेषाभावात्। ननु दुर्लक्ष्योपि विशेषः सूक्ष्मदृशं प्रति दु. वॉर इति चेन्न । दाति प्रियाणि, वीरवद्धातु, इत्यादाविव द्विवाभावसम्भवात् । वक्ष्यति हि षष्ठे लिटिधातोरिति सूत्रे, अनभ्यासग्रहणानर्थक्यं च छन्दसि वावचनादिति । न चैवमपि पाक्षिकं द्वित्वं स्यादेवेति वाच्यम् । दृष्टानाविधानस्यैव छन्दसि कर्तव्यत्वात् । अत एव हि उदित्येव सिद्धे नित्यं छन्दसीति सूत्रं निष्फलमित्यभियुक्ताः । लोके तु भाष्यमते कसु. दुर्लभः । उपधालापश्च छान्दस एव। तदेवं जेघीयते अधिजगे जग्ले इत्येतत्सिद्धये क्रियमाणमग्रहणमेवेह रूपातिदेशत्वे प्रमाणम् । कार्यातिदेशपक्षेहि घगाग्लाइत्येषामेव भाव्यं द्वित्वेनेति किं तेन । तथा च वार्तिकम् । अज्ग्रहणं तु ज्ञापकं रूपस्थानिवद्भावस्येति। देध्मीयते शाशय्यते इत्यपि जेघीयते इत्यनेन समानयोगक्षेममुदाहरणम् । ईघाध्मोरिति ईकारः। अयङ्यिङितीति शीडोयङादेशः । अचीत्यस्य प्रत्याख्यानपक्षे तु लक्ष्यानुरोधादेव शब्दाधिकारमाश्रित्येह रूपातिदेशो व्याख्येयः । पूर्वसूत्रादच इ. तिषष्ठयन्तस्यानुवृत्तिरिह किमति चेत् । शुशुवतरित्यादिसिद्धये इति गृहाण । तथाहि । विभाषाश्वेरिति सूत्रं यद्यपि शुशावेत्यादौ पित्सु सावकाशं तथापि शून इत्यादौ चरितार्थस्य वचिस्वपीत्यस्य बाधकमेव परत्वात् । लिव्यभ्यासस्योभयेषामित्यस्य तु न बाधकम् श्वयत्यम्यासविषयकस्य विधोर्नरवकाशत्वात् । अत एव विभाषाश्वेरिति सूत्रे श्वोर्लिट्यभ्यास.
Page #317
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुभः । लक्षणप्रतिषेध इति वार्तिकमारब्धम् । लिव्यभ्यासस्येति सूत्रे अश्वयतीनामिति पूरणीयामिति तदाशयः । अन्यथा हि विहितप्रतिषिद्धतया विकल्पात् शुश्वाय शुश्वियतुरित्यनिष्टमपि पक्षे प्रसज्येत । एवं स्थिते द्विवचनेचीत्यत्राच इत्यस्याननुवृत्ती शुशावत्यत्र वृद्धयावादेशयोरिव सम्प्रसारणस्यापि स्थानिवद्भावः स्यात् । तथा च शिशाव शिशुवतुरित्याद्यनिष्टमापद्येत । न च सम्प्रसारणं तदाश्रयं च बलवदिति तिबाद्यवस्थायामेव सम्पसारणप्रवृत्तेरचीति नास्तीति वाच्यम् । एवमपि व्यतिशुशुवाते इत्यादौ दोषध्रौव्यात् । न च विभाषाश्वेरिति लावस्थायामेव प्रवर्ततइति वाच्यम् । एवमपि ईजाते ईजाथे इत्यादौ दोषतादवस्थ्यात् । लावस्थायां कित्त्वाभावन तत्र सम्प्रसारणाप्रवृत्तेः। न च कित्त्वमपि प्रवर्त्ततामिति वाच्यम् । अन्तरङ्गैस्तिबादिभिर्बाधितत्वात् । किं च स्वापेश्वङीति सम्प्रसारणे असूषुपदितीष्यते । स्थानिवद्भावे तु सति नसंप्रसारणइति निषेधाद. भ्यासे उवर्णो न श्रूयेतेति दिक् । तन्त्रावृत्त्यैकशेषाणामन्यतमाश्रयणादिह कालावधारणमपि क्रियते । तथा च व्याख्यातम् । द्वित्त्वे कर्तव्ये इति । तेन चक्रतुरित्यादावुत्तरदले पुनर्यथायथं यणादयो भवन्त्येव । अन्यथा प्रकृतिभाव एव स्यात् । निन्य. तुरित्यत्र तु प्रथमप्रवृत्तस्यापीयङो द्वित्वकाले ऽपहारात्पुनः प्रासो ऽप्ययमेरनेकाच इति यणा बाध्यते । यद्वा । पूर्वमपीयङ् न प्रवर्तते । प्रकल्प्य चापवादविषयं तत उत्सर्गोभिनिविशतइति न्यायात् । यद्वा ।आभीयत्वेनेयङो ऽसिद्धत्वाद् यण भविष्यति । स्यादेतत् । स्थानिवद्ग्रहणं निवर्त्य नवं चानुवर्त्य द्वित्वनिमित्ते ऽचि अच आदेशो न स्याद् द्वित्वे कार्ये इत्येव व्याख्यायताम् । एवं हि सति स्थानिवदिति शब्दाधिकारक्लेशोपि न भव
Page #318
--------------------------------------------------------------------------
________________
३१८
शब्दकौस्तुमः ।
[ १ अ
।
तीति । सत्यम् । अस्मिन्नपि पक्षे नमः स्वरितत्वं प्रतिज्ञातव्य: म् । स्थानिवच्छन्दस्य तु क्लमेव तदिति लाघवम् । अस्तु वा व्याख्यानद्वयमपि फले विशेषाभावादिति दिक् । नन्वेवमपि णौ स्थानिवद्वचनं कर्त्तव्यम् । नुनावयिषति चुझावविपति तुष्टावारीपतीत्याद्यर्थम् । अत्राहुः । ओ पुयजिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्येति । अस्यार्थः । यौतेः पूढन्ध सनीवन्तेति स्मिपूज्य शामिति सूत्राभ्यामिटि कृते यियविषति पिपविषते इत्यत्र द्विर्वचनेचीति स्थानिवद्भावाद्यकारपकारयोरवर्णपरयोः परतो यद्यप्यभ्यासउकारो लभ्यते । तस्य चेकारादेशाविधानेन ओः पुणसूत्रे पकारयकारग्रहणं चरितार्थम् । तथापि वर्गप्र हणं प्रत्याहारग्रहणं जग्रहणं च ज्ञापकं द्वित्वनिमित्तस्याचो णिचा व्यवधानेपि स्थानिवद्भावः प्रवर्त्तते इति । तं विना अवर्णपरेषु पुयजिषु परेषु उवर्णान्तस्याभ्यासस्य दुर्लभत्वात् । येन arosaधानाच्च णिचैचैकेन द्वित्वनिमित्तस्याचो व्यवधान माधीयते । तेन निनवनीयिपतीत्यादौ न स्थानिवत् । ल्युट्क्यज्भ्यां व्यवधानात् । एवं णिजन्ताल्ल्युट्क्यच्सन्स्वपि नः स्थानिवत् । निनावनीयिषतीत्यादि । न हि णौ कृतं स्थानिवादतिवचनमस्ति किन्तु ज्ञाप्यमानः स्थानिवद्भावो लाघवादेकेनै: व व्यवधानइत्युक्तम् । इह त्वनेकेन व्यवधानं स्पष्टमेव । यद्यप्यनूद्यमानादेशविशेषणत्वान्निर्दिष्टपरिभाषा नोपतिष्ठते । तथाप्यचीन्यपश्लेषिक समीचलादेव तदर्थः पर्यवस्यति । ईषद्विप्रकृष्टला भे चनात्यन्त विप्रकृष्टस्य ग्रहणापिति बोध्यम् । वस्तुतस्तु परस्मिमित्यनुवर्ततइति सूत्रोपक्रमएवोक्तम् । एवं चावी भवत् अमीमवत् अरीवत् अलीलवदित्यादिषु विभावयिषतीत्यादिषु च ओः पुराणि तीत्वं प्रवर्त्तते । ज्ञापन फलन्तु यत्र ओः पुयणित्यस्यामासिस्तक
Page #319
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुभः ।
३१९ बोध्यम् । तद्यथा । चुक्षावयिषति । उडुरिवाचरति उडवति । उडवतेी सन् । उडुडावायषति । चङि । औडवत् । तुतावयिपति । अतूनवत् । सौत्रोयं तुरुस्तुशमीत्यत्र निर्दिष्टः । ऊणुनावयिषति । औणूनवत् । चिस्फुरोर्णावित्यात्वस्य स्थानिवद्भावात्पुस्फारयिषति अपुस्फरदित्यादि बोध्यम् । तुल्यजातीयापेक्षं च ज्ञापकम् । तेनावर्णपरे हल्येव स्थानिवत्त्वम् । तेनाचिकीर्तदित्या. दौ नातिप्रसङ्ग इति भाष्ये स्थितम् । यत्तु काशिकायां पूर्वत्रासिद्धपि. ति सूत्रे वहेनिष्ठान्ताण्णिाचे चङि औजढदित्युदाहृत्य क्तिनन्तस्य तु औजिढदित्युक्तम् । तत्रैव न्यासेपि णौ कृतस्य टिलोपस्य स्थानिवद्भाव इति व्याख्यातं तदुभयं भाष्यविरुद्धत्वादुपेक्ष्यम् । अ. चिकीर्तदित्यस्य सिद्धये ऽवर्णपरधात्वक्षरविषयकमेव ज्ञापकमिति स्पष्टं भाष्ये । प्रकृतसूत्रप्रत्याख्यानपरे वार्तिके अव्याप्तिरूपदोषोद्भावनपरेण ओदौदादेशस्य चुटुतुशरादेरित्यादिभाष्येणाप्ययमर्थो लभ्यतइत्यनुपदमेव स्फुकिरिष्यते । अत एव, शुष्किका शुष्कजङ्घाचक्षामिमानौजिढत्तथति वैयाघूपधवार्तिके जिशब्द एव पठ्यते । जशब्दपाठस्तु काचित्कः प्रामादिक एवेति बोपदेवो दुर्गसिंहादिसम्मतिप्रदर्शनपूर्वकं कामधेनौ स्थापितवान् । वैयाघूपधवार्तिकं तु पूर्वत्रासिद्धमिति सूत्रस्य प्रयो• जनसङ्ग्रहपरं, तच्च तस्मिन्नेव सूत्रे व्याख्यास्यामः । एवं चा. ङ्कपदे लक्षणे चेत्यस्य चङि सणिच्कस्य द्वित्वेनाश्चिकदित्येव रूपं न त्वाञ्चकदिति । न चैवमदन्तपाठवैयर्थ्यं स्यादिति वाच्यम् । तत्सामर्थ्यादल्लोपस्याप्रवृत्तौ सत्यां वृद्धिपुकोश्च सतोरङ्कापयतीति रूपाभ्युपगमात् । न चैवं सत्यङ्कयतांति रूपं न स्यादिवि वाच्यम् । मूचिसूत्रीत्यादिवार्तिके सोसूच्यते सोसूत्र्यतइत्यादिभाष्योदाहरणेन पक्षे ऽल्लोपस्याभ्युपगमात् । सूचिमू
Page #320
--------------------------------------------------------------------------
________________
३२०
शब्दकौस्तुभः। [१० ज्यादयो बदन्ताः । अत एवानकान्त्वेन पोपदेशत्वाभावान्न षत्वम् । षोपदेशलक्षणे ह्येकाच्त्वं विवक्षितमिति माधवीये स्पष्टम् । एतच्च सेगादिपर्युदासात् ष्वष्कस्त्रिदादिसाहचर्यात् सोसूच्यतइत्यादिभाष्योदाहरणाञ्च निर्णीयतइति वक्ष्यते । एवं वाक्यशेष समर्थयिष्यामहे । प्रार्थनाध्यवसायैः सम्मश्नप्रार्थनेषुलिडित्यादिप्रयोगाश्वेह मानम् । तदेतत्सकलमाभिसन्धायादन्तत्व सार्यक्याय वा ऽल्लोप इत्याहुः । उक्तञ्च कामधेनौ । अग्लोपित्वं स्थानिवन्त्वं चादन्तत्वप्रयोजनम् । यत्र त्वेते न विद्यते तत्राल्लोपविकल्पनमिति । कथयत्याद्यभिप्रायेण पूर्वार्द्धम्, 'अइयत्याद्यभिप्रायं तूत्तरार्द्धमिति विवेकः । नन्वाञ्चकदित्यत्र दीर्घोलघोरिति प्राप्ते ऽनग्लगइति निषेधेनाकारश्चरितार्थ इति चेनी चपरे णौ यदङ्गं तस्य योभ्यास इति सूत्रार्थव्यवस्था- . पनात् । इह त्वावयवस्याभ्यासो न त्वङ्गस्य । एतच्चोणुधातौ माधवग्रन्थे स्पष्टम् । अत एव आटिटदित्यादौ न दीर्घः । यत्तु दीर्घविधौ हलादिरिति विशेषणं कौमुद्यां दत्तं तबिमूलम् । औ
नवदित्यादेः सिद्धावपि सन्वल्लघुनीत्यत्र चपरे इत्यङ्गस्य विशेषणं लघोर्वेति मतभेदेनेष्यमाणे अचिचकासदचचकासदिति रूपद्वयेप्यतिप्रसक्तं च दीर्घविधौ चङ्परइत्यस्य लघुविशेषणतामाश्रित्यार्थसिद्धकथनं तदिति वा समाधेयम् । सिद्धान्ते तु माधवोक्तरीत्या ऊर्णावयतोरव चकासयतेरपि दीर्घाभावः स्पष्ट एवेति दिक् । एतच्च सूत्रं वार्तिककारः प्रत्याचख्यो । तथाहि । षष्ठे द्वित्वप्रकरणान्ते विप्रतिषेधः पठ्यते । द्विवचनं यणयवायावादेशाल्लोषोपधालोपणिलोपकिकिनोरुत्वेभ्य इति । तथा च दध्यत्रेत्यादौ सावकाशो यण् । चयनं चायको लवनं लावक इत्यादौ चायवायावः । गोदः कम्बलद इत्यादावाल्लोपः।
Page #321
--------------------------------------------------------------------------
________________
१ पा. ८ आ. · शब्दकौस्तुमः श्लेष्मघ्न इत्यादावुपधालोपः कारणा हारणेत्यादौ णिलोपः निपूर्ता इत्यादावुत्त्वं चेत्येतानि नव बिभिदतुरित्यादौ सावका. शेन द्वित्वेन पूर्वविप्रतिषेधावाध्यन्ते,तेन चक्रतुः चिचाय लुलाव चिचयिथ लुलविथ पपतुः तस्थतुः जग्मतुः जघ्नतुः आटिटत् ततुरिः जगुरिरित्यादि सिद्धम् । नन्वेवं निन्यतुरिति न स्यात्, इयङ इहापरिगणितत्वादिति चेन । एरनेकाच इति यह भाव्यमिति प्रागपीयङोप्रवृत्तेः । प्रकल्प्य चेति न्यायात् । तस्माद् द्विवचनेचीति सूत्रं विनापि सर्व सिद्धमिति । भाष्यकारास्तु सूत्रं समर्थयन्ते । तथाहि । विप्रतिषेधस्तावदयुक्तः । आल्लोपादीनां नित्यत्वात् । द्वित्वस्यानित्यत्वेनातुल्यबलत्वात् । किं च पूर्वविप्रतिषेधे सर्वत्र वचनस्यारम्भणीयत्वादिह तु सुतरां तथेति क लाघवम् । अपि च। क्रियमाणमपि वचनं यद्यन्तरङ्गाणामपि वाधकं तर्हि निनवनीयिषति दिदवनीयिषतीत्यादावप्यभ्यासे उकारः श्रूयेत । अथात्रान्तरङ्गत्वादवादेशः,वचनं तु नान्तरगाणां बाधकं किन्तु नित्यानामेवेति ब्रूयाः । एवमपि चुक्षावयिषतीत्यादौ वृद्धयावादेशयोः प्रवर्तनादभ्यासे इत्वं स्यात् । तथा च तद्वाधनाय उत्त्वं विधेयम् । तथा च त्वया इत्थं न्यासः कर्त्तव्यः । उत्परस्यातः, तिच, ओदौदादेशस्य चुटुतुशरादेरिति । अभ्यासस्येति वर्त्तते । ओदौतोरादेशो यस्मिन्नने तस्य योभ्यासश्चुटुतुशरादिस्तस्य योकारस्तस्य उत्स्यादित्यर्थः । यथा चुक्षावयिषति उडुडावयिषति तुतावयिषति ऊdनावयिषति शुशावयिषति पुस्फारयिषतीति । अत्र चिस्फुरोर्णावित्यात्त्वम् । यद्यपीह खयः शेषे कृते शरादित्वं नास्ति तथाप्यभ्याससंज्ञाप्रवृत्तिकालेस्त्येवेत्यवधेयम् । ओदौदादेशस्येति किम् । चाय पूजायां, चिचायिषति, खदस्थैर्ये, चिखदिष
Page #322
--------------------------------------------------------------------------
________________
३२२
शब्दकौस्तुभः ।
[ १ अ०
ति । चटतुशरादेः किम् । विभावयिषति । अत इति किम् । ऋजुम् अणुम् ऋतुम् अंशुं चाख्यत्, आर्जिजत्, आणिणत्, आर्त्तितत्, आंशिशदित्यत्र परत्वादवृद्धौ सत्यां टिलोपे सणिच्कस्य द्वित्वे कृते मा भूत् । अभ्यासस्यति किम् । चटुत्वित्यादि तर्ह्यङ्गस्यातो वा विशेषणं स्यात् । उभयथापि दोषः शीतं लुनाति शीतलूः सूर्यः, तमाख्यातुमिच्छति शिशीतलयिषतीत्यत्र तकारादुत्तरस्यात उत्प्रसङ्गात् । नन्वेवमप्यौजढदाञ्चकदित्यादावभ्यासे ऽकारश्रवणार्थं यत्नान्तरमास्थेयमेवेति गौरवान्तरं वार्त्तिककारं प्रति कुतो नापादितमिति चेन्न । तत्रेकार एवेष्ट इत्युक्तत्वात् । सजातीयापेक्षं हि सिद्धान्तेपि ज्ञापकम् । अन्यथा अचिकीर्त्तदित्यत्राभ्यासे ऽकारश्रवणापत्तेः । तस्माद्वार्तिक कृता वचनद्वयमपि कर्त्तव्यं स्यादिति स्थितम् । तथा जग्लावित्यादिसिद्धये विप्रतिषेधवार्त्तिके वृद्धिरपि पाठ्या तथा ओ: पुयजीति तृतीयमपि कर्त्तव्यमेव । पिपविषते यियविषति जिजा - वयतीत्यत्र इत्वं यथा स्यात् । तथाहि । पु यु इत्यनयोः सनि इटि परत्वाद् गुणे कृते पूर्वविप्रतिषेधेनावादेशात्पूर्वं द्वित्वमितीत्वं वक्तव्यमेव । तथा जुचङ्क्रम्येत्यत्र निर्दिष्टशत्सौत्राज्जुधातोर्ण्यन्तात्याने जिजावयिषतीत्यत्र चुटुतुशरादेरित्युत्वे प्राप्ते तद्बाधनाये - त्वं वक्तव्यम् । न च तत्र वकारमेव पठिष्यामि न तु चुशब्दमिति वाच्यम् । गुङ् घुङ् ध्वनौ । आभ्यां णिजन्ताभ्यां चङि सनिच अजूगवत् अजूघवत्, जुगावयिषति जुघावयिषतीत्याद्यसिद्धिप्रसङ्गात् । किश्च । दिदवनीयिषति निनवनीयिषतीत्यत्र चुटुतुशरादे रित्युत्वं स्यादिति तद्वारणाय वचनान्तरमास्थेयम् । अथ वा सन्यत इति सूत्राद्गुणोयङ्लुकोरित्याद्यष्टसूत्र्या विच्छिन्नमपि सन्ग्रहणं मण्डूकप्लुत्यानुवर्त्य सूत्रमतोक्तरीत्या येन नाव्यवधानन्यायेन
1
Page #323
--------------------------------------------------------------------------
________________
१ पा. ८ आ. शब्दकौस्तुभः ।
३२३ णिभिन्नैर्व्यवधाने उत्वं नेति समाधेयम् । एवमपि तनुशब्दादाचारकिबन्ताद्धेतुमण्णौ सत्यसति वा यदा सन् तत्र तितनविष. ति तितनावयिषतीत्यत्राप्युत्वं स्यात् , तद्वारणाय ओदौदादेशस्येति वार्तिकमन्यथैव व्याख्येयम् । तद्यथा । अभ्यासस्येत्यायवषष्ठी । ओदौदित्यादिस्तु सम्बन्धसामान्ये षष्ठी । उभयमप्यतो विशेषणम् । तदयमर्थः । अभ्यासस्यावयवभूतस्तथा ओदौदादेशस्य यथायथमवयव आदेशो वा यो ऽत्तस्योद्भव ति । चुलावयियतीत्यवयवः । पुस्फारयिषतीत्यादेशः । तथाचा. द्ग्रहणमपि सार्थकम् । अन्यथा आटिटदित्यादिसिद्धये चारे णौ यदङ्गं तदवयवे लघौ सन्वदतिदेशादार्जिजदित्यादौ पतिप्रसङ्गविरहादत इति व्यर्थ स्यादिति दिक् । तथा च सूत्रमतापेक्षया वार्तिकमते महदेव गौरवमिति । स्यादेतत् । मास्तु प्रकतसूत्रं मा च वार्तिकम्। ओःपुयणित्येतदेव ज्ञापयिष्यति अन्तरङ्गं नित्यं च बाधित्वा द्विवचनं स्यादिति । ततो द्वितते कृते यथाप्राप्तं यणादि करिष्यते । मैवम् । निनवनीयिषति दिदवनीयिपतीत्याद्यसिद्धः। किञ्च सामान्यापेक्षं ज्ञापकं विशेषापेक्षं वा । आये, अचिकीदिति न सिध्येत् । अन्ये, चक्रतुरित्यादि न सिध्येत् । तस्मात्सूत्रं कर्त्तव्यमेव । चुझावयिषतीत्यादिसिद्धये तु ओः पुयणिति ज्ञापकमाश्रयणीयम् । तच्च तुल्यजातीयापेक्षमिति स्थितम् । अत एव वामनोदाहृतमौजढदिस्येतद्भाष्यविरुद्धमिति बोपदेवोपष्टम्भेन प्रपञ्चितं प्राक् । वस्तुतस्तु कामनोक्तं सम्यगेव । यतः । वोपदेवो महाग्राहग्रस्तो वामन दिग्गजः । कीतैरेव प्रसङ्गेन माधवेन विमोचितः । तथाहि । किं वामनोक्तो. वार्तिकदूषणपरभाष्यविरोधः । किं वा सजातीयविषयज्ञापकतावर्णनभाष्याविरोधः । नाद्यः । नित्यानित्ययोर्विप्रतिषेधानुपप
Page #324
--------------------------------------------------------------------------
________________
३२४
[ १ अ०
शब्द कौस्तुभः । त्तिरिति दिक्वनीयिषतीत्याद्यसिद्धिरिति च दूषणयोर्भाष्येनुक्ततया भाष्यं दूषणान्तराणामप्युपलक्षणमिति स्थिते औजढादत्यभ्यासे कारादेशोपि विधेयः स्यादिति वार्त्तिके दूषणान्तरस्यापि देयत्वात् । तदेवं वार्त्तिकं रचनीयम् । ओद दादशस्य चदुतुशरादेरभ्यासस्योत्सनि । ततोल्लोपवतो णिचोत् । अल्लोपवतोङ्गस्याभ्यासस्य णिचोत्स्यात् । औजढत्, आञ्चकदिति । न द्वितीयः । यत्र द्विरुक्ता व म्यासस्योत्तरखण्डस्याद्याजवर्णस्तत्र स्थानिवदिति हि भाष्यस्य फलितार्थः । अस्ति च हतशब्दस्य द्विरुक्तौ प्रक्रियादशायामुत्तरत्रावर्णः । ननु पुनः प्रवृत्तेन टिलोपेनापहारान्नास प्रयोगे समवैतीति चेत् । किं ततः । नहि प्रयोगसमवायित्वं विशेषणं भाष्ये दत्तम् । एवञ्च नुनावायपतीत्यादौ द्वित्वृत्तिवेलायामवर्णाभावेपि पश्चाद्भाविनं तमाश्रित्य यथा स्थानिवद्भावस्तथा हतशब्दस्य पश्चात्तद्विर हेपि, अध्यजीगपदित्यत्र तु स्थानिवद्भावे सत्यजादितया णिच एव द्वित्वं स्यात्तथा च न द्वित्वमवृत्तिवेलायां नापि पश्चादवर्णपरतेत्यचिकीर्त्तदित्यादाविव न स्थानिवद्भावः । एवं चोवर्णस्थानिकस्यैव स्थानिवद्भाव इति दुराग्रहो निर्मूल एव । अत एव लोपः पिबतोति सूत्रे ऽपीप्यदित्यत्र पिवतेण युकि चङि उपधालोपे च तस्य स्थानिवत्वात्पायशब्दस्य द्विरुक्तिरिति वृत्तिग्रन्थोपि सङ्गच्छते । एवं चाञ्चकदित्येव साधु, न वाचकदिति । अङ्कापयति आञ्चीकपदित्यादि तु दुरापास्तम् । अल्लोपस्य दुर्वारत्त्वात् । अकारोच्चारणं त्वभ्यासे Sकारश्रुत्यादिना चरितार्थम् । यदप्परलापित्वं स्थानिवत्वं चेत्याद्युक्तम् । तदपि न । चिन्तेरिदित्करणेन घुषिरविशब्दने इत्येतत्सूत्रस्थभाष्येण च णिज्यिकल्पस्य सुस्थतया अल्लोपविक
·
Page #325
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुमः ।
३२५ ल्पस्य निमूलत्वात् । णिजभावपक्षे ह्यनेकाच इत्यामप्रवृत्त्या धातोरन्तोदात्तप्रवृत्त्या चाकारः कृतार्थः । अङ्कयादित्यादौ नलोपप्रतिबन्धोपि फलमिति दिक् । न चैवमप्यौज़ढदित्यभ्यासे डकारः श्रूयेत पूर्वत्रासिद्धीयमद्विवचनइत्युक्तरिति वाच्यम् । उभौसाभ्यासस्येति तदनित्यताज्ञापनात् । यत्तु पदद्विवचनाविष. यं तदिति बोपदेवस्तन्न । सुविनिर्दुर्घ्य इति सूत्रे सुपिभूतो द्विरुच्यतइति वार्तिकेन तद्भाष्येण च सह विरोधात् । अत एवाभ्यासे डकारं दुर्गगुप्तादय आहुः । एवं च वैयाघ्रपद्यवार्तिके औजढदिति पाठस्य प्रामादिकत्वकल्पनमेव प्रामादिकम् । जिशब्दपाठस्तु क्तिना निर्वाह्यः। यत्त्वदन्तेषूनधातौ मा भवानूनिनदित्यभ्यासे इकारश्रवणं तदपि लिपिप्रमादप्रयुक्तम् । अन्यथा कृतसंशब्दनइत्यत्र सुब्धातौ च स्वोक्तेन समं विरोधापत्तेः। तस्मादूननदित्येव धातुवृत्तौ साम्प्रदायिकः पाठः। नोनयतिध्यनयतीतिसूत्रे काशिकापदमञ्जर्योरप्येवमेवेत्यवधेयम् । एवञ्चेह भाष्यकाशिकयोरविरोध एवेति स्थिते सरस्वतीकण्ठाभरणादिग्रन्था अपि निबांधा एवेत्यवधेयम् । यत्तु स्तौतिण्योरिति सूत्रे सिषेचयिषतीत्यत्र सिर्हेतुमण्णौ गुणे सनि इटि गुणायादेशयोः कृतयोर्गुणस्य स्थानिवद्भावात्सिचशब्दस्य द्वित्वमिति न्यासकारेणोक्तं ततृत्तरखण्डे ऽकाराभावाद्भाष्यविरुद्धं, स्थानिवद्भावं विनाप्यभिमतरूपसिद्धेनिष्फलं चेत्युपेक्ष्यम्। एतेनौजढदपीप्यदित्यादिसिद्धये सामान्यापक्षतां वदन् अचिकीर्तदित्यादिसिद्धये चानित्यतां शरणाकुर्वन् सीरदेवोप्यपास्तः ॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे
पादे अष्टमान्हिकं समाप्तम् ॥ अदर्शनं लोपः ॥ स्थाने इत्यनुवर्तते । तदर्थश्च प्रसङ्गे इति।
Page #326
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः ।
[ १ अ०
1
प्रसक्तस्पानुच्चारणं लोपसंज्ञं स्यात् । संज्ञाप्रदेशा लोपोन्योर्वकीत्यादयः । अर्थस्यैषा संज्ञा न तु शब्दस्य । महासंज्ञाकरणसामर्थ्यात् । नन्वेवं प्रदेशेष्वेक लोप इति लौकिकोर्थो ग्रहष्यते । पशुरपत्यं देवतेतिवत् । तत्किं संज्ञयेति चेत् । नं । प्रसक्तस्येत्येवंरूपविशेषलाभाय सूत्रारम्भात् । अन्यथा दधिमध्वित्यादौ नुगागमप्रसङ्गात् । अस्ति हि तत्र किपोदर्शनम् । तच्च लोप इति प्रत्ययलक्षणापतेः । नन्वस्त्वेवं वार्तिकमते, भा व्यमते तुप्रत्ययलक्षणसूत्रं नियमार्थम् । तत्कथं दध्यादौ तुक्प्रसङ्गः । स्थानिवत्सूत्रं तु न तुकं प्रति प्रवर्तयति । षष्ठीग्रहणस्य तत्रानुर्वित्तत्वात् । अत एव ग्रामणीरित्यादावणकार्य न भवति । तथा च भाष्यरीत्या संहितावसानयोर्लोकसिद्धत्वादिति वक्ष्यमाणन्यायेनेदं सूत्रं मास्त्विति चेत् । न । घटङ्करोति ग्रामे तिष्ठतीत्यादौ त्यब्लोपइति पञ्चम्यापत्तेः । अग्निमीळइत्यादौ चादिलोप इति निघातप्रतिषेधापत्तेश्च । आरब्धे तु सूत्रे तत्र शास्त्रतो लोकतो वा ल्यपश्चादीनां चाप्रसक्तत्वानोक्तदोषः । ननु वार्त्तिकमते प्रसक्तस्येत्युक्तेोपि ग्रामणीरित्यत्र वृद्धिः T स्यात् । कर्मण्यणः प्रसङ्गसत्त्वादिति चेत् । न । वासरूपन्यायेन पक्षे ऽणः सम्भवेपि क्विप्पक्षे तेनाणप्रसङ्गस्य बाधितत्वात् । वैकल्पिकयोरेकानुष्ठाने तस्मिन्प्रयोगे इतरानुष्ठापकशास्त्राप्रामायस्य शास्त्रसिद्धत्वात् ॥
३२६
प्रत्ययस्य लुकलुलुपः ॥ अनेकसंज्ञाकरणसामर्थ्यात्तन्त्रावृत्त्याद्याश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते । लुलुलुपुशब्दैः कृतं प्रत्ययादर्शनं क्रमादेतत्संज्ञं स्यात् । संज्ञाप्रदेशा लुक्तद्धितलुकि, जुहोत्यादिभ्यः श्लुः, जनपदेलुबिति । विधिप्रदेशेषु भावि संज्ञा विज्ञानान्नान्योन्याश्रयः । विशेषविहिता अप्ये
Page #327
--------------------------------------------------------------------------
________________
१ पा. ९ आ.
शब्दकौस्तुभः ।
३२७
लाः संज्ञा लोपसंज्ञां न बाधन्ते । एकसंज्ञाधिकारादन्यत्र संज्ञानां बाध्यबाधकभावो नास्तीति कडारसूत्रे वक्ष्यमाणत्वात् । मत्ययस्यति शक्यमकर्त्तुम्। न चैवं लुक्तद्धितलुकीति विधीयमानमदर्शनं गोस्त्रियोरित्यनवृत्तेगशब्दस्यापि स्यादिति वाच्यम् । गोरुपसर्ज्जनस्येति योगं विभज्य स्त्रियाः लुक्तद्धितलुकीति सूत्रे स्त्रीग्रहणस्यैवानृवर्तन संभवात् । अन्यथा प्रत्ययग्रहणे कृतेपि गमेर्डोर्लुक् स्यात् । कंसीयपरशव्ययोर्यभत्र लुक् चेति लुगपि प्रकृतेर्न भविष्यति। ङयाप्प्रातिपदिकादित्याधिकारात्प्रातिपदिकात्परस्य लुग्विधानात् । कृतोपि हि प्रत्ययग्रहणे कमेः सः कंसः परान् शृणाति परशुरिति उकारसकारयोर्लुक् प्राप्त एवमेव परिहार्यः । न चैवं यञञोरेव लुगस्तु विधानसामर्थ्याच्च यञलकां विकल्पः । वेत्यनुक्तिस्तु यवनञ्भ्यां मुक्तऔत्सर्गिकस्य श्रवणं मा भूदित्येवमर्थमिति वाच्यम् । यत्रञ्लुकामेककालप्रतीतानामुद्देश्य विधेयभावासम्भवात् । ट्युट्युलौ तु ट्वेत्यत्र तु घकालतनेष्वित्यनद्यतने लङिति च ज्ञापकाद्वाक्यभेदमाशिरस युट्युलोस्तुड् विधीयते । तस्मादप्रत्यय निवृत्तये तावत् प्रत्ययग्रहणं न कर्त्तव्यम् । स्थानिविशेषसमर्पणार्थम पिन । तथाहि । अत्रिभृगुकुत्सेत्यत्र तावत् यस्कादिभ्योगोत्रइत्यतो गोत्रइत्यनुवर्त्तते । तेनात्र्यादिभ्यो यो विहितस्तस्य लुक् सिद्धः । जनपदेलु बित्यत्र तु ङयाप्प्रातिपदिकात् प्रत्यय इत्यनुवृत्तेः । जनपदे विहितस्य चातुरर्थिकप्रत्ययस्य लुप् । लवणालगित्यत्र प्रकृतत्वाहक एव । सर्वत्रापि इह प्रत्यय इत्यस् पष्ठी कल्पयिष्यते तस्मादित्युत्तरस्येति । स्यादेतत् । स
देशार्थं प्रत्ययग्रहणम् । तेन यवनोश्च सुपोधातुप्रातिपदिकयोरित्यादिषु यत्रानेकाल् प्रत्ययस्तत्रालोन्त्यस्येति न भ
Page #328
--------------------------------------------------------------------------
________________
३२८
शब्दकौस्तुमः ।
[ १ अ०
1
वति । तथा लवणाल्लुगित्यादावादेः परस्योतं न भवतीति । मैत्रम् । ज्ञापकादेव सर्वादेशत्वसिद्धेः । घोर्लोपोलेटि वेति हि लोपे कृते लुग्वादुहेतिलग्ग्रहणं ज्ञापयति, लगादयः सदेशा इति । अलोन्त्यस्य ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । न च वैपरत्यिापात्तः । असञ्जातविरोधित्वेन लोपे ऽलोन्त्यपरिभाषायाः प्रवृत्तेः । सामान्येन लुमद्विषयं ज्ञापकं न तु लुमात्रविषयमिति सर्व सिद्धम् । स्यादेतत् । आगस्त्यकौण्डिन्ययोरित्यत्र लुगणिनोरित्यतो लुग्ग्रहणमनुवर्त्तते न वा । आये स्थानिनौ द्वौ आदेशास्तु लुका सह त्रयः इति वैषम्याद्यथासंख्याभावे एकैकस्य त्रय आदेशाः पर्यायेण स्युः । ततश्चागस्तयोपि कुण्डिनाः स्युः । कुण्डिनाश्चागस्तयस्स्युः । लुक्च क्रियमाणो ज्ञापकात्सर्वादेश इति उभयत्रापि विभक्तिमात्रं भूयेत । अथ निवृत्तं ततोऽगस्तयः कुण्डि ना इत्यत्र न कश्चिद्दोषः । किं तु अगस्तीनां छात्रा आगस्तीया इत्यत्र प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षितेप्यगस्त्यादेशस्य निषेधाभावादनिवृत्ताववृद्धत्वाच्छो न स्यात् । प्रत्ययग्रहणे सति तु लुग्ग्रहणानुवृत्त्या आगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्भवति । अवशिष्टभागयोर्यथासंख्यमगस्तिकुण्डिनचौ । तेनागस्तयः । कुण्डिना इति सिद्धम् । प्राग्दीव्यतीये विवक्षिते तु गोत्रे लगचीति लुकि प्रतिषिद्धे तत्सभियोगशिष्टत्वादगस्त्यादेशेपि निवृत्ते आगस्त्यशब्दाद्रद्वाच्छे कृते सूर्यतिष्येति यलोपे चागस्तीया इति सिद्धयति । कौण्डि - न्ये तु नास्ति विशेषः । निवृत्तेपि कुण्डिनजादेशे कौण्डिन्यशदादपि कण्वादिभ्यो गोत्रइत्यणि कृते आपत्यस्येति यलोपे कौण्डिना इत्येव भवितव्यम् । तस्मादागस्त्य कौण्डिन्ययोरित्यश्रावश्यमनुवर्त्य लुम्ग्रहणम् । ततश्चेह प्रत्ययग्रहणमपि कर्त्त -
-
·
Page #329
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुमः ३२९ व्यमेवेति । मैवम् । आगस्त्यकौण्डिन्ययोरित्यत्र यस्कादिभ्यो गोत्रइति गोत्रग्रहणमनुवर्त्य गोत्रे यो विहितस्तस्य लुगिति व्याख्यानेनापीष्टसिद्धेः । तस्मादत्र प्रत्ययग्रहणं मास्त्वति स्थितम् । स्यादेतत् । एवंसति लोपसंज्ञया सह लुगादिसंज्ञानां तुल्यव्यक्तिकत्वं स्यात् । तद्भावितस्य संज्ञति चेत् । अविशेपाल्लोपेपि तथा स्यात् । उच्यते । असजातविरोधित्वाल्लोपसंज्ञातावददर्शनमात्रस्य भवति । लुगादिसंज्ञासु परमनेकसंज्ञाप्रणयनसामोत्तद्भावितग्रहः । तेन संज्ञासङ्करो नेत्युक्तम् । सति तु सङ्करे हन्तीति शब्लुकि श्लाविति द्वित्वं स्यात् । जुहोतीत्यत्र श्लौ सति उतो वृद्धिलकि हलीति वृद्धिः स्यात् । न च तत्राभ्यस्तस्य नेत्यनुवृत्तर्योयोति नानोतीत्यादाविव वृद्धिर्न भविष्यतीति वाच्यम् । संज्ञासंकरपक्षे तदनुवृत्त्यसम्भवात् । अन्यथा सूत्रस्य निर्विषयतापत्तेः । न च यौतिरोतीत्यादिरवकाशः । संज्ञासङ्करे तत्रापि द्वित्वस्य दुर्वारत्वात् । लोपसंज्ञा तु लुगादिसंज्ञानां व्यापिकेत्युक्तम् । तेन पश्चेत्यादौ प्रत्ययलक्षणं सिध्यतीति दिक् । भाष्यमते तु यद्यपि स्थानिवत्सूत्रेण पञ्चेत्यादि सिद्धम् । तथापि सुदृषद् ब्राह्मण इत्यत्र वक्ष्यमाणरीत्योत्तरपदायुदात्तत्वस्योपधादीर्घस्य च वारणाय लोपे सति प्रत्ययलक्षणमेवेति नियमोवश्यं प्रवर्तनीयः । तथा च तत्र लुकः प्रत्ययसंज्ञाप्यादर्तव्येत्यवधेयम् ॥
प्रत्ययलोपे प्रत्ययलक्षणम् ॥ प्रत्यये लुप्तपि तदाश्रयं कार्य स्यात् । अविध्यर्थमिदमिति वार्तिकमतम् । तथाहि । अतृणेडित्यत्र तिपो हल्ङयादिलोपे कृते तृणह इमिति सूत्रेण विधीयमानो हलादिपित्सार्वधातुकनिमित्त इमागमोस्माद्वचना. द्भवति, स्थानिवत्सूत्रेण तु न सिध्यति, अल्विधित्वात् । नन्वेवं
Page #330
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ . प्रत्ययलक्षणमपि न स्यात् । वर्णाश्रये नास्ति प्रत्ययलक्षणमिति निषेधादिति चेन्न । नह्येवंरूपं वचनमस्ति । किं तु प्रकृतसूत्रे प्रत्यय लोपे तल्लक्षणमित्येवास्तु, यद्वा तल्लक्षणमित्यपि मास्तु, स्थानिचदित्यनुवृत्त्यैवेष्टसिद्धेः । एवं सति प्रत्ययलक्षणमित्युक्तेः फलं तत्पठ्यते । पुनः प्रत्ययग्रहणसामर्थ्याद्धि यत्कार्य प्रति प्रत्ययस्थासाधारणं रूपं निमित्ततया ऽऽश्रीयते सुप्त्वतित्वादि तदेव भवतीति लभ्यते । तेन मवे हितं गोहितमित्यवादेशो न भवति । सद्विधावचत्वमात्राश्रयणात् । तस्य च प्रत्ययाप्रत्ययसा. धारण्यात् । अथात्र नलुमतति निषेधः । तर्हि मुयशा इत्यत्र विसर्जनीयस्य सः स्यात्, सुवाडित्यादौ खरिचेति चा स्यादिति दिक् । इमागमे तु हलादौ सार्वधातुकइति प्रत्यय एव प्राधान्येनाश्रीयतइति वैषम्यम् । तस्माद्वर्णप्राधान्ये प्रत्ययलक्षणं नास्ति प्रत्ययप्राधान्ये त्यस्तीति विवेकः। अनेनैव न्यायेन न धातुलोप इत्यत्र धातुलोप इति बहुव्रीहिणैव सिद्धे आर्द्धधातुकग्रहणसामर्थ्यात्तत्त्वेन निमित्तता लभ्यते । तेन धिन्विकृण्व्योर्विचि लोपोव्योति वलोपस्य वल्लिमित्तत्वातत्रार्द्धधातुकतया विचो निमित्तत्वाभावाद् गुणो भवत्येव । तेन सुधे सुधेनौ । मु
धेनः । सुकः सुकौँ सुकर्ण इत्यादि भवति । पठन्ति च । • सुधे सुधेवारिवधात्सुराणां सुकारणे लाघवतश्च रामः । विशेषणे द्वे य इहादिकर्तुर्वेदेदधीती स हि कैयटीयइति । न च तोतोत्यादिव्यावृत्त्या आर्द्धधातुकग्रहणस्य सार्थक्यात्कथं साममिति वाच्यम् । यङ्लुकश्छान्दसत्वात् । भाषाविषयकपक्षे स्वार्द्धधातुकग्रहणमावर्त्य सामर्थ्यमुपपादनीयम् । नन्वेतत् कितिक्त्येतत्सूत्रस्थभाष्येण सह विरुद्धम् । पूर्वस्मिन्योगे यदार्चपातुकग्रहणं तदनवकाशामिति तत्रोकत्वादिति चेन्न । अना
Page #331
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः । स्थया तथोक्तत्वादित्याहुः । तदपष्टम्भेमात्र विजेवानभिमत इत्येव किं न स्यादिति चिन्त्यम् । किपि तु ऊन् । तेन धिनः धि. न्वौ धिन्वः कृणूः कृण्वौ कृष्व इति भवति । सुधी सुधिनौ सु. धिनः सुकीः सुकृणौ सुकृण इत्यादि तु न भवत्येवेत्याहुः । यक्लुको भाषाविषयत्त्वे आर्द्धधातुकग्रहणस्य तोतोर्तीत्यत्र चारितार्थ्यादावृत्तौ च मानाभावाइ गुणनिषेधप्रवृत्त्या सुधी सुधिनावित्येवास्तु । कृणोतेस्तु दीर्घ सुकीः सुकीर्णौ सुकर्णि इत्यादि भवत्वित्यपि चिन्त्यम् । नन्वेवं परिवीरित्यत्र तुग्दीर्थों पर्यायेण स्याताम् । अनेनैवोभयविधाने पौर्वापर्याभावेन विप्रतिषेधेपरमित्यस्याप्रवृत्तेः । सत्यम् । शास्त्रातिदेशस्य व्यपदेशातिदेशस्य वाश्रयणाददोषः । यद्वा । सति प्रत्यय यत्कार्य भ. वितुमर्हति तदेवातिदिश्यतइति परिवीयेत्यादाविव परिवीरित्यत्रापि दीर्घ एव भवति न तु तुगिति कार्यातिदेशेप्यदोषः । भाष्यकारास्त्वाहुः । तृणहइमर्थ तावन्नेदं सूत्रम् । स्थानिवत्सूत्रेणैव गतार्थत्वात् । न चाविधिरयम् । हलीत्यस्य निवर्तनात् । न चैवं तृणहानीत्यत्रापीम् स्यादिति वाच्यम् । नाभ्यस्तस्याचीत्यतो ऽचि नेत्यनुवर्तनात् । नाप्याशीरित्यत्र शासइदहलोरितीत्वाथमिदम् । आशासः कावुपसंख्यानेनैव सिद्धः। तद्धि त्वयापि वाच्यम् । शासइद हलोरित्यत्र शासिमात्रग्रहणमिति पक्षे नियमार्थ, माशासः कावेव यथा स्यात् । आशास्ते इत्यादौ मा. भूदिति । यस्माच्छासेरङ् विहितस्तस्यैवाङ्साहचर्यादित्वविधौ ग्रहणमिति पक्षे यथा आशास्ते इत्यादौ न भवति तथा किप्यपि न स्यादिति विध्यर्थम् । तस्मात्प्रत्ययलोपे सति प्रत्ययलक्षणमेवेति नियमार्थमिदं सूत्रम् । प्रत्ययाप्रत्ययसाधारण रूपमाश्रित्य यत्कार्य विधीयते तन्नित्तिःफलम् । तेन शोभना दृषदोस्य प्रासादस्य सुह
Page #332
--------------------------------------------------------------------------
________________
३३२
शब्दकौस्तुमः । [१ अ. षताअत्र सोमनसीअलोमोषसीति सूत्रेण सुशब्दात्परस्य मन्नन्तस्यासन्तस्य चोत्तरपदस्य बहुव्रीहौ विधीयमानमायुदात्तत्वं न भवति । अत्र हि लुप्तेपि जसि स्थानिवद्भावेनासन्तमुत्तरपदमस्त्येव । किन्त्वस् इति रूपं प्रत्ययामत्ययसाधारणम् । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्तीति वक्ष्यमाणत्वात् । अतो नियमेनाद्युदात्तव्यावृत्तिः सिद्धा। तथा च नञ्मुभ्यामित्यन्तोदात्तं पदं भवति । इदन्त्ववधेयम् । न केवलं स्वरार्थमेवेदं सूत्रम् । किन्तूक्तोदाहरणएव प्राप्नुवन्नत्वसन्तस्येत्युपधादी?पि उक्तनियमेनैव व्यावर्त्यः । वार्तिकमते तु उक्तस्वरस्य दीर्घव्यावृत्तेश्च सिद्धये उपायान्तरमन्वेषणीयमिति । ननु यदि नियमार्थ सूत्रं तर्हि पञ्चेत्यत्र प्रत्ययलक्षणेन पदत्वमिति वृत्तिः कथं योज्या । एवं समासत्वात्मातिपदिकत्वम्, स्नु. क्रमोरिती, उभयप्राप्तीकर्मणीतीकर्मणि षष्ठीत्यादयोपि तत्रतत्रा भियुक्तग्रन्थाः कथं योज्या इति । अत्रोच्यते । योस्माकं नियमविधिः स मीमांसकरीत्या परिसंख्याविधिरिति तावत्स्पष्ट विवरंणादौ । तत्र दोषत्रय,स्वार्थहानि, परार्थपरिकल्पना, प्राप्तवाधथति । तच्च यद्यगत्या सद्यतइति पक्षस्तदा नियमविधनिषेध एवार्थः । प्रत्ययलक्षणशब्देन तद्भिग्नं लक्ष्यते । भवतीत्यनेन तु ' न भवतीति । तथा च स्थानेन्तरतमसूत्रे भाष्यम्, नानेनान्तरतमा निवर्त्यन्ते अपि तु अनन्तरतमा निवर्त्यन्ते इति । अत एव वार्तिककारोपि वक्ष्यति । उभयप्राप्तौ कर्मणीति प्रतिषेधे ऽकादिप्रयोगे ऽप्रतिषेध इति ।अस्मिन्पक्षे उभयप्राप्ताविति परिशेपिता षष्ठीत्यादिक्रमेण व्याख्येयं न तु विहितति । यदि तु दोपत्रयगौरवपरिहारार्थ प्रत्ययलक्षणसूत्रं यथाश्रुतं व्याख्याय, अ. खएन ज्ञापकात् स्थानिवत्सूत्रस्य प्रत्ययलोपेतरविषयकता क-'
Page #333
--------------------------------------------------------------------------
________________
१ पा. ९
आ.
शब्दकौस्तुमः ।
ल्प्यते सामान्यपुरस्कारप्रवृत्तस्य शास्त्रस्य विशेषतात्पर्य हि त्व. यापि कल्प्यमेव । अन्यथा विकल्पापत्तेः । भाट्टमतेनतौ पशौ करोतीत्यत्र यथा । पदे जुहोतीत्यादिभिराहवनीयविधेरिव विशेषविधिना सामान्यविधेः संकोचसम्भवाच्च । न चैवं सामान्यस्य विशेष उपसंहारापत्तिः । सामान्यशास्त्रप्रणयनवैय्यापत्तेः । वेदे तु न कश्चित्प्रणेता येनैवं पर्यनुयुज्यतेति चतुर्दाकरण. स्याग्नेये उपसंहारो मीमांसायामभ्युपेतः । कल्पसूत्रकारास्तु तत्रापि व्युत्था एव । तथा च भगवता कात्यायनेन सूत्रितम्, अविशेषादुभौ वेति । एवं च सामान्यशास्त्रस्य विशेषलक्षणाया उभयवाच्यत्वात्तयैवोपपत्तौ दोषत्रयं न सोढव्यमिति पक्षस्तदोदाहतग्रन्थाः सम्यगेव । नैयायिकमते तु तात्पर्यसंकोचस्थले लक्षणा नास्त्येवेति निर्विवादम् । विशेषधर्मप्रकारकबोधस्योदेश्यतायामेव तदभ्युपगमात् । सामान्यप्रकारकस्य विशेषविशेष्यकस्यापि लक्षणां विना निर्वाहादिति सुधीभिराकलनीयम् ॥
न लुमताङ्गस्य ॥ लुमता शब्देन प्रत्ययलोपे सति प्रत्ययलक्षणमङ्गस्य कार्य न स्यात् । वार्तिकमते पूर्वसूत्रप्राप्तस्यायं निषेधः । भाष्यमते तु स्थानिवत्सूत्रप्राप्तस्य । नियमविधीनान्तात्पर्यसङ्कोचकत्वमात्रं न तु निषेधकतेति प्रागुक्तरीत्या तु भाष्यमतेपि पूर्वसूत्रेण प्राप्तस्यायं निषेध इत्यवधेयम् । एवमपि । गर्गाः । मृष्टः । जुहुतः । इह यशपोलमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः। लुमतेति किम् । कार्यते । हार्यते । णेरणिटीति णिलोपे कृते णिजपेक्षा वृद्धिर्भवत्येव । अमार्द । हल्ङ्यादिलोपे नित्यत्वात्कृतेपि वृद्धिः। अङ्गस्यति किम् । पञ्च । सप्त । अत्राङ्गस्योत स्वयते। तेनाङ्गाधिकारो गृह्यते । स्वरितेनाधिकार इति वचनादिति वा
Page #334
--------------------------------------------------------------------------
________________
'
A
'
३२४
शब्दकौस्तुमः । [१ अ. विककाराः । भाष्ये तु इदं दूषितम् । तथाहि । एवं सति उकामेत्यत्रातोहेरिति हेर्लुकि कृते क्रमः परस्मैपदष्विति दीर्घो न स्यात् । तथा जिगमिषेत्यत्र गमेरिदपरस्मैपदेवितीन स्यात् । तथा विवृत्सेत्यत्रनवृदयश्चतुर्य इतीनिषेधो न स्यात् । तस्मानलमतेत्यत्र नाङ्गाधिकारः प्रतिनिर्दिश्यते। किन्तु लुमतालुप्ते प्रत्यये य. दन्तस्याङ्गमनाच सर्व प्रतिषिध्यतइति । न चैवमुक्तदोषतादवस्थ्यमिति वाच्यम् । उत्क्रामत्यत्र लुप्तं परस्मैपदम्। तदपेक्षया य दङ्गं शवन्तं न तस्य दीर्घो विधीयते, किन्तु क्रमेः। स तु शपंप्रत्यङ्गन तु लुप्तं प्रतीति निषेधाप्रवृत्तौ प्रत्ययलक्षणेन दीर्घमवृत्तेः । एवं जिगमिष विवृत्सेत्यत्रापि इटो विधिप्रतिषेधौ भवत एव । तौ हि लुमता लुप्ते परस्मैपदे यदङ्ग सन्नन्तं तस्य न क्रियते किन्तु सकारादेः प्रत्ययस्य । सचांग नेति स्पष्टमेव । स्यादेतत् । पक्षद्धयेपिजिनत्यादिनित्यं, कितः, पथिमतोः सर्वनामस्थानइति त्रिसूत्र्या विधीयमानाः स्वरा लुकि कृतपि प्राप्नुवन्ति । तथाहि । गर्गाः विदाः । यसोलुक् । उष्ट्रग्रीवाः । इवेप्रतिकृताविति कनो देवपयादिभ्यश्चति लुप् । ततो नित्यादिरित्यायुदात्तता पामोति । तथा अपत्यानि अत्रयः । इतश्चानित्र इति ढकोऽत्रिभृगुकुत्सेत्यादिना लुक् ।ततः कितस्तद्धितस्यान्त उदात्तों भवतीत्यन्तोदात्तता प्राप्नोति । सा हि प्रत्ययग्रहणे तदन्तग्रहणाचद्धितान्तस्य विधीयते । न च सिद्धान्तपि फिदस्वरेणान्तोदात्ततया भाव्यमेवेति वाच्यम् । राशदिभ्यां त्रिप्, अदेत्रिनिश्चेत्युणादिसूत्रेण ह्यदेवकारानुकृष्टे त्रिप्प्रत्यये तस्य पित्त्वेनानुदात्तत्वादायुदात्तो त्रिशब्दः । तथा च प्रयुज्यते । अत्रेरित शृणुतं पूर्वस्तुतिम्, यथा शृणोरत्रे कर्माणि कृण्वत इति तथा ढको लुक्यप्यायुदात्त एवं प्रयुज्यते । अत्रीणांसोममद्रिव इति ।
Page #335
--------------------------------------------------------------------------
________________
१ पा. ९१ आ.
शब्दकौस्तुभः ।
३३५
अत्रीणां शृणुतं हवमिति च । त्रिनप्रत्ययान्तस्त्वन्तोदात्तो नकारान्तश्चेत्यन्यदेतत् । सोपि प्रयुज्यते । दूरे वा ये अन्ति वा के चिदत्रिण इति । तथा, पन्थाः प्रियो यस्य पथिप्रियः मथिप्रियः । सुपोधाविति सोलुकि पथिमयोः सर्वनामस्थानइत्याद्युदात्तता प्राप्नोति । न ह्येषा त्रिसूत्री अङ्गाधिकारस्था येन नलुमतेति निषेधः प्रवर्त्तेत । नाप्येतद्वस्तुताङ्गस्य कार्यम् । सुप्तिङन्तमिति पदसंज्ञावदुक्तस्वराणां प्रत्ययान्तकार्यत्वात् । नन्वस्तु कित इति तथा इतरत्तु द्वयं निति सर्वनामस्थान इति सप्तमीनिर्देशाद्वस्तुतोङ्गस्य कार्यम्भवत्येवेति चेन्न । निदन्तस्यादेरित्यादिक्रमेण प्रत्ययातस्यैव तद्विधानात् । सौवय्र्यः सप्तम्यस्तदन्तसप्तम्य इति सिद्धान्तात् । एतच्च भीहीभृहूमदजन धनदरिद्राजागरां प्रत्ययात्पूर्व पितीति पूर्वग्रहणेन ज्ञाप्यतइति तत्रैव भाष्ये स्पष्टम् । अत एवोपोत्तमं रितीत्याद्युदात्वमाहवनीयइत्यादौ रिददन्तस्योपोत्तमे नीशब्दस्येकारे प्रवर्त्तते चङयन्यतरस्यामिति च चङन्तस्य । न चैत्रं चतुरश्रासीत्युदात्तत्वं शसन्तस्य स्यात्तथा च षट्त्रिंशांश्च चतुरः कल्पयन्त इत्यादौ चतुर इति पदं मध्योदात्तमिष्यमाणं न सिद्धयेदिति वाच्यम् । तत्र शसग्रहणसाम - र्थ्यात्तदन्तसप्तमीत्ववाधात् । इतरथा ह्यूडिदम्पदायप्पुम्रै द्युचतुर्भ्य इत्येव ब्रूयात् । तत्र सर्वनामस्थानग्रहणानुवृत्तेः शस एव भविष्यति । षत्रिचतुभ्यो॑हलादीरीति हलावे: सिद्धान्तेप्युदात्तविधानात् । न चैवं स्वरविधिषु षष्ठयेव निर्दिश्यतामिति वाच्यम् । रितश्चङ इत्याद्यपेक्षया रिति चङीत्युक्ता वर्द्धमात्रालाघवसम्भवेन सप्तमीप्रयोगादिति । अत्रोच्यते । अङ्गाधिकारनिर्देशपक्षे तावदुक्तदोषपरिहाराय वार्त्तिकमारभ्यते । लुमतिप्रतिषेधे एकपदस्वरस्योपसंख्यानम् । सर्वामन्त्रितसिज्लुक् स्वर
Page #336
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः। [१ भ० वर्जमाप्रयोजनं मिनिकिल्लुक्स्वरापथिमयो सर्वनामस्थाने लुकीति। अस्यार्थः। लुमति लुमत्संज्ञया प्रतिपादिते ऽदर्शने यः प्रतिषेधः तस्मिन्नेकपदाश्रयो यः स्वरस्तस्योपसंख्यानम् । प्रत्ययलक्षणेन प्राप्तोप्येकपदस्वरो न भवतीत्यर्थः । पदद्वयाश्रयस्तु स्यादेव । यथा दधि तिष्ठतीत्यत्र पदस्य पदादित्यधिकृत्य विहितस्तितिङ इति निघातः। अत्र हि दधीत्यस्य पदसंज्ञार्थप्रत्ययलक्षणमपेक्ष्यते। तथा इह तिष्ठत्यादौ तिङन्तत्वलाभायापि। नन्वेसर्वस्तोमोतिरात्र इत्यत्र सर्वस्य सुपीत्यायुदात्तत्वं न स्यात् । तथा सर्पिरागच्छ सप्तागच्छतेत्यत्रामन्त्रितस्य चेति षाष्ठमाद्युदात्तत्वं न स्यात् । तथा मा हि दातां मा हि धातामित्यत्रादिः सिचोन्यतरस्यामित्याघुदात्तत्वं न स्यादित्यत आहासर्वेत्यादि।इदं स्वरत्रयं विहाय स्वरान्तरे प्रतिषेध इत्यर्थः। न च सर्वस्तोम इत्यत्र बहुव्रीहौ प्रकृत्यापूर्वपदमिति पदद्वयस्वरोयमिति वाच्यम् । सर्वस्यसुपीति यदायुदात्तत्वं तस्यैव ह्यनेन प्रकृतिभावमात्रं कर्तव्यम् । तथा च तत्प्राप्तिरवश्योपपादयितव्येति भावात् । न च सर्पिश्शब्दस्यामन्त्रितस्वरं विनाप्यायुदात्तता लब्धं शक्या । अचिंशुचिहुसूपिछादिछर्दिभ्य इत्यौणादिके इसि प्रत्यये कृतेन्तोदात्तत्वात् । अव्यु. त्पत्तिपक्षेपि फिट्स्वरेण तथात्वात् । नच नविषयस्येत्याधुदात्तः । अनिसन्तस्येति पर्युदासात् । कैयटेन तु सर्पिःशब्दस्य घृतादित्वं किमर्थ कल्पितमिति चिन्त्यम् । ननु सप्तशब्दः सप्यशूभ्यांतु.
चेति कनिनन्तो व्युत्पादितः । तथा च नित्वादायुदात्तः । अ. व्युत्पत्तिपक्षेपि तथैव । न:संख्याया इति वचनादिति चेत् । न । उभयथापि घृतादित्वेनान्तोदात्तत्वात् । तथा च प्रयुज्यते । सप्त युञ्जन्ति रथमेकचक्रमिति । इह सिज्लुग्ग्रहणं मास्तु । गातिस्छेत्यत्र सिग्रहणसामर्थ्याल्लाकि स्वरः सिद्धः । अन्यथा हि
Page #337
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः लाघवार्थ छलेरेव लुकं विदध्यात् । एवं बभूदपादित्यादिसिद्धये ऽस्तिसिचोपृक्तइत्यत्र सकारान्तरप्रश्लेषक्लेशोपिनाश्रयणीय इति । न चैवं च्लेलुकि आत इति सूत्रं विध्यर्थमेव स्यान्न तु नियमार्थ तथा च तत्र लनिवृत्तये लिलुकीति वक्तव्यं स्यादिति विप. रीतगौरवापत्तिरिति वाच्यम् । डिन्त इत्यनुवन्यैव लटो व्युदस्तत्वात् । तस्मात्सर्वामन्त्रितस्वरवर्जमित्येवावश्यकम् । वार्तिकारम्भस्य प्रयोजनमाह । प्रयोजनमिति । बिनिशब्दयोरिकार उच्चारणार्थः सुतियोरिति वत् । एते स्वरा निवर्त्तमानतया प्र. योजनमित्यर्थः । प्रयोजनान्तरमाह । पथिमथोरिति । तदेवं व. चनबलेन त्रिसूत्र्या ऽतिव्याप्तिरुद्धर्तव्यतीह सूत्रे स्थितम् । वस्तुतस्तु नैतदर्थ वचनं क्रियते ज्ञापकालेनैव बिदा गर्गा इत्यादेः सिद्धत्वात् । तथा च संज्ञायामुपमानमिति सूत्रे वार्तिकम् । उपमानस्यायुदात्तत्वचनं ज्ञापकमनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्येति । अस्मिंश्च पक्षे पथिमथोः सर्वनामस्थाने लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वचनमेव कर्त्तव्यम् । न ह्ययमनुबन्धलक्षणः स्वरः, येनोक्तज्ञापकवलेन वार्येत । न च स्वरमात्रविषयकं ज्ञापकमिति वाच्यम् । आमन्त्रितस्वरसिज्लुकस्वरयोरसिद्धिप्रसङ्गात् । न चैवमपि सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं न भवतीति ज्ञाप्यतामिति वाच्यम् । सर्वस्तोम इ. त्यत्रायुदात्तासिद्धिप्रसङ्गात् । यद्वा । अस्तु सप्तमीनिर्दिष्टस्वरविषयकमेव ज्ञापकम् । सर्वस्य सुपीति सप्तमीमपनीय सुप इ. ति षष्ठी पाठ्या । तथा च पथिस्वरार्थ वचनं नारम्भणीयम् । निकित्स्वरार्थ तूभयथापि नारम्भणीयमिति सर्व सुस्थम् । पक्षद्वयमपीदं संज्ञायामुपमानमिति सूत्रे भाष्यकारैः स्पष्टमुक्तम् । तदयं निर्गलितोर्थः । त्रिसूत्र्यां शङ्कितस्यातिव्याप्तिदोषस्य
Page #338
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ. वचनेनोद्धारमापातत उक्त्वा ज्ञापकनैवैष्टसिद्धिरिति निष्कर्षांने कृतः इति । एतच्च समाधानमङ्गाधिकारो निर्दिश्यतइति पक्ष इव वस्तुतोङ्गस्य यत्कार्यामति निष्कृष्टपक्षपि तुल्यम् । अत एव संज्ञायामुपमानमिति सूत्रे भाष्यकारैः पक्षद्वयसाधारण्येनैवोक्तज्ञापनवार्तिकं योजितम् । प्रकृतसूत्रस्थभाष्यकैयटयोस्तु निष्कृष्टपक्षे उक्तदोषप्रसङ्ग एव नास्तीति लभ्यते । तत्रेत्थमाशयमभियुक्ता वर्णयन्ति । ज्ञापकं द्विविधम् । सामान्यापक्षं विशेषापेक्षं च । तत्र यदा भीड़ीत्यत्र पूर्वग्रहणेन यत्र सप्तम्यर्थपक्षे तदन्तग्रहणपक्षे च फलभेदः तत्रैव सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति ज्ञाप्यते । यथा भीड़ीत्यत्रैव पूर्वग्रहणाभावे तदन्तस्य कार्य त्वे प्रत्ययान्तानां म्यादीनामुदात्त इत्यलोन्त्यपरिभाषया प्रत्ययान एवोदात्तः स्यात् । सप्तम्यर्थाश्रयणे तु पितमपहाय भ्यादीनामेवोदात्तः स्यादिति स्पष्टः फलभेदः । तथोपोत्तमं रिति, चङयन्यतरस्यापित्यत्रापि । नित्यादिनित्यं पथिमथोः सर्वनामस्थानइत्यादौ तु नास्ति फलभेदः ! तदन्तस्य हि कायित्वे प्रकृत्यादेरेवोदाचत्वं निदादिपूर्वस्यापि कार्यित्वे तथैचेति । तथा च तत्र सौवर्य इत्यस्याप्रवृत्त्या तदन्ताकार्यित्वादुक्तदोषस्याप्रसङ्ग एवति । संज्ञायामुपमानमित्यत्र भाष्यकैयटा. दिग्रन्थास्तु सामान्यापेक्षं ज्ञापकमाश्रित्य योजयितव्या इति । अत्रय इत्यत्र तु स्वरो न भवति । लुकि कृते कार्यिणो ऽभावात् । प्रत्ययलक्षणं हि यदन्यस्य कार्य तत्प्रत्ययलोपेपि भचति, न तु प्रत्ययस्यैव यत्कार्य तदपि । न च प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं स्यादिति वाच्यम् । येन विधिरिति सूत्रेणैव तल्लाभस्य वक्ष्यमाणत्वात् । विशेषणविशेष्यभावे च कामचारात् । नन्वेवमपि स्थानिवत्सूत्रेण स्यादेवोदात्ततेति चेन्न ।
Page #339
--------------------------------------------------------------------------
________________
१ पा. ९ आ.
शब्दकौस्तुभः ।
३३८.
लोपस्याभावरूपतया तदीयान्तस्य तदुदात्ततायाश्च बाधात् । अत एव हि अभूदित्यादौ लुप्तस्य सिचो नेट् । न ह्यभावस्य भावोवयवः सम्भवति । भाष्यमते ऽनल्विधाविति निषेधाच । किविजादीनां तु नेड्वशीतीनिषेधो ऽप्यस्ति । न चैवं नखनिर्भिन्ने रेस्प्रसङ्गः । तस्यापि लुकापहारादिति दिक् । वस्तुतो यदङ्गमिति व्याख्यानाद्राजपुरुष इत्याद्यपि निर्वाध भ संज्ञाया निषेधेनाल्लोपाभावात् । सुबन्तत्वप्रयुक्त पदसंज्ञाया नलोपाच्च । तथा अहर्ददातीत्यत्र रेफोपि सिद्धः । असुपीति निषेधो हि वस्तुतोङ्गस्य कार्यमिति नेह प्रवर्त्तते । अङ्गाधिकारनिर्देशे तु प्रवासौ । अत एवाही रविधाविति वचनमारभ्यते । न चासुपीति वचनसामर्थ्यात्प्रत्ययलक्षणेनासुपीति निषेधो नेति वाच्यम् । दीर्घाहो निदाघ इत्यादौ हल्ङयादिलोपेपि रेफापतेः । एतेनासुपीति पर्युदासमाश्रित्याहर्ददातीत्यत्र दाधातोः सुभिन्नस्य सत्वाद्रेफ इत्यपि कल्पनमपास्तम् । दीर्घाहो निदाघ इत्यत्रातिप्रसङ्गात् । यद्यपि रुत्वरत्वयोरसिद्धतया पूर्व न लोपे कृते ऽकारस्यैव सत्त्वरत्वे प्राप्नुतस्तथापि रुत्वरत्वयोर्विपये नलोपो नेष्यते । रुत्वरत्वो भयारम्भसामर्थ्यात् । नह्यकारस्य रौ रे वा विशेषोस्ति । न च सम्बुद्धौ नलोपनिषेधाद्धे अहर्गच्छ हे दीर्घाहो निदाघेत्यत्र चरितार्थता । एवमपि रूपरात्रीतिरुत्वस्य वैयथ्यापत्तेः । नन्वेतदपि सम्बोधने चरितार्थमिति चेत्सत्यम् । अहनित्यावयैकेन नलोपोभावनिपातनात्सिद्धाम ति दिक् । स्यादेतत् । परमवाचा परमगोदुहा परमलिहा परमदण्डिना परमदिवा परमकुमार्येत्यत्रान्तर्वर्त्तिनीं विभ क्तिमाश्रित्योत्तरखण्डस्य पदसंज्ञा स्यात् । ततश्च चोः कुः, दादेतो: होढः, नलोपः प्रातिपदिकान्तस्य, दिवउत्, इकोस
.
Page #340
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः ।
[ १ अ० वर्णशाकल्यस्य स्वश्चेत्येते विषयः प्रसज्येरन् । न च भसंज्ञया प्रसंज्ञाया बाधः । भिन्नावधिकत्वात् । भसंज्ञा हि समस्तस्य प्राप्ता पदसंज्ञा तूत्तरखण्डस्य । अत्र भाष्यम् । भसंज्ञासूत्रे सुप्तिङन्तमिति सूत्रात्सुबन्तमित्यनुवर्त्तनीयम् । तदयं सूत्रार्थः । यजादौ सर्वनामस्थाने परे यस्मात्प्रत्ययविधिस्तथाभूतः पूर्वः समुदायो भसंज्ञो भवति । तदवयवभूतं सुबन्तं यद्यस्ति तर्हि तदपि भसंज्ञं स्यात् यजादावनन्तर इति । इह च समुदायस्य भसंज्ञा प्रधानशिष्टा । अवयवस्य त्वन्वाचयशिष्टा कर्तुः क्यङ्सलोपश्चेतिवत् । तेन राज्ञ इत्यादौ सुबन्तावयवाभावेपि भवति, सुबन्तावयवसत्वे तु तस्य समुदायस्य चेत्युभयोरपि भवतीति विवेकः। नन्वेवमपि परमवाचौ परमवाच इत्यादौ भत्वाभावात्पदकार्य स्यादेवेति चेन्न । तत्र भत्वाभावेप्य सर्वनामस्थानइति पदसंज्ञानिषेधात् । स्वादिष्वसर्वनामस्थानइत्यत्रापि हि सुबन्तमित्यनुवर्तते । प्रसज्यप्रतिषेधश्चायम् । तत्सामर्थ्यादनन्तरस्य विधिति न्यायो नाश्रीयते । तदयमर्थः । सर्वनामस्थाने परतः पूर्वः समुदायः पदं न स्यात् । तदवयवभूतं सुबन्तं च पदं न स्यादिति । तत्र समुदायस्य स्वादिष्विति प्राप्ता अवयवस्य तु सुबन्तमिति प्राप्ता पदसंज्ञानेन निषिद्धेति परमवाचावित्यादि सिद्धम् । नन्वेवं सुवाक् सुराजेत्यादौ कुत्वादि न स्यात् । सावपि समृदायस्यावयवस्य च प्राप्तयोर्द्वयोरपि पदसंज्ञयोनिषेधादिति चेन्न । असर्वनामस्थान इत्यत्रोत्तरसूत्राद्यचीत्यपकृष्य य जादौ सर्वनामस्थाने उभयविधपदसंज्ञानिषेधात् । सौ तु द्विविधा - पि पदसंज्ञा भवत्येव । नन्वेवं श्रूयमाणे सौ पूर्वस्य पदसंज्ञा स्यादिति चेत् । इष्टापत्तेः । नन्वेवमेचो ऽप्रगृह्यस्यादूराद्धूतेपूर्वस्यार्द्धस्यादुत्तरस्येदुताविति सूत्रे भद्रङ्कोष गौरित्यत्रातिप्रस
Page #341
--------------------------------------------------------------------------
________________
१ पा. ९. आ. शब्दकौस्तुभः । ३४१ ऊं वारयितुं पदान्तग्रहणं कर्त्तव्यमिति वार्तिककृता वक्ष्यमाणं विरुध्येत । क्रियमाणेपि पदान्तग्रहणे दोषतादवस्थ्यादिति चेन । तत्रान्तग्रहणमात्रं कृत्वा वाक्यस्य टेरित्यतो वाक्यग्रहणमनुवय वाक्यान्तस्येति व्याख्यानसम्भवात् । तदेवं समासे चरमभागस्य पदसंज्ञा यजादौ कापि नास्तीति स्थितम् । क्व चिनिषेधारक चित्तु भत्त्वेन बाधादिति विशेषः । नन्वेवं दूरान्मुक्तमित्यादावलुङ् न स्यात् । होता पोतारावित्यत्रानङ् न स्यात् । उत्तरपदे तद्विधानादिति चेन्न । उत्तरपदशब्दस्य समासोत्तरावयवे रूढतया पदसंज्ञाविरहेपि तत्मवृत्तेः । सर्वान्तएव चेयं रूढिः । तेन होतृपोतनेष्टोद्गातार इत्यत्र मध्यमानामुत्तरपदत्वाभावात्ततः पूर्वस्यानङ् नेति दिक् । नन्वेवं दधिसेचौ दधिसेच इत्यत्र सात्पदाद्योरिति षत्त्वनिषेधो न स्यादिति चेन्न । पदादादिः पदादिस्तस्य षत्त्वं नेति व्याख्यानात् । न चैवं रामेषु हरिष्वित्यत्रापि निषेधः स्यादिति वाच्यम् । स्वादाविति या पदसंज्ञा तामुपजीव्य पदादेति निषेधाप्रवृत्तेः । एतच्च सा. प्रतिषेधेन ज्ञाप्यते । उक्तं च पदादादेर्नेत्येव व्याख्यानं न तु पदस्यादेरिति । तथा सति गतिकारकोपपदानामिति सुबुत्पत्तेः प्रागेव समासे दधिसे गित्यादौ षत्वस्य दुरितापत्तेः । नन्वेवमपि बहुसेचौ बहुसेच इत्यत्र षत्वं स्यादेव । बहुचो ऽपदत्त्वेन पत्वप्रतिषेधाप्राप्तरिति चेत् । सत्यम् । वचनमेवेह कर्त्तव्यम् । बहुपूर्वस्य नेति । अत्रायं सूत्रन्यासः । सातेः सः, षत्वं न स्यात् । ततः बहुच्पदाभ्याम् । आभ्यामुत्तरस्य सस्य षत्वं न स्यात् । आदिग्रहणं न कर्त्तव्यम् । तस्मादित्युत्तरस्येत्येव सिद्धेः। तदिदं बहुग्रहणमादिग्रहणेन निमातव्यमिति । वार्तिके तूतरपदत्वे चापदादिविधाविति वचनेनैव परमवाचेत्यादि साधि
Page #342
--------------------------------------------------------------------------
________________
३४२
शब्दकौस्तुभः। [१ ० तम् । उत्तरस्य समासोत्तरभागस्य पदत्वे कर्त्तव्ये लुमता लुप्ते प्रत्ययलक्षणं न स्यात् । अतोन कुत्वादि । पदादिविधौ तु प्रत्ययलक्षणं स्यादेव । तेन षत्वनिषेधादधिसेचत्यादिसिद्धिः । अस्मिंश्च पक्षे प्राक् सुबुत्पत्तेः समासोत्र नाभ्युपगन्तव्यः । ध. नक्रीतेत्यादिसिद्धये तस्यानित्यताया वक्ष्यमाणत्वात् । कैयटस्त्वाह. दध्नः सेचाविति विग्रहे षष्ठीति समासः न त्वयमुपपदसमासः। सोपपदात्तु विज् नास्ति । अनभिधानात् । अतो दधिषेचावित्यादि न भवत्येव । अस्मिन्नपि पक्षे बहुपूर्वस्य चेति वचनं. कर्तव्यमेव । कृते हि बहुचि विशिष्टस्यार्थवत्वेन प्रातिपदिकत्वे सुपो लुकि च कृते पुनर्विशिष्टात्सुबन्तरमुत्पद्यतइत्यर्थवत्सूत्रे वक्ष्यते। तत्रान्तर्वतिनी विभक्तिमाश्रित्य प्राप्तं पदत्वं तत्कृत्त्वादौ कतव्ये मा भूत, षत्वनिषेधएव यथा स्यादिति । अत्रायं निष्कर्षः । पूर्वसूत्रे एव स्थित्वोत्तरपदत्वे च पदादिविधौ बहुचपूर्वस्यचेति पाठ्यम् । पदादिविधावेव प्रत्ययलक्षणं भवति न तु पदान्तविधाविति नियमार्थ चेदं वचनद्वयमिति व्याख्येयम् । ए. वं च नञ् न कर्त्तव्य इति लाघवम् । अस्मिन्पक्षे सौ पदत्त्वं नास्ति । प्रागुक्तकुसृष्टेरभावात् । तदेतत्पक्षद्वयमभिप्रेत्य ह. लङयादिसूत्रे भाष्यकारैरुक्तम् । अथ सावाप पदं भवति । एवमप्युभयतस्पाशा रज्जुरिति । नन्वङ्गाधिकारग्रहणपक्षे वस्तुतोङ्गस्येति पक्षे चाभूवन्नित्यत्र जुस् प्राप्नोतीति चेत् । सत्यम् । आत इति नियमान भवति । ननु देवदत्तं याजयाश्चकारेत्यत्र लुकं बाधित्वा परत्वात्तिवादिषु कृतेष्वाम इति तेषां लुकि प्रत्ययलक्षणेन तिङन्तत्त्वादामन्तस्य निघातः स्यात्ततः परस्य च न स्यादिति चेन्न । लावस्थायामेव येन नाप्राप्तिन्यायेन तिवादीन्बाधित्वा लुक्महत्तेः । तदुक्तम् । आमिसिलोपा
Page #343
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः ।
३४३ त्तस्य चानिघातस्तस्माच्च निघात इति । ननु देवदत्तो यु. मत्पुत्र इत्यादौ षष्ठयन्तस्य विधीयमाना युष्मदस्मदोरादेशाः प्राप्नुवन्तीति चेत् । सत्यम् । स्थग्रहणान भवन्ति । न च विभक्तौ परतः पूर्वभागमात्रस्य मा भूत्किन्नु विभक्तिविशिष्टस्येत्येतदर्थ स्थग्रहणं स्थादिति वाच्यम् । षष्ठीचतुर्थीद्वितीयानामिति निर्देशनापि गतार्थत्वात्सर्वस्य पदस्येत्यनुत्तेश्च । तस्माद्विभक्तिलोपे कृते मा भूदित्येतदर्थमेव स्थग्रहणम् । अवस्थानं हि श्रूयमाणास्वेव संभवति । यद्वा । तिष्ठतिरहानौ वर्तते । यथा समये तिष्ठ मुग्रीवति । समयं माहासीरित्यर्थः । तथा चापरित्यक्तविभक्तिकयोरित्युक्त्या श्रयमाणविभक्तिकत्त्वं स्पष्टमेव लभ्यते । इदन्त्ववशिष्यते । वस्तुतोङ्गस्येति सिद्धान्ते चिणो लुगिति तलोपे कृते हनिणिङादेशा न स्युः । अवधि भवतादस्युः । अगायि भवता ग्रामः । अध्यगायि भवतानुवाक इति । लुङि परतो ह्येते विधीयन्ते इति चेत् । मैवम् । लुङि यदार्द्धधातुकं तत्र हान णिङादेशविधानात् । तस्माद्वस्तुतोङ्गस्येति पक्षो निर्दुष्ट इति स्थितम् ॥ __ अचोन्त्यादि टि ॥ अच इति निर्धारणे षष्ठी । जातो एकवचनम् । अचां मध्ये योन्त्यस्तदादिशब्दरूपं टिसंज्ञं स्यात् । टिप्रदेशाष्टित आत्मनेपदानां टेरित्यादयः। पचते । पचेते इ. त्यादि । अन्ते भवोन्त्यः । दिगादित्वाद्यत् । अन्त्य आदियस्यति बहुव्रीहिः । नित्यसापेक्षत्वात्समासः॥ .. अलोन्त्यात्पूर्व उपधा ॥ अन्त्यादलःपूर्वो वर्ण उपधासंज्ञः स्यात् । उपधागुणः। चेतति । च्योतति । वर्द्धतइत्यादीननु पूर्वस्याविशेषितत्वाच्छासिधातौ शाइति समुदायस्य संज्ञा स्यादिति चेत् । अस्तु । नचैवं शासइदब्हलोरितीत्वंशा. इति समुदायस्य स्यादि.
Page #344
--------------------------------------------------------------------------
________________
३४४
शब्दुकौस्तुभः ।
[ १ अ०
ति वाच्यम् । अलोन्त्यपरिभाषयेष्टसिद्धेः । स्यादेतत् । नानर्थ:केलोन्त्यविधिरनभ्यासविकारेष्विति निषेधः प्राप्नोति । इह च बिभर्त्तीत्यत्र भृञामित् अन्त्यस्य यथा स्यादित्येतदर्थमनभ्यासविकारेष्वित्युक्तम् । विकारो नाम वर्णात्मक आदेशः । अत एव देहीत्यत्र लोपः सर्वादेश एव भवतीति । अत्रोच्यते । नता-वदेषा परिभाषा सूत्रकृतः सम्मता । तस्यलोप इति सूत्रे ञिटुडूनां सर्वलोपार्थं तस्य ग्रहणात् । नापि भाष्यकारस्य सम्मता । एतत्प्रयोजिनानामन्यथोपपत्तेर्भाष्ये उक्तत्वात् । तथाहि । अव्यक्तानुकरणस्येति तावदन्तादेशो न भवति । नाम्रेडितस्यान्त्यस्य तुवेति ज्ञापकात् । इतरथा ह्याम्रेडितस्य वेत्येव ब्रूयात् । घ्वसोरेद्धावित्य - त्रापि लोपोयीति प्रकृते पुनर्लेपग्रहणसामर्थ्यात्सर्वादेशः । तथा चेत्थं सूत्रन्यासः । घोरभ्यासस्य लोपः । लोपशब्दान्तरस्यानुवृत्त्या सर्वलोपः स्यात् । अस्तेश्चैत् । अस्तेर्घोश्चैद्भवति हाविति । अथवा लोपश् इतिच्छेदः । संज्ञायां कृतो ऽनुबन्धः संज्ञिनि फलति यथा ङमृटि । भाष्ये तु द्विशकारको निर्देश इत्युक्तम् । तत्र लोप इति भिन्नं पदम् । श् इत्यस्य चोपदेशएवेत्संज्ञा तत्फलं तु प्रयोगे । सर्वत्रानुबन्धानां काकादिवदनवयवीभूयैव व्यावर्त्तकत्वादिति भावः 1 अस्मि अपि पक्षे झाले परे यः संयोगस्तदादित्वात्सोर्लोपे एकशकारक एव पाठः सुवचः । स्पष्टार्थमन उपधालोपिन इत्यादाव - कारस्येवेहापि सकारस्य लोपो मास्त्विति तु भाष्याश यः । आभ्यामित्यादौ हलि लोप इति सूत्रेणाककारस्येदम इदो विधीयमानो लोपोपि तर्ह्यन्त्यस्य स्या दिति चे. न 1 अनायक इति सूत्रादनित्यनुवर्त्य तस्य हलीति सप्तम्या षष्ठीं प्रकल्प्य अन एव लोपविधानात् । तथा च त
-
Page #345
--------------------------------------------------------------------------
________________
१ पा. ९ आ. " शब्दकौस्तुमः पालोन्त्यपरिभाषया नकारलोपे अतोगुणइति पररूपे च कृते आध्यामेषामित्यादि सिद्धम् । अत्रलोपोभ्यासस्यति सूत्रेपि अत्राभ्यासत्वाश्रये न तु तदेकदेशइति व्याख्यानादत्रग्रहणसामात्सर्वलोपः । यद्यपि सनीत्यपेक्षितं ददौ दधावित्यादिवारणाय, सादाविति च जिज्ञपयिषत्येितद्वारणाय, प्र. कृतयोपि पिपक्षतीत्यादिवारणाय, विषयोप्यपोक्षतः मुचोऽकर्मकस्यगुणावोत मुमुक्षतिगामित्यादिवारणाय तथापीदं सर्वमनवृत्त्यैव सुलभमिति सर्वलोपार्थमेवात्रग्रहणं बोध्यम् । नन्वेवमपि विभाषाभवद्भगवदघवतामोच्चावस्येति वार्तिकेन विधीयमान ओकारोन्त्यस्य स्यादिति चेन्न । वस्योति सिद्धे अवस्येति गुरुकरणसामर्थ्यात्सर्वादेशसिद्धेः । तस्मान्नानर्थक इति परिभाषा निष्फला सूत्रभाष्यासम्मता चोत स्थितम् । एचञ्च शासेः शाशब्दस्योपधात्वेपि शिष्ट इत्यादि सिध्यति । संयोगोपधग्रहणं कृअर्थमित्यादिव्यवहाराश्चास्मिन्पक्षे संगच्छन्तइति दिक् । यद्वा । अवध्यवधिमद्भावः सजातीयानामवेत्युत्सर्गः । लोके ह्यमीषां ब्राह्मणानामन्त्यात्पूर्वमानयेत्युक्ते एक एवाऽन्त्यादव्यवहितपूर्व आनीयते न तु समुदायः । एवं चेहाप्यलो ऽव्यवहितपूर्वोऽलेव संज्ञी न तु समुदायः, न वा व्यवहितोल् । संयोगोपधव्यवहारस्तु भाक्तः । अवयवधर्मस्य समुदाये उपचारात् । एवं स्थिते ऽल इति जसन्तमपि सुबचम् । जात्याख्यायामिति बहुवचनम् । पूर्वे इत्यपि जसन्तम् । अन्त्योप्यलेव साजात्याल्लभ्यते । यद्वा । अल इ ति निर्धारणे षष्ठी । जातो चैकवचनम् । अलां मध्ये ऽन्यात्पूर्व इत्यर्थः । तथा चेहाल इति जस्ङसिङस् वेति पक्षत्रयमपि स्थितम् ॥
Page #346
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः ।
[ १ अ०
तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ सप्तमीनिर्देशेषु पूर्वस्यैष काये स्वात्तस्य निर्दिष्टे व्यवहितोच्चारिते सतीत्यर्थः ॥ निःशदो नैरन्तर्ये दिशिरुवारणक्रियः । निरन्तरं दिष्टो निर्दिष्टः । नियमार्थमिदं सूत्रम् । तथाहि । इकोयणचीत्यत्राचीति य: स्वच भावनभावलक्षणापीति सप्तमी । अश्रूयमाणक्रियत्वावास्तरङ्गस्यास्त्यर्थस्य लाभः । तेनाचि सति यण् भवतीत्यर्थः । यद्वा गङ्गायां घोष इतिवदौपश्लेषिके ऽधिकरणे सप्तमी तत्र सत्वं परस्येव पूर्वस्यापि सम्भवति । एवमुपश्लेषोपि । तत्र युगपदेकस्य कार्यित्वनिमित्तत्वयोरसंम्भवाद्दध्युदकं मध्विदमित्यादाविकारोकारयोः पर्यायेण यण प्राप्तः पूर्वस्यैवे - त्रि नियम्यते । तथा अग्निचिदत्रेति व्यवहितस्यापि यप प्राप्तः, अनन्तरस्यैवेति नियम्यते । ननु गवित्ययमाहेत्यादौ स्वरूपपदार्थकता मितिशब्दः करोति तथेहापि एवं च तस्मिमणीत्यत्रैवेयं परिभाषा प्रवर्त्तेत । अस्ति हि तत्र व्यंवच्छेद्यम् । हे यौष्माकीण अस्मभ्यं देहि हे आस्माकीन यु
भ्यं ददामीत्यादौ खवणभ्यां परस्याप्यादेशप्रसङ्गसत्त्वात् । सत्यम् । इतिकरणः पदार्थविपर्यासकृत् । लोके ऽर्थपरता - या औत्सर्गिकत्वात्तत्र शब्दपरतां करोति । शास्त्रे तु विप रीतम् । किञ्च यदि तस्मिन्नणीत्यत्रैवेयं प्रवर्त्तेत तर्हि तत्रैव पूग्रहणं कुर्यात् । तस्मान्नेदं तस्मिन्नित्यनुकरणम् । किन्त्वचि हलीत्यादिसकलविशेष संग्रहार्थं स्वतन्त्रस्य सर्वनाम्नोयं निदेशः । तस्यापत्यं तत्रभव इत्यादिवत् ॥
२४६
तस्मादित्युत्तरस्य 11 पञ्चमीनिर्देशेषूत्तरस्यैव कार्य स्यात्तच्चाव्यवहितोच्चारिते । तिङ्ङतिङः । अग्निमीळे । इह न भवति । ईळे ऽग्निम् । इह कारकविभक्ते
+
Page #347
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुमः । रसम्भवादिग्योगलक्षणा पश्चमी । तत्र दिक्शब्दो ऽध्याडियमाणा उत्तरशब्दवत्पूर्वशब्दोप्यविशेषादध्याहियेत । व्यवहितोपि च गृह्येत । तथा चोत्संस्थाता इत्यत्राप्युदः स्थास्तम्भोरित्यस्य प्रसङ्गः । तदेवं पूर्वसूत्रमेतत्सूत्रं चेति द्वयमपि नियमार्थमिति स्थितम् । तथा च वार्तिकम् । तस्मिंस्तस्मादिति पूर्वोत्तरयोयोगाविशेषानियमार्थ वचनं दध्युदकं पचत्योदनमिति । इहापि तस्मादिति स्वतन्त्रस्य सर्वनाम्नो निर्देशः प्राग्वत् । न त्व. नुकरणम् । तथाहि सति यद्यपि तस्मान्नुइद्विहल इत्यत्रात आदरिति दीर्घात्पूर्वस्याङ्गस्यासम्भवात्प्रयोजनाभावान्नैतत्परिभाषोपस्थितिस्तथापि तस्माच्छसोनः पुंसि तस्मान्नुडचीति योगद्वये स्यात् । उच्चरत आनुपलभते गौरनश्व इत्यादेावर्त्यस्य तत्र सम्भवादिति दिक् । स्यादेतत् । एतत्सूत्रं नियमार्थमस्तु । पूर्वसूत्रमप्यौपश्लेषिकसप्तमीपक्षे नियामकमस्तु । सत्सप्तमीपले तु नियामकत्वमयुक्तम् । षाष्ठभाष्यकैयटविरोधात् । तथाहि । श्नान्नलोप इत्यत्र भाष्यम् । नैषा परसप्तमी । का तर्हि, सत्सप्तमी ङिति सतीति । तथा तत्रैव कैयटः। कथं पुनः सम्भव. त्यां परसप्तम्यां सत्सप्तम्याश्रयितुं युक्ता । यथेष्टं वाक्याध्याहाराददोषः । डिति सतीत्येव हि विज्ञायमाने पौर्वापर्यानाश्रयणान्नास्ति तस्मिनित्यस्याः परिभाषाया उपस्थानम् । यदा ह्यौपश्लेषिके ऽधिकरणे सप्तमी तदा किं पूर्वस्य कार्यमथ परस्येत्यनियमे नियमाय परिभाषोपस्थानमिति । अत्रोच्यते । पाष्ठग्रन्थस्य प्रकृतमात्रपरत्वादविरोधः । तथाहि । नान्नलोप इति सूत्रे शकारवतो ग्रहणं मास्तु नादित्येवास्त्विति प्रश्ने नन्दनादावतिप्रसङ्ग इत्युत्तरितम् । अनिदितामित्यस्यानुकर्षणे तु हिनस्तीत्यत्र न स्यात् । ततः कङितीत्यनुवर्त्य नममेव डिन्तः ।
Page #348
--------------------------------------------------------------------------
________________
३४८
शब्दकौस्तुमः । [१० माश्रित्य हिनस्तीत्यत्र लोपोस्त्विति शङ्कयते । यदि चास्यामवस्थायान्तस्मिमिति परिभाषोपतिष्ठेत तदानन्दमानादौ चानशो ङित्त्वाल्लोपः प्रवर्तेत । नमः शित्करणं चानर्थकं स्यात् । तद्धि शित्वात्सावधातुकतया ङितमिममेवाश्रित्य हिनस्तीत्यत्र नलोपे क्रियमाणे सार्थकं न त्वन्यथा । नन्वार्द्धधातुकसंज्ञानिवृत्त्या शित्वं सार्थकम् । तस्यां हि सत्यामनक्ति भनक्तीत्यत्रातो लोप: स्यात् । रुणद्धि भिनत्तीत्यत्र गुणः स्यात् । तृणेढीतीडागमः स्यात् । नेड्वशीति तु न प्रवर्तते अकृत्त्वादिति चेन्न । नमः पूर्वभागस्यानङ्गतयोक्तविधीनामप्राप्तेः । कथमनङ्गतति चेद । इत्थम् । प्रत्ययविधौ यत्पञ्चमीनिर्दिष्टं धातोः प्रातिपदिकादित्यादि तदादि तस्मिन्प्रत्यये परतोगमिति हि सूत्रार्थः । इह तु यत्पञ्चमीनिर्दिष्टं रुधादिभ्य इति नास्मात्मत्ययः परः । यस्माच्च परः पूर्वभागानासौ तस्मिन्विधीयमाने पञ्चमीनिार्दछः । अत एव भनक्तीत्यादावतोदी?यनीति न प्रवर्तते । न च नसोरल्लोप इत्यत्र विशेषणार्थ शित्करणं स्यादिति वाच्यम् । नसोरल्लोप इत्युक्तेपि दोषाभावात् । नन्वेवं नान्तास्त्योर्ग्रहणं स्यात् । तथा च कनेयेलुकि चकान्त इत्यत्रापि स्यादिति चेम । सिद्धान्तपिश्नप्रत्ययसान्तयोर्ग्रहणापत्तौ वस्त इत्यादावतिमसङ्गसाम्यात् । साहचर्यात्मत्ययधात्वोग्रहणमिति तु तुल्यम् । ननु नसोरल्लापे इत्युच्यमाने यत्र नप्रत्ययस्य ङित्यानन्तर्य तत्रैव भविष्यति यत्न इवाचरतः यत्नतः पामनत इति । मैत्रम् । अनुवर्तमानेन सार्वधातुकग्रहणेन प्रत्ययो विशेष्यते । तथा च विध्यसंस्पर्शानिर्दिष्टपरिभाषानुपस्थितौ निमित्तसप्तमी । साबंधातुकनिमित्तस्य नमत्ययस्यास्तेश्वाल्लोपः ङित्यनन्तरइति । ननु चातउत्सार्वधातुकइति सूत्रे सार्वधातुकग्रहणं प्रत्याख्यातमि
Page #349
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः । ति चेन्न । सति शित्त्वे प्रत्याख्यानात् । तदेवं श्नमः शित्त्वकरणसामोत् डिन्तीति सत्सप्तम्यामपि परिभाषा नोपतिष्ठतइति स्थितम् । पूर्वपक्षत्वादनास्थया तथोक्तमिति वा वर्णनीयम् । इह मूत्रद्वये षष्ठीप्रक्लप्तिपक्षोपि भाष्ये स्थितः । तथाहि । षष्ठीस्थानेयोगेति सूत्राषष्ठीत्यनुवर्त्तते सप्तम्यर्थनिर्देशे पूर्वस्याव्यवहितस्य षष्ठी स्यात् । पञ्चम्यनिर्देशे उत्तरस्याव्यवहितस्य षष्ठी स्यादिति । तत्रेकोयणचीत्यादौ सूत्रएव षष्ठीश्रवणात्तां षष्ठीमनूय पूर्वस्यानन्तरस्यैषा न तूत्तरस्य न वा पूर्वस्यापि व्यवहितस्येत्येतावन्मात्रमुच्यते । आनेमुगित्यादौ तु षष्ठया अश्रवणात्सापि प्रकल्प्यतइति विशेपः। सा चानियतयोगत्वात्स्थानषष्ठी यस्य च स्थानषष्ठी तस्यैव कार्यनियम इति सोप्यात्सिद्धयति । यत्र तूभयनिर्देशस्तत्रोभयं तावन्न प्रकल्पकं कार्यित्वनिमित्तत्वयोरेकत्र युगपद. सम्भवाज्ज्ञापकाच्च । तथा चैकः पूर्वपरयोरिति सूत्रे कैयटः । सूत्रद्वयप्रमाणत्वाद् द्वे भवेतां प्रकल्पिके । षष्ठया विभक्ती तेनात्र ज्ञापनार्थत्वमाश्रितामति । न च पर्यायेणोभयकल्पनम् । अ. तुल्यबलत्वात् । तथाहि । आनेमुगित्यत्र सप्तमीनिरवकाशा सा पूर्वत्र चरितार्थाया अतोयेय इति पञ्चम्याः षष्ठी कल्पयति । एवमीदास इति पञ्चमी आन इति सप्तम्याः , तथा तास्यनुदात्तेत्सूत्रे अभ्यस्तसिजर्थ सार्वधातुकइति सप्तमीनिर्देश वक्ष्यति सा च सप्तम्युत्तरत्र चरितार्थेति तस्या एव पष्ठी कल्प्यते । तथा बहोर्लोप इत्यत्र बहोरिति पञ्चमी अकृता. र्थाया इष्टेमेयःस्विति सप्तम्याः षष्ठी कल्पयति । अत एव भूचबहोरिति पृथक् षष्ठीनिर्देशः । तथा गोतोणिदिति पञ्चमी सर्वनामस्थानइति सप्तम्याः षष्ठी कल्पयति । गोशन्दस्य
Page #350
--------------------------------------------------------------------------
________________
३५०
शब्दकौस्तुभः ।
[ १ अ०
णित्त्वे प्रयोजनाभावाच्च । न च तिष्ठति गौरित्यादौ पूर्वस्य वृद्धिः फलमिति वाच्यम् । गोशब्दं प्रति तिष्ठतेरनङ्गत्वात् । एवं प्रायेण पञ्चम्या अकृतार्थतति भाष्ये स्पष्टम् । आमिसनाम्नः सुडित्यत्रापि पञ्चम्यनवकाशा | आमीति सप्तमी तूत्तरार्थतया सावकाशा । यदि त्विह आदित्यनुवृत्तया पञ्चम्या सामानाधिकरण्यं सम्पाद्य सर्वनाम्न इति पञ्चम्यपि कृतार्थेति ब्रूयात्तर्हि यथोद्देशपक्षाश्रयणेन परत्वात्तस्मादित्युत्तरस्येति भविष्यति । तदुक्तम् । उभयनिर्देशे विप्रतिषेधात्पंचमीनिर्देश इति । वस्तुतस्तु नेह सामानाधिकरण्यम् । वर्णाश्रमेतराणा मित्यस्य सिद्धये सर्वनाम्नो विहितस्येति व्याख्यानात् । येषां तेषामित्याद्यर्थमकारात्परस्येति व्याख्यानाच्च । दीर्घा - च्छे तुग्भवतीत्यत्र तु षष्ठ्याः स्थाने पञ्चमी । तेन दीर्घ-, स्यैव तुग् भवति न तु छकारस्य, सुराच्छायेति निर्देश चेह लिङ्गम् । अन्यथा हि खरिचेति चर्चेन सुराच्चायेति चकारद्वयं निर्दिशेत् । प्रत्ययविधौ तु पञ्चम्यो न प्रकल्पिकाः । षष्ठया अनुवादविभक्तित्वात् । अप्रसिद्धस्य चानुवादासम्भवात् । तत्वानियमाप्रसङ्गेन नियमकारिण्याः परिभाषाया अप्रवृत्तश्चेति दिक् ॥
स्वं रूपं शब्दस्याशब्दसंज्ञा || शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना । अग्नेर्दक् । आग्नेयम् । आहो यमहनः । आयच्छते । आइते । इह अग्नि आङ् यम् छन् एषामेतत्सूत्रोपात्तानां प्रयोग समवायिनस्त एव संज्ञिनः । अशब्दसंज्ञेति किम् । उपसर्गे घोः किः । दाधाभ्यो यथा स्यात् । बुधातोः शब्दार्थान्मा भूत् । शब्दः, शब्दशास्त्रं तत्र । संइति सप्तमीसमासः । न तु शब्दस्य संज्ञेति । कर्म करण
7
Page #351
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः । ३५१ मित्यादिष्वर्थसंज्ञास स्वरूपग्रहणापत्तेः । स्यादेतत् । रूपनहणं विनापि स्वशब्देन तदेव ग्रहीष्यते । प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वादन्तरङ्गत्वानियतोपस्थितिकत्वाच्च । अर्थो हि प्रतीतो सम्बन्धग्रहणमपेक्षते साधारणश्च । पर्यायैरपि प्रत्यायनात् । बहिरङ्गश्च पदज्ञानजन्यबोधविषयत्वात् । अनियतोपस्थितिकश्चानुकरणदशायामप्रतीतेः । तत्किं रूपग्रहणेनेति चेत् । अत्राहुः । इह शास्त्रे अर्थोपि विवक्षितो रूपवदि. ति ज्ञापनार्थ रूपग्रहणम् । तेनार्थवद्ग्रहणे नानर्थकस्येत्युपपन्न भवति । तत्रोक्तज्ञापकादर्थो ग्राह्यः स्वरूपमिति वचनाद्रूपंचेति सामादर्थवतो रूपस्य ग्रहणम् । तेन काशे कुशे इत्यत्र शेइति प्रगृह्य संज्ञा न भवति । एतत्सूत्रं भाष्ये प्रत्याख्यातम् । तथाहि । आरभ्यमाणेपि सूत्रे पशुरपत्यं देवता प्राञ्च उदञ्चो भरता इत्यादयस्तावल्लोकवदर्था एवं गृह्यन्ते । अ. ग्नेगित्यादौ तु शब्द एव ग्रहीष्यते । अर्थस्य प्रत्ययेन पौर्वापर्यासम्भवात् । छ्याप्प्रातिपदिकादित्यधिकाराच्च । उपसर्गे घोः किरित्यादौ तु घुधातुर्न ग्रहीष्यते । दाधावित्यारम्भात् । उक्तं हि । व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्व चिदिति। अर्थवद्रहणपरिभाषापि ब्रश्वादिसूत्रे राजिं पठिखा पुनर्कीजिपाठात्सिद्धा न्यायासिद्धा च । अग्नेगित्यादौ हि शब्दविशिष्टस्यार्थस्योत्सर्गत उपस्थितौ विशेष्ये कार्यवाधाद्विशेषणीभूते शब्द पवर्तमान कार्यमुपस्थितार्थोपहितएव न त्वनर्थकेपि । अर्थस्य विशेषणविशेष्यभाषव्यत्यासमात्रेणोपपत्तौ सर्वात्मना त्यागायोगात् । गौणमुख्यन्यायोप्येतन्मूलः गौणस्य प्रथमतो ऽनुपस्थितेः । एतेनाभिव्यक्तपदार्था यइत्यपि व्याख्यातम् । तस्मान्न्यायत एव सकलनिर्वाहे सूत्रं नारम्भणीयमिति । ननू
Page #352
--------------------------------------------------------------------------
________________
३५२ . शब्दकौस्तुभः। [१ अ० सरत्र चतुःसूत्र्यामनुवृत्तये स्वरूपमित्यवश्य वाच्यमेवेति चेन्न । अनुवृत्तेरनावश्यकत्वात् । तथाहि । अणुदित्सूत्रे तावत्वस्यापि स्वसावण्योदेव सिद्धम् । कथमन्यथा अवत्तामित्यत्र - रोझरीति लोपः । तत्र व्यक्तिभेदात्सावण्येमिति चेत्, इहापि बोध्यबोधकव्यक्तयोर्भेदात् । तथा तपरस्तत्कालस्येत्यत्रापि । आदिरन्त्येनेत्यत्राप्यादिग्रहणावृत्त्या सिद्धम् । आवृत्ती लिज तु नादिचीत्यादि । येनविधिरित्यत्र तु वार्तिककारस्तस्य चेति वक्ष्यत्येव । वस्तुतस्तु तदपि न वाच्यम् । व्यपदेशिवद्भावेनैव सिद्धेः । अप्रातिपदिकेनेति तु तत्रैव प्रत्याख्यास्यामः । अत एव येनविधिस्तदाधन्तत्वे प्रयोजनमित्याधन्तवत्सूत्रस्थं वार्तिकं सङ्गच्छतइति दिक् । सित्तद्विशेषाणां वृक्षाद्यर्थम् । अत्र सिदित्युपलक्षणं किञ्चिल्लिङ्गमासज्य इत्थंलिङ्गा विशेषाणां संक्षेति वक्तव्यं, तच्च लिङ्गं वृक्षादावासजनीयमित्यर्थः । एवमप्रेपि । तेन विभाषावृक्षमृगति सूत्रे विशेषाणामेव ग्रहणात्प्लान्यग्रोध प्लक्षन्यग्रोधा इति सिद्धयति । पित्पर्यायवचनस्य च स्वाद्यर्थम् । चकाराद्विशेषाणां स्वरूपस्य च ग्रहणम् । स्वेपुषः। रैपोषं पुष्टः । अश्वपोषम् । स्वपोषम् । जित्पर्यायवचनस्यैव राजाद्यर्थम् । सभाराजामनुष्यपूर्वा । इनसभम् । ईश्वरसभम् । नेह राजसभा । हरिश्चन्द्रसभा । पर्यायेण यो वक्ति स हि पर्यायवचनानच स्वस्य स्वेन सह विकल्पः। नापि विशेषेण,सामान्यविशेषयोभिन्नमकारकबोधजनकतया तुल्यार्थत्वाभावात् । तुल्यार्थास्तु विकल्पेरनिति न्यायात् । इनशब्दो राजशब्दपर्याय इत्यादिव्यवहारास्तु भीमो भीमसेन इतिवत् । झित् तस्य तद्विशेषाणां च मत्स्याद्यर्थम् । पक्षिमत्स्यमृगान्हन्ति । मात्सिकः शाफरिकः । पर्यायवचनानां न । अनिमिषान् हन्ति । मी
Page #353
--------------------------------------------------------------------------
________________
१५.१ आ. नस्येष्यतइति भाष्यम् । मैनिकः । मृगपक्षिणोस्तु पिनिर्देश: कर्तव्यः । तेन स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणमिति व्याख्यातारः । इह वृक्षादौ राजादौ च न्यायेनैवाभिमतं. सिध्यतीति तत्रैव वक्ष्यते । इतरत्तु सर्व वाचनिकमेवेत्यवधेयम् ।। __ अणुदित्सवर्णस्य चाप्रत्ययः॥अत्राण परेण णकारेणेत्युक्तम् । अणुदिच्च सवर्णस्य संज्ञा स्यात् विधीयमानं विना । चकारात स्वरूपस्य । अस्य च्वौ । शुक्ली स्यात् । माली स्यात् । एरनेकाचो ऽसंयोगपूर्वस्य । चिच्यतुः । निन्यतुः । ऋदोरप् । यवः । स्तवः । लाः । पवः । उरणपरः । कर्ता । किरति । न चैवम् ऋदोरप् इस्वान्तेभ्यः कृत्रादिभ्योपि स्यादिति वाच्यम् । दीर्घोच्चारणवैयापत्तेः । नन्वेवमप्यष्टनआवि. भक्तावित्यत्र सवर्णग्रहो दुर्वारः । नहि तत्रापि सामर्थ्यम् । इस्वो
चारणे ह्यर्धमात्रिकस्य मात्रिक एव यथा स्यादिति दीर्घग्रहणस्योभयार्थतोपपत्तरिति चेन्न । अप्रत्ययइति निषेधात् । दी. Cणामनणत्वेन सवर्णग्राहकता नास्तीति प्रागेवोक्तत्वाच्च । ननु दीर्घाश्चेदनणस्तर्हि कारको हारक इत्यादौ रपरत्वं न लभ्येतेति चेत् । भ्रान्तोसि । नहि दीर्घाः काप्यणग्रहणेन नोपस्थाप्यन्तइति ब्रूमः । किन्तु ग्रहणकशास्त्रे तदुपजीव्येषु वर्णोपदेशादिषु च, इतरत्र तु वाक्यापरिसमाप्तिन्यायानवतारादस्त्येवाणग्रहणेन दीर्घग्रहणमिति तत्त्वम् । उदित् । कुहोश्चुः । चकार । जगाद । अप्रत्यय इति निषधस्तु उगित्सु न प्रवर्त्तते उगित्करणसामर्थ्यात् । अत एवाहुः । भाव्यमानोण सवर्णान्न गृहातीति । तुक् लुक् नुक् तुडादयस्तु नोदितः। प्रतिज्ञानुनासिक्याः पाणिनीया इत्यभ्युपगमात् । अप्रत्यय इति किम् । विधीयमानानां प्रत्ययागमादेशानां सवर्णग्राह
Page #354
--------------------------------------------------------------------------
________________
३६४
शब्दकौस्तुभः। [१ अ. कत्वं मा भूत् । अतइ,इदमइश, आर्द्धधातुकस्येड्, भुवोवुक, अमसम्बुद्धौ । इह हि सर्वत्रोपदेशइति वचनात्सूत्रान्तर्गतेध्वेव इनादिशब्देष्वित्संज्ञा प्रवर्त्तते । लोपस्तु तत्रानुपूव्याहाधितोपि पदस्वरूपपर्यालोचनायां प्रवृत्तः । ततः स्वरूपमित्ति संज्ञावलात् ज्ञायमाना पदार्थोपस्थितिरनुबन्धविनिमुक्तस्यैव भवति । तथा चोपस्थापकस्याणत्वात्सवर्णग्रहणं प्राप्तं निपिंध्यतइत्युचितम् । अत एव चतुर्दशसूत्र्यामुच्चारणार्थस्याकारस्येवेत्संज्ञाकानामपि णकारादीनां लण्मध्याकारस्य च पदपालोचनायामेव लोपश्च बलवत्तर इति न्यायेनापहारादितरान्तर्भावणैव संज्ञा प्रवर्त्ततइति सिद्धान्तः । इदं चालोन्त्यात्पूर्वउपधेति सूत्रे तस्मिन्नितिनिर्दिष्टइत्यत्र च कैयटग्रन्थे स्पष्टम् । इद् अक इकोचीत्यादौ सानुबन्धाद्विभक्तिस्तु प्राथमिकबोधे विशिष्टस्य विषयतया तस्यैवार्थवत्वमादाय । अन्यो हि पश्चादुपतिष्ठते न तु प्रयुज्यतइति कथं ततो विभक्तिः क्रियताम् । इत्संज्ञाकार्य त्वानर्थक्यात्तदङ्गेष्विति न्यायेन प्रत्याव्ये प्रवर्तते । विभक्तयर्थान्वयोप्येवम् । दृष्टं हि ङमुडादावुपस्थापके कृतस्य लिङ्गस्य तद्बोध्ये फलप्रवर्तकत्वमिति दि. क । स्यादेतत् । उक्तरीत्या उदोष्ठयपूर्वस्येति सूत्रे उच्छब्द प्रवृत्ता इत्संज्ञा लक्ष्ये तित्स्वरं प्रवर्तयेदिति चेत् । सत्यम् । अत एवैतत्समाधानाय पूर्वाचार्यैः पराक्रान्तामति गृहाण । कथं तहि एओसूत्रे तदुषणाय प्रवृत्तमिति चेत् । तत्कालाबधारणेन कृतार्थस्य तकारस्यानुबन्धान्तरवैषम्यादिति गृहाण। अत एव वैयाकरण इत्यत्र ऐचश्चित्स्वरो न भवति । पचस्वति शपोप्येवम् । नय्वाभ्यामिति सूत्रे अचः परस्य द्वे इत्यत्र च ऐचोश्चकारस्य प्रत्याहारे उपक्षयात् । यद्वा । इञिशादिष्वपि
Page #355
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुमः । मास्तु सूत्रान्तर्गतेष्वित्संज्ञा, किं तु फलपत्यासत्तेः पदार्थेष्वेव सास्तु । नैते उपदिष्टा इति ,न ते फलभाज इति तुल्यम् । सामर्थ्यात्परंपरासम्बन्धे फलमिति चे,त्संज्ञापि तत्रैवास्तु सा. मादिति तुल्यम् । उपदेशेन्त्यत्वं हि प्रायोगिकेष्वसम्भवात्तत्प्रत्यायकनिष्ठमानुपूर्वीसाजात्यादाश्रीयते । न चैतत्तपरेष्वस्ति । प्रत्याय्ये तकाराभावादिति दिक् । प्रकृतमनुसरामः । भाव्यमानोप्युकारादेशः सवर्णान् गृह्णाति । ऋतउदिति तपकरणाल्लिं. गात्। तेनामुना अमूभ्यामित्यत्र इस्वस्य इस्वो दीर्घस्य दीर्घः सिद्धयति । न चैवं सनाशंसेत्युप्रत्ययोपि सवर्ण गृह्णात्विति वाच्यम् । आदेशविषयकं ज्ञापकमित्युक्तत्त्वात् । यद्वा । अदसोसेरिति सूत्रएव उश्च ऊश्चेति समाहारद्वन्द्वोस्तु । अत एव सोलुका निर्देशः कृतः । अत एव च ऊदुपधाया इति सू. त्रे गोह इति विकृतनिर्देशं प्रत्याख्यातुं भाष्यकारैरुकारान्तरमश्लेष उक्तः । नन्वेवमप्यकः सवर्णइत्यत्र अकारो ऽष्टादशानां ग्राहकोस्तु अणत्वात् । अस्तु च स एव इकारादीनामपि ग्राहक आदिरन्त्येनेत्युक्तेः, ईकारादयस्तु कथं ग्राह्याः। नहि तद्वाचकः शब्दस्तस्मिन्सूत्रे उपात्तोस्ति । नन्वकशब्देन इकारादयोप्युपस्थिता इति चेत्तार्ह वाक्यार्थे ते नयन्तु नाम पदार्थसंसर्गस्य वाक्यार्थत्वात् । न तु तेपि स्वार्थोपस्थापका, अनुच्चारितत्वादित्युक्तम् । अत एव ऋचं वेत्तीत्यादौ शब्दावशेषं वेत्तीत्येवार्थो न तु तदर्थ वेत्तीति । तदुक्त वार्तिककृता । तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात् । इस्वसम्पत्ययादिति चेदुच्चार्यमाणसम्प्रत्यायकत्वाच्छब्दस्यावचनमिति । शब्दस्य प्रतीयमानस्य । अवचनम् । अर्थाप्रतिपादकत्वामित्यर्थः । अत्रोच्यते । प्रत्याहारग्रहणे सर्वत्र
Page #356
--------------------------------------------------------------------------
________________
२५६
शब्दकौस्तुमः । [१ . स्ववाचवाच्ये विरूढा लक्षणा दीर्घाज्जसिचेति ज्ञापकात् । म थमयोः पूर्वसवर्ण इत्यत्र हि अक इत्यनुवर्तते । न चाक्शब्दपाच्यो दीर्घोस्ति योस्य निषषस्य विषयः स्यात् । नन्वाकारोस्तीति चेन्न । नादिचीत्यनेनैव तत्र निषेधसिद्धः । षादीनामित्यादिनिर्देशा अपीह लिङ्गम् । नन्वेवमिकोयणचीति सूत्रे ईदातोहणं न स्यात् । युगपत्तिद्वयविरोधात् । तथा च मुध्युपास्यो दध्यानयेत्यादि न सिद्धयोदिति चेन । सति तात्पर्ये युगपद्वातिद्वयस्य स्वीकारे बाधकाभावात् । इह चानया इत्यादिनिर्देशानां तात्पर्यग्राहकत्वात् । यदि तु प्रा. चां मते श्रद्धावशायुगपद्धत्तिद्वयं नाभ्युपैषि, तहाँह ईदातोरपि इगच्छब्दयोर्लक्षणैवास्तु । स्ववाच्यहस्ववाच्यत्वाविशेषात् । स्ववाच्यतापि परमस्तीत्यन्यदेतत् । नन्वेवमपि शरीरमित्यादौ शकारस्य स्थानसाम्यायकारादेशः प्रामोति । इकारवाज्यो हि दीर्घः तत्सवर्णश्च शकार इति तस्यापीग्ग्रहणेस ग्रहण्यत् । तथा शीतलमित्यादावपि यष्प्रसङ्गः, दीर्घः परं न भवति । अक्शब्दवाच्यवाच्यताया दीर्चे विश्रान्त्यातत्सम्बन्धग्रहे माना भावादिति । अत्रोच्यते । भवेदयं शकारस्य यकारादेशरूपो दोषः । यदि स्ववाच्यसवर्णे लक्षणां वदाम । वयन्तु स्वघाच्यवाच्ये सत्येव ब्रूमः । न च ईकारः शकारस्य वाचकः । दीCणामनणत्वेन सवर्णाग्राहकताया असकृदावेदितत्त्वात् । भाज्यमते त्वज्झलोः सावर्ण्यमेव नास्तीत्युक्तम् । तदयमिह निर्गलितोः।अकाराष्टादशानां संज्ञा । एवमिदुतौ । ऋल इत्येतो तुम योपसन्दौ त्रिंशतः संज्ञे। ऋलवर्णयोः सावर्ण्यस्योपसंख्यातत्वात्, अलसूत्रे ऋत्यक इति प्रकृतिभावदर्शमेनैव शापितत्वाद्वा । न च तुल्यव्यक्तिकसंज्ञाद्वयप्रणयनवैयर्थ्य, तदर्थमिह सूत्रान्तरायणर
Page #357
--------------------------------------------------------------------------
________________
३५७
१ पा. ९ आ. शब्दकौस्तुमः । . नात् । एचस्तु द्वादशानां संज्ञाः । यवला द्वयोः । रहौ तु स्वस्यैवेति । यद्यपि हकार आकारस्य संज्ञेति प्राप्तं तथापि तपरिहाराय नाज्झलावित्यत्रैव यत्नः कृतो न विस्मर्तव्यः । वार्तिककारास्त्विहाण्ग्रहणं प्रत्याचख्युः । तन्मते ऽस्यच्चावित्यादौ जातिनिर्देशात्सिद्धम् । अनुवाद्यविशेषणस्य च ह्रस्वत्वस्य ग्रहैकत्ववदविवक्षा । विधिप्रदेशे तु पश्वेकत्ववद्विवक्षेति सर्वेसिद्धिः । यद्यप्यस्मिन्पक्षे ऋकारेण लकारग्रहणं दुःसाध्यं तथापि ऋलक्सूत्रोक्तरीत्या समाधेयमिति दिक् ॥
तपरस्तत्कालस्य ॥ तः परो यस्मात्स तपरः । तात्परोपि तपरः। द्विविधोप्ययं स्वसमानकालस्य ग्राहकः स्यात् । तेन अत् इत् उदिति षण्णां संज्ञाः । ऋदिति द्वादशानाम् । अत एवोपसर्गादतिधातावित्यत्र सावात् लवर्णस्य ग्रहणन्तपरत्वादीर्घ नेति सिद्धान्तः । पञ्चमीसमासोदाहरणन्तु वृद्धिरादै. जिति । इह हि संज्ञायां कृतं तात्परत्वं संज्ञिनोः फलति ङमुट. ष्टित्वमिवेत्युक्तम् । परम्परासम्बन्धेन लाक्षणिकस्य स्मारकतेति पक्षे तु न कश्चिदोषः । आदेङ्गुण इत्यत्राप्येवं सिद्धम् । तत्र तकारस्योभयार्थतया सामर्थ्य विरहात् । यदि तूकालसूत्रे वक्ष्यमाणरीत्याणुदित्सूत्रे ऽशब्दसंज्ञायामित्यनुवर्तते । यदि वा कार्यकालपक्षमाश्रित्य भाव्यमानत्वादेव सवर्णग्रहणं वार्यते । तदा वृद्धिसूत्रे तपरकरणं स्पष्टार्थम् । इह तु पञ्चमीसमासो नाश्रयणीयः । अत एव शास्त्रान्ते अददिति भाष्यं सङ्गच्छते । गुणा भेदका इति पक्षे तु वृद्धिसूत्रे तपरकरणमुभयार्थम् । गुणान्तरयुक्तस्य ग्राहकत्वात् । भेदकत्वे ज्ञापकत्वणुदित्सूत्रस्थमण्ग्रहणमिति हल् इति सूत्रएकोफ्पादितम् । तथैतत्सूत्रस्थं तत्कालस्योति पदमपीह ज्ञापकम् । अन्यथा हि स्वस्य रूप
Page #358
--------------------------------------------------------------------------
________________
.
शब्दकौस्तुमः । । १. अ. स्येत्यनुवृत्त्यैव सिद्ध किं तेन । न च सावाल्लुवर्णग्रहणार्थ, तत् । एवं हि तत्रैव लग्रहणं कुर्यात् । ऋति ऋ वोत . किहितं रेफद्वयमध्यं वोच्चारयेत् । आ इत्येव सिद्धे ऽतोदी?यत्रीति सूत्रे दीर्घग्रहणमपीह लिङ्गमिति दिक् । अत एवैतत्सूत्रं भाष्यादौ द्वेषा व्याख्यातं विध्यर्थं नियमार्थ चेति । तथाहि । अणिति नानुवर्तते । तेनाकारादावनाण तत्कालानां सवर्णानां गुणभेदेप्यनेन ग्रहणम् । अतोभिसऐसित्यादौ तूभयप्रस. के परत्वादस्यैव प्रवृत्तिः। ननु संज्ञानां बाध्यबाधकमावो नेत्यु क्तमिति चेत् । सत्यम् । अविरोधे फलभेदे च भवत्येव समावेशः । इह तु विरोध एवास्ति । अष्टादश ग्राह्याः षट् ग्राह्या इति हि विरुद्धम् । संख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्टत्वात् । अत एव छादेर्घइति सूत्रे ऽद्विप्रभृत्युपसर्गस्योत वक्तव्यमिति वार्तिकं सगच्छतइत्याहुः । वस्तुतस्तु नेह संज्ञासूत्रद्वये संख्योपात्ता येन विरोधः स्यात् । किन्त्वतोभिस इत्यादौ तपरकरणसामर्थ्याडाध्यबाधकभावोनुमीयतइति तत्वम् । वस्तुतस्तु तकारविशिष्टेयं संज्ञा न त्वण्मात्रम् । तत्कालस्योति तच्छ. ब्दस्तु विशेष्यमात्र परामृशति । न तु विशिष्टम् । तदृच्चारणकालसदृशे लक्षणा तु प्राची मतेप्यस्त्येव । सर्वनामपदेप्येत स्यैव वारवन्तीयं, तत्त्वमसीत्यादी लक्षणायाः पूर्वोत्तरतन्त्रयोः स्थितत्वात् । तथा च टिघुभाधन्तर्गतावदिह पदैकदेशत्वेनानर्थक्याद्राहकताप्रसङ्ग एव नास्ति । विभक्त्युत्पत्तिरप्येवं सति सङ्गच्छते । वृद्धिसूत्रे अत्राकारः प्रयोगस्थौकारैकारैरर्थवानिति हरदत्तग्रन्थस्तु प्राचां रीत्या नेतव्य इति निष्कर्षः । सो यं विध्यर्थतापक्षः । यदा त्वणित्यनुवर्तते तदा नियमार्थमिदं तपरोण तत्कालस्यैवेति, गुणानामभेदकत्वादनण्सु न कश्चिदो
Page #359
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः ।
३५९ 'षः । अस्मिंश्च पक्षे तत्कालत्वग्रहणं शक्यमकतम् । अण्ग्रहणानुत्तिश्चानावश्यकी । तपरः स्वरूपस्यैवेति नियमेनापीष्टसिद्धेः । दिवोदित्यत्र तपरकरणं स्वरार्थ न तु कालावधारणार्थ भाव्यमानतया सवर्णग्रहणाप्रसक्तेः । तथा च स्वरितः प्रयुज्यते । द्यौः पितः पृथिवि मातर ध्रुगिति । पृथिवी उत द्यौरित्युदात्तप्रयोगस्तु द्योशब्दस्य बोध्यः । औदच्चरित्यत्र तु मुखसुखाथै तपरकरणम् । व्याख्यानात् । तेन समिधाने अग्नावित्यादौ तित्स्वरो नेति वृत्तिकारहरदत्ताद यः । यत्तु नविभक्तीतुस्मा इत्यत्र जयादित्यादिभिरुक्तम् । इटोदि. त्यत्रायं निषेधो न भवति । इदमस्थमुरित्युकारानुबन्धकरणादनित्यत्वादस्यति तदभ्युपगमवादमात्रम् । ति. स्वप्रसङ्गात् । न चेष्टापत्तिः । भक्षीयतवराधसइत्यादावन्तोदात्तश्रवणात् । तस्मादियोदित्यत्रापि मुखसुखार्थस्तकारः । एतईद्वहुवचने, उदित्यादिष्वप्येवमेवेति दिक् । वस्तुतस्तु दि. वऔदित्यत्राप्येवमेव । हलः स्त्रंसनधर्मिणोनुदात्ते कृते उदात्तस्वरितयोर्यण इत्येव स्वरितसिद्धेः स्यादेतत् । द्रुता मध्यमा विलम्बिता चेति तिस्रो वृत्तयः । तदुक्तम् । अभ्यासार्थे द्रुत्ता वृत्तिः प्रयोगार्थे तु मध्यमा । शिष्याणां तूपदेशार्थ वृत्तिरिष्टा विलम्बितेति । ताश्च क्रमेण त्रिभागाधिकाः । तथाहि । द्रुतवच्या यस्याम् ऋचि पठ्यमानायां नव पानीयपलानि स्रवन्ति तस्यामेव ऋचि मध्यमवृत्त्या पठ्यमानायां द्वादश । विलम्बितायान्तु षोडश । एवं स्थिते यदि सूत्रकृद्विलम्बितायां तपरकरणमकार्षान्मध्यमायां द्रुतायां वा तर्हि वृत्त्यन्तरेण पाठकाले ऽतोभिसऐस् न स्यात् । कालावधारणेन दीर्घप्लुतयोरिव वृ. त्यन्तरस्यापि वारणादिति। तथा च वार्तिकम् । द्रुतायां तपरकर
Page #360
--------------------------------------------------------------------------
________________
१६०
.' शब्दकौस्तुभः। १० णे मध्यमविलम्बितयोरुपसंख्यानं कालभेदादिति । अत एव निपातनान्मध्यशब्द इस्व इति संहितासंज्ञासूत्रे कैयटः । अत्र सिदान्तवार्तिककारा एवाहुः । सिद्धन्त्ववस्थिता वर्णा वक्तु. श्चिराचिरवचनाद्वृत्तयो विशिष्यन्तइति । अस्यार्थः । व्य.
जकीभूतो ध्वनियद्यपि बहुकालानुवर्ती । तथापि कश्चिन्मात्रापर्यन्तमेवाभिव्यनक्ति । तदुत्तरकालोपहितस्तु स्वयमेवानुवर्तते न तु परमभिव्यनक्ति । यद्वा । इस्वस्य व्यजको ध्वनित्तित्रयोप मात्राकाल एव । मध्यमविलम्बितयोः प्रथमगृहीतध्वन्यनुनिष्पादिना ततोन्यूनकालेन ध्वन्यन्तरेणाभिव्यक्तयन्तरं जन्यते अभिव्यङ्गयस्तु न भिद्यते । एवं दीर्घव्यञ्जकोपि सर्वत्राद्यो ध्वनिर्द्विमात्र एव । अनुनिष्यादी तु ततो न्यून इत्याधूत्यम् । व्यङ्गन्यास्तु स्वत एव परस्परविलक्षणाः । एतच्च सर्व कैयटेन ध्वनितम् । तस्मादुच्चारणं तेषां मात्राकालं प्रतीयते।द्विमानं वा त्रिमात्रं वा न वर्णो मात्रिका स्वयमिति । शब्दान्तराधिकरणस्थराणककारोक्तिस्तु कय नेयेति सूरिभिश्चिन्त्यम् । वर्णास्तु नित्या एव । वर्णोत्पत्तिपक्षे तु तदनुनिष्पादी दूरादपि ग्राह्यः कश्चिद् ध्वनिरवश्याभ्युपेयः । तस्यैव कालभेदावृत्तित्रैविध्यम् । वर्णास्तु वृत्तिभेदेप्येकरूपा एव । कैश्चियक्तय एवास्य ध्वनित्वेन प्रकल्पिता इति पक्षे तु कालरूपोपाधिविशेषावच्छिन्नस्यैव व्यक्तित्वमिति दिक् । उक्तं च भाष्ये । ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । अल्पो महांश्च केषां चिदुभयं तत्स्वभावत इति । अस्यार्थः । शब्दो द्विधा । व्यञ्जको व्यायश्च । शब्दानां व्यङ्गयानां व्यञ्जकत्लेन सम्बन्धी यो ध्यानः स एम पहानपश्च लक्ष्यते । तदुभयं व्याय
Page #361
--------------------------------------------------------------------------
________________
१ पा. ९ आ.
शब्दकौस्तुभः
३६१
व्यञ्जकरूपं केषां चिदेव ताल्वादिव्यापारजन्यानामेव न तु भेर्यादिजन्यानामपि । कुतः । स्वभावतः । कारणवैलक्षण्यात् । अत्रोभयमिति भावप्रधानो निर्देशः । उभयरूपतेत्यर्थः ॥
1
आदिरन्त्येन सहेता || अन्त्येनेता सहोच्चार्यमाण आदिवर्णो वर्णसङ्घातो वा मध्यगानां संज्ञा स्यादादेः स्वरूपस्य च । वर्णो यथा अल् । सङ्घातस्तु कृञ् । इह ह्यभूततद्भावे कृभ्वस्तीत्यतः कृञो द्वितीयेति नकारेण प्रत्याहारः । आद्यन्तौ तावदaraौ । ताभ्यामवयवी समुदाय आक्षिप्यते । तस्य च युगपल्लक्ष्ये प्रयोगाभावात्तदवयवेषु संज्ञावतरन्ती म ध्यमेषु विश्राम्यति न त्वाद्यन्तयोः संज्ञास्वरूपान्तर्भावेण तयोः पारार्थ्यनिर्णयात् । अतः स्वरूपमित्यनुवर्त्तते । स्वं रूपं चादेरेव गृह्यते नान्त्यस्य । अप्राधान्यात् । अन्त्येनेति प्रधाने तृतीया । तेन दध्यत्रेत्यादौ केवल एव यकारः प्रवर्त्तते न णकारसहित इति कैयटादयः | अत्रेदं वक्तव्यम् । प्रत्याहारेध्वाद्या वाचकास्तत्र ग्रहणकशास्त्रं सावकाशमिति ग्रहणकशा - स्वस्थभाष्यादिपर्यालोचनया वाचकत्वं तावदाद्यवर्णे विश्रान्तमन्त्यस्तु तात्पर्यग्राहकः । सहग्रहणात्तु विशिष्टाद्विभक्तुत्पत्तिरिति द्योतकान्तरवैषम्यमिति स्थितम् । तत्रान्त्यस्येत्संज्ञयापत्तस्य कथं संज्ञित्त्वप्रसक्तिः । अन्यथाजादिसंज्ञानामपि कारादावतिप्रसक्तेः क उद्धारः । किञ्चास्तु विशिष्टस्य यसंज्ञा तथापि दध्यत्रेत्यत्र यण्शब्दापादनमसङ्गतमेव । न्यायसाम्यनेकशब्दस्यैव स्थानित्त्वप्रसक्तया इकारस्य स्थानित्वासम्भवात् । अन्त्येनेति किम् । सुडिति तृतीयैकवचनाववेन मा भूदिति वृत्तिकाराः । टाङसिङसामित्यादिनिर्दे
Page #362
--------------------------------------------------------------------------
________________
३६२
शब्दकौस्तुमः। [१ अ. शैष्टकारो न पूर्वान्त इति निर्णयादिति भावः । नन्वेवमपि टकारान्तस्य सङ्घस्य टाटकारोन्त्यो भवत्येवेति चेन्न । व्यवसितान्त्यताविरहात् । इह हि अन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्र. त्याहार इति सुडनपुंसकस्येतिसूत्रे हरदत्तः। न चैवं रमत्याहारासिद्धिः । लणसूत्रे ऽनुनासिकप्रतिज्ञासामर्थ्यांदनन्त्येनापि प्रत्याहारांत् । इदं तु वक्तव्यम् । औटष्टित्वस्यानन्यार्थतया तेनैव सुमत्याहारः । प्रत्यासत्तेश्च । तथा चान्त्यग्रहणं मास्त्विति । अत्रेदं समाधानम् । मध्यमेनेता सहित आदिस्तदुत्तरेषामपि ग्राहको मा भूत् । एवमन्त्येन सहितो मध्यमः पूर्वेषां संज्ञा मा भूदित्यादिग्रहणम् । इतेति किम् । रमत्याहारो यथा स्यात् । स ह्यनन्त्येनाप्यनुनासिकप्रतिज्ञासामयोद्भवतीत्युक्तम् । न चैतदितेत्यस्य विरहे लभ्यते । न.. वीनास्तु सहासमन्तादेतीति सहेता मध्यमो वर्णः । अन्त्येनादिः अणित्यादिसंज्ञको भवतीत्यर्थः । आद्यन्तसमभिव्याहाराच्च । सहेता मध्यमो वर्णो लभ्यते । स्वरूपमिति चानुवर्तते। वृद्धिगुणादिसंज्ञास्विवेहापि सामानाधिकरण्यात्संज्ञात्वावगतिः। अस्मिंश्च व्याख्याने हलन्त्यमित्यत्रेतरेतराश्रयशङ्कापि नास्तीत्याहुः । आद्यन्तावयवद्वारा समुदायानुकरणेन सिद्धेन्त्यव्यावृत्तये इदम् ॥ .. येनविधिस्तदन्तस्य ॥ विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य । एरच, चयः । जयः । अयः । ओरावश्यके, अवश्यलाव्यम् । इह येनेति करणे तृतीया न तु कर्तरि कुद्योगलक्षणषष्ठया बाधितत्वात् । विधिरित हि कमणि किप्रत्ययः । तेन कर्मणोभिहितत्वादुभयप्राप्ताविति नियमस्य नायं विषयः । करणं च परतन्त्रं कधिष्ठितस्यैव
Page #363
--------------------------------------------------------------------------
________________
१ पा. ९ आ.
शब्दकौस्तुमः । करणत्वात् । एवं चेह तृतीयया पारतन्यं लक्ष्यते सुब्विभ. क्तौ न लक्षणेति नैयायिकोद्घोषस्तु निर्मूलः । न च प्र. त्ययानुशासनवैयथ्यापत्तिस्तन्मूलम् । तिक्ष्वपि तस्य तुल्य. त्वात् । रथो गच्छतीत्यादौ व्यापारे लक्षणायास्त्वयापि स्वीकारात् । अत एव प्रयाजशेषेण हवींष्यभिघारयतीत्यत्र प्रयाजशेषं हविष्युक्षारयेदिति मीमांसका व्याचख्युरिति दिक् । न च एरजित्यादाविकारादीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव च स्वरूपतः सम्भवति किं तु वैवक्षिकम् । तेन विशेषणमप्रधानं तच्चात्मान्तस्य विशेष्यस्य संज्ञेति फलितम् । विशेष्यसन्निधौ च विशेषणत्वं भवति सनिधिस्तु कचित्साक्षानिर्देशेन यथा ईदूदेद्विवचनम्पगृह्यमिति द्विवचनस्य, क चिच्छब्दाधिकारात् । यथा एराजत्यत्र धातोः, क चिदाक्षेपायथा इकोझलित्यत्र सना धातोः । इकोयणचि, एचोयवायाव इत्यादौ तु न कथं चिदपि विशेष्यस. निधिः । अतो नेदं प्रवर्त्तते । स्यादेतत् । उदोष्ठयपूर्व स्येत्यत्र ओष्ठ्यपूर्वकत्वं धातोरेव विशेषणं स्यान तु ऋकारस्य । स हि विशेषणत्वादन्तस्य संज्ञा । संज्ञा च संजिनं प्रत्याययति न तु स्वयं विशेषणादियोगमनुभवति । ततश्च सङ्कीर्णमित्यादावतिव्याप्तिः। पूर्तमित्यादावव्याप्तिश्च । एवमुतश्चप्रत्ययादित्यत्राप्यसंयोगपूर्वत्वमङ्गस्य प्रत्ययस्य वा विशेषणं स्यान तुकारान्तस्य ततश्चाश्नुहीत्यादावतिव्याप्तिः । विशेषणं च यद्यङ्गस्य तदा तक्ष्णु हि इत्यादावतिव्याप्तिः । अथ प्रत्ययस्य, तार्ह तक्ष्णुहीत्यादि सिद्धयतु अश्नुहीत्यादौ तु दोष एवेति । अत्राहुः । गुणप्रधानभावसापेक्षेयं संज्ञा । तथा च उतश्चमत्वयादित्यादौ विशेषणसम्बन्धवेलायां गुण
Page #364
--------------------------------------------------------------------------
________________
१६१
शब्दकौस्तुमः । [१ अ. भावास्फुरणातमनुसूय पश्चाद्विशेष्यसम्बन्धे विशिष्टा संज्ञा भ.. पति । इह हि विशिष्टस्य वैशिष्टयम् । न तु विशेष्ये वि. शेषणमिति । व्याख्यानात् । अत एव न विशिष्टे वैशिष्ट, नाप्येकत्र द्वयमिति दिक् । तथा च वार्तिकम् । येन वि. धिस्तदन्तस्यति चेत्, ग्रहणोपाधीनां तदन्तोपाधिताप्रसङ्गः । सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वादिति । ग्रहणोपाधीनां गृह्यमाणविशेषणत्वेन सम्मतानामोष्ठयपूर्वत्वादीनामित्यर्थः । यथेष्टत्वादित्यनेनेदं दर्शयति । चतुर्विधेषु विशिष्टवौशिष्टयबोधेषु मध्ये विशिस्य वैशिष्टयमवह सम्मतं न वितरत्रिक व्याख्यानाल्लक्ष्यानुरोधाच्च । इह सिद्धान्ताभिमतं विशेषणविशेष्यभावं स्फुटीकर्तुं बहूनि वार्तिकानि प्रवृत्तानि । तद्यथा । समासप्रत्ययविधौ प्रतिषेधः। द्वितीयाश्रितेत्यादौ श्रिसादयो विशेष्यास्तद्विशेषणं च सुप् । एवं नडादिभ्यः फगित्यादौ नडादि विशेष्यं प्रातिपदिकं विशेषणमिति फलितोर्थः । ए. तेन ग्रहणवता प्रातिपदिकेन तदन्तविधिनास्तीत्यीप व्याख्या. तम् । तस्याप्युदात्दृतप्रतिषेधसमानविषयकत्वस्य दिवउत्सूत्रे कैपटादिभिरुक्तत्वात् । अत एव गोस्त्रियोरिति सूत्रे गोन्तं यत्मातिपदिकमिति व्याख्यातम् । एतेन शेषोध्यसखात्यादौ ग्रहणवतेति प्रतिषेधं सञ्चारयन्तो हरदत्तादयःप्रत्युक्ताः प्रकृतमनुसरामः, श्रितादयो विशेष्या इत्युक्तम् । तेन द्वितीयाश्रितोते समासः कृ. षणश्रित इत्यत्रैव भवति न कृष्णं परमश्रित इत्यादावपि । त. था नडादिभ्यः फक्, नाडायना, नेह सूत्रनडस्यापत्यं सौत्रनाडिः । अनुशतिकादित्वादुभयपदवृद्धिः । ननु कृष्णंपरमश्रित इत्यत्र समासमाप्तिरेव नास्ति । अत्र हि समासात्सुन् विहितः तेन श्रितान्तं सुबन्तमेव भवति । अत्र कैयटहरदत्तौ । स
Page #365
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः । म्बुध्यन्तमुदाहर्त्तव्यं कृष्णंपरमश्रित इति, एतद्धि प्रत्ययलक्षणेन सुबन्तं भवति श्रितान्तं च श्रूयतइति । स्यादेतत् । सिद्धान्ते श्रितादीनां विशेष्यत्वेपि तत्र सुबन्तत्वं बाधितम् । न चात एवान्वयानुपपत्त्या श्रितादिशब्दानां तत्प्रकृति के लक्षणेति वाच्यम् । सम्बुध्यन्तएव मुख्यार्थपुरस्कारेणावकाशलाभात् । तथा च कृष्णश्रितमित्यादि न सिद्धयेदिति । उच्यते । समासतद्धितप्रकरणे सर्वत्र श्रितादीनां नडादीनां च तत्तत्प्रकृति के लक्षणैव खट्वाक्षेपे नदीभिश्चेत्यादावभेदस्य बाधात् । न हि तत्र सम्बुद्धयन्तता सम्भवति । पूर्वकालैकत्यादौ सम्बुद्धयन्ततासम्भवेप्येकविभक्तावित्यादिसौत्रनिर्देशो न सिध्येत् । तस्मासामान्यापेक्षज्ञापकबलेनैकरूप्याय सर्वत्र तत्तत्प्रकृतिके लक्षणेति स्थिते इहत्यभाष्यवृत्त्योः कैयट हरदत्तकृतं भक्त्वा व्याख्यानमनादेयमित्यवधेयम् । अस्यापवादमाह । उगिद्वर्णग्रहणवजैमिति । उगिता वर्णेन च प्रातिपदिकं विशष्यतइति फलिसोर्थः । महान्तमतिकान्तातिमहती उपसर्जनत्वाद्गौरादिलक्षणस्य ङीषो ऽभावे उगिदन्तत्वान्डीप् । बृहन्महतो!रादित्वं नास्तीत्यपि के चित् । युक्तं चैतत् । महतेसौभगायेत्यादौ विभक्तेरुदात्तत्वसिद्धये शतुरनुम इति सूत्रे नद्य जाादात्तत्वे बृहन्महतोरुपसंख्यानमिति वार्तिकस्यारभ्यमाणत्वान्डीपोप्युदातत्वसिद्धेः । अत इञ् । दाक्षिः । न चेह सामर्थ्यात्तदन्तविघिः । अस्यापत्यमिः काम इत्यत्र चरितार्थत्वात् । न चैवमिवो त्रित्वं व्यर्थ स्यादिति वाच्यम् । बाहादिभ्यश्चेत्यत्र यथायथं वृद्धयायुदात्ताभ्यां चरितार्थत्वात् । नन्वेवमस्यौपगविरित्यादावेव स्यान्न तु दाक्षिरिति । अकारस्येहानर्थकखादिति चेन्न । वर्णग्रहणे अर्थवत्परिभाषाया अप्रत्तेः । तथा चैतत्सूत्रशेषे
Page #366
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः । [१ . वार्तिकम् अलैवानकैनेति । अत एव संघातेनार्थवतैव । तेना स्त्रिया इतीयङ् इहैव भवति स्त्रियौ परमस्त्रियौ, नेह शस्त्र्यौ शस्त्र्यः । तथा इन्हन्पूषार्यम्णांशी, सौचेत्यत्र हन् इत्यत्र सं. घातग्रहणे प्लीहन्ग्रहणं न तेन प्लीहानावित्यादौ सौ चेति नियमाप्रवृत्तेः दीर्घः सिद्धयति । उदस्थास्तम्भोरित्यत्र वापदान्तस्येत्यतः पदग्रहणानुवृत्तिपक्षेप्युदेव विशेष्यः । अननुवृत्तौ तु न का चित् क्षतिः । उभयथाप्यनर्थकस्याग्रहणानेह गर्मुत्स्थास्यति गर्मुत्सुवर्णतणयोः । ननु शस्त्र्यो प्लीहानावित्यत्र प्राप्तिरेक नास्ति पदाङ्गाधिकारे तस्य तदुत्तरपदस्यचेति वचनान हीदन्तमापि तदुत्तरमिति चेत् । सत्यम् । पदाङ्गाधिकारइति वचनस: त्वे तथैव किन्त्वेतदूषितं भाष्ये सौत्रेण तदन्तविधिनैव गतार्थत्वात् । अत एव परमश्चासावतिमहाश्चोत विग्रहे परमातिमहानिति सिद्धयति वचनाश्रयणे तु नैतत्सिद्धयेत् । अतिमहच्छब्दस्य महदुत्तरपदत्वेप्यनङ्गत्वात् । परमविशिष्टस्याङ्गत्वपि महदुत्तरपदत्वाभावात् । सौत्रेण तदन्तविधिना तु सान्तमहत इति दीर्घमुगिल्लक्षणो नुमागम चेह सिद्धयति । न चेह ग्रहणवतेति निषेधः शश्यः । समासमत्ययविधावित्यनेन सह समानविषयः स इत्युक्तत्वात् । एतेन वातजन्मजरसः परं शुचि ब्रह्मणः पदमुपैतु मिच्छतामिति भारविप्रयोगो व्याख्यातः । अलैवेत्यस्यापवादः पठ्यते भाष्ये, अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्तीति । अन् , राज्ञेत्यर्थवता साम्नेत्यनर्थकेन । इन्, दण्डीत्यर्थवता वाग्मीत्यनर्थकेन।अस्, सुपया इत्यर्थवता सुस्रोतेत्यर्थकेनामन् ,सुशर्मेत्यर्थवता सुप्रथिमेत्यनर्थकेन । तञ्चेण:पीध्वमिति सूत्रेङ्गग्रहणनार्थवद्रहणपरिभाषाया अनित्यत्वज्ञापनासिद्धम् । परिवेविषीध्वमित्यत्र हि पीध्वंशब्दस्या
Page #367
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः ।
१६७ नर्थकत्वादेवाग्रहणे सिद्धे किं तन्निवृत्त्यर्थेनाङ्गग्रहणेनेति दिक् । सूत्रस्योदाहरणान्तराण्याह वार्तिककारः । प्रयोजनं सर्वनामाव्ययसंज्ञायाम् । अन्वर्थसंज्ञयाक्षिप्तः संज्ञी सवादिभिर्विशिष्यतइति फलितोर्थः । उपपदविधौ भयाब्यादिग्रहणम् । भयञ्च आन्यादयश्चोत द्वन्द्वः । तेन खच्प्रकरणे मेघर्ति भयेषु कृत्र इति सूत्रे वाक्यं भित्वा उपपदेन मेघर्ती विशेष्यते भयेन तूपपदम् । यदि तु भयाव्यशब्दयोर्द्वन्दं कृ. त्वा आदिशन्देन बहुव्रीहिः क्रियेत तदा क्षेमप्रियमद्वैरप्युपपदं विशेष्येत सिद्धान्ते तु क्षेमादय उपपदेन विशेष्यन्ते भयङ्करः अभयङ्करः आढ्यकरणं स्वाढ्यंकरणम् । ङीप्प्रतिषेधे स्वस्रादिग्रहणम् । स्वसा परमस्वसा । अपरिमाणबिस्तादिग्रहणं च । प्रतिषेधे प्रयोजनमित्यनुवर्तते । द्विगुना सन्निधापितमुत्तरपदं विस्तादिभिर्विशेष्यतइति भावः । द्विबिस्ता द्विपरमबिस्ता । व्याचिता द्विपरमाचिता । दितिः । दैत्यः आदित्यः । दित्यदित्यादित्यति सूत्रे ऽदितिग्रहणं न कर्चव्यं परमदित्यादिभ्यस्त्वनभिधानान्न भवतीति भावः । रोण्या अण् । रौणीति सूत्रेण चातुर्थिकः रौणः आजकरोणः सैंहकरोणः । तस्य च । तस्य चेति वक्तव्यम् । उक्तानां वक्ष्यमाणानां च सर्वेपामयं शेषः । तथा चेह सूत्रे स्वरूपमित्यनुवर्ततइति फलितोर्थः । ननु व्यपदशिवद्भावेन रौण इति सिद्धामीत चेन्न । व्यपदेशिवद्भावो ऽप्रातिपदिकेनेति निषेधादिति भाष्यकाराः। यद्यपि रोणीशब्दो न प्रातिपदिकं तथाप्यप्रातिपदिकनेत्यत्र वाक्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणास्त्रीप्रत्ययान्तैरपि व्यपदेशिवद्भावो नास्तीति भावः । यथाकथश्चित्वातिपदिकग्रहणे लिङ्गविशिष्टग्रहणमिति हि ङयापसू
Page #368
--------------------------------------------------------------------------
________________
३६८
शब्दकौस्तुभः । [१ अ. त्रे वक्ष्यते । ननु यदि तस्य चेत्त्युच्यते स्वरूपाहणं चानुवर यते तर्हि व्यपदेशिबद्भानो ऽमातिपदिकेनेत्यस्य निर्विषयत्वं स्यादिति चेन्न । सूत्रान्ताक् दशान्ताड इत्यादौ सावकाशत्वात् । न च तत्रान्तग्रहणसामर्थ्यादेव व्यपदेशिद्भावो न भविष्यतीति वाच्यम् । समासप्रत्ययविधौ प्रतिषेध इत्यतद्वाधेनान्तग्रहणस्य चरितार्थत्वाज्ज्ञापकसिद्धेयं परिभाषा । पू. र्वात्सपूर्वादिनिरिति वक्तव्ये पूर्वादिनिः सपूर्वाञ्चोत योगविभागश्वेह ज्ञापकः । वस्तुतस्तु भयान्यादाविव सूत्रान्ताठक दशान्ताड इत्यादावपि विशेषणविशेष्यभावव्यत्यासमात्रेण सिद्धे अन्तग्रहणसामर्थ्यमपि सूपपादमिति परिभाषाश्रयणं ध्यर्थम् । न चैवं गोकुलमित्यत्र इस्वः स्यादिति वाच्यम् । उपसर्जनं यो गोशब्दस्तदन्तस्य प्रातिपदिकस्य ह्रस्वविधानात् । संविधानाच्च प्रातिपदिकं प्रत्येव विशेषणताश्रयणात् । गो. शब्दे च तदभावात् । अत एव राजकुमारीपुत्र इत्यत्र न स्वः । उपसर्जनं यत्स्त्रीप्रत्ययान्तं तदन्तस्य प्रातिपदिकस्येत्यत्रापि सन्निधानाश्रयणात् । एषैव तवापि गतिः । न खुक्तपरिभाषेह सम्भवति व्यपदेशिवद्भावो ऽप्रातिपदिकेन ग्रहणवतेति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमिति दिवउसूत्रे कैयटहरदत्ताभ्यामुक्तत्वात् । एवं च पूर्वादिनिरिति योगविभागो व्यर्थः । किम्बहुना पूर्वादिनिरित्यत्र तदन्तनहणसम्भवाल्सपूर्वाञ्चति सूत्रं व्यर्थ व्यपदेशिवद्भावेन सिद्ध तस्येति प्रकृतवार्तिकमपि न कर्चव्यम् । स्वरूपामिति तु प्रागेव प्रत्याख्यातमिति दिक् । रथसीताहलेभ्यो यद्विधौ । तद्वहतीति यत् । रथ्यः परमरथ्यः । सीयं परमसीत्यं क्षेत्रम् । सीतया सम्मिसंसंमतमित्यर्थः । नौवयोधर्मेति यत् । हलस्य कर्षों हल्यः
Page #369
--------------------------------------------------------------------------
________________
१ पा. ९ आ.
३६९
शब्द कौस्तुभः मतजनहलात्करणजल्पकर्षेष्विति यत् । यद्विधाविति किम् । हलसीरागिति उग्विधौ तदन्तग्रहणं मा भूदिति कैयटः । अत्रेदं वक्तव्यम् । हलसीरादिति द्विः पठ्यते । तस्येदमित्यधिकारे तद्वहतीत्यधिकारे च तत्रोभयत्रापि तदन्तविधिरिष्ठ एव । आद्यस्य प्राग्दीव्यतीयत्वाल्लुक । द्विहलः । अपरस्य श्रवणम् । द्वैहलिकः । स्पष्टं चेदं चतुर्थे हरदत्तग्रन्थे । युक्तं चैतत् । रथाद्यत् तद्वहतीति रथशब्दस्य द्विरुपादानमेतदर्थमिति भाष्येप्युक्तत्वात् । वहत्यधिकारस्थरथहलयोरुपादानसामर्थ्याभ्यो हि तदन्तविधिरविशेषादुभयत्रापि स्यादेव । न चैवहि यद्विधावित्यसङ्गतमिति वाच्यम् । तस्योपलक्षणत्वात् । यद्वा । रथादिति सूत्रे रथाद्रथाङ्गे इतिवद्वोढरीत्युक्तौ तत्प्रकारकशाब्दबोधस्योपपादयितुं शक्यत्वेपि हलग्रहणे तदुपपादनस्य वक्तुमशक्यत्त्वेन हलग्रहणेन न तदन्तविधिः । अस्तु वा संख्यापूर्वपद एवेति कैयटाशयः । तस्मैहितमिति प्रकरणे शरीरावयवाद्यदिति सूत्रे रथाच्चेति वार्तिकम् । तत्राप्ययं तदन्तविधिर्बोध्यः । यत्तु तत्र कैयटो वक्ष्यति । हलसतिशब्दाभ्यां साहचर्याच्चतुर्थाध्यायविहित एव यदिति तदन्तविधिमाहुरिति । तत्राहुरित्यस्वरसोद्भावनम् । असमासेनिष्कादिभ्य इत्यसमासग्रहणेन तस्मिन्प्रकरणे विशिष्यापि तदन्तविधेर्ज्ञापिततया साहचर्याश्रयणेपि तदन्तविधेर्दुर्वारत्वादित्यवधेयम् । सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य । सुपाञ्चालकः । सुमागधकः । सर्वपाञ्चालकः । अर्द्धपाञ्चालकः । अवृद्धादपि बहुवचनविषयादिति वुञ् । सुसर्वादज्ज - नपदस्येत्युत्तरपदवृद्धिः । दिक्शब्दः । पूर्वपाञ्चालकः । अपरपाञ्चालकः । पूर्ववद् बुब् । दिशोमद्राणामित्युत्तरपदवृद्धिः ।
४७
Page #370
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । ।
[ १ अ०
ऋतोर्वृद्धिमद्विधाववयवानाम् । ऋतुवाचिनः शब्दायो वृद्धिमान वृद्धिनिमित्तः प्रत्ययस्तद्विधाने अवयवानां पूर्वपदस्वइति शेषः । तदन्तविधिरिह वाचनिक एव । शरदः पूर्वो भागः पूर्व शरत् । पूर्वापराधरोत्तरमित्येकदेशिसमासः । तत्र भवं पूर्वं शारदं । सन्धिवेलावृतुनक्षत्रेभ्यो । अवयवातोरित्युत्तरपदवृद्धिः । वृद्धिमदिति किम् । प्रावृषएण्य इत्यत्र तदन्तविधिर्मा भूत् । तेन तत्र ऋत्वमेव भवति । पूर्वप्रा वृषमिति । अवयवानां किम् । पूर्वस्यां शरदि भवं पौर्वशारदिकमित्यत्राण न भवति किं तु कालाट्ठञेव भवति । तत्र हि यथाकथश्चिकालवाचिनो गृह्यन्ते न तु रूढ्यैवेत्याग्रहः । उत्तरत्र संधिवेला नक्षत्रेभ्य इति विशेषणात् । अत एव सायम्प्रातिकः । पौनःपौनिक इत्यादि सिद्धयति । ठच्विधौ संख्यायाः । द्वे षष्ठी परिमाणमस्येति विग्रहे तद्धितार्थेत्यनेन समासे कृते आर्द्रादिति ठकू न भवति । संख्यायास्तदन्तविधौ सति संख्यातादपि ठप्रतिषेधात् । तेन प्राग्वतोरिति ठञेव भवति । अध्यर्द्धपूर्वेति लुक्तु न भवति । सोस्यांशवस्नभृतय इत्यतः सोस्येत्यनुवर्त्तमाने तदस्यपरिमाणमित्यत्र पुनः प्रत्ययार्थस्य समर्थविभक्तेश्व निर्देशात् । पुनर्निर्देशेन हि प्रकृताल्लुक्सम्बद्धाद्विलक्षणमिदमिति सूच्यते । यद्वा । अनुवर्तमानेन सोस्येत्यनेन सहितं परिमाणं संख्याया इत्येतत्तावत्प्रत्ययं विधत्ते । वतस्तस्य लुकि कृते पुनस्तदस्य परिमाणमिति वचनसामर्थ्यां स्वार्थे तज्जातीयः प्रत्ययः । तस्य विधानसामर्थ्यात् द्विगुनि'मित्तत्वाभावाद्वा लग् न भविष्यति । एतच्च वृत्तिकारमतमात्रित्योक्तम् । भाष्यकारमते तु तमधीष्ट इति सूत्रेण भूतार्थे प्रत्ययं कृत्वा द्विपाष्टिक इत्यादि साध्यम् । न ह्यत्राध्यर्द्धति लुक्
३७०
Page #371
--------------------------------------------------------------------------
________________
१ पा. ९
आ.
शब्दकौस्तुमः ।
३७१
प्रामोति । अना_यत्वात् । यद्यपि तमधीष्टइत्यत्र कालादिति वर्तते । तथापि काले संख्यये वर्तमानात् षष्टिशब्दादुत्पत्ति विरुध्यते रमणीयादिभ्यस्त्वनभिधानान भवति । परिमाणार्थे तु लुक् दुर्वारः । तथाहि । प्राग्वतेष्ठमिति ठम् तदहतीत्यतः प्राक् तेनक्रीतमित्येवमाधा येास्तेषु भवति । अहंत्यर्थेच । ततः परेपि ये वर्तयतीत्यादय आकालिकडायन्तवचनइत्येवमन्तास्तेष्वपि भवति । एकच ठत्र आहीयानार्दीयार्थसाधारणत्वेपि परिमाणस्य तदर्हतीत्यतः प्राङ् नि. देशात्तत्रोत्पन्नष्ठञ् आर्हाय एव । न च तदस्यति पुनरुपादानमात्रेणायित्वमपगच्छति । न हि काको वाश्यतइत्याीयत्वं निवर्त्तते । किञ्च यद्याहीयत्वं निवर्तेत । तर्हि जीवितपरिमाणादन्यत्रापि लुङ् न स्यात् । द्वौ निष्कौ परिमाणमस्य द्विनिष्कः । न च द्वित्रिपूर्वानिष्कादिति वचनसामर्थ्यात्स्यादिति वाच्यम् । परिमाणातिरिक्तेष्वा यार्थेषु वचनस्य सा. वकाशत्वात् । तस्माद्यस्य षष्टिर्जीवितपरिमाणं षष्टिमसौ भूतो भवतीति तमधीष्टोभृत इत्येव द्विषाष्टिकः साधनीयः । तदस्यति तु त्यक्तव्यम् । सोस्येत्यनुवृत्त्यैवेष्टसिद्धेरिति स्थितम् । धर्माननः । धर्म चरति धार्मिकः । अधर्म चरति आधर्मिकः । अधर्माच्चेत्येतन्न वक्तव्यम् । पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च, प्रयोजनम् । इष्टकेषीकामालानाञ्चिततूलभारिषु । इष्टकचितम् । पकेष्टकचितम् । इषीकतूलेन । मुझेषीकतूले. न । मालभारी । उत्पलमालभारी । इहोत्तरपदाधिकारे प्रयोजनस्योदाहरणात्पदाङ्गेति पदशब्द उत्तरपदपर इति कैयटादयः। अत एव परममहत्परिमाणमित्यत्र परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषः । सामानाधिकरण्ये ह्यान्महत इत्या
Page #372
--------------------------------------------------------------------------
________________
૩૭૨
शब्दकौस्तुभः ।
[ १ अ०
त्वं स्यादित्युदयनाचार्या व्याचख्युः । यत्तु तत्र वर्द्धमाने नोकम् । पदाङ्गाधिकारइत्यत्र केवलपदाधिकारो गृह्यते न तूतरपदाधिकारः । अन्यथेष्टकेषीकामालानामित्यत्र पुनस्तदन्तविध्युपसंख्यानं व्यर्थं स्यात् । तथा च परममहत्परिमाणमित्यत्र कर्मधारयपक्षेप्यात्वप्रसक्तिर्नास्त्येवेति, तदेतदनवहिताभिधानम् । इष्टकेषीकेत्यस्य प्रयोजनत्वेनोदाहरणात् । उपसंख्यानान्तरस्य गगनकुसुमायमानत्वात् । तस्मादाचार्योक्तमे ब सम्यक् । एतेन सततनैशतमोवृतमन्यतइति भारविमयोगे ओजःसहोम्भस्तमसस्तृतीयाया इत्यलुक् कुतो नेत्याशंक्य वर्धमानोत्तरीत्योत्तरपदाधिकारे तदुत्तरपदग्रहणं नास्तीति दुर्घटवृत्तिकारोतिरप्यपास्ता । यदप्योजः सह इति सूत्रे हरदत्तेनोक्तम् । ओजः प्रभृतीनामुत्तरपदाक्षिप्तं पूर्वपदं प्रति विशेष्यत्वादिति, तदपि वार्तिकविरोधादुपेक्ष्यम् । विशेष्यविशेषणभाव निर्णया यैवेहत्यवार्त्तिकानां प्रवृत्तिरिति कैयटवदेव स्वयमपि व्याख्यातत्वात् । भारविप्रयोगस्त्वित्थं समाधेयः । वृतं वृत्तिः नैशतमसो वृतमिति षष्ठीतत्पुरुषः । नपुंसके भावे क्तस्य योगे शेषत्वविवक्षायां षष्ठी । ततः सततं नैशतमसो वृतं यस्मिन्निति बहुव्रीहिः । यद्वा । वृतु वर्तने, घञर्थे कविधानमिति भावे कः । सततं नैशतमसो वृतं वृत्तिर्यस्मिन्निति प्राग्वत् । अङ्गाधिकारे प्रयोजनान्याह । प्रयोजनं महदस्वसृनप्तॄणां दीर्घविधौ । महान् । परममहान् । आपस्तिष्ठन्ति । स्वापः । नपूजनादिति समासान्तनिषेधः । नन्वेवमपि द्रयन्त रुपसर्गेभ्यो पईदिती कारः प्राप्नोति । न ह्ययं समासान्तः येन ऋक्पूरित्यप्रत्ययश्व निषिध्येत इति चेत्सत्यम् । द्वयन्तरुपसर्गेभ्य इत्यत्राप इति कृतसमासान्तस्यानुकरणं प्रथमान्तम् । अन्हो दन्तादितिवद्वयत्ययेन षष्ठ्यर्थे प्र
Page #373
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुमः ।
३७३ थमा । इहत्यं स्वाप इति भाष्यं चास्मिन् व्याख्याने प्रमाणमित्यवधेयम् । स्वसारौ । परमस्वसारौ । नप्तारौ । परमनप्तारौ। पद्युष्मदस्मदस्थ्याधनडुहो नुम् । पद्भावः प्रयोजनम् । द्विपदः पश्य । केवलस्योदाहरणं तु पादयतेरप्रत्ययः,पात् । पदः। पदेत्यादि । इह को लुप्तत्वाण्णिलोपो न स्थानिवत् । उत्तरपदाधिकारे तु पादशब्दो विशेष्य एव । तेन पादस्यपदाज्यातिगोपहतेष्विति पदभावः । पादेनोपहतं पदोपहतमित्यत्रैव भवति। इह तु न दिग्धपादेनोपहतं दिग्धपादोपहतमिति । उत्तरसूत्रेप्येवम् । तेन पद्यत्यतदर्थे, हिमकाषिहतिषुचति पद्भाव इहैव भवति । पादौ कषतीति पत्कापी । इह तु न, परमपादकापी । यस्तु परमपत्काषीति प्रयोगः । स परमश्चासौ पत्काषी चेति विग्रहेण समाधेय इति भाष्यकैयटयोः स्थितम् । यूयं वयम् , अतियूयम् अतिवयम् । अस्थना परमास्थ्ना । अनड्वान् परमानड्वा. न् । ग्रुपथिमथिपुंगोसखिचतुरनडुन्त्रिग्रहणम् । द्यौः सुद्यौः । पंथाः सुपन्थाः । नपूजनादिति समासान्ताभावः । मन्थाः परममन्थाः । पुमान् परमपुमान् । गौः सुगौः । सखा सुसखा। सखायौ सुसखायौ । चत्वारः परमचत्वारः। अनड्वाहः परमानवाहः । त्रयाणां परमत्रयाणाम् । भाष्ये तु परमपन्थाः परमगौरित्युदाहृतम् । तत्र समासान्तापत्तिः । नपूजनादिति निषेधस्तु नास्ति स्वतिभ्यामवति वक्ष्यमाणत्वात् । अत एव काचित्कोयमपपाठ इति कैयटः । समासान्तविधेरेनित्यतया वा समाधेयम् । यद्वा परमुदाहरणान्तरमित्यर्थः । अपन्था, अगौरित्यत्र नञ्तत्पुरुषात्पथोविभाषेति साधुत्वम् । यत्तु परमसखायाविति पठितंभाष्ये । तत्र बहुव्रीहिर्बोध्यः। गौणत्वे ऽपि ह्यनणित्त्वे इष्येते एवास्थ्याधनङवत् । एतच्च मिदचोन्त्यादित्यत्र द्वितीया
Page #374
--------------------------------------------------------------------------
________________
३७४
शब्दकौस्तुभः ।
[ १ ५०
"
श्रितेत्यत्र च स्पष्टम् । अरुद्युक्षोवरुण इन्द्रसखा, आग्नेयाहिमरुसखेत्यादि प्रयोगाचैवमेत्र सङ्गच्छन्ते । एतेन घिसंज्ञासूत्रे शोभ नः सखा अस्य सुसखिरित्युदाहरन् हरदत्तो न्यासकारश्चापास्तः । त्रेत्रय इति तु त्रिशब्दार्थसमवेत संख्याद्यभिधायिन्यामिपरे इति व्याख्यानाद्गौणे न भवति, प्रियत्रीणाम् अतित्रीणाम् । प्राधान्ये तु स्यादेव परमत्रयाणामित्याहुः । अत्र व्याख्याने प्रमाणं मृग्यम् । इह पदाङ्गाधिकारइति न कर्त्तव्यम् । तदन्तग्रहणेनैव सकलष्टसिद्धेरित्युक्तं न विस्मर्त्तव्यम् । प्रत्ययग्रहणे यस्मात्सविहितस्तदादेस्तदन्तस्य ग्रहणम् । इह प्रत्ययाक्षिप्तस्य धा तुमातिपदिकाद्यवयवकसमुदायस्य प्रत्ययेन विशेषणात्तदन्तविपिर्लभ्यते । अङ्गसंज्ञासूत्रे यस्मात्प्रत्ययविधिस्तदादिप्रत्यये इति योगं विभज्य परिभाषात्वेन व्याख्यानादंशान्तरलाभः । इदं च संज्ञाविधौ न प्रवर्त्तते, सुप्तिङन्तं पदमिति ज्ञापकात् ! उत्तरपदाधिकारेपि न प्रवर्त्तते, हृदयस्यहृल्लेखयदण्लासेष्विति सूत्रे लेखग्रहणाज्ज्ञापकादिति वक्ष्यते । अस्यापवादमाह । म त्ययग्रहणं चापञ्चम्या इति । यत्र पंचम्यन्तं प्रत्ययस्य विशेषणं तत्र तदन्तग्रहणं नेत्यर्थः । यथा रदाभ्यांनिष्ठात इत्यत्र । तेन दृषत्तीर्णेत्यत्र तृधातोस्तकारस्य निष्ठान्तप्रत्ययावयत्रीभूतस्य नत्वं न भवति । इह प्रघट्टके संज्ञाविधावुत्तरपदाधिकारे रदाभ्यां स्यतासलिलुटोरित्यादौ च प्रत्ययो विशेष्यतया श्रीयते, इतरत्र तु विशेषणतयेति फलितार्थः । तदिदं सकलं सूत्रेणैव सिद्धयतीति स्थितम् । सौत्रस्य तदन्तविधेर्वाचनिकमपवादमाइ वार्तिककारः । यस्मिन् विधिस्तदादावल्ग्रहणे । अचिनुधात्विती वडुवङ् च यथेह भवति । श्रियौ भवावित्येवमिहापि सिद्धपति श्रियः भ्रुत्र इति । तदन्तविध्यपवादस्तदादिविधि
Page #375
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुभः । रतो विशेषणेनैव ॥
वृद्धिर्यस्याचामादिस्तद्वद्धम् ॥ यस्य समुदायस्यावयवा. नामचा मध्ये प्राथमिको वृद्धिसंज्ञकः स वृद्धसंज्ञकः स्यात् । आमूगुप्तीयः । वृद्धाच्छः । अचामिति जातौ बहुवचनं तेन द्वयोरपि भवति । शालीयः । एकस्यापि च भवति व्यपदेशिवद्भावात् । ज्ञा ब्राह्मणी तस्या अयं ज्ञीयः । वा नामधेयस्य । पौरुषेयं नाम तस्य वृद्धसंज्ञा वा स्यादित्यर्थः । उभयत्रविभाषेयम् । देवदत्तादीनामप्राप्ते वामनादीनां च प्राप्ते आरम्भात् । देवदत्तीयाः । देवदत्ताः। विधाय मूर्ति कपटेन वामनीमिति श्रीहर्षः। गोत्रोत्तरपदस्य च । नित्यं वृद्धसंज्ञा वक्तव्यति शेषः । कम्बलचारायणीयाः। ओदनपाणिनीयाः घृतरौढीयाः । कम्बलपियस्य चारायणस्य शिष्या इत्यादिरर्थः। पणनं पणः । घबर्थे कविधानमितिकः।सोस्यास्तीति पणी । पणिनो गोत्रापत्यं पाणिनः। अण्। गाथिविदथिकेशिगणिपणिनश्चति प्रकृतिभावः। ततो यूनीन् । पाणिनिः । स्यादेतत् । ण्यक्षत्रियार्षत्रित इति सूत्रेणेह इनो लुक् प्राप्नोति । आषांयून्युत्पनत्वादिति चेन्न । आर्षग्रहणेन ऋष्यन्धकोति सूत्रविहितस्य ऋष्यण एव ग्रहणात् । अस्य चौसर्गिकत्वात् । यद्वा । पणिन् शब्दो यौगिको न तु ऋषौ गूढः । लुग्विधौ तु रूढस्यैव ग्रहणम् । एतच्च शास्त्रान्तएकशेपनिर्देशाद्वा भगवतः पाणिनेः सिद्धामति वार्तिकनिर्देशादाक्षीपुत्रस्य पाणिनेरिति भाष्यकारव्यवहाराच्च निर्णीयते । नन्वेवमपि पाणिनेश्छात्राः पाणिनीया इति न सिध्यति । वृद्धाच्छं बाधित्वा इअश्चेत्यणः प्रसङ्गात् । न च छे विवक्षिते यूनिलुगितीको लुकि सति नायमित्रन्त इति वाच्यम् । प्रत्ययलक्षणेन इअन्तवानपायात् । अत्राहुः । इअश्चेत्यत्र कण्वादिभ्योगोत्रइत्यतो
Page #376
--------------------------------------------------------------------------
________________
३७६
शब्दकौस्तुभः ।
[ १ अ०
गोत्रग्रहणमनुवर्त्तते तच्च पूर्वसूत्र एव स्वर्यते । तेनापत्याधिकारा दन्यत्वेन प्राप्तं लौकिकं गोत्रं विहाय गोत्राधिकारो गृह्यते स्वरितेनाधिकार इति वचनात् । कण्वादिश्च गर्गाद्यन्तर्गणः । ततो गर्गादिभ्यो यमिति विधीयमानो यत्र पारिभाषिक एव गोत्रे भवति तत्रापत्याधिकारसत्त्वात् । तेन इञश्चेत्यत्रापि पारिभा षिके गोत्रे य इब् तदन्ताच्छेषेऽणित्यर्थः फलितः । यद्वा । लक्षणप्रतिपदोक्त परिभाषया कण्वादिसूत्रे यञेव गृह्यते स च पारिभाषिके विहितत्वात्तस्यैव प्रत्यायकः । एवं चार्थाधिकारादिवेत्यत्रापि तथा । पाणिनिरिति तु यूनि इञ न तु गोत्रे । तेनाणो ऽप्राप्तेर्निबधश्छप्रत्यय इति स्थितम् । रूढस्यापत्यं रौढिः । अतइ । अनन्तरे गोत्रे वा । म चैवमिञश्चेत्यपूण प्रसङ्गः । नद्व्यचः प्राच्यभरतेष्विति निषेधात् । स्यादेतत् । यदि गोत्रोत्तरपदस्य वृद्धसंज्ञा विधीयते । तर्हि पिङ्गलकाण्व्यस्य छात्राः पैङ्गलकाण्वा इत्यत्र वृद्धाच्छः स्यात् । इष्यते तु कण्वादिभ्योगोत्रइत्यण् । सत्यम् । अत एवापरितोषादुक्तं वार्त्तिककृता गोत्रान्ताद्वासमस्तवदिति । शैषिकाधिकारे प्राग्दीव्यतोणित्यत्र वा इत्थमतिदेशः कर्त्तव्य इत्यर्थः । अपत्याधिकारादन्यत्वाच्च लौकिक गोत्रग्रहणादोदनपाणिनीया इत्यादि सिद्धयतीति भावः । किमविशेषेण, नेत्याह । जिव्हाकात्यहरितका - त्यवम् । कतशब्दो गर्गादिः । जिव्हा चपलो, हरितवर्णश्च कात्यः । तस्य छात्रा इत्यर्थे ऽणेव भवति जैव्हाकाता: हा'रितकाताः ॥
"त्यदादीनि च ॥ एतानि वृद्धसंज्ञानि स्युः । त्यदीयम् । अदसीयम् । इदमीयम् । किमीयम् | त्वादायनिः । मादाय - निः । उदीचांवृद्धादिति फिब् । प्रत्ययोत्तरपदयोश्चेति त्वमा
Page #377
--------------------------------------------------------------------------
________________
१ पा. ९ आ. शब्दकौस्तुमः ३७७ वादेशौ ॥ - एड्माचां देशे ॥ यस्यचामादिरितिमण्डूकप्लुत्या ऽनुवर्तते । एङ् यस्याचामादिस्तद्वद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । एडिति किम् । आहिच्छत्रः । कान्यकुब्जः । विधेयसंज्ञासम्बन्धबलेन पृथग्विभक्त्युच्चारणाच मागग्रहणमाचार्यनिर्देशार्थम् । व्यवस्थितविभाषा चेयम् । तेन क्रोडदेवदत्तशब्दयोरमागदेशवाचिनोर्न वृद्धसंज्ञा तेन क्रौडो देवदत्त इत्यणेव भवति । प्राग्. देशवाचिनस्तु देवदत्तशब्दस्य भवत्येव वृद्धसंज्ञा । ततः काश्या. दित्वादृद्धलक्षणौ ठनिठौ भवतः । शैषिकेष्विति वक्तव्यम् । सैपुरिकी । सैपुरिका । स्कौनगरिकी । स्कौनगरिका । सेपुरं स्कोनगरं च वाहीकग्रामौ । तत्र वृद्धत्वाद्वाहीकग्रामेभ्यश्चेति ठविठौ भवतः शैषिकोष्विति वचनादपत्ये वृद्धलक्ष. णः फिञ् न । विकारे च नित्यं वृद्धति मयण न । सदेवं कुणिमतं भाष्यमतं चानुसृत्य प्राग्ग्रहणमाचार्यनिर्देशार्थमिति व्याख्यातम् । जयादित्यस्तु प्राचि देशे ये सन्ति ते पाचः पुरुषास्तेषां यो देश स्तदभिधानइति व्याचख्यौ । प्राचामित्यस्य च श्रूयमाणदेशविशेषणत्वे सम्भवति अध्याहर्तव्येन मतेनेत्यनेनान्वयो न कल्प्य इति तस्याशयः । अस्मिन् पक्षे वाहीकग्रामे दैवदत्त इत्यत्र क्रौड इत्यत्र वा ऽवृद्धत्वादेव उचि. ठौ न भवत इति स्पष्टम् । किं तु सैपुरिकीत्यादिभाष्योदात्दृतं वचनेनैव साधनीयं स्यादिति दिक् । देशइति किम् । गोमती नाम प्राग्देशनदी तत्र भवा मत्स्याः गौमताः । दे. शग्रहणेन नदी न गृह्यते नदीदेशो ऽग्रामा इति पृथगुपादानाल्लिङ्गात् । प्रागादिदेशविभागस्त्वित्थम् । शरावती नाम न
४८
Page #378
--------------------------------------------------------------------------
________________
३७८
शब्दकौस्तुभः ।
[ १ भ०
दी उत्तरपूर्वाभिमुखी तस्या दक्षिणपूर्वस्यां दिशि व्यवस्थितो देशः प्राग्देशः । उत्तरापर स्यामुदग्देशः । उक्तञ्च । प्रागुदञ्च विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसिद्धयर्थं सा नः पातु शरावतीति || अमरसिंहोप्याह । लोकोयं भारतं वर्षे शरावत्यास्तु यो ऽवधेः । देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तर इति ॥ अमरव्याख्यातारस्तु ऐशानीतो नैर्ऋत्यां पश्चिमान्धिगामिनी शरावतीति वदन्ति । उभयथापि मा गुदक्स्वरूपे न विवादः । वाहीकदेशस्तु प्रागुदम्बहिर्भूतः । बहिषष्टिलोपो यश्चेति व्युत्पादनादिति विवरणम् । तचिन्त्यम् । अव्ययात्त्यविति सूत्रे काश्यादिभ्यष्ठञ्ञिठाविति वार्तिकं व्याचक्षणेन भगवता शाकलनाम्नो ग्रामस्योदीच्यवाहीकोभयरूपताभ्युपगमाम् । तत्र हरदत्तादिभिस्तथैवानुवादाचं । तस्माद्वाहीको देशविशेष इत्येव तत्त्वम् । तथा च कर्णपर्वणि । पश्चानां सिन्धुषष्ठानामन्तरं ये समाश्रिताः । वाहीका नाम ते देशा न तत्र दिवस वसेदिति ॥ एतेन धर्मबहिभूतत्वाद्वाहीका इत्युक्तं भवति । शतदूर्विपाशा इरावती वि तस्ता चन्द्रभागेति पञ्च नद्यः, सिन्धुनदस्तु षष्ठः, तन्मध्यदेशो वाहीक इति तद्व्याख्यातारः । व्युत्पन्त्यन्तरं तु तत्रैव दर्शितम् । वहिकश्च वहीकश्च विपाशायां पिशाचकौ । तयोंरपत्यं वाहीका नैषा सृष्टिः प्रजापतेरिति ॥ एतच्च विवेचनं बाहीकग्रामेभ्यश्चेत्यादावुपयोक्ष्यतइति सर्वे सुस्थम् ॥ इति श्रीविद्वन्मुकुटरत्नस्य लक्ष्मीघरसूरेः सूनुना भट्टोजि भट्टेन कृते शब्द कौस्तुभे प्रथमाध्यायस्य प्रथमे पादे नवममान्हिकम् || पादश्चायं प्रथमः समाप्तः ॥
Page #379
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुमः ।
३७९ गाङ्कुटादिभ्यो णिन्डिन्त् । गाडनदेशात्कुटादेश्व परेऽणित: प्रत्यया द्वित्स्युः ॥ अध्यगीष्ट। विभाषालुङ्डोरितीडो गाङ् । इह विशेषणार्थ एव हि गाडादेशे डकार इति गाङ्लिटीति सूत्रे वक्ष्यते । कुटिता । कुटितुम् । अणित्किम् । कोटः । पञ् । चुकोट । व्यचे कुटादित्वमनीति वक्तव्यम् । एतच्च षष्ठे लिट्यभ्यासस्येति सूत्रे भाष्ये पठितमपि सन्दर्भशुद्धयर्थ वृत्तिकृतेह पठितम् । तुदादिगणे कुटादिभ्यः पाक् पठितस्य व्यचेः कुटादित्वं वार्तिकेनातिदिश्यते । विचितुम् । विचिता । अनसि किम् । उरुव्यचाः । अत्र हरदत्तः । अनसीति पर्युदासात्कृत्येवेदम् । तेनेह न । विव्यचिथ । अ. व्याचीत् । अव्यचीत् । के चित्तु प्रसज्यप्रतिषेधमाश्रित्य थला. दिष्वपि डित्त्वमाहुः । तत्तु वाक्य भेदादसमर्थसमासाच्चायुक्तमिति माधवादयः । अथ कथं लिखितुं स्वयमेव लिखिष्यते इति । अत्र दुर्घटादयः, कण्वादिभ्य इत्यत्रेव षष्ठीतत्पुरुषबहुब्रीह्योः सहविवक्षया बहुव्रीहिशेषोयम् कुटादिभ्य इति । तेन लिखेरपि कुटस्यादितयात्र सङ्ग्रह इति । तन्न । शकुनिष्वा. लेखनइति सौत्रप्रयोगविरोधापत्तेः । रलोव्युपधा, दीश्वरेतोसुनित्यत्र वृत्तिग्रन्थविरोधाच्च । तत्र हि लिखित्वा लेखित्वा लिलिखिषति लिलेखिपति विलेखितुमिति प्रदर्शितम् । तस्मा. संज्ञापूर्वकतया समाधेयमिति हरदत्तः । कथं चुकुटिषतीति सनो ङित्त्वाद्यङन्तादिव तझसङ्गात् । मैवम् । उपदेशग्रहणानुवृत्त्योपदेशे यो ङित्तदन्तादात्मनेपदमिति व्याख्यानात् ॥
विज इट् ॥ विजेः पर इडादिः प्रत्ययो डित्स्यात् । उद्विजितुम् । इट् किम् ॥ उद्वेजनम् । इह वृद्धिर्यस्येतिमूत्रान्मण्डूकप्लुत्या यस्यादिरित्यनुवर्तते तेनेडादिः प्रत्ययो लभ्यते न तू
Page #380
--------------------------------------------------------------------------
________________
२८०
शब्दकौस्तुभः तमैकवचनमिट् । तथाहि सति विजिषीयेत्यत्रैव स्यात् । ओविजीभयचलनयोरिति विजिरिह गृह्यते न तु पृथग्भावार्थ इरित् तस्यानिटकत्वादिति हरदत्तः । न च क्रादिनियमाल्लिटीट् संभवत्येवोत वाच्यम् । तत्र कित्वेन गतार्थत्वादिति तस्य भा. वः । वस्तुतस्तु मेद युक्तम् । विवेजिथेति थलीट्सम्भवात् । तअच किन्त्वेन गतार्थत्वादिति तस्य भावः । वस्तुतस्तु नेदं युक्तम् । पित्वेन कित्त्वाभावात् । तस्मात्कुटादिसाहचर्यात्तुदादेरेव ग्रहणं न तु जुहोत्यादेरिति बोध्यम् । नन्वेवं रुधादेरपि ङित्त्वादुद्विजितत्याधुदा हरता माधवेन सह विरोध इति चे,त्तार्ह व्याख्यानादेव जुहोत्यादेरग्रहणमित्यस्तु । हरदत्तोक्तिस्तु दुष्टैवेति दिक्॥
विभाषोर्णोः ॥अस्मादिडादिप्रत्ययो डिदास्यात् ।ऊर्णविता ऊर्णविता । इडिति किम् । ऊर्णवनीयम् ॥
सार्वधातुकमपित्॥अपित्सार्वधातुकंडिद्वत्स्यात् । विनुतः।इह परत्र परशब्दप्रयोगात्कल्प्यमानो वतिः सप्तम्यन्तान कल्प्यो कितीव डिन्द्वदिति । तथासति प्रतियोगनि सप्तमीप्रसङ्गात् सार्वधातुके ऽपितीति । पूर्वबाप्येवमेव अणितीति । इटीति च । सप्तमी स्यात् । श्रूयते तु सर्वत्र प्रथमा । तस्मात्तृतीयान्तादेव वतिा:सा तुल्यं द्विदिति । अत एव पचेते इत्यादौ डिन्तो यत्कार्यमातोडिन्त इतीय सोपि भवति । नन्वेवं यादम्पतीसमनसा सु. नुत इत्यत्र तास्यनुदात्तोन्डिादिति लसार्वधातुकानुदात्तत्व स्यादिति चेन । उपदेशग्रहणस्योभयसम्बन्धेन डिदुपदेशाददुपदेशाच्चेति षाष्ठभाष्ये व्याख्यातत्वात् । अन्दिङोरिति पर्युदासेनोपदेशे इन्कारवतो ग्रहणाद्वा । सप्तम्यन्ताद्वतिरित्येव परः षावृत्तिग्रन्यस्त्वापातत इत्येष निष्कर्षः । अत्र पिच्च डिन डिच्च
Page #381
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुभः ।
३८१ पिन भवतीति वाक्यार्थद्वयं डितिचेति सूत्रे वर्णितस्माभिः । भाष्ये तु हलश्नः शानजिति सूत्रे स्थितमेतत् ॥
असंयोगाल्लिट् कित् ॥ असंयोगात्परोपिल्लिद् कित् स्या। निन्यतुः बिभिदतुः। अपित्किम् । बिभेद । असंयोगात्किम् । सस्रंसे । डिवे प्रकृते कित्करणं यजादीनां कितीति सम्प्रसारणार्थम् । ईजतुः ईजः । पूर्वत्रापि कित्त्वं कुतो न कृतमि चेत् , वतो वक्य इत्यत्र सम्प्रसारणापत्तेः । जागृतः जाग्रतीत्यत्र गुणापत्तेश्च । डिवे तु वच्यादीनां कितीत्युक्तेर्न सम्प्रसारणम् । अजाग्रोविचिण्णल्डित्स्विति पर्युदासान गुणः । ऋदुपधेभ्यो लिट: किन्त्वं गुणात्पूर्वविप्रतिषेधेन । किन्त्वस्यावकाशः ईजतुः ईजुः । गुणस्यावकाशः चेतति वढते ववृधे इत्यत्र पूर्वविप्रतिषेधाकित्त्वम् ॥
इन्धिभवतिभ्यां च ॥ आभ्यां लिट् कित्स्यात् । समीधे दस्युहन्तमम् ,पुत्रईधे अथर्वणः । बभूव । बभूविथ । इन्धेः संयोगार्थ ग्रहणं भवतेस्तु पिदर्थम् । इन्धीत्युच्चारणार्थेनेकारेण निर्देशः । सुतियोरिति वत् । नत्विश्तिपावितीका, नलोपापत्तेः । अत्र वार्तिकम् । इन्धेश्छन्दोविषयत्वाद्भुवोवुको नित्यत्वात्ताभ्यां लिटः किवचनानर्थक्यामति । अयमर्थः, इन्धेर्भाषायामिजादेश्चेत्यामा भाव्यम् । छन्दास तु अमन्त्रइति प्रतिषेधाद्यद्यप्याम्नास्ति तथापि छन्दस्युभयथेति लिटः सार्वधातुकत्वे डित्त्वात्समीधे इति नलोपः । श्नमभावस्त्वार्धधातुकत्वात् । व्यत्ययाद्वाभुवोपि वुङ् नित्यत्वादेव गुणवृद्धी बाधिप्यते । न च शब्दान्तरप्राप्त्या युगनित्य इति वाच्यम् । कृताकृतपसङ्गित्वमात्रेणापि लक्ष्यानुरोधान्नित्यत्वस्याश्रयणात् । शब्दान्तरमाप्त्या स्वरभिन्नस्य प्राप्त्या चानित्यतायाः सिद्धान्ते ब
Page #382
--------------------------------------------------------------------------
________________
२८२
शब्दकौस्तुभः । [१० हुधा त्यक्तत्वात् । एषैव सूत्रकृतोपि गतिः बभूवेत्यत्र वृद्धरनिग्लक्षणतया कतिचोत निषेधासम्भवेन बुको नित्यताया एवं शरणीकरणीयत्वात् । न च किवसामर्थ्यादनिग्लक्षणाया अपि वृद्धनिषधः । अहं बभूवेत्यत्र णित्वाभावपक्षे तथा थलि चरितार्थत्वात् । अत एव यङ्लाक णल्थलोबभूव बोभूविथति नित्यत्वादुकि सिद्धम् । न हि तत्र कित्त्वं प्राप्नोति स्तिपा निर्देशात् । तस्मादेतत्सूत्रं न कर्तव्यामिति भाष्ये स्थितम् । अत्र काशिका, श्रन्थिग्रन्थिदम्भिस्वजीनां वक्तव्यमिति । यचप्येतदिह सूत्रे भाष्ये नास्ति तथापि मणींवादेनति वनापामाणिकम् । तथा चात एकहल्पध्यइत्येत्वाभ्यासलोपौ प्रति नलोपस्याभीयत्वेनासिद्धौ सत्यां दम्भेश्चेतिवातिकमारब्धम् । आभात्सूत्रस्य प्रत्याख्यानाच्छसोरल्लोप इति तपरकरणेनानि त्यत्वाद्वा नेदं वार्तिकमावश्यकमिति तु षष्ठे वक्ष्यते । तथा सदेः परस्य लिटीति सूत्रे स्वजेरुपसंख्यानमिति बार्तिकस्य भाष्यकृता परिषस्वजइत्युदाहरणं दत्तम् । प्रयुज्यते च । तमिन्दुः परिषस्वजइति । एतच्च कित्त्वं पिदर्थमपिदर्थ चेति सुधाकरः । अपिदर्थमेवोत न्यासकारात्रेयादयः । हरदत्तस्तु सन्दिदेह। वस्तुतस्तु न्यासायुक्तमेव ज्यायः इह वृत्तौ पाष्ठभाष्ये चापित एवोदात्तत्वात् । श्रन्थ ग्रन्थ सन्दर्भ श्रेयतुः श्रेयुः । ग्रंथतुः ग्रेथुः।देभतुः देभुः । सखजे । सखजाते । के चितु श्रन्थिग्रन्थिदम्भिस्वजीनां वेति पठन्तः कित्वं विकल्पयन्तीति हरदत्तमाधवी । तन्मते ददम्भतुः शश्रन्थतुरित्याद्यपि । सुधाकरमते तु गल्यपि श्रेथग्रेथदेभति । स्यादेतत् । सर्वमतेषु श्रे. थतुर्ग्रन्थतुरित्यादि दुर्लभम्। सखजइतिवत्संयुक्तहल्मध्यस्थत्वादिति चेत् । सत्यम् । अत एव एत्वाभ्यासलोपावप्यत्र वक्तव्या
Page #383
--------------------------------------------------------------------------
________________
२८३
२ पा. १ आ. शब्दकौस्तुभः । विति हरदत्तः । अत्र मूलं मृग्यम् । तथा सुधाकरमते श्रेथिथ, न्यसादिमते शश्रन्थिथेति वदतो माधवस्याप्युक्तो मूलं मृग्यम्। कित्वे विप्रतिपत्तावपि थलि चसेटीत्यस्यापाप्तेरविशेषात् । तथा नलोपस्यासिद्धत्वादेत्वाप्राप्तौ वचनामति माधवोक्तिरपि शिथिलमूला । श्रन्थेतिमाग्भागे संयोगसत्त्वादन्थेरादेशादित्वाच्चैत्वाप्राप्तेरुद्भटतया नलोपसिद्धत्वासिद्धत्वविचारस्य काकदन्तपरक्षिापायत्वादिति दिक् । कौमाराणां तु सर्वमिदं सूत्रारू.
दम् । तथा च शर्ववर्मणा सूत्रितम् । अनिदनुबन्धानामगुणेनु। षङ्गलोपः । परोक्षायामिन्धिश्रन्थिग्रन्थिदम्भीनामिति । अ. स्यैकव्यञ्जनमध्येनादेशादेः परोक्षायाम् । थलि च सेटि । तृफलमजत्रप्श्रन्थिग्रन्थिदम्भीनां चेति । अत्र निरनुषङ्गैः साहचच्छिश्रन्थिथेत्यादीति दुर्गसिंहः । एवं स्थिते दम्भेश्चेति वातिकभाष्ययोः सामान्यापेक्षज्ञापकतामाश्रित्य दम्भिप्रभृतीनामन्यत्रोक्तं पाणिनीयेपीष्टमिति कथञ्चित्समर्थनीयम् ॥
मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।गुधकुषक्लिशिभ्यः क्त्वोरलोव्युपधादिति विकल्पे प्राप्ते इतरेभ्यो नक्त्वासेडिति निषेधे प्राप्ते कित्त्वं विधीयते । मुडित्वा । मृदित्वा । गुधित्वा । कुषित्वा क्लिशित्वा । उदित्वा । उषित्वा । वसतिक्षुधोरितीट् । यजादित्वात्संप्रसारणम् ॥ ___रुदविदमुषग्रहिस्त्रपिप्रच्छस्संश्च ॥ एभ्यस्संश्च क्त्वा च कितौ स्तः । रुदविदमुषाणां रलोव्युपधादिति विकल्पे प्राप्त ग्रहेस्तु विध्यर्थमेव । स्वपिप्रच्छयोस्तु सन्नर्थम् । तावतैव चरितार्थत्वादनिटः क्त्वः किन्त्वविधानं नियामकं स्यादिति न शङ्कनीयम् । रुदित्वा । रुरुदिषति । विदित्वा । विविदिषति । मुपित्वा । मुमषिषति । गृहीत्वा । जिघृक्षति । मुप्त्वा। सुषुप्सति।
Page #384
--------------------------------------------------------------------------
________________
ફે
'शब्द्रकौस्तुमः ।
[ १ अ०
पृष्ट्वा । पिपृच्छिषति । कित्वाग्रहादीनां सम्प्रसारणं किर "पञ्चभ्य इति प्रच्छेः सन इट् ॥
इको झल् ॥ इकः परो झलादिः सन् कित्स्यात् । चिची-पति । तुष्षति । चिकीर्षति । ननु चिस्तुकृञभ्यः सनि कृते गुणं बाधित्वाज्झनेति दीर्घोस्तु किं किन्त्वेन । न च पिपविषतीत्यादावपि तथा स्यादिति वाच्यम् । अनुनासिकस्यकीति सूलाज्झनुवृत्त्या झलादौ सनि दीर्घविधानात् । न चेह गुणमिव ज्ञीप्सतीत्यत्र णिलोपमप्यविशेषादीर्घो बाधेत । किन्त्वे : तु सति चिचीषतीत्यादौ कृतार्थो दीर्घो ज्ञीप्सतीत्यत्र पर - वाणिलोपेन बाध्यतइति वाच्यम् । येन नामाप्तिन्यायेन दीर्घस्य गुणापवादत्वात् । न च पुरस्तादपवादन्यायेन णिलोप एव बाध्य इति भ्रमितव्यम् । उभयापवादतासंभावनायामेव तदवतारात् । इह तु णिलोपेन सह येन नामाप्तिविरहात् । न च बाध्यसामान्यचिन्तायां णिलोपबाधो दुर्वार इति वाच्यम् । स्थाशपां ज्ञीप्स्यमान इति निर्देशालक्ष्यानुरोधाच्चे
:
वाध्यविशेषचिन्ताया एवं युक्तत्वात् । न चं कुटादौ गु पुरीषोत्सर्गे घुगतिस्थैर्ययोरिति पाठाज्जुगूषति दुधुपतीत्यत्र कृतार्थो दीर्घः परेण गुणेन बाध्येतेति वाच्यम् । उहनेति वक्त-व्ये अज्झनेति प्रत्याहारग्रहणस्य निरवकाशत्वात् । न च गमेरिङादेशस्येति वार्तिकं प्रत्याख्यातुं तन्त्रादिना सम्भवव्यभिचाचराभ्यां गमेरचा विशेषयिष्यमाणत्वादज्ग्रहणसार्थक्यं श कथम् । एवं हि उतो दीर्घ इत्युक्का इहनोरिति सूत्रयेत् । इणिकारादेशस्यापि ग्रहणमिति पक्षेपीहनोरिति ब्रूयात् । हना साहचर्याच्चेधातुरेव ग्रहीष्यते न त्विवर्णान्तः । यथान्यास - पाठेपि हनिसाहचर्याल्लुग्विकरणस्यादेशगमेर्ग्रहणसम्भवाच ।
Page #385
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुभः । तस्माद्दीर्घविधिना गुणवाधाकि कित्त्वेनेति । उच्यते । उतरार्थमवश्यमिकाझलिति कर्तव्यम् । योगविभागः किमर्थ इ. ति परमवशिष्यते । तत्राग्रहणसामर्थ्यस्य ज्ञीप्स्यमान इत्यादेपिकस्य च पर्यालोचनाक्लेशपरिहारार्थ लक्षणैकचक्षुषो वाध्यसामान्यचिन्ताभ्रमं वारयितुं योगविभाग इति निष्कर्षः । बार्तिकं तु यथाश्रुताभिप्रायकम् । तद्यथा, इकः कित्त्वं गुणो मा भूद्दीर्घारम्भात्कृते भवेत् । अनर्यकं तु इस्वार्थ दीर्घाणां तु प्रसज्यते ॥ सामर्थ्याद्धि पुनर्भाव्यमृदित्त्वं दीर्घसंश्रयम् । दीर्घाणां नाकृते दीर्घ णिलोपस्तु प्रयोजनम् ॥ अस्यार्थः । इक उत्तरस्य सनः किन्त्वं विधीयते गुणो मा भूदित्येवमर्थम् । दूष. यति । दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । आरम्भवाद्याह । कृते भवेदिति । अयं भावः। सनिमीमेत्यत्र मीग्रहणेन मिनोतिमपि ग्राहयित्वा दीर्घः कृतार्थ इति चिचीपतीत्यादौ कृतेपि दीर्घ गुणः स्यात् । दूषयति । अनर्थकं त्विति । मीनातिमिनोतीत्यात्वे कृते गामादाग्रहणेष्वविशेषान्मा. ग्रहणेनैव मिनोतिमीनात्योरपि सिद्धे मीग्रहणं तत्र मास्तु । तथा च दीर्घविधानं न कृतार्थमिति भावः । हूस्वार्थमिति । ह्रस्वेषु दीर्घः प्रवर्तताम् , न तु दीर्धेषु । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । ततश्च बुभूषतीत्यादौ गुणः प्रसज्यतएवेत्यर्थः । दूषयति । सामर्थ्यादिति । गुणनिवृत्तिरूपप्रयोजनसद्भावादीCणां दीधैर्भाव्यमेव , मोराजीतिवदिति भावः । न चैवं दीघेण गुणस्येव ऋदित्त्वस्यापि बाधः स्यात्तथा च चिकीर्षतीति न सिध्येदत आह । ऋदित्त्वमिति । यं विधि प्रतीति न्यायाद् गुण एव बाध्यो न तु ऋदित्त्वमित्यर्थः । ननु तितीर्षतीत्यादौ तर्हि इत्वं बाध्यता, तत्राह । दीर्घाणामिति । इत्वोत्वयो
Page #386
--------------------------------------------------------------------------
________________
१८१ भन्दकौस्तुभः। [१ ० हि गुणदीपरत्वाद्वाधिके । ततश्चाज्मनेति दीघेण गुणवापसत्येवेत्वं लभ्यं न तु ततः प्राक् । एवं च यस्य तु विधेरित्यंशो एस्वइव दीर्घष्वविशिष्ट इति भावः । एवं प्राप्ने सिदान्तमाह । जिलोपस्त्विति ॥
हलन्ताच्च । कर्मधारयोयम् । अन्तशब्दः समीपे परभूते वर्तमानो विशेषणमषि निपातनान पूर्वनिपतितः । इक इति पञ्चम्यन्तमपीह षष्ठचा विपरिणम्यते तत्सापेक्षोप्यन्तशब्दो नित्यसापेक्षत्वात्समस्यते । इक्समीपाद्धलः परो झलादिः सन् कित्स्यात् । बिभित्सति । इकः किं । यियक्षते । झल् किम् । विपर्धिषते । कथं विप्सतीति, हल्ग्रहणस्य जातिपरत्वात्सिद्धमि. त्युपपादितं निपातएकाजिति सूत्रे ॥
लिसिचावात्मनेपदेषु ।। इक्समीपादलः परौ झलादीलि. इतिङ्पर सिञ्चेत्येतो कितौ स्तः। भित्सीष्ट । अभित्त । इकः किम्। यक्षीष्ट अयष्ट। सम्मसारणं मा भूत् । आत्मनेपदेष्विति किम् । असाक्षीत् । अद्राक्षात् । अकितीत्युक्तेरम् न स्यात् । सिच एवेदं विशेषणं नतु लिङो ऽसम्भवात् । झलनुवृत्त्यैव लिङः परस्मैपदस्य व्यावर्तितत्वाच्च । हलः किम् । चेषीष्ट । अचेष्ट । मल किम् । वर्तिषीष्ट । अवतिष्ट ॥ ___ उश्च ॥ ऋवर्णात्परौ झलादी लिसिचौ कितौ स्तस्तङि। कृषीष्ट । अकृत । झलादौ किम् । वरिषीष्ट । अवरिष्ट । लिङ्सिचोरिती । तङि किम् । अकार्षीत् । ऋ इति वर्णग्रहणं क्यासिन्यायात् ॥
वा गमः ॥ गमः परौ झलादी लिसिचौ वा कितौ स्तः। सगसीष्ट । सहंसी । समगत । समयंस्त । कित्त्वपक्षे ऽनुदातोपदेशवनतीत्यादिनानुनासिकलोपः ॥
Page #387
--------------------------------------------------------------------------
________________
२पा. १ प्रा. शब्दकौस्तुमः ।
हनः सिन् । हन्तेः परः सिन् कित्स्यात् । आहत । आहसाताम् । आहसत । सिचः किन्वादनुनासिकलोपः। यद्य. पिसिजन्तस्याङ्गस्यात्मनेपदं ङित्परमस्तीत्यनिदितामित्येव सि. दं तथापि सिजन्तस्योपधालोगो नेति ज्ञापनार्थमिदन्तेनामस्तेत्यादि सिद्धम् । न चानिदिनामिति पर्युदासः शक्यः । सिच इकारस्योच्चारणार्थत्वात् । अन्यथा नुमापत्तेः । न च धातुग्रहणेन तद्बुथदासः । धातुग्रहणमुपदेशे नुम्पवृत्त्यर्थमिति कुण्डा हुण्डत्यादिसिद्धये भाष्यएव वक्ष्यमाणत्वात् । न च तासेापत्तये तत् । तत्रापीकारस्योच्चारणार्थत्वात् । न चैत्र मन्ता हन्तेत्यादावात्मनेपदे उपधालोपापत्तिः । आभीयस्य तासेष्टिलोपस्यासिद्धत्वात् । आभात्सूत्रप्रत्याख्यानपक्षे तु विकरणप्रयुक्तमुपधात्वमाश्रित्य लोपो नेति सामान्यापेक्षं ज्ञापकमस्तु । अङ्गत्तपरिभाषया वा मन्ता हन्तति साध्यताम् । न न्वाहतेत्यत्रातो लोपं व्यावर्तयितुं समानाश्रयत्वप्रयुक्ता सिद्धतापेक्ष्यते , सा च सिचः किचं विना न निर्वहतीति कथं ज्ञापकतेति चेन्न । आर्धधातुकोपदेशे यदकारान्तमिति व्याख्यानादेव लोपाप्रवृत्तेः । जयादित्यस्तु सिन्नास्योरिदित्करणमनुनासिकलोपप्रतिषेधार्थमित्याह । तन्मते धातुग्रहणस्य तद्व्यावृन्त्या कृतार्थत्वान्नुम्बिधावुपदोशवद्वचनं प्रत्ययसिद्धयर्थमिति व. चनमेव शरणीकरणीयमिति दिक् । यद्यपीह लिसिचावित्य. नुवृत्त्या सिद्धं तथाप्युत्तरार्थमवश्यकर्तव्यं सिन्ग्रहगं स्पष्टत्वार्थमिहैव कृतम् । अन्यथा हि लिङि वधादेशो नित्यः घानिषष्टिति चिण्वदिदि स्थानिवत्सूत्रोक्तरीत्या वधादेशाभावेपि अझलादित्वान्न कित्त्वमित्यादि व्युत्पादनीयं स्यात् ॥
यमो गन्धने ॥ सूचनाथायमेः सिच् कित्स्यात् । उदाय.
Page #388
--------------------------------------------------------------------------
________________
५८८ शब्दकौस्तुभः । [१ अ. त। उदायसाताम् । उदायसत । धातूनामनेकार्थत्वात्सूचनेत्र यमिवर्तते । तच्च परदोषाविष्करणम् । आङोयमहन इत्यात्मनेपदं धास्वर्थेमोपसङ्ग्रहादकर्मकत्वात् । सिचः किन्त्वादनुनासिकलोपः । गन्धने किम् । उदायंस्त पादम् । आकृष्टवानित्यर्थः । स्वाङ्गकर्मकत्वात्तङ् । उदायस्त कूपाद्रज्जुम् । उद्धृसवानित्यर्थः । सकर्मकत्वपि समुदाभ्यो यमोऽग्रन्थइत्यास्मनेपदम् ॥ • विभाषोपयमने ॥ यमे सिन् किद्वा स्याद्विवाहे । रामः सीतामुपायत उपायंस्त वा । उदवोढेत्यर्थः । उपाद्यमः स्वकरगइति तङ् । गन्धनाङ्गे तूपयमने पूर्वविप्रतिषेधेन नित्यं कित्वमिति नवेतिविभाषेति सूत्रे भाष्ये स्थितम् ॥ .... स्थाध्वोरिच्च॥ अनयोरिदादेशः स्यात्सिच्च कित्स्यात् ।। उपास्थित । उपास्थिषाताम् । उपास्थिषत । . उपान्मन्त्रकरणे अकर्मकाच्चेति तङ् । घोः । अदित अधित । धुस्थोरितीह वक्तुं युक्तम् । यद्यपि जयादित्येन वागम इत्यारभ्यः पञ्चसूत्र्यामात्मनेपदेष्वित्यनुवर्तितं तथापि निष्फलत्वादुपेक्ष्यम् । तथाहि । गमेः परस्मैपदे सिज्नास्ति । अङा बाधात् । लिङ् नु न झलादिः । न चात्मनेपदमेवानुवर्त्य झल्ग्रहणं त्याज्यामिति वाच्यम् । उत्तरसूत्रस्याघानिषातामिति चिण्वदिटि अतिव्याप्त्यापत्तेः । हन्तेस्तु परस्मैपदे वधादेशो नित्यो यमेस्तु यमरमेतीद्सकोः सतोझलादिः सिच् परस्मैपदे नास्ति । उपयमे तु नित्यमात्मनेपदम् । स्थावोः परस्मैपदे सिचो लुक् । एवं स्थिते हनः सिच्सूत्रे यदुक्तं वृत्तिकृता आत्मनेपदग्रहणमुत्तरार्थमनुवर्ततइति । तदप्यापातरमणीयमेव । तस्माघथाव्याख्यानमेव साधु । स्यादेतत् । भाव्यमानस्य सवर्णा
Page #389
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुभः ।
३८९ ग्राहकत्वादिति तपरकरणं व्यर्थम् । सत्यम् । इश्वेत्युक्तेपि लाघवे विशेषाभावादिच्चेत्युक्तमिति तत्त्वम् । भाव्यमानोपिक चित्सवर्णान् गृह्णातीति कुशकाशावलम्बनेन तु वार्तिकम् । इच्च कस्य तकारेत्वं दीर्घा मा भूदृतेपि सः। अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृत इति ॥ अस्यार्थः। इच्चति तकारेत्वं कस्य चित् सिद्धये इति प्रश्नः । हेतोरपि सामान्यतः सम्बन्धित्वेनैव विवक्षायां षष्ठी, अन्यथा हेताविति तृतीया स्यात् । अत्र तकारस्येत्वोक्तिरापातत इत्युक्तमेओसूत्रे । यद्वा । तकारमेतीति तकारेत् । तपर इति व्याख्येयम् । तथा च भाष्यम् । कस्य हेतोरिकारस्तपरः क्रियतइति । अमूभ्यामित्यादाविव भाव्यमानोप्यान्तरतम्यादी? मा भूदित्युत्तरम् । कृतेपीति । इच्चेत्यशादृतेपि स्थाचोरिति कित्त्वे सति घुमास्थेतीत्वेन सिद्धे विधानसामोदनन्तरतमोपि ह्रस्वः सिद्धस्ततिक तपरेणति पुनः प्रश्नः । अनन्तरे इति । असदृशे आदेशे क्रियमाणे ह्रस्व इव प्लुतोपि स्यात्स मा भूदित्यर्थः । प्लुतश्चेति । विषयविशेषे वाक्यस्य टेरित्यधिकृत्य हि प्लुतो वक्ष्यते । अत एव कुरूनगमनित्यादौ स्मृतो, न स्वास्थितेत्यादौ । आदित्वात्। तथा चेष्टापत्तिने कार्येति तपरत्वं समर्थितम् । प्राश्चस्तु अनन्तरे ऽविद्यमानेपि विशेषे, घुमास्थेतीत्वेन सिद्धपीति यावत् । प्लुतो मा भादित्येतदर्थ दीर्घः स्यान्मोराजीतिवत् । अस्त्वेवमिति चेन्न । प्रनाख्यानादिरूपे विषये प्लुतस्येष्यमाणत्वात् । तदेवं स्थलान्तरे भिन्नकालनिवृत्त्यर्थमपि तपरत्वमिह दीर्घनिवृत्तिद्वारा प्लुतसिद्धयर्थ पर्यवस्यतीति व्याचख्युः । अपरे तु यद्यनेन प्लुतो विधीयते तर्हि यत्राष्टमिकस्य विषयस्तत्राप्यनेनैव स्यात् तस्यासिद्धत्वात् । ततश्च पक्षे ऽनुवाददोषः स्यात् । अतो ह्रस्व एव
Page #390
--------------------------------------------------------------------------
________________
३९० शब्दकौस्तुमः। [१.अ. भविष्यतीति तपरकरणप्रत्याख्यानपरश्चतुर्थचरण इति व्याचख्युः। एतच्च मतद्वयमप्ययुक्तम् । अनन्त्यस्यापीत्यादीनां टिसंज्ञा विरहादिहाप्रवृत्तेः । कैयटोपि मतद्वयखण्डनपरतयैव नेयः।न्यासहरदत्तादयस्तु आष्टमिकग्रन्थत्त्यादिभिश्च विरोधादुपेक्ष्यः भाष्यं त्वस्मदुक्तव्याख्यानुगुणमेव । यदा विषयस्तदैव प्लुतेन भवितव्यमिति योजनया नेह प्लुतस्य विषयोस्तीति ध्वनितस्वादिति दिक्॥ ....
न क्त्वा सेत् ॥ सेट् क्त्वा किन्न स्यात्।देवित्वा। सेट् किम् । कृत्वा । क्त्वाकिम् । निगृहीतिः । अत्र वात्तिकं, नसेडिति कृते ऽकित्त्वे निष्ठायामवधारणात् । ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ॥ इन्त्वं कित्संनियोगेन रेण तुल्यं सुधीवनि । वस्वर्थ किदतीदेशाद् गृहीतिः क्त्वा च विग्रहात्।। अस्यार्थः । पूर्वार्द्धमेको ग्रन्थः । तत्रोत्तरार्धात्यपकृष्यते । क्त्वाग्रहणं त्यक्त्वा, नसेडित्येतावतापि योगेनाकित्त्वे कृते गुधित इत्यादौ निष्ठायां नाकित्वम् । कुतः । अवधारणात् । निष्ठाशीडित्यनेन । शीगदिम्य एव निष्ठा न किदिति नियमादित्यर्थः । विपरीतनियमस्तु लक्ष्यानुरोधान्न व्याख्यास्यते । न चैवं लिटि प्रतिषेधाजग्मिवेत्यादावुपधालोपो न स्यादत आह । ज्ञापकादिति । किं त, तत्राह सनीति । शिशयिषतइत्यत्र कित्वं वारयितुं क्रियमाणमिकोझलिति झल्ग्रहणं ज्ञापयति आतिदेशिकस्य कित्त्वस्य . नायं निषेध इति । ननूतरार्थे झल्ग्रहणं स्या नेत्याह । इत्त्वमिति । उपास्यायिषातां हरिहरौ भक्तेनत्पत्र अस्था स आ लामिति स्थिते इत्वम्पासचिवद्भावश्च । परत्वाच्चिण्वद्भावे कृते युक् च प्राप्तइद्विधिश्च । अपवादत्वाद्युकि कृते यकारस्यत्मसाः । तं वारयितुं अल्ग्रहणमिति ज्ञापकभावादिनो म
Page #391
--------------------------------------------------------------------------
________________
२ पा. १ भा. शब्दकौस्तुभः । मतम् । तत्र । न सेडिति सिचोपि कित्त्वे निषिद्धे सत्संनियोगशिष्टतया इन्त्वस्याप्रवृत्तेः । अब दृष्टान्तमाह । रेणेति । शोभ. ना धीरानोस्यां सुधीवेत्यत्रानोबहुव्रीहेरिति लीपो निषेधे वनोरचेति रेफोपि न भवति, तथेत्यर्थः । भाष्ये त्वभ्युपेत्यापि समाहितमिन्वे कृतोप वृद्धिर्भविष्यतीति । युका हि आकारस्य वृद्धिर्वाध्यते न विकारस्यापीति भावः । जग्मिवानित्यत्र क. सोः किन्त्वनिषेधं वारयितुं त्वाग्रह इति शङ्कते । वस्वर्थमिति । दूषयति । किदतिदेशादिति । औपदेशिकस्य निषेधेप्यातिदेशिकेन सिद्धं, तदनिषेधस्य ज्ञापितत्त्वादिति भावः । स्यादेतत् । संयोगान्तष्वातिदेशिककित्त्वाभावादौपदेशिकमेव शरणम् । अओराजिवानिति यथा । अत्राहुः । आनुात्सिद्धम् । नलोपे कृते द्विवचने एकादेशे च वस्वेकाजितीट् । कृताद्ववचनानामेकाचामिति सिद्धान्तात् । न चेदानी किन्त्वप्रतिषेधः । उपजी. व्यविरोधात् । किप्त्वे हि प्रतिषिद्धे नलोपनिवृत्तौ द्विहत्त्वान्नुटि एकाच्त्वाभावादिडेव नावतिष्ठेत । किञ्च कसोश्छान्दसत्वात्सार्वधातुकत्वे सार्वधातुकमपिदिति ङिन्त्वात्सिद्धम् । एवं स्थिते सिद्धान्तमाह । गृहीतिरिति । किन्निवृत्त्यर्थ क्त्वाग्रहणमित्यर्थः । तितत्रेष्वग्रहादीनामितीद् । कित्त्वात्संप्रसारणम् । एवं कुंचकौटिल्याल्पीभावयोः । निकुचितिः । कित्त्वान्नलोपः । उपस्निहितिः । कित्त्वान्न गुणः । इदानी क्त्वाग्रहणं प्रत्याचष्टे । क्त्वाचति । विग्रहादिति । योगविभागा. दित्यर्थः । अयं भावः। न सेण्निष्ठाशीडित्यादित्रिसूत्रीं पठित्या पूङः क्त्वाचेत्यत्र योगो विभज्यते । पूङः परा सेनिष्ठा किभ स्यात् । ततः त्वा च, सेट किनेत्यनुवर्तते पूरु इति निवृत्तम् । एवं चैकं क्त्वाग्रहणं प्रत्याख्यातम् । योगविभागस्तु पू.
Page #392
--------------------------------------------------------------------------
________________
३१२
शब्दकौस्तुभः । [१ अ. वैमैकसूत्रेण सह निमातव्यः ॥ : · निष्ठाशीस्विदिमिदिक्ष्विदिधृषः ॥ एभ्यः परा सेनिष्ठा किन्न स्यात् । शयितः शयितवान् । अनुबन्धनिर्देशो यङ्लु. निवृत्त्यर्थः। शेश्यितः । शेश्यितवान् । एरनेकाच इति यण् । विष्विदा स्नेहनमोचनयोः । भ्वादिः। प्रस्वेदितः प्रस्वेदितवान् । यस्तु विदा गात्रप्रक्षरणइति दिवादिरभित् स नेह गृह्यते । त्रिद्भिः साहचर्यात् । लिमिदा स्नेहने । प्रमेदितः। प्रमेदितवान् । विश्विदा रोहनमोचनयोरिति दिवादियते न तु विक्ष्विदा अव्यक्ते शब्दइति भ्वादिरपि, मिदिना साहचर्यादिति हरदत्तस्तच्चिन्त्यम् । भ्वादिष्वपि मिदेः पठ्यमानत्वात् । तस्मादविशेषादुभयोर्ग्रहणं न्याय्यम् । प्रक्ष्वेदितः। प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधार्षतवान् । सेद् किम् । विभः विनवान् । आदितश्चेतीनिषेधः । विभाषाभावादिकर्मणोरिति पक्षेभ्यनुज्ञायते । स कित्त्वप्रतिषेधस्य विषयः॥ · मृषस्तितिक्षायाम्।।सनिष्ठा किन स्यात् ।मर्षितः मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः । तितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतार्थनिर्देश उदाहरणमात्रं न तु परिसंख्येति ॥ .... उदुपधाद्भावादिकर्मणोरन्यतरस्याम्॥उकारोपधाद्धातोःपरा भावादिकर्मणोविहिता सेण निष्ठा वा किन्न स्यात् । यतितम् । घोतितम् । मुदितं, मोदितं साधुना। प्रद्युतितः । प्रद्योतितः । प्रमुदिवः, प्रमोदितस्साधुः । उदुपधात्किम् । किटितम् । खिटि‘तम् । भावेत्यादि किम् । रुचितङ्कार्षापणम् । सेट् किम् । क्रुष्टम् । उदुपाधाच्छप इति भाष्यं, शब्धिकरणेभ्य एवेष्यतइत्यर्थः। नेह गुधपरिवेष्टने दिवादिः । गुथितम् ॥ . ..
Page #393
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुमः ।
३९३ पूङः क्त्वा च ॥ पूङः परे सेट्क्त्वानिष्ठे कितौ न स्तः । नित्योयं योगः । विभाषयोर्मध्ये पाठात् । पवितः । पवितवान् । पवित्वा । क्लिशः क्त्वानिष्ठयोः, पूङश्वेतीद् । नक्त्वासेडिति सिद्धे क्त्वाग्रहणं प्रागुक्तरीत्या योगविभागेन तत्पत्याख्यानार्थम् । सूत्ररीत्या तूत्तरार्थम् । तथा च भारद्वाजीयाः पठन्ति, नित्यमकित्वामिडायोः क्त्वाग्रहणमुत्तरार्थमिति । कात्यायनस्तु, इह सेडिति निवर्त्य विकल्पं चानुवर्त्य अनिट एव कित्वं विकल्प्य किन्त्वाभावे पवितः पवित्वेत्यादिसिद्धौ किन्त्व. पक्षे प्रयुकः कितीतीनिषेधात् पूतः पूतवानित्यादिसिद्धौ सत्यां पूङश्चति सूत्रं प्रत्याचख्यौ उत्तरसूत्रे वाग्रहणं च । किं त्वस्मिन्पक्षे उत्तरत्र से ग्रहणं मण्डूकप्लुत्यानुवर्तनीयमिति क्लेशः । पूर्वकृतं क्त्वाप्रत्याख्यानं त्विदानी न सङ्गच्छते मृडमृदेति ज्ञापकाद्वा नक्त्वासेडित्यर्थः साधनीयः । न च खपिच्छिग्रहणादनिदकस्याप्यकि-त्वं स्यादिति वाच्यम् । तस्य सनर्थत्वात् । अन्यथा क्त्वः किन्त्वस्य वैयपित्तश्चेति दिक् । इदं त्ववधेयम् । पूङः क्त्वाचेत्यत्र सानुबन्धनिर्देशः स्पष्टार्थो न तु पूओ निवृत्यर्थः । तत्रेटो दुर्लभत्वात् । इड्विधौ पूङ एव निदिष्टत्वात् । नापि यलुनिवृत्त्यर्थः । इड्विधावनुबन्धनिर्देशेन यङ्लुकि पूडोपीडभावात् । यत्तु यलुक्यार्धधातुकस्येडितीडस्त्येव । न च श्युकः कितीतीनिषेधः । तत्रैकाच इत्यनुवर्तनात् । उक्तं हि यविधौ वार्तिककृता, एकाचश्चदुपग्रहादिति । एवं यलुनिवृत्त्यर्थमनुबन्धोच्चारणमिति मतम् । अस्मिन् पक्षे पोपुवितः पोपुवितवानिति निष्ठायां भवति क्त्वायां तु गुणे पोपवित्वेत्येव । नक्त्वासेडिति किन्त्वप्रतिषेधः । न च क्त्वाग्रहणसामर्थ्यात्तस्यापि यङ्लुकि प्रतिषेधः। तस्योत्तरा
Page #394
--------------------------------------------------------------------------
________________
३९४ : शब्दकौस्तुभः । [१ अ. थस्वात् । अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वादतः एव क्त्वा च विग्रहादिति वार्तिकं सङ्गच्छते 1 इह किञ्चित्रपोइतीति न्यायेन प्रकृतेप्युपयोगे हि तद्विरुध्येत। अत एक क्त्वाग्रहणमुत्तरार्थमिति भारद्वाजीयोक्तिरपि सङ्गच्छतइति दिक् ॥
नोपधात्थफान्ताद्वा ॥ निष्ठत निवृत्तं चानुकृष्ठत्वात् । नकारोपधात्. थान्तात् फान्ताच परः सेट् क्त्वा किन स्याद्वा । अथित्वा । ग्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात् किम् । रिफ कत्थनादौ, रेफित्वा । इह रलोव्युपधादिति विकल्पोपिन प्रवर्तते । नोपधग्रहणसामर्थ्यात् । ननु तृफतृम्फ हिंसायाम् । अत्राघ ऋकारोपधत्वात् नोपधग्रहणस्य व्यावयोस्त्विति चेत्, मैवम् । अर्पित्वा तृफित्वा तम्फित्वेति त्रैशयस्य नोपधग्रहणसत्वासत्वयोरविशिष्टत्वात् । सति हि तस्मिन् नक्त्वासेडिति प्रवृत्ते ऋदुपंधस्यार्फित्वति भवति । नोपधस्य त्वस्मिन् विकल्पे तृफित्वा तुम्फित्वति । असत्यपि नोपधग्रहणे सर्वत्र प्रकृतविकल्पप्रवृत्तौ सत्यां तदेव रूपत्रयम् ।
वञ्चिलुच्युतश्च ॥ एभ्यः सेट् क्त्वा न कित् स्याद्वा । वञ्चु गतौ भ्वादिः । वञ्चु प्रलम्भने चुरादिः सोपि गृह्यते. चुरादीनामनित्यण्यन्तत्वात् । वचित्वा । वञ्चित्वा । उदितोवेति वेट । इडभावे तु कित्त्वमस्त्येव वक्त्वा । लुञ्च अपनयने, । लुचित्वा लुश्चित्वा । ऋतेरीयार्धधातुके विकल्पितः । तदभावे ऋतित्वा अर्तित्वा । सूत्रे उच्चारणार्थ इकारो वञ्चिलुचीति न त्विक् । नलोपप्रसङ्गात् । ऋदिति धातुरव गृह्यते । न तु ऋदन्ताः । पूर्वसूत्रेन्तग्रहणेनेह प्रकरणे यत्नं विना तदन्तविधिर्नेति ज्ञापितत्वात् ।।
तृषिमृषिषेः काश्यपस्य ॥ एभ्यः सेट् क्त्वा किद्वा स्या
Page #395
--------------------------------------------------------------------------
________________
२ पा. १ आ.
शब्दकौस्तुमः ।
३९५
"
त् । काश्यपग्रहणं पूजार्थं वेतिप्रक्रमात् । नक्त्वासेडिति निषेधे प्राप्ते विकल्पोयम् । तृप पिपासायाम् । तृषित्वा । तर्षित्वा । मृष तितिक्षायाम्, मृषित्वा । मर्षित्वा । कृश तनूकरणे । कृशित्वा । कात्वा । न्यासग्रन्थे तु कृष विलेखनइति काचित्कः प्रमादपाठः । अनित्वात् ।।
रलो व्युपधाद्धलादेः संश्च ॥ उश्च इश्व वी ते उपधे यस्य तस्माद्धलादेरलंतात् परौ क्त्वासना सेटौ वा कितौ स्तः । - तित्वा द्योतित्वादिद्यतिषते दिद्योतिषते । द्युतिस्वाप्योरिति संप्रसारणम् । रलः किं, देवित्वा दिदेविषति । व्युपधात् किं वार्तित्वा विवर्त्तिते । हलादेः किम् । एषित्वा । एपिविपति । इह नित्यमपि द्वित्वं गुणेन वाध्यते ओणेऋदित्करणेन सामान्यत उपधाकार्यस्य द्वित्वात्मावल्यज्ञापनात् । सेट् किम् । भुक्त्वा बुभुक्षते । आदिग्रहणं स्पष्टार्थम् । व्युपधस्य हलन्तत्वाव्यभिचारात् ॥
ऊकालोज्झस्वदीर्घप्लुतः ॥ ह्रस्वदीर्घप्लुत इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । ऊ इति त्रयाणां श्लेषेण निर्देशः । तत्र न तावदन्ते मात्रिकः । विभाषा पृष्ठप्रतिवचनेरिति हे: प्लुतविधानात् । नापि मध्ये । सुपिचेति दीर्घविधानात् । द्विमात्रिकस्तु नान्ते । ओमभ्यादानइति प्लुतविधानात् । परिशेपादेकमात्रमात्र त्रिमात्राणां क्रमः सिद्धः । यत्तु घित्वात्पूम्भवेद् ह्रस्वः प्लुतोन्ते सन्धितो मत इति मैत्रेयः । तद्भाष्यादर्शनप्रयुक्तम् । यतः व्यत्यासे एकमात्रस्य ह्रस्वत्वं त्रिमात्रस्य प्लुतत्वमित्येव दुर्लभमिति भगवतैव दूषितम् । ईचाक्रवर्मणस्येत्यत्रेवेहापि सूत्रे केचिदू ई इति प्लुतद्योतिकां लिपिं लिखन्ति । तमामादिकं, दीर्घस्यैवौचित्यात् । तदयमर्थः । उच ऊश्च उ ३ श्व
Page #396
--------------------------------------------------------------------------
________________
३९६ :
शब्दकौस्तुमः। . [१ पा, चः कालः परिच्छेदको यस्य सोच क्रमाद्धस्वादिसंज्ञः स्यात् । संझप्रदेशः स्वस्य गुणः । हे हरे दी? कितः । पापच्य. ते । वाक्यस्यटेः प्लुतः । एहि कृष्ण ३ । स्यादेतत् । उकालोच इस्व इति वाक्यार्थे ह्रस्वेनोकारेणाणत्वात्सवर्णग्रहः स्यात् । मैपम् । एवं सति इस्वसंज्ञां न विदध्यात् । अच्संज्ञयैव सिद्धेः। सस्मात्संज्ञारम्भसामर्थ्यानेह सवर्णग्रहः। महासंज्ञाया अन्वर्थत्वाच्च कालशब्दसामथ्याच्च। उरजित्युक्तोपि यथाश्रुते ऽग्रहणं व्यर्थम् । उकारस्याच्त्वाव्यभिचारात् । तेन सामर्थ्यादुसदृश इत्यर्थः । सादृश्यं च न स्थानतः । असम्भवात् । न यत्नतः । अव्यभिचारात् । परिशेषात्कालत एवति सिद्धे कालग्रहणं गृह्यमाणेनैव परिच्छेदलाभार्थम् । इस्वनद्याप इत्यादिलि. शाच । यदि हि लुमत्संज्ञानां लोपसंज्ञेव दीर्घप्लुतसंज्ञयोईस्वसंज्ञा व्यापिका तर्हि किं नद्याग्रहणेन । न च नियमार्थः सःविध्यर्थत्वे लाघवादिति दिक् । यद्वा । अशब्दसंज्ञेत्यनुवर्त्य सप्तम्या विपरिणमय्य शब्दसंज्ञायां सवर्णग्रहणं नेति व्याख्येयम्।न चैवमुदातादिसंज्ञाविधावच्शब्दो न सवर्णगृह्णीयादिति वाच्यम् । वाक्यस्यटेः प्लुत उदात्त इति लिङ्गेनाशब्दसंज्ञायामित्यस्यानित्यत्वात् ॥ ___अचश्च ॥ यत्र हूस्वो दीर्घः प्लुत इति शब्दैरज्विधीयते त. प्राच इति पदं पूरणीयम् । इकोगुणद्धीत्यनेन तुल्यमेतत् । न स्वलोन्त्यस्य शेषोपवादो वा। तेन शमामष्टानां दीर्घ इत्यत्र शमादिभिरचो विशेषणात् शाम्यतीत्यादि सिद्धम् । इस्वोनपुंसकइत्यत्र वजन्तस्य प्रातिपदिकस्येति व्याख्यानात् । अलोन्त्यस्य हूस्वः । आतिरि, अतिनु । नेह मुवाक् ब्राह्मणकुलम् । वाक्यस्य टेः प्लुतउदात्तः अत्र टेरच इति व्याख्यानात् । अग्निचित् । सोमसुत् । अजित्यनुवृत्तिसामर्थ्यात्वसंज्ञया विधाने
Page #397
--------------------------------------------------------------------------
________________
२ पा. १ आ.
शब्दकौस्तुमः ।
: इति लभ्यते । नेह, द्यौः पन्थाः सः ॥
उच्चैरुदात्तः ॥ ताल्वादिषु भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते तत्र ऊर्ध्वभागे निष्पन्नो ऽजुदात्तसंज्ञः स्यात् । प्रदेशा आद्युदात्तवेत्येवमादयः ॥ नीचैरनुदात्तः ॥
स्पष्टम् । प्रदेशा अनुदात्तौ सुष्पितावि
१९७
त्यादयः ॥
समाहारः स्वरितः ॥ समाहृतिः समाहारः । उदात्तत्वानुदात्तत्वयोरधर्म योर्मेलनम् । तद्वान् स्वरितसंज्ञः स्यात् । सूत्रे अर्शआद्यच् ॥
।
तस्यादित उदात्तमर्धस्वम् ॥ अर्द्धहस्वशब्देनार्द्धमात्रा - क्ष्यते । प्रकृतत्वादेव सिद्धे तस्येति वचनेन दीर्घस्यापि स्वर - तस्य ग्रहणात् । यद्वा । ह्रस्वग्रहणमविवक्षितम् । तेन स्वरितस्यादौ अर्द्धमात्रा अर्द्ध वा उदात्तं बोध्यम् । शिष्टं तु अनुदातं परिशेषात् । क्व चित्त तस्य वाचनिकी एकश्रुतिः । तथा च बह्वृचप्रातिशाख्यम् । एकाक्षरसमाबेशे पूर्वयोः स्वरितः स्वरः । तस्योदात्ततरोदात्तादर्धमात्रार्द्धमेव वा ॥ अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् । उदात्तं वोच्यते किञ्चित् स्वरितं वाक्षरं परमिति । पूर्वयोः, उदात्तानुदात्तयोः । तस्य, स्वरितस्य । अर्द्धमात्रा उदात्तादुदात्ततरा स्वतन्त्रोदात्तादुच्चतरेत्यर्थः । अर्द्धमेव वेति द्वितीयव्याख्याभिप्रायम् । दीर्घप्लुतयोरनुरोधेनेदम् । सः शेषः, उदात्तश्रुतिः स्यात् । किमविशेषेण । नेत्याह । नचेदिति । उदात्तस्वरितपरं विहायेत्यर्थः । अत्रायं निष्कर्षः । स्वरितो द्विधा । प्राकृतोप्राकृतश्च । तत्राद्य उदात्तादनुदात्तस्येति विहितः । तच्छेषस्यैकश्रुतिर्नियता । अग्निमीळे प्रत्यग्ने इत्यादि । गार्ग्यादिमते तु अत्राप्यनुदात्तः शेषः ।
Page #398
--------------------------------------------------------------------------
________________
३९८
शब्दकौस्तुभः ।
द्वितीयस्तु सूत्रान्तरैर्विहितः । तस्याप्युत्सर्गत एकश्रुतिः शेषः । व्यचक्षयत्स्वः, तेवर्धन्तइति यथा । उदात्तस्वरितपरत्वे तु शेषोनु। दात्तः । क्व बोश्वाः ३न्यघ्न्यस्य । उदात्तपूर्वस्याप्राकृतस्य पूर्वरूपनिष्पन्नस्य दीर्घस्याप्येवम् । न ये राः । उदात्तपूर्वस्य किम् । पुनस्तेषाम् । अत्र विशेषमनुपदं वक्ष्यामः । पूर्वरूप निष्पन्नस्य किम् । अस्मिन्त्स्वे एतत् । अप्राकृतदीर्घान्तरे तु मध्ये तु कंम्पयेत्कम्पमित्यादिवचनात् पूर्वोत्तरभागौ नीचौ मध्ये तूदात्तः । रथी२वेति । पुनस्ते २मास्वेएरतत् । सर्वत्र च समाहारः स्वरित इति पाणिनीयं लक्षणं निर्बाधम् । तस्यादित इति विषयविवेकस्तु प्रायोवादो विशेषे शिक्षादिभिर्वाध्यतइति दिक् । एवं स्थिते अर्धस्वमित्यर्द्धमात्रोपलक्ष्यते । हूस्वग्रहणमतन्त्रमिति वृत्तिग्रन्थः पूर्वापरितोषेणोत्तरवाक्यमवतार्य व्याख्येयः । अर्द्धमात्रादित उदात्ता अर्द्धमात्रा तु अनुदात्ता एकश्रुतिर्वेति वृत्तिग्रन्थोपि विषयभेदेन व्यवस्थया बोध्यः । उभयत्रापि हरदत्तग्रन्थो मूलापर्यालोचननिबन्धन इति सुधीभिराकलनीयम् । इत आरभ्य नवसूश्री इत उत्कृष्योदात्तादनुदात्तस्य स्वरित इत्यस्मादुतरत्र पाठ्येति प्राञ्चः । तत्राव्यवधानपर्यन्तं नार्थः किं तूत्तरत्वमात्रम् । नोदात्तस्वरितोदयमित्यत्र निषेध्यलाभानुरोधेन तदुत्तरत्र अअ इत्यतः प्राणियं नत्रसूत्रीति फलितार्थः । तेनाष्टमिकस्यापि स्वरितस्येदं विभागकथनम्, न्य२ग्निं, ये२राः । उत्तरत्राप्युत्कर्षस्य प्रयोजनं तत्तत्सूत्रे वक्ष्यामः । उत्कर्षे लिङ्गं तु देवब्रह्मणोरिति सूत्रम् । नथुत्कर्षे विना देवब्रह्मणोः स्वरितो लभ्यते त्रिपादस्थत्वेनासिद्धत्वात् । ततः स्वरितात्परमिदङ्काण्डमिति स्थितम् ॥
I
एकश्रुतिदूरात्संबुद्धौ । सम्बुद्धिः सम्बोधमा अन्तर्भावितयर्थाद्बुधेः क्तिन् । दूरत्वं च प्राकृतप्रयत्नाधिकयत्नसापेक्षोच्चार
[ १ ५०
Page #399
--------------------------------------------------------------------------
________________
२ पा. १ आ.
शब्दकौस्तुभः ।
३९९
णवत्त्वम् । दूरादनुष्ठेयतया बोधनायां करणीभूतं वाक्यमेकश्रुतिः स्यात् । आगच्छ भो माणवक देवदत्ता ३ । स्वराणामविभागे - नावस्थानमेकश्रुतिः | अन्त्यस्य तु वाक्यस्यटेरिति प्लुतेनापत्रादत्वादेकश्रुति । एकश्रुतिप्लुताभ्यामवयवभेदेन वाक्ये समुच्चिताभ्यां दूरात्सम्बोधना योत्यते । दूरात्किम् । स्वर्यमेव । तत्रादात्त उपसर्गाचाभिवर्जमिति फिट्सूत्रात | गच्छेति तिनिघातः । भोशब्दो निपातत्वादाद्युदात्तः शेषयोरामन्त्रितनिघातः । एकवचनंसम्बुद्धिरिति कृत्रिमा सम्बुद्धिर्नेह गृह्यते । दूरादित्यपादानका रकान्वयाय क्रियाया एवाकांक्षितत्वात् । तेन आगच्छत ब्राह्मणा इत्यादावपि भवति ।।
यज्ञकर्मण्य जपन्यूड्स सामसु ।। यज्ञक्रियायां मन्त्रएकश्रुतिः स्यात् जपादीन्वर्जयित्वा । अग्निर्मूर्द्धादिवः ककुत्पतिः पृथिव्या अयम् । अपांरेतांसि जिन्वतोम् । यज्ञकर्मणीत्यक्तेः स्वाधायकाले त्रैस्वर्यमेव । अजपेत्यादि किम् । ममाग्नेव चविहवेष्वस्तु । जपो नाम उपांशुप्रयोगो यथा जले निमग्नस्येत्याहुः । युक्तं चैतत, जप-मानसे चेति धातोर्व्यधजपोरनुपसर्गे इत्यपि जपशब्द निष्पत्तेः । रूढश्चायमकरणमन्त्रेषु यत्रजपतीति कल्पसूत्रकृतां व्यवहारः । अत एव याजुषत्वादपांशुप्रयुज्यमानानामपि इषेत्वेत्यादीनां जपत्वाभावादेकश्रुतिर्भवत्येव । शाखाछेदनादिकं प्रति तेषां करणत्वात् । अकरणीभूतो मन्त्र इत्यन्ये । न्यूङ्खानाम षोडश ओकाराः तेषु प्रथमसप्तमत्रयोदशास्त्रय उदात्ताः त्रिमात्राश्च । इतरे त्रयोदशानुदात्ता अर्धोकाराः । एतच्चाश्वलायनेन चतुर्थे हनीति खण्डे स्फुटीकृतम् । वृत्तौ तु पड़ोङ्कारा इति प्रायिकः पाठः तत्र षट्त्वे मान्तत्त्वे च मूलान्तरं मृग्यम् । गीतिषु सामाख्येति जैमिनिः । एविश्वं समत्रिणं दह । विश्वमत्रिणं पाप्मानं सन्दहति सम्बन्धः ।
Page #400
--------------------------------------------------------------------------
________________
४००
शब्दकौस्तुमः ।
एशब्दो गीतिपूरणः । निपात इत्यन्ये ।
उच्चैस्तरां वा वषट्कारः । यज्ञकर्मणि वषट्कार उच्चैस्तरां वा स्यादेकश्रुतिर्वा ! वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते । तुल्यार्थत्वात् । द्वावपि हि देवतासम्प्रदानस्य दानस्य योतकौ । वौषडित्येव तु नोक्तम् । प्रतिपत्तिलाघवेपि मात्रागौश्वात् । कारग्रहणं ज्ञापकं समुदायादपि कारप्रत्ययो भवतीति तेन एवकार इत्यादि सिद्धम् । उच्चैःशब्दोधिकरणप्रधानोपि तद्विशिष्टभवनक्रियायां वर्तते । तेन क्रियाप्रकर्षादामुप्रत्ययः । उदात्ततरो भवतीति फलितार्थः । ब्रूहिप्रेष्य श्रौषड्वौषडावहानामादेरिति सूत्रेण वौषट्शब्दस्यादेः प्लुत उदात्तो विहितस्तदपेक्षया अयमुदात्ततरोन्त्यस्य विधीयते । द्वयोरप्ययमुदात्ततर इत्येके । तदा याज्यान्तापेक्षः प्रकर्षः । अन्ये तु स्वार्थिकस्तरबित्याहुः । तत्रोदात्तमात्रं प्रथमस्य सिद्धं द्वितीयस्थानेन वि धीयते । अत्र प्रकर्षाविवक्षापक्ष एव प्रबलः । वषट्कारोन्त्यः । सर्वत्रोच्चैस्तराम्बलीयान् याज्याया इति सूत्रितत्त्वात् । सोमस्याने विहीवौषट् ॥
विभाषा छन्दसि ॥ छन्दसि एकश्रुतिर्वा स्यात् । पक्ष त्रैस्वर्यम् । सम्प्रदायाव्यवस्थितो विकल्पस्तेन बव्हचानां स्वाध्यायकाले संहितायान्त्रैश्वर्यमेव । ब्राह्मणे त्वेकश्रुतिः । शाखान्तरेष्वपि यथासम्प्रदायं व्यवस्था । अत्र तन्त्रावृत्त्यादिना अछन्दसीति न प्रश्लेषाद्भाषायामपि ऐच्छिको विकल्पो बोध्यः । तथा च दाण्डिनायनादिसूत्रे भाष्यम् । एकश्रुतिर्हि स्वरसर्वनामेत्यादि । अत एवाभियुक्तानां च विरुद्धस्वरकतत्पुरुषबहुव्रीह्माद्याश्रयणेन श्लिष्टकाव्यादिनिर्माणं सङ्गच्छते । अलं बुसानांयातेति, श्वेतो धावती तिच द्वार्थ वाक्य मिति पस्पशान्ते ।
[ १ ५०
Page #401
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुमः । ४०१ भाष्यमपि । काव्यप्रकाशेपि वेदइव लोके स्वरो न विशेषाध्यवसायहेतुरिति । किमर्थं तर्हि झल्युपोत्तमं विभाषाभाषायामिति सूत्रमिति चेत्, त्रैस्वर्येण प्रक्रमे पाक्षिकानुदात्तलाभायेति गृहाण । वेति प्रकृते विभाषाग्रहणं कुर्वन्सूत्रकारोपि तन्त्रादिकमभिप्रति । यत्तु वृत्तिकृन्मतं विभाषाग्रहणं यज्ञकर्मणीत्यस्य निवृत्त्यर्थीमति,तच्चिन्त्यम् । छन्दसीत्युक्तोष तन्निवृत्तिसिद्धेः । अन्यथा पूर्वसूत्रस्य निर्विषयत्वापत्तेः । न च जपादिषु सावकाशस्य परस्य पूर्वोपवाद इति वाच्यम् । एवं हि सति परत्रैव जपादिग्रहणं कुर्यात् किं ना किश्च छन्दोग्रहणेन । एतेन अहितानामच्छन्दस्वात्तत्र सावकाशस्य मन्त्रेषु परेण बाधः स्यादिति हरदत्तोक्तं प्रत्युक्तम् । सिद्धान्तेपि अनूहितेषु पर. त्वादस्य प्राप्तिमाशङ्कय यज्ञकर्मति कर्मग्रहणसामर्थ्यात्पूर्वस्यैव प्रवृत्तिरिति स्वोक्तिविरोधात् । यदपि हरदत्तेनोक्तय, जपादिपयुदासेन मन्त्राणामेव ग्रहणमिति पक्षे विभाषाग्रहणं व्यर्थ स्यादिति । तदपि इन्द्रशत्रुप्रस्तावे दूषितमस्माभिः । य. दपीह वृत्तिकृता अग्निमीळइत्याद्यप्येकश्रुतावुदात्तं तत्सकलाध्यापकसम्प्रदायविरुद्धं, छन्दोग्रहणवैयापादकञ्च । छन्दसि व्यवस्थितो ऽन्यत्रैच्छिक इति विकल्पयोर्वेषम्य सूचयितुं हि तत् । न च लोके विकल्पस्य वृत्तिकृतानुक्तत्वादसाम्प्रदायिकत्वं वाच्यम् । भाष्यादिसम्मतरुक्तत्वात् श्वेतइत्यादेवृत्तिकतापि तत्रतत्रोदात्तत्वाच्च । इत इत्यस्य ह्यूडिदमित्यन्तोदात्तता श्वत इति तु एकोदात्तमिति कथं स्वरानुसरणे तन्त्रं स्यादिति दिक् ॥
न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ॥ सुब्रह्मण्याख्ये निगदे यज्ञकर्मणीति विभाषाछन्दसीति च प्राप्ता एकश्रुतिन स्या.
Page #402
--------------------------------------------------------------------------
________________
४०२
शब्दकौस्तुमः । [१ अ० स्वरितस्योदात्तश्च स्यात् । नितराङ्गद्यतइति निगदः । परप्रत्यायनार्थमुच्चैः पठ्यमानः पादवन्धरहितो यजुर्मन्त्रविशेषः । अपादवन्धे हि गदिर्वर्त्तते यथा गद्यमिति, नौगदनदेति कर्मण्य. प। मुब्रह्मण्याशब्दो परित्यक्तस्वलिङ्ग एव तद्वति निगदे निरूढः। सुब्रह्मण्योम् इन्द्रागच्छ हरिव आगच्छ मेधातिथेष वृषणश्वस्यमेने गौरावस्कन्दिनहल्यायै जार कौशिक ब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन्।सुब्रह्मणि साधुरिति यत् । तिवात् स्वरितः तस्य टापा सहैकादेशः स्वरितानुदात्तयोरान्तर्यास्वारितः । ततो निपातेन ओंशब्देन आमाङगश्चेत्युदात्तखरितयोरेकादेशः स्वरित एव । एकादेशउदात्तेनोदात्त इत्युदान्त विधिस्तु नेह प्रवर्तते अनुदात्तस्येत्यंनुवृत्तेः। ततः स्वरितस्य तूदात्त इति प्रकृतसूत्रेणैवोदात्त इति वृत्तिकारकैयटहरदत्तादयः । वस्तुतस्तु नेदं युक्तम्। एकादेशउदात्तेनेत्यत्रानुदात्तानुवृत्ती प्रमाणाभावात् । कावरम्मरुत इत्यत्रोदात्तपाठाच्च । अत एवं प्रातिशाख्ये उदात्तवत्येकीभावे उदात्तं सन्ध्यमक्षरमनुदात्तोदये पुनः स्वरितं स्वरितोपधे इत्युक्तम् । इह हि पूर्वार्दै अनुदात्तग्रहणमकुर्वत उत्तरत्र च कुर्वतः पुनःशब्देन पूर्वान्वयभ्रमं वारयतः स्पष्ट एवोक्त आशयः। यत्तु तस्यादित इति सूत्रे स्वरितोदात्तार्थञ्चेति वार्तिके यः सिद्धः स्वरितः सुब्रह्मण्योम् इति भाष्यं, तत्मौढिवादमात्रं निष्कर्षे तु देवब्रह्मगोरितिवत् स्वरित.. स्यतूदात्त इत्यपि नवमूव्युत्कर्षज्ञापकमवेत्यवधेयम् । इन्द्रत्यामन्त्रितमायुदात्तम् । आष्टमिको निघातस्तु भिन्नवाक्यत्वान्न भवति । द्वितीयो वर्णोनुदात्तः । उदात्तादनुदात्तस्य स्वरितः तस्यानेनोदात्तः । न चास्मिन् कर्तव्ये स्वरितस्यासिद्धत्वम् । एतस्काण्डमुत्कृष्यतइत्युक्तत्वात् । अत एवास्मिन्नुदात्ते कृते शेष
Page #403
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुभः । ४०३ निघातोपि न । यथोद्देशपक्षेप्यनुदात्तपरिभाषायां कर्तव्यायामसिद्धत्वेन वय॑मानाभावात् । तेन द्वावप्युदात्तौ । आहुदात्ता ततः परस्योदात्तादनुदात्तस्य स्वरित इति स्वरितस्यानेनोदात्तः। छकाराकारोनुदात्तः । न च तस्योदात्तादनुदात्तस्यति स्वरितः शंक्यः । प्रकरणोत्कणास्यासिद्धत्वात् । हरिवआगच्छेत्य. त्रोक्तप्रक्रियया चत्वार उदात्ताः । वकारच्छकारावनुदात्तौ । मेधातिथेरिति षष्ठयन्तस्य पराङ्गवद्भावः । आमन्त्रितायुदात्तः । धाशब्दस्योदात्तादिति स्वरितत्वे ऽनेनोदात्तः । ततश्चत्वारोनुदात्ताः वृषेति पूर्ववद् द्वाबुदात्तौ पश्चानुदात्ताः । इत्याधीवत. मिति अददाअर्भामिति च ऋमन्त्रावत्रानुसन्धेयौ । तेन पराङ्गवद्भाव उपजीव्यं सामर्थ्य स्फुटीभवति । गोरेत्यत्र गौरवदवस्कन्दतीति विग्रहः । सरो गौरो यथा पिबति मन्त्रवर्णात् । पूर्ववद् द्वावुदात्तौ ततस्त्रयोनुदात्ताः । अहेत्युदात्तौ । चत्वारोनुदात्ताः । कौशीत्युदात्तौ । चत्वारोनुदात्ताः । गौतेत्युदात्तौ । चत्वारोनुदात्ताः। श्व इत्युदात्तम् । सुत्यामित्यन्तोदात्तम् । संज्ञायां समजेति क्यपो विधाने उदात्त इत्यनुवृत्तेः । आगति द्वावुदात्तौ चत्वारोनुदात्ताः । अत्र वार्त्तिकानि । असावित्यन्तः । तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गाग्र्यो यजते । बि. तस्वरेण प्राप्त आधुदात्तोनेन बाध्यते । अमुष्यत्यन्तः । षष्ठयंतस्यापि प्राग्वत् । दाक्षेः पिता यजते । स्यान्तस्योपोत्तमंच । चादन्तः । तेन द्वावुदात्तौ । गाग्यस्य पिता यजते । वा नामधे. यस्य । स्यान्तस्य नामधेयस्य उपोत्तममुदातं वा स्यात् । देवदत्तस्य पिता यजते ।
देवब्रह्मणोरनुदात्तः ॥ खरितस्य तूदात्त इति पूर्वसूत्रशेपस्यायमपवादः । देवब्रह्मणोः स्वरितस्यानुदातः स्यात् सु
Page #404
--------------------------------------------------------------------------
________________
४०४
शब्दकौस्तुमः । [१ अ. ब्रह्मण्यायाम् । देवा ब्रह्माण आगच्छत। द्वयोरप्यामन्त्रितायुदा. तत्वे शेषनिघाते चोदात्तादनुदात्तस्य स्वरितः । तस्यानेनानुदात्तः । द्वितीयस्य आष्ट्रमिको निघातस्तु न भवति आमन्त्रितं पूर्वमविद्यमानवदिति पदात्परत्वाभावात् । ततः प्राचीनपदस्य तु भिन्नवाक्यस्थत्वात् । ये तु देवा ब्रह्माण इति सामानाधि. करण्येन व्याचक्षते । तन्मते विभाषितं विशेषवचने बहुवचनमिति पक्षे विद्यमानतया द्वितीयस्य निघातः । प्रकृतसूत्रेण स्वरितनिघातस्तु वकारस्यैव । तथा च भाष्यं, देवब्रह्मणोरनुदात्तत्वमेके इच्छन्ति । देवा ब्रह्माणः इति द्विः पाठः । उदात्तौ द्वावेको वेति विकल्पाभिप्रायेण । तत्र द्वितीयपक्षे प्रकृतसूत्रे बलग्रहणं न कर्तव्यम् ॥
स्वरितात्सहितायामनुदात्तानाम् ॥ स्वरितात्परेषामनुदा. तानामेकश्रुतिः स्यात्संहितायाम् । इमं मे गङ्गे यमुने सरस्वति । अनुदात्तानामिति जातौ बहुवचनम् । तेनैकस्य द्वयोश्च भवत्येव । संहिताग्रहणं ज्ञापकमन्यत्र पञ्चमीनिर्देशे कालो न व्यवधायक इति तेन तिङतिङ इति निघातः पदपाठेपि भवति । अग्निमीळे,पुरोहितमित्यादौ त्ववग्रहेपि भवत्येकचतिः । यथा सन्धीयमानानामित्यतिदेशात् । इतिशब्दात्परस्य तु पुरुहूत इति पुरुहूत इत्यादौ न भवति परिग्रहे त्वनार्षान्तादिति प्रातिशाख्ये विशेषवचनात् । एवमन्वेतवाइत्यादापपि । पचदींस्तु व्युदात्तानामिति निषेधादिति दिक् ॥
उदात्तस्वरितपरस्य सन्नतरः ॥ उदात्तस्वरितौ परौ यस्मात्तथाभूतस्यानुदात्तस्य अनुदात्ततरः स्यात् । अग्निम् । कन्या । स्यादेतत् । इमं मे इति मंत्रे शुतुद्रि शब्दस्य पादादित्वे. न निघाताभावादाधुदात्ततया तस्मिन्परे सरस्वतीतीकारस्य
Page #405
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुभः । ४०५ सन्नतर इष्यते एकश्रुतिरेव तु प्राप्नोति । नवमूच्या उकर्षणासिद्धतया सन्नतरायोगात् । उक्तं हि । पूर्वत्रासिद्धे नास्ति विप्रतिषेधो ऽभावादुत्तरस्यति । सत्यम् । नमुने इत्यत्र नेति योगविभागान दोषादेवदत्तन्यड्डित्यत्र तुन्यधीचेति पूर्वपदप्रकृतिस्वरे उदात्तस्वरितयोर्पण इत्यञ्चत्यकारस्य स्वरितः पू. वस्य सन्नतरं प्रति नासिद्धः । प्रकरणे उत्कर्षात् ॥
स्वरसूत्रप्रसङ्गारिफटसूत्राणि व्याख्यायन्ते ॥
फिषोन्त उदात्तः ।। फिष् इति प्रातिपदिकस्य प्राचां संज्ञा। फिषोन्त उदात्तः स्यात् । उच्चैः ॥
पाटलापालङ्काम्बासागरार्थानाम् ॥ एतदर्थानामन्त उदातः स्यात् । पाटला । लघावन्त इति प्राप्ते । अपालङ्क: वृक्षवि. शेषः । इहापि प्राग्वत् । अम्बार्थः, माता। उनर्वनन्तानामित्याचुदात्ते प्राप्ते । सागरः समुद्रः, लघावन्तइति प्राप्ते ॥
गेहार्थानामस्त्रियाम् ॥ गेहं गृहम् । नबिषयस्येति प्रा. प्ते । अस्त्रियां किम् । शाला । अत एव पर्युदासाज्ज्ञापकाच्छालाशब्द आधुदात्तः ॥ - गुदस्य च ॥ अन्त उदात्तः स्यान्न तु स्त्रियाम् । गुदम् । अस्त्रियां किम् । आन्त्रेभ्यस्ते गुदाभ्यः । स्वाङ्गशिटामदन्तानामित्यन्तरङ्गमायुदात्तस्वम् । ततष्टाप् ॥ . ध्यपूर्वस्य स्त्रीविषयस्य ॥ नित्यस्त्रीलिङ्गस्य धकारयकार: पूर्वो योन्त्योच् स उदात्तः । अन्तर्धा । स्त्रीविषयवर्णनानामिति प्राप्ते । छाया। माया। जाया। यान्तस्यान्त्यात्पूर्वमित्याधुदात्तत्वे प्राप्ते । स्त्रीति किम् । बाह्यम् । बहिषष्टिलोपो यञ् चेति यबन्तत्वादाद्युदात्तत्वम् । विषयग्रहणं किम् ।इभ्या क्षत्रिया। यतोनाव इत्याधुदात्त इभ्यशब्दः । क्षत्रिय शब्दस्तु यान्तस्यान्त्यात्पूर्वमि
Page #406
--------------------------------------------------------------------------
________________
४०६ शब्दकौस्तुभः ।
[१० ति मध्योदात्तः ॥
खान्तस्याश्मादेः ॥ नखम् । उखा। सुखम् । दुःखम् । नखस्य स्वाङ्गशिटामित्याधुदात्ते प्राप्ते । उखानाम यवाग्वादि पा.. कार्थ याज्ञिकनिर्मितो भाण्डविशेषः । तस्य कृत्रिमत्वात् खय्युवर्णकृत्रिमाख्याचेदित्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुःखयोनेविषयस्यति प्राप्ते । अश्मादेः किम् । शिखा मुखम् । मुखस्य स्वागशिटामिति नविषयस्येति वा आधुदात्तत्वं शिखायास्तु दीर्घान्ततया स्वाङ्गशिटामित्यस्याप्राप्तावपि अश्मादेरिति प. युदासेनाद्युदात्तत्वं ज्ञाप्यते । तथा च शीङः खो निस्वश्चति. उणादिषु नित्त्वमुक्तम् । वस्तुतस्तु तदेव शरणम् । शङ्खो नि. धौ ललाटास्थ्नीति कोशादस्थिवाचकस्य स्वाङ्गशिटामित्याचुदात्तस्याव्यावृत्त्या चरितार्थस्यामादेरित्यस्य ज्ञापकत्वायोगात् ॥ . ...
हिष्ठवत्सरतिशत्थान्तानाम् ॥ एषामन्त उदात्तः स्यात् । -अतिशयेन बहुलो बंहिष्ठः । नित्त्वादाद्युदाते प्राप्ते । बंहिष्ठैरश्वैः सुवृता रथेन, यद्वंहिष्ठं नातिविधे इत्यादौ व्यत्ययादाद्युदात्तः । संवत्सर । अव्ययपूर्वपदप्रकृतिस्वरो बाध्यते । सप्ततिः। अशीतिः । लघावन्ते इति प्राप्ते । चत्वारिंशत् । इहापि प्राग्वत् । अभ्यूर्वानाप्रभृथस्यायोः । अव्ययपूर्वपदप्रकृतिस्वरोत्र बाध्यते ॥
दक्षिणस्य साधौ ॥ अन्त उदात्तः स्यात् । साधौ किम् । व्यवस्थायां सर्वनामतया स्वाशिटामित्यायुदात्तो यथा स्यात् । अर्थान्तरे तु लघावन्तइति गुरुरुदात्तः । दक्षिणः सरलोदारपर
छन्दानुवनिष्विति कोशः।। . . - स्वाहाख्यायामादिर्वा ॥ इह दक्षिणस्यायन्तौ पर्यायेणो
Page #407
--------------------------------------------------------------------------
________________
२ पा. १ आ.
शब्दकौस्तुमः ।
दात्तौ स्तः । दक्षिणो बाहुः । आख्याग्रहणं किम् । प्रत्यङ्मु- . खमासीनस्य वामपाणिदक्षिणो भवति ॥
४०७
छन्दसि च || अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावदात्तौ ॥
कृष्णस्यामृगाख्या चेत् ॥ वर्णानान्तणेत्यायुदात्ते प्राप्तेFairat faad | कृष्णानां व्रीहीणाम् । कृष्णो नोनाक वृषभः । मृगाख्यायान्तु । कृष्णो रात्र्यै ॥
वा नामधेयस्य || कृष्णस्येत्येव । अयं वा कृष्णो अश्विना । कृष्ण ऋषिः ॥ शुक्लगौरयोरादिः ॥ नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्त्ततइति तु गुक्तम् । सरो गौरो यथा पिवेत्यत्रान्तोदात्तदनात् ॥
अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः ॥ अङ्गुष्ठस्य स्वाङ्गानामकुर्वादीनामिति द्वितीयस्योदात्तत्वे प्राप्तेन्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमार्थम् । छन्दस्येवेति । तेन लोके आद्युदात्ततत्याहुः ||
पृष्ठस्य च ॥ छन्दस्यन्त उदात्तः स्यात् वा भाषायाम् । भाषामात्रविषयं सूत्रमिदं प्रागेकादशम्योच्छन्दसि झल्युपोत्तमं विभाषाभाषायामित्यादिवत् । पृष्टम् ॥
अर्जुनस्य तृणाख्या चेत् || उनर्वन्नन्तानामित्याद्युदात्तस्यापवादः ॥
अर्थस्य स्वाम्याख्या चेत् ॥ यान्तस्यान्त्यात्पूर्वमिति यतोनाव इति वाद्युदासे प्राप्ते वचनम् ॥
आशाया अदिगाख्या चेत् || दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिपर्यायस्यायुदात्तता । इन्द्र आशाभ्यस्परि ॥
Page #408
--------------------------------------------------------------------------
________________
४०८
शब्दकौस्तुभः । - [१ अ० नक्षत्राणामाविषयाणाम् ॥ अन्त उदात्तः स्यात् । आश्लेपातुराधादीनां लयावन्तइति प्राप्ते ज्येष्ठाविष्ठाधनिष्ठानां इष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ॥
न कुपूर्वस्य कृत्तिकाख्या चेत् ॥ अन्त उदात्तो न । कृत्तिका नक्षत्रम् । के चित्तु कुपूर्वो य आप तद्विषयाणामिति व्याख्याय आर्यिका बहुलिकेत्यत्राप्यन्तोदात्तो नेत्याहुः॥
घृतादीनाञ्च ॥ अन्त उदात्तः । घृतं मिमिक्षे । आकृतिगणोयम् ॥
ज्येष्ठकनिष्ठयोर्वयसि ॥ अन्त उदात्तः स्यात् । ज्येष्ठ आह चमसा । कनिष्ठ आह चतुरः । वयसि किम् ।ज्यष्ठः, श्रेष्ठः । कनिष्ठोल्पिष्ठः । इह नित्त्वादाद्युदात्त एव ॥
· बिल्वतिष्ययोः स्वरितो वा ॥ अनयोरन्तः स्वरितो वा स्यात् । पक्षे उदात्तः ॥
इति फिटसूत्रेषु प्रथमः पादः ॥ ___ अथादिः प्राक् शकटेः ॥ अधिकारोयम् । शकटिशकव्योरिति यावत् ॥ .
दूस्वान्तस्य स्त्रीविषयस्य ॥ आदिरुदात्तः स्यात् । वलिः तनुः ।।
नविषयस्यानिसन्तस्य ॥ वनेन वा यः । इसन्तस्य तु सपिः। नब् नपुंसकम् ॥ . तृणधान्यानाश्च द्वयषाम् ॥ व्यवामित्यर्थः । कुशाः ।काशाः। . माषाः । तिलाः । बचान्तु गोधूमाः ॥
वः संख्यायाः॥ पञ्च चतस्रः॥
स्वाङ्गशिटामदन्तानाम् ॥ शिट् सर्वनाम । कर्णः । ओष्ठः । विश्वः ॥
पाणिनां कुपूर्वम् ॥ कवर्गात् पूर्वमादिरुदात्तः । काकः, तृ
Page #409
--------------------------------------------------------------------------
________________
२ पा. १ आ.
शब्दकौस्तुभः ।
कः । शुकेषु मे । प्राणिनां किम् । उदकम् ॥ खय्युवर्ण कृत्रिमाख्या चेत् ॥ खयि परे पूर्वमादि उवर्णमुदात्तं स्यात् । कन्दुकः ॥
ऊनर्वन्नन्तानाम् ॥ उन, वरुणं बोरिशादसम् ॥ स्वसारं त्वा कृणवै । वन् । पीवानं मेषम् ॥
वर्णानान्तणतिनितान्तानाम् || आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥
हूस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये ॥ ऋद्वर्ज ह्रस्वान्तस्यादिभूर्त ह्रस्वमुदात्तं स्यात् । मुनिः ॥
अक्षस्यादेवनस्य || आदिरुदात्तः । तस्य नाक्षः । देवने तु अक्षैर्मा दीव्यः ॥
अर्धस्यासमोने || अर्द्ध ग्रामस्य । सर्वेशके तु अर्द्ध
४०९
पिप्पल्याः ॥
पीतद्रवर्थानाम् || आदिरुदात्तः । पीतदुः सरलः ॥ ग्रामादीनाञ्च । ग्रामः ॥ सोमः । यामः ॥ लुबन्तस्योपमेयनामधेयस्य || स्फिगन्तस्येति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा । चश्चेव चञ्चा ||
न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् । एषामुपमेयनाम्नां नादिरुदात्तः । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥
राजविशेषस्य यमन्वा चेत् । यमन्वा वृद्धः । आङ्ग उदाहरणम् । अङ्गाः प्रत्युदाहरणम् ॥
घावन्ते द्वयोश्व बव्हषो गुरुः ॥ अन्ते लघौ द्वयोश्च लघ्वोः सतोः बव्हष्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः । इह गुरूणां मध्ये य आदिरित्यर्थोभिप्रेतः । तेन वृषाकपिरि
५२
Page #410
--------------------------------------------------------------------------
________________
४१० शब्दकौस्तुमा। .. [१.१० त्यत्र व्यपदेशिवद्भावेनादिभूते सिद्धम् । तेन वृषाकप्यनीत्या. दिसूत्रस्था वृत्त्यादिग्रन्था न विरुध्यन्ते ॥ क्रीतवत्परिमाणादित्यादिसूत्रस्थभाष्यादिग्रन्थाश्च सङ्गच्छन्ते । नन्ववेमप्यन्यतोडीषिति सूत्रे सारङ्गकल्माषशब्दौ लघावन्त इत्यादिना मध्योदाताविति हरदत्तग्रन्थो विरुध्यतइति चेत् । सत्यम् । आदिशब्द इह नान्वेतीत्येव सारम् ॥
स्त्रीविषयवर्णा पूर्वाणाम् ॥ एषां पाणामादिरुदात्तः । स्त्रीविषयः । मल्लिका । वर्णः । श्येनी । हरिणी । अक्षुशब्दात् पूर्वोस्त्येषान्तेक्षुपूर्वाः । तरक्षुः ॥
शकुनीनाञ्च लघुपूर्वम् ॥ पूर्व लघूदासं स्यात् । कुक्कुटः। तित्तिरिः॥
नर्तुप्राण्याख्यायास् ॥ यथालक्षणं प्राप्तमुदात्तत्त्वं न । वसन्तः । कुकलासः ॥
धान्यानां च वृद्धक्षान्तानाम् ।। आदिरुदात्तः । कान्तः । श्यामाकाः । षान्तः । माषाः॥
जनपदशब्दानामषान्तानाम् ॥ केकयः॥
हयादिनामसंयुक्तलान्तानामन्तः पूर्व वा ॥ हयिति हला संज्ञा । पललम् । शललम्। हयादीनां किम् । एकलः । असंयुक्तेति किम् । मल्ला ॥
इगन्तानाञ्च द्वयषाम् ॥ आदिरुदात्तः । कृषिः ॥ .. . इति द्वितीयः पादः॥ - - अथ द्वितीयं प्रागीषात् ॥ ईषान्तस्य हलादेरित्यतः प्राक्
द्वितीयाधिकारः ॥ - व्यचां प्राङ् मकरात् ॥ मकरवरूढत्यतः प्राक् व्यचामि- त्यधिकारः॥
Page #411
--------------------------------------------------------------------------
________________
२ पा. १ आ.
शब्दकौस्तुभः ।
स्वाङ्गानामकुर्वादीनाम् ॥ कवर्गरेफवकारादीन्वर्जयित्वा sयचां स्वाङ्गानां द्वितीयमुदात्तम् ॥ ललाटम् । कुर्वादीनान्तु क पोलः । रसना । वदनम् ॥
मादीनाञ्च ॥ व्यचां द्वितीयमुदात्तम् । मलयः । मकरः ॥ शादीनां शाकानाम् ॥ शीतन्या । शतपुष्या | पान्तानां गुर्वादीनाम् ॥ पादपः । आतपः । लघ्वादीनान्तु । अनूपम् । द्व्यचान्तु नीपम् ॥.
४११
युतान्यष्यन्तानाम् ॥ युतादित्रितयान्तानां द्वितीयमुदात्तम् | युतं, अयुतम् । अनि, धमनिः । अणि, विपणिः ॥
मकरवरूढपारेवतचितस्तेक्ष्वाजिंद्राक्षाक लोमाकाष्ठा पेष्ठाकाशीनामादिर्वा ॥ एषामादिर्द्वितीयो वोदात्तः । मकरः । वरूढ इत्यादि । छन्दसि च ॥ अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिर्द्वितीयं वोदात्तं ज्ञेयम् ॥
कर्दमादीनाञ्च || आदिद्वितीयं वोदात्तम् । कर्द्दमः ॥. सुगन्धितेजनस्य ते वा ॥ आदिर्द्वितीयन्ते शब्द वेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥
नपः फलान्तानाम् || आदिर्द्वितीयं वोदात्तम् । राजादन
फलम् ॥
यान्तस्त्यात् पूर्वम् || कुलायः ॥
आन्तस्य च नालघुनी ॥ नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा |
शिशुमारोदुंबरवलीवर्दोष्ट्रार पुरूरवसाञ्च ॥ अन्त्यात् पूर्वमुदात्तं द्वितीयं वा ॥
साङ्कायकापिल्यनासिक्य दावघाटानाम् ॥ द्वितीयमुदातं वा । साङ्काश्यमित्यादि ॥
Page #412
--------------------------------------------------------------------------
________________
४१२. शब्दकौस्तुभः । [१ १०
ईषान्तस्य हयादेरादिर्वा ॥ हयादेहलादेः । हलीपा । कालीषा ॥ ... उशीरदाशेरकपालपलालशैवालश्यामाकशरीरशरावत्दृदयहिरण्यारण्यापत्यदेवराणाम् ॥ एषामादिरुदात्तः स्यात् ॥ __ महिष्यषाढयोर्जायेष्टकाख्या चेत् ॥ आदिरुदात्तः । महिषी जाया । अषाढा उपधाति ॥
इति तृतीयः पादः ॥ शकटिशकव्योरक्षरमक्षरं पर्यायेण ॥ उदात्तम् ॥ शकटिः । शकटी ॥
गोष्ठजस्य ब्राह्मणनामधेयस्य ॥ अक्षरमक्षरं क्रमेणोदात्तम । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः॥ .
पारावतस्योपोत्तमवर्जम् ॥ शेष क्रमेणोदात्तम् । पारावतः।।
धूम्रजानुमुञ्जकेशकालवालस्थालापाकानामधूजलस्थानाम्।। एषाश्चतुर्णा धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥
कपिकेशहरिकेशयोश्छन्दसि । कपिकेशः । हरिकेशः ॥ न्यस्वरौ स्वरितौ ॥ स्पष्टम्।न्यकुन्तानःव्यचक्षयत्स्वः॥ न्यर्बुदव्यल्कशयोरादिः ॥ स्वरितः स्यात् ॥
तिल्यशिक्यकाश्मयधान्यकन्याराजन्यमनुष्याणामन्तः ॥ स्वरितः स्यात् । तिलानां भवनं क्षेत्रं तिल्यम् । यतोनाव इति प्राप्ते ॥ . बिल्वभक्ष्यवाणिच्छन्दसि ॥ अन्तस्वरितानि ॥
त्वत्त्वसमसिमेत्यनुच्चानि ॥ स्तरीरुत्वत् । उत त्वः पश्यम् । नभन्तामन्यके समे । सिमस्मै ॥
Page #413
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुभः ।
सिमस्याथर्वणन्त उदात्तः॥आथर्वणइति प्रायिकम्।तत्र दृष्टस्येत्येवंपरं वा । तेन वासस्तनुते सिमस्माइत्युग्वेदपि भवत्येव ॥
निपाता आयुदात्ताः ॥ स्वाहा ॥ उपसगाश्चाभिवर्जम् ॥
एवादीनामन्तः ॥ एवमादीनामिति पाठान्तरम् । एव एवं नूनम् । सह। ते पुत्र सूरिभिः सह । षष्ठस्य तृतीये सहस्यस इति प्रकरणे सहशब्द आधुदात्त इति तु माञ्चः । तच्चिन्त्यम् ।।
वाचादीनामुभावदात्तौ ॥ उभौग्रहणमनुदात्तंपदमेकवमित्यस्य बाधाय ॥
चादयोनुदात्ताः॥ स्पष्टम् ॥ __ यथेति पादान्ते ॥ तन्नेमिमृभवो यथा । पादान्ते किम् । यथा नो अदितिः करत् ॥
प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः ॥ पदुपटुः ।
शेषं सर्वमनुदात्तम् ॥ शेष नित्यादिद्विरुक्तस्य परमित्यर्थः । प्रमार्यम् । दिवदिवे ॥
इति शान्तनवाचार्यप्रणीतेषु फिदसूत्रेषु तुरीयः पदम् ॥ प्रासङ्गिक समाप्य प्रकृतमनुसरामः ॥ ___ अपृक्त एकाल् प्रत्ययः ॥ एकाल् प्रत्ययो यः सोपृक्तसंज्ञः स्यात् । संज्ञाप्रदेशा वेरपृक्तस्येत्यादयः।एकेति व्यर्थमानिपातएकाजित्येकग्रहणेन वर्णग्रहणेजातिग्रहणमिति ज्ञापनपि अल्ग्रह
सामर्थ्यादेवेह व्यक्तिपरत्वात् । किञ्च सूत्रमेवेदं व्यर्थम्। अपृक्तम. देशेष्वल्ग्रहणेनैव सिद्धेः । न च सुरां सुनोतीति सुरासुत् तमाचक्षाणः सुरा इत्यत्र धात्ववयवस्य सस्य लोपः स्यादिति वाच्यम् । प्रत्ययाप्रत्ययपरिभाषया गतार्थत्वात् । विभक्तिसाहचर्याच्च । यथासूत्रारम्भपि तिसाहचर्यात्सेरपि तिङ एव ग्र
Page #414
--------------------------------------------------------------------------
________________
४१४ . शब्दकौस्तुभः । ..[१ अ. हणादमैत्सीदिति सिचो न भवति । बेरपृक्तस्येत्यत्र तु वकारेकारयोरन्यतरमनुनासिकमाश्रित्यापृक्तग्रहणं प्रत्याख्यास्यतएव ॥
तत्पुरुषः समानाधिकरणः कर्मधारयः॥समानाधिकरणावयवस्तत्पुरुषः कर्मधारयसंज्ञः स्यात् । संज्ञाप्रदेशाः पुंवत्कर्मधारयेत्यादयः । समानाधिकरणे पदे आश्रयत्वेन स्तोस्येत्यर्शआद्यच् । यदि तु पूर्वकालैकेति प्रकरणस्यान्ते कर्मधारयश्चेति कृत्वा तत्पुरुषानुवृत्त्या पर्याये लब्धे चकारागतिश्चेत्यादाविव समु
चयः साध्यते तदेदं सूत्रं शक्यमकर्तुम् ॥ . प्रथमानिर्दिष्टं समासउपसर्जनम् ॥ समासविधायकं शास्त्रं समासः । तादात् । समस्यतेनेनेति व्युत्पत्त्या वा । तत्र प्रथमया यनिर्दिश्यते तदुपसर्जनं स्यात् । द्वितीयाश्रितादिभिः कृष्णाश्रितः । महासंज्ञाकरणमन्वर्थसंज्ञार्थम् । लोके ह्यप्रधानमु. पसर्जनमाहुः । तेन राज्ञः कुमार्या राजकुमार्या इत्यभयोः षष्ठीति सूत्रे प्रथमानिर्दिष्टत्वाविशेषेपि राजैवोपसर्जनं न तु कु. मारी । तेन कुमारीशब्दस्य न पूर्वनिपातो न वा गोस्त्रियोरिति दूस्वः । न च रामः कुमारीति प्रथमान्तेनैव विग्रह इति भ्रमितव्यम् । मूलाभावात् तथा च तत्पुरुषेतुल्यार्थतृतीयासप्त. मीति सूत्रे परमे कारके परमेण कारकेणेत्यादावतिप्रसङ्गमाशंक्य लक्षणप्रतिपदोक्तपरिभाषाबलेन समाहितं भाष्ये । अनेकमन्यपदार्थइति सूत्रपि भाष्यकैयटयोः स्पष्टमेतत् । प्रथमान्तेनैव विग्रह . इति नियमो नास्तीति परिनिष्ठितविभक्त यव विग्रहस्योचितत्त्वा
च । अत एव पूरणगुणति समानाधिकरणेन षष्ठीसमासनिषेधोपि सङ्गच्छते । अत एव चैकविभक्तिचापूर्वनिपातइत्यस्य विषयलाभः । स्यादेतत् । उक्तरीत्या सूत्रभाष्यादिस्वरसान्यायाच्च द्वितीयाद्यन्ततया परिनिष्ठितस्य प्रथमान्तेन विग्रहो
Page #415
--------------------------------------------------------------------------
________________
२ पा. १ आ. शब्दकौस्तुभः । नास्तीत्येवोच्यताम् तत्किमुच्यते नियमो नास्तीति । सत्यम् । अस्ति तत्राप्यालम्बनम् । तथाहि । राजकुमार्या इत्यादेः परिनिष्ठितस्यार्थप्रदर्शनपरे लौकिके विग्रहवाक्ये प्रकृतिभागमात्रं व्याख्ययं न तु समासोत्तरविभक्तिरपि । नहि षष्ठी षष्ठया व्याख्येया किन्त्वनुवादमात्रं तत् । तत्र प्रातिपदिकार्थमात्रव्याचिख्यासायां प्रथमया विग्रहः केन वार्यते । अत एव हरीतकी भुन्क्ष्व राजन् मातेव हितकारिणीमित्यादिप्रयोगाः सङ्गच्छन्ते । मातोति प्रथमान्तेन समासे बाधकाभावात् । अत एव पचतीति पाचकस्तं पाचकमित्याद्यपि सम्यगेवेति दिक् । तस्माद् द्वितीयाचन्तस्य परिनिष्ठितस्य प्रथमया परिनिष्ठितया वा विग्रहो न तु तदृभयभिन्नयेति निष्कर्षः । स्यादेतत् । यद्यन्वर्थसंज्ञेयं याचकन्दारको गोगर्भिणीत्यादिषु विशेष्यस्य पूर्वनिपातो न स्यादिति चेत् । वृन्दारकनागकुञ्जरैः पूज्यमानं चतुष्पादोगार्भज्येत्यादौ विधिवाक्ये प्रथमानिर्देशस्यानन्यार्थत्वाददोषः । तस्मात्सति सम्भवे व्यवस्थापकमन्वर्थत्वमिति स्थितम् ।। ___ एकविभक्ति चापूर्वनिपाते ॥ अर्थाधिकारादिह समासार्थमलौकिकं विग्रहवाक्यं समासः । तत्र विशेष्यसमर्पके पदे प्र. योगभेदादनेकविभक्तियुक्तपि यनियतविभक्तिकं तदुपसर्जनसंझं स्यात्पूर्वनिपातेतरस्मिन्कायें। अतिक्रान्तो मालामतिमालः । इ. हातिकान्तमतिक्रान्तेनेत्यादिक्रमेण सकलविभक्तियोगेपि मा. लाशब्दस्थ द्वितीयानियमात् संज्ञायां सत्यां गोस्त्रियोरिति हूस्वः। एवं निष्कौशांबिरित्यादि । एकविभक्तावषष्ठयन्तवचनम् । नेह । अर्द्ध पप्पल्या अर्धपिप्पली। नन्वेवं पश्चखवीन सिध्येत् । सत्यम् । अत एव संज्ञापूर्वकतया व्यवस्थितविभाषाश्रयणेन वार्द्धपिप्पली साधयित्वा षष्ठयन्तेति वार्तिकं नारब्धव्यमिति प्रा
Page #416
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[१ अ० माणिकाः । वस्तुतस्तु एकदेशिसमासविषयकोयं निषेधः । न चात्र प्रमाणाभावः।पञ्चखट्वीति द्वितीयभाष्यस्य प्रमाणत्वात्। इति शब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीये
पादे प्रथममान्हिकम् ॥ - अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ डित्थादीन्यव्युत्पन्नान्युदाहरणम् । अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकम् । यत्तु व्युत्पत्तिपक्षेपि निपातार्थमनुकरणार्थ चेदमिति हरदत्तेनोक्तम् । तन्न । तत्रापि प्रकृत्यादिकल्पनसम्भवादिति बोध्यम् । वस्तुतस्तु बहुपटव इत्याद्यर्थमिदम् । न च तद्धितग्रहणे मत्वर्थलक्षणया निर्वाहः । पचतकीत्यादावतिव्याप्तेः । अव्युत्पत्तिपक्षस्तु कमिग्रहणेन सिद्धे कंसग्रहणेनैव ज्ञाप्यः । ज्ञापिते च तत्राप्यनेनैव संज्ञा सिध्यति । नन्वेतदेव ज्ञापकम् । बहुचपूर्वे कृतार्थत्वादित्यवधेयम् । अर्थवत्किम् । धनं वनमित्यादौ प्रतिवर्ण संज्ञा मा भूत् । स्यादेतत् । विशिष्टरूपोपादानविषयतया अर्थवत्परिभाषाया इहाप्रवृत्तावपि अधातुरप्रत्यय इति पर्युदासादेव सिद्धम् । न चाधीते यावक इत्यादौ इङ्कनौ निरर्थकावपि धातुप्रत्ययौ स्त इति वाच्यम् । अडादिव्यवस्थायै इङ एवार्थवत्त्वस्वीकारात् । स्वार्थिकानाञ्च प्रकृत्यर्थेनार्थवत्त्वात् । न चेदं कल्पनामात्रमिति वाच्यम् । डित्थादावपि तथात्वात् । उक्तं हि । अर्थवत्ता नोपपद्यते केवलेनावचनात् सिद्धं त्वन्वयव्यतिरेकाभ्यामिति । . कल्पिताभ्यामिति हि तदर्थः । वस्तुतः पदस्फोटवाक्यस्फोटयो- . रेवार्थवत्वात् । सत्यम् । उत्तरार्थमर्थवद्ग्रहणं इह तु स्पष्टार्थम् । अधातुः किम् । अहन् । नलोपो मा भूत् । न च सुपोधात्विति धातुग्रहणात् धातोर्नेयं संज्ञेति वाच्यम् । श्येनायते इत्यादौ प्रत्ययान्ते धातुग्रहणस्य चरितार्थत्वात् । अप्रत्ययः किम् । पच
Page #417
--------------------------------------------------------------------------
________________
२ पा. २ आ. शब्दकौस्तुमः ।
४१७ तीति तिपो मा भूत् । सुपोप्येवम् । न चैवन्तदन्तेषु अतिव्याप्तितादवस्थ्यम् । उत्तरसूत्रे तद्धितग्रहणस्य नियमार्थत्वात् । तद्वितान्तानामेव नत्वन्यप्रत्ययान्तानामिति । न च तत्रापि सं. ज्ञाविधित्वेन तदन्तग्रहणं दुर्लभमिति वाच्यम् । अर्थवदित्यनुवृत्तिसामर्थ्यात्तत्सिद्धेः । प्रशंसायां हि मतुर । एकार्थीभावेन लौकिकप्रयोगे प्रसिद्धत्वञ्च प्रशंसार्थः । अधातुपत्ययाविति सिद्धे नद्वयोपादानं स्पार्थम् । महासंज्ञाकरणं प्राचामनुरोधात्।।
कृत्तद्धितसमासाश्च ॥ अर्थवन्त एते प्रातिपदिकसंज्ञाः स्युः । विशेषणसामर्थ्यात्तदन्तविधिः । न हि जहत्स्वार्थायां वृत्तौ कृतान्तद्धितानां चार्थोस्ति । भूतपूर्वगतिलभ्यस्तु न प्रश. स्तः सः । भित् । छित् । अत्राधातुरिति पर्युदासे प्राप्ते कर्ता हर्ता, अत्र तद्धितान्तानामेवेति नियमेन निरासे प्राप्ते, सन्निहितत्त्वाच्च कृद्रहणेन प्रागुक्तमेव वाध्यते नतु समासग्रहणकृतो नियमोपि । तेन कृद्धहणपरिभाषानुपस्थानात् मूलकेनोपदंशमिति वाक्यस्य न भवति । ननु बाध्यसामान्यचिन्तायां समासनियमोपि बाध्येत । विशेषचिन्तायां तु मध्येपवादन्यायावतारात्तद्धितनियमोपि न बाध्यतेति चेत् । सत्यम् । आये एवे. ह पक्षः । न च वाक्योतिप्रसङ्गः । शब्दाधिकारमाश्रित्येहार्थवच्छब्देनैकार्थीभावविवक्षणात् । अतिशये मतुःस्मरणात् । वक्ष्यमाणरीत्या अप्रत्यय इति निषेधः प्रत्ययान्तपर इति पक्षे तु मध्येपवादन्यायात् सर्वेष्टसिद्धिः । अप्रत्यय इत्यस्य प्रत्याख्यानपक्षेपि पुरस्तादपनादन्यायादिष्टसिद्धिरिति दिक् । तद्धितः।औपगवः । अत्रानेन पूर्वेण वा संज्ञा नियमविधीनां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति मतभेदस्योक्तत्वात् । एवं समासेपि । न चासमर्थसमासेषु विध्यर्थ समासग्रहणमिति वा
Page #418
--------------------------------------------------------------------------
________________
४१८
शब्द कौस्तुभः ।
[ १ अ०
च्यम् । अर्थवग्रहणानुवृत्तेरुक्तत्वात् । असमर्थानां तर्हि कथं संज्ञेति चेत्, धर्मिग्राहकमानादेवेति गृहाण । असूर्यललाटयोरित्यादिना हि समासउपपदे क्रुद्विधीयते । उपपदञ्च महासंज्ञाकरणबलाद्विभक्तयन्तमेव । न चैत्रमपि स्त्रीप्रत्यये तदादिनियमाभावाद्राजकुमारीत्यादौ प्रत्ययान्ते विध्यर्थं तदिति वाच्यम् । अन्तरङ्गस्यापि हल्ङयादिलोपस्य लुग्विषये प्रवृत्त्या श्रूयमाणएव सुपि समासप्रवृत्तेः । अत एव गोमत्प्रिय इत्यादौ नुमादयो नेति वक्ष्यते । तस्मात्प्रकृते समासग्रहणं नियमार्थ सद्वाक्यस्य संज्ञां निवर्तयतीति स्थितम् । नियमश्च सजातीयापेक्षः । यत्र पूर्वो भागः पदमुत्तरच प्रत्ययभिन्नः तादृशस्य समुदायस्य चेस्स्याचा समासस्यैवेति । षड्विधेपि समासे पूर्वभागस्य पदत्वाव्यभिचारात् । तेन बहुच्पूर्वस्यास्त्येव संज्ञेति बहुपटव इति टकारस्योदात्तता लभ्यते । प्रथमस्य जसो लुकि चितः प्रकृते व्हर्थमिति चित्स्वरे कृते पुनर्विभक्त्युत्पत्तेः । अन्यथा तु जसेोदात्तः स्यात् । उत्तरथेत्यादि किम् । हरिष्वित्यादेरनेन व्यावृत्तिर्मा भूत् । एवमस्तु, को दोष इति चेत् । गृणु । तथासति जन्मवानित्यादौ तद्धितान्ते विध्यर्थं तद्धितग्रहणं स्यात् राजानावित्यादेस्तु प्रातिपदिकस्वं केन वार्यताम् । • न तावदनेन नियमेन, पूर्वभागस्यापदत्वात् । नापि तद्धितग्रहन तस्योक्तरीत्या नियमार्थत्वायोगात् । न च सुपोधानुप्रातिपदिक्रयोरिति धातुग्रहणं प्रत्ययान्तानां प्रातिपदिकसंज्ञा नेति ज्ञापकमिति वाच्यम् । तस्य प्रासादयितीत्यादौ हरिष्वितिवदप्रातिपदिके चरितार्थत्वात् । नापि ङचाब्ग्रहणं ज्ञापकम् । लिविशिष्टपरिभाषया सिद्धौ तस्यान्यार्थताया एव सिद्धान्तयिष्यमाणत्वात् । तस्मादुक्तमेव साधु । यद्यपि प्रकृतिप्रत्ययभा
-
Page #419
--------------------------------------------------------------------------
________________
२ पा. २ आ. शब्दकौस्तुभः ।
४१९ • वानापन्नसंघातविषयको नियम इत्यपि सुवचं तथापि सरूप.
सूत्रे समुदायाद्विभक्त्युत्पत्तिरिति ग्रन्थं योजयितुमिदं गौरवमादृतम् । निष्कर्षे तु तथैवास्तु । तथा च तद्धितग्रहणं नियमार्थमव । भेदसंसर्गद्वारकमर्थवत्त्वमिति कैयटस्याप्ययमेव भावः । भेदे परस्परपरिहारेण प्रयोगे सति यः संसर्गस्तद्वारकमित्यर्थात् न तु भेदः संसर्गो वा द्वयं वा वाक्यार्थ इत्याशयेन तद्न्थः । बहुच्समासयोरूप्यालाभात् । यद्वा । सात्पदाद्योरिति सातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे पूर्वसूत्रस्थं प्रत्ययग्रहणं सामर्थ्यात्तदन्तपरम् । तद्धितग्रहणन्तु विध्यर्थमेव । स्यादेतत् । पक्षत्रयपि राजपुरुषावित्यादौ पुरुषावित्यादेः संज्ञा दुर्वारेति प्रातिपदिकावयवत्वात्सुपो लुक् स्यादिति चेन्मैवम् । जहत्स्वार्थायामानर्थक्यात् । अजहत्स्वार्थायामपि पूर्वपदविनिमुक्तस्य विशिष्टार्थविरहेण तत्सहितस्यैव विशिष्टार्थगमकत्वात् । प्रशंसायां हि मतुवित्युक्तम् । एवं घटपटावित्यादावपि मिलितयोरेव पदयोः सहभूतार्थता । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वाच्च । घटावित्वंशो नार्थवानिति । एतेनासमर्थसमासे दशदाडिमादिवदनर्थक विध्यर्थ समासग्रहणं किं न स्यादिति चोद्यं प्रत्युक्तम् । अर्थवद्रहणस्येहार्थताया एवोक्तत्वादिति दिक् । यदि तु नैयायिकरीत्या अर्थवत्त्वं वृत्तिमत्त्वं तच्च समासस्य नास्त्याश्रित्य समासग्रहणं विध्यर्थम् । तद्धितग्रहणमपि तथा । अप्रत्यय इति तु प्रत्ययवारणार्थमित्याश्रीयते तथापि न क्षतिः । तद्धितग्रहणस्य तद्विशिष्टपरतामाश्रित्य बहुपटव इत्यस्य सुसाधत्वात् । किन्त्वस्मिन्पक्षे सिद्धान्तविरोधः मूलकेनोपदंशं पचतकीत्यत्रातिप्रसङ्गश्चेति यथास्थितमेवास्तु । इह प्रकरणे यथाश्रुताः प्राचां ग्रन्था दृष्टा एवेत्यवधेयम् । नि
Page #420
--------------------------------------------------------------------------
________________
४२०
शब्दकौस्तुमः । [१ अ० . पातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या येषां घोत्योप्यों : नास्ति तदर्थमिदम् । अवधति । अनुक्तसमुच्चयार्थाच्चकारात्सिदमिदम् । अनुकरणेषु तु अनुकरणेन सहाभेदविवक्षायामर्थववाभावान प्रातिपदिकता, भूसत्तायामिति यथा । भेदविवक्षायां तु संज्ञा स्यादेव । भुवोवुगिति यथा । न चाधातुरिति पयुदासापत्तिः । प्रकृतिवदनुकरणमित्यातदेशस्यानित्यतयोवङशे प्रवृत्तावपि संज्ञांशे अप्रवृत्तिसम्भषात् । एतच्च ऋलकसूत्रे उपपादितम् ॥
हुस्खो नपुंसके प्रातिपदिकस्य ॥ क्लीवे प्रातिपदिकस्याज- . न्तस्य हूस्वः स्यात् । श्रीपं कुलम् । प्रातिपदिकग्रहणसामर्थ्यानेह । काण्डे । कुड्ये । इह त्वन्तादिवच्चेत्यतिदेशेनास्ति प्राप्तिः । न च द्विकपक्षे वारिणीइति व्यावर्त्य कृतार्थतोत वाच्यम् । तत्रापि प्रातिपदिकमित्यस्यानुवृत्या सिद्ध सामर्थ्यस्य सुवचत्वात् । लक्ष्यानुरोधेन पक्षान्तरस्यैव सुग्रहत्वाच्च । यद्वा कार्यकालपक्षं प्रत्ययान्तस्य नेति प्रसज्यप्रतिषेधं चाश्रित्य समाधेयम् । न चैवं ब्रह्मबन्धुरित्यत्र स्वादयो न स्युरिति वाच्यम् । लिङ्गविशिष्टपरिभाषया श्वश्रूरित्यत्रेव तत्सिद्धेः॥ ___ गोस्त्रियोरुपसर्जनस्य ॥ उपसर्जनं यो गोशब्दस्तादृगेव च यत्स्त्रीप्रत्ययान्तन्तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । चित्रगुः । निष्काशाम्बिः । उपसर्जनस्य किम् । सुगौः । राजकुमारी। स्त्रीशब्दः स्वर्यते । तेन स्वयधिकारोक्तप्रत्ययग्रहणानेह । अतिलक्ष्मीः । अतिश्रीः । कथं गोकुलं राजकुमारीपुत्र इति चेत् । शृणु । उपसर्जनस्य ससंबन्धिकतया यस्य प्रातिपदि. कस्य इस्वो विधीयते तदर्थ प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदेदं इस्वत्वम् । न चेह तदस्ति । गोः कुलं
Page #421
--------------------------------------------------------------------------
________________
२ पा. २ आ. शब्दकौस्तुभः ।
४२१ प्रति गुणीभावेपि गां प्रत्यतथात्वात् । कुमार्याश्च पुत्रं प्रति गुणीभावपि राजानं प्रत्यतथात्वात् । शास्त्रीयं चेहोपसर्जनं गृह्यते । कृत्रिमत्वात् । अत एव प्रत्ययमात्रस्य तथात्वासम्भवात्तदन्तलाभः । यदि तु लौकिकमुपसर्जनत्वं गृहीत्वा प्रत्यय एव विशेष्येत तदा हरीतक्याः पलानि हरीतक्य इत्यत्रातिव्याप्तिः स्यात् । स्पष्टञ्चेदमुपमानानिसामान्यवचनैरिति सूत्रे भाष्ये । अथ कथं राजकुमारीमतिक्रान्तोतिराजकुमारिति । अनुपसर्जने स्त्रीप्रत्यये तदादिनियमो नेत्युक्ततया राजकु. मारीशब्दस्य स्त्रीप्रत्ययान्तत्वादित्यवेहि । अतिक्रान्तम्प्रति ह्यसावुपसर्जनं न तु राजानम्प्रतीति विवेकः । अत्रत्यः कैयटस्त्वापातत इत्यवधेयम् । अत्र वार्तिकम् । ईयसो. बहुव्रीहौ पुंवदचनमिति । ईयसन्ताद्यः स्त्रीप्रत्ययस्तदन्तान्तो यो बहुव्रीहिस्तत्र इस्वो नेत्यर्थः । गोस्त्रियोरिति इस्वो विहितः। तत्र पुंसि यथा स्त्रीप्रत्ययान्तता नास्ति तथेह बोध्यमित्येवं वचनव्यक्तया ह्रस्वाभावः पर्यवस्यति । बव्हयः श्रेयस्यो यस्य स बहुश्रेयसी । ईयसश्चति कनिषेधः । बहुव्रीहौ किम् । अतिश्रेयसि ॥
लुक्तद्धितलुकि ॥ तद्धितलुकि सति उपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । लुक् तावत्प्रत्ययस्यैव सम्भवति । न तु तदन्तस्य । अत एवोपसर्जनमिह लौकिकम्, न तु पूर्ववच्छास्त्रीयम् । असम्भवात् । न हि प्रत्ययमात्रं शास्त्रीयमुपसर्जनम् । आमलक्याः फलमामलकम् । नित्यंवृद्धशरादिभ्य इति मयटः फले लुक् । ततोनेन गौरादिङीषो लुक् । इह पूर्वसूत्रस्यावकाशो निष्कौशाम्बिः । अस्यावकाश आमलकम् । पञ्च इन्द्राण्यो देबता अस्य पञ्चेन्द्र इत्यत्र तु परत्वाल्लुगेव ॥
Page #422
--------------------------------------------------------------------------
________________
४२२
शब्दकौस्तुभः । [१ अ० . इगोण्याः ॥ गोण्या इत्स्यातद्धितलुकि । लुकोपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चमोणिः । दशगोणिः । गोणीशन्दः परिमाणवचन आवपनवचनश्च । तत्राद्यात्माग्वतेष्ठअ । द्वितीयादाहीयष्ठक् । तयोरध्यक़त लुक् ॥
लुपि युक्तवद्व्यक्तिवचने ॥ प्राचामिदं सूत्रं दूषणार्थ पा. णिनिरनुवदति । लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालाः क्षत्रियाः पुल्लिङ्गबहुवचनविषयाः । तेषां निवासो जनपद: पञ्चालाः । पञ्चालस्यापत्यानि बहूनि । जनपदशब्दात् क्षत्रियाद । ते तद्राजाः । तद्राजस्य बहुषु । ततस्तस्यनिवास इत्यणो जानपदे लुप् । लुपि किम् । लत्रणस्सूपः । संसृष्टे । लवणाल्लुक् । व्यक्तिवचने किम् । हरीतकी पञ्चाला इत्यादिषु ष
या अतिदेशो मा भूत् । समासे उत्तरपदस्य बहुवचनस्य लुपः । नियमामिदम् । मथुरा पञ्चालाः । उत्तरपदस्पैवेति नियमान्नेह । पश्चालमथुरे । बहुवचनस्य किम् । गोदौ ग्रामो मथुरा च गोदमथुराः । पूर्वपदस्य द्वित्वातिदेशः स्यादेव ॥ . विशेषणानाञ्चाजातः ॥ लुबर्थस्य विशेषणानामपि तद्ल्लिङ्गवचने स्तो जाति वर्जयित्वा । पञ्चाला रमणीयाः । गादौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः । कथं तार्ह पञ्चाला जनपदो रमणीय इति । जातिविशेषणत्वादिति गृहाण । पञ्चालविशेषकत्वे तु रमणीया इति भवत्येव । स्यादेतत् । लुपोन्यत्रापीदं तुल्यम् । बदक्षि इत्यत्र सूक्ष्मकण्टका सूक्ष्मकण्टक इति प्रयोगयोर्वशेष्यभेदेन व्यवस्थास्वीकारात, तात्क सूत्रेण । सत्वम् । मुणवचमानामाथयतो लिङ्गवचनानीति सूत्रार्थः । तथाहि । जातिभिन्नानि यानि विशेषणानि तेषां युक्तवत् शिष्यवदिखः । गुणवचनानामित्यु
Page #423
--------------------------------------------------------------------------
________________
२ पा. २ आ. शब्दकौस्तुभः ।
४२३ द्घोपेपि जातिभिन्नं गुणशब्दार्थः । तदुक्तममरेण । स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदका इति ॥ सामान्ये नपुंसकस्य न्यायप्राप्तस्यापवादोयम् । तेन शुक्लं पटा इति न भवति । अनित्यश्चायमतिदेशः । संस्कृतंभक्षा इत्यादिलिङ्गात् । लक्ष्यानुरोधाव्यवस्था। हरीतक्यादिषु व्यक्तिः॥ नियमामिदम् । तेन वचनं न युक्तवत् । हरीतक्याः फलानि हरीतक्यः । गौरादिङीषन्तादनुदात्तादेश्चेति लुप् । खलतिकादिषु वचनम् ॥ अयमपि नियम एव । खलतिकस्य पर्वतस्यादूरभवानि वनानि खलतिकं वनानि । खलतिको वरणादिः । मनुष्यलुपि प्रतिषेधः ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव । चञ्चा तृणमयः पुमान् । स इव चञ्चाभिरूपः । संज्ञायामिति कन् लुम्मनुष्यइति लुप् । चर्मविकारविशेषोवधिका । स इव वधिका दर्शनीयः। तदिह द्वे वार्तिके आद्यस्य तृतीयन्तु द्वितीयस्यापवाद इति स्थितम् । इदं त्ववधेयम् । इहाभिरूपदर्शनीयपदयोर्विशेष्यलिङ्गे प्रतिषिद्धे नपुंसकत्वं प्रामोति । भाष्यकारीयोदाहरणसामर्थ्यान्न भवतीति ॥
तदशिष्यं संज्ञाप्रमाणत्वात् ॥ तत् युक्तवद्वचनम् । अशिष्यम्, अकर्तव्यम् । कुतः । संज्ञानां प्रमाणत्वात् । अयं भावः । पञ्चाला वरणा इत्यादयो न यौगिकाः । तन्निवासेपि देशान्तरे अप्रयोगात् । देशे तन्नाम्नीत्यधिकृत्यादूरभवे प्रत्ययविधानाच । किन्तु संज्ञाशब्दा एते । ते च यल्लिङ्गसख्यतया लोके प्र. सिद्धास्तत्र प्रमाणभूता एव । तदर्थप्रमाणका इत्यर्थः । यथा आपो दारा वनं गृहाः सिकता वर्षा इत्यादौ नेह शास्त्रेनुशासनमारच्यं तदर्थमपि मास्तु । किञ्च ॥
Page #424
--------------------------------------------------------------------------
________________
४२४ . शब्दकौस्तुमः । [१ अ. - लुब्योगामख्यानात् ॥ लुबप्यशिष्यः । जनपदलुए वरणादिभ्यश्चेति । कुतः, योगस्यावयवार्थस्येह अप्रख्यानात्, * अप्रतीतेः । तथा चात्र तस्यनिवासोऽदूरभवश्चति तद्धितो नैवो. त्पद्यते किं लुपो विधाननेत्यर्थः ॥ .. . योगप्रमाणे च तदभावे ऽदर्शनं स्यात् ॥ चकारो ह्यर्थे । यदि हि योगस्यावयवार्थस्येदं प्रमाणं बोधकं स्यात्तदा तदभावे न दृश्येत । दृश्यते च सम्पति । विनैव क्षत्रिययोगं जनपदे पञ्चालशब्दः । न च भूतपूर्वगतिः । क्षत्रिययागाद्देशे देशयोगाद्वा क्षत्रिये शब्द इत्यत्र विनिगमकाभावेन वैपरीत्यस्यापि सुवचत्वापत्तरिति भावः । अतोक्षादिवन्नानार्था एवैते इति तत्त्वम् ॥
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ॥ प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमपि अशिष्यं कुतः अर्थस्य लोकत एव सिद्धेः ।आख्यातस्य क्रियाप्रधानतया व्यभिचाराचेत्यर्थः।"
कालोपसर्जने च तुल्यम् ॥ अतीताया रात्रे पश्चादेन आगामिन्याः पूर्वादेन च सहितो दिवसो ऽद्यतनः । विशेषणमुपसर्जनमित्यादिक्रमेण काल उपसर्जनं च पूर्वाचार्यैः परिभापितं तत्रापि तुल्यम् । अशिष्यत्वं समानमित्यर्थः । लोकप्रसिद्धत्वादेवेति भावः ॥
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः । एकोप्यर्थो का बहुवदित्यतिदेशाविशेषणादपि सिद्धम् । बहूनां वचन बहुवचनं प्रतिपादनमिति व्याख्यानाच्चातिदेशः फलितः॥ - अस्मदो द्वयोश्च ॥ एकत्वे द्वित्वे च विवक्षिते ऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूव इति
Page #425
--------------------------------------------------------------------------
________________
२ पा. २ आ.
शब्दकौस्तुभः ।
४२५
वा । सविशेषणस्य प्रतिषेधः । पटुरहं ब्रवीमि । कथं तर्हि त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नता इति भर्तृहरिः । अत्रोतत्वस्य विधेयत्वाद्भवत्येव । अनुवाद्यविशेषणपरत्वात्मतिषेधस्येति हरदत्तः । भाष्ये त्वेतत्सूत्रं प्रत्याख्यातम् । तथाहि । अहंकारावच्छिन्नेभ्यस्तानाञ्चक्षुरादीन्द्रियाणां तत्तादात्म्यादहमुल्लेख गोचरता भेदाभेदप्रतीतिश्च । अहं शृणोमीति वन्मम श्रोत्रं शृणोतीत्यपि व्यवहारात् । तत्र चक्षुरादीनां बहुत्वादेदस्वातन्त्र्ययोर्विवक्षायां वयं ब्रूम इति सिद्धम् । अभेदमविवक्षायां तु एकवचनम् । न च गौणता । गौरोहमित्यादीनां यावद्व्यवहारं बाधाभावात् । एतेन पुष्यादिगुरावेकेषामिति - त्तिकारेण पठितमपि गतार्थम् । त्वं गुरुर्यूयं गुरव इत्यस्यो - क्तरीत्या सिद्धेः । अत एवाचार्याः कथयन्तीत्यादिलौकिकप्रयोगोपि सङ्गच्छते ||
फल्गुनीप्रोपदानाञ्च नक्षत्रे ॥ द्वयोरित्यनुकर्षाद द्विवे बहुत्वप्रयुक्तं कार्य वा विधीयते । तेन विशेषणेपि सिद्धं, पूर्वे फल्गुन्यौ पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे पूर्वाः प्रोष्ठपदाः । नक्षत्रे किम् । फल्गुन्यौ माणावके । फल्गुन्योजते इत्यर्थः । फल्गुन्यपादाभ्यां टाणाविति टः । टित्त्वान्ङीप् । एकस्यान्तु । तारायां नेमौ शब्दौ प्रयुज्येते । उद्भूतावयवभेदे समुदायएव निरूढत्वात् । सूत्रे तु नक्षत्रे इति प्रथमाद्विवचनं नक्षत्रे यद्यभियेते इत्यर्थात् ॥
छन्दसि पुनर्वस्वोरेकवचनम् ।। द्वयोरेकवचनं वा स्यात् । पुनर्वसुर्नक्षत्रमदितिर्देवता पुनर्वसु वा । लोके तुद्भूतावयवसमुदाये निरूढत्वाद्द्द्विवचनमेव । गाङ्गताविव दिवः पुनर्वसू || विशाखयोश्च ।। प्रात् । विशाखा नक्षत्रमिन्द्राग्नी देवता ।
-
Page #426
--------------------------------------------------------------------------
________________
४२६
शब्दकौस्तुभः । [१ अ. पक्षे विशाखे । छन्दसीत्यनुवृत्तेलोंके विशाखेइत्येव । अमरस्तु राध विशाखेति प्रयुञ्जानो द्विवचननियमं नेच्छति । सूत्रं तूदासीनम् ।।
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ छन्दसीति न सम्बध्यते पूर्वत्र चकारेणानुकृष्टत्वात् । एतदर्थ एव हि पूर्वत्र योगविभागः । तिष्य एकः । पुनर्वसू द्वौ । तेषां द्वन्द्वो बव्हर्थः । तत्र बहुत्वं द्वित्ववद्भवतीत्यतिदेशो ऽयम् । तिष्यपुनर्वसू उदितौ । तिष्यपुनर्वसू इति किम् । विशाखानुराधाः । नक्षत्रेति किम् । तिष्य पुनर्वसवो माणवकाः । ति. ष्यपुनर्वसुशब्दाभ्यां नक्षत्रेण युक्तः काल इत्यण् लुबविशेषे । ततो जातार्थे सन्धिवेलादिसूत्रेणाः। तस्य श्रविष्ठाफल्गुन्यनुराधेत्यादिना लुक् । माणकत्तिरयं द्वन्द्वो न तु नक्षत्रवृत्तिः । न चायं गौणः । यौगिकत्वात् । ननु नक्षत्रइत्यनुवृत्त्या सिद्धमेतत् । किं पुनर्नक्षत्रग्रहणेन । अत्र भाष्यम् । पर्यायाणामपि यथास्यादिति । तस्यायं भावः। तिष्य पुनर्वस्वोः शब्दयोरभिधेये नक्षत्रे वर्चमानो यो नक्षत्रशब्दानां द्वन्द्व इति व्याख्यानात् । पुष्यपुनर्वसू सिध्यपुनर्वसू इत्यपि सिध्यतीति । स्यादेतत् । यथा भावेचाकर्मकेभ्य इत्यकर्मकश्रुत्यान्तरङ्गं द्रव्यकर्म निषिध्यते न तु बहिरङ्ग कालादि कर्म तथान्तरङ्गस्य कालस्य व्यावृत्या बहवास्तिष्यपुनर्वसवोतिक्रान्ता इत्यादेः सिद्धावपि माणषकस्य बहिरङ्गस्य व्यावृत्तये पुनर्नक्षत्रग्रहणमस्तु । यद्वा । ति. ष्यपुनर्वस्वोरिति योगं विभज्य देशान्तरस्थमपि तिष्यस्य का. र्य नक्षत्रएवेति व्याख्यास्यते । तेन तिष्यपुष्ययोर्नक्षत्राणि य. लोप इति सिद्धम् । तस्माद्वहिरङ्गव्यावृत्त्या योगविभागेन वा कृतार्थ नक्षत्रग्रहणं कथं पर्यायग्रहणार्थ स्यात् । उच्यते । अकर्मकशब्दः श्रुत्यैव कर्म व्यावर्तयन् मुख्यमन्तरङ्गमेव व्यावर्त्त
Page #427
--------------------------------------------------------------------------
________________
२ पा. ३ आ.
शब्दकौस्तुभः ।
४२७
यतीति युक्तम् । नक्षत्रशब्दस्तु स्वार्थार्पणप्रनाड्या अर्थान्तरं व्यावर्त्तयन्नविशेषादुभौ व्यावर्त्तयतीति नाथं फलम् । नापि द्वितीयम् | पुष्यार्थवचनस्यावश्यकत्वात् । अत एव पक्षद्वये - प्यपरितोषाद्भाष्ये पक्षान्तरमुक्तम् । द्वन्द्वइति किम् | यस्तियस्तौ पुर्व येषान्ते तिष्यपुनर्वसवः । तिष्यादय एव विबहुव्रीहिणोच्यन्ते । अतो भवत्ययं नक्षत्रसमासः न तु द्वन्द्वः । बहुवचनस्य किम् । इदं तिष्यपुनर्वसु । सर्वो द्वन्द्वो विभाषयैकवत् । न्यायसिद्धं चेदम् । प्राण्यङ्गादीनां समाहार एवति हि नियमः । न तु विपरीतः । चार्थेद्वन्द्व इति पृथग्विधानात् । प्रकृतसूत्रे बहुवचनग्रहणाच्चेति दिक् ॥
इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीये पादे द्वितीयमान्हिकम् ॥
सरूपाणामेकशेष एकविभक्तौ ॥ समानायां विभक्तौ यानि सरूपाण्येव दृष्टानि तेषां मध्ये एक एव शिष्यते । अनैमित्तिकत्वेनान्तरङ्गोयमेकशेषः सुबुत्पत्तेः प्रागेव जयन्ताबन्तप्रातिपदिकानां प्रवर्त्तते । हरिणी मृगी हरितवर्णा च । तयोः सहविवक्षायां हरिण्यौ हरिण्यः । क्षितिक्षान्त्योः क्षमा । वासोन सम्यक क्षमयोश्च तस्मिन्निति श्रीहर्षः, श्रियाँ नरेन्द्रस्य निरीक्ष्य तस्येति च । सकृच्छ्रतात्सकृदर्थः प्रत्यय इति मते शब्दसारूप्येपि द्वन्द्वः स्यात् । अथापि तन्त्रेणानेकार्थताभ्युपगम्यते एवमपि सर्वत्र तन्त्रेणैव बोधनीयमिति नियमाभावात् पाक्षिको द्वन्द्वो दुर्वारः । आरब्धे त्वेकशेषे सुबन्तद्वयविरहात् द्वन्द्वस्याप्राप्तिरेव फलिता भवति । अत एव एकशेषस्य द्वन्द्वापवादकतेत्युद्घोषः । इकोगुणवृद्धीत्यस्य अलोन्त्यापवादकतोत पक्षे ऽपवादशन्दस्येत्थमेव व्याख्यातत्वात् । अत एव घटौ घटा
Page #428
--------------------------------------------------------------------------
________________
४२८
शब्दकौस्तुमः। [१ अ० इत्यादीन्यपीहोदाहरणानि । तत्रापि ऐच्छिकस्यानेकव्यक्तिबोधोद्देश्यकस्यानेकविशकलितशब्दप्रयोगस्य घटोयं घ. टोयमिति बहुशो दर्शनेन तद्वदेव सहविवक्षायां घटावित्यादिद्वन्द्वस्य दुवारत्त्वात् । एतेन व्यर्थेषु च मुक्तसंशयमिति वार्तिकं दृष्ट्वा नानार्था एवेहोदाहरणमिति भ्राम्यन्तः परास्ताः । न च पदार्थतावच्छेदकभेदाभावाद्घटावित्यादौ द्वन्दप्रसक्तिर्नेति वाच्यम् । चार्थेद्वन्द्व इति सूत्रेण साहित्यमात्रे तद्विधानात् । तस्य चेतरेतरयोगद्वन्द्वे एकशेषे च विशेषणत्वं प्रयोगोपाधित्वं वा । समाहारद्वन्द्वे तु प्राधान्येन भानमित्यन्यदेतत् । न चैमपि घटकलशावित्यादिद्वन्द्वापत्तिः । विरूपाणामपि समानार्थानामिति वार्तिकेन एकशेषात् । वस्तुतस्तु सौत्र एवायमर्थः । रूप्यते बोध्यते इति रूपम्, अर्थः समानं रूपं येषामिति सरूपाः । ज्योतिर्जनपदति समानस्य सभावः । सरूपाश्च सरूपाश्च तेषामिति एकशेषण व्याख्यानात् । न च स्वाङ्गे स्वव्यापारायोगः व्याक्यापरिसमाप्तिन्यायादिति वाच्यम् । उद्देश्यतावच्छेदकरूपाक्रान्ततया तुल्यास्यप्रयत्नमिति वत्स्वस्मिन्नपि प्रवृत्तेः । एतद्विषयविवेचनं तु अइउणित्यत्रैव कृतम् । अत एव जननीवाचिनो मातृशब्दस्य धान्यमापवाचिनस्तृजन्तस्य च एकशेष निषेद्धं प्रवृत्ते मातृमात्रोः प्रतिषेधः सरूपत्वादिति वार्तिके स्वान्तर्गते मातृमात्रोरित्यत्रापि निषेधप्रवृत्तिः । नन्वर्थविशेषोपहितयोरेव तत्रानुवादः । अन्यथा जननीवाचिनोरपि निषेधापत्तेः, तत्कथं शब्दरूपपरे स्वान्तर्गते निषेधप्रवृत्तिरिति चेत् । प्रकृतिवदनुकरणमित्यतिदेशादिति गृहाण । सूत्रमते तूत्तरसूत्रादेवकारोत्रानुकृष्यते । तेन एकविभक्ती यानि सरूपाण्येवेति व्याख्यानात्परिच्छेतृवाचिनश्चाप्तमिति सर्वनामस्था
Page #429
--------------------------------------------------------------------------
________________
२ पा. ३ आ. शब्दकौस्तुभः । 'ने दीर्घविधानादसारूप्यादेकशेषाभावः । न च वाचानकैकशेषविरहेपि श्लिष्टरूपकस्थलइव तन्त्रन्यायाश्रयेण पाक्षिक एकशेषो मातृमात्रोः स्यादेवोत वाच्यम् । यान्येकविभक्तौ सरूपाण्येव तेषामेवैकशेष इति नियमात् । न चैवं घटघटाविति पापाक्षिकं दुर्वारमिति वाच्यम् । तन्त्रावृत्त्याद्याश्रयणेन सरूपाणामेकशेष एवेत्यपरनियमाश्रयणात् । तस्मात् घटकुम्भौ कु. म्भकुम्भौ मातृभ्यां चेति पाक्षिकमनिष्टत्रितयं प्राप्त सूत्रेणानेन वार्यते । घटावित्यादिसिद्धिस्तु स्यादेवैतद्विनापि हि । जातिपक्षे व्यक्तिपक्षेपीति निष्कर्षसंग्रहः। स्यादेतत् । देवदेव इत्यादावपि तत्र्येकशेषः पामोति । न चैविभक्तावित्यनेन तद्वारणम् । तस्य सारूप्योपलक्षणत्वादेकशेषस्य चानैमित्तिकत्त्वात् । अथ वक्ष्यमाणरीत्या एकशेषविशेषणतां ब्रूषे, तथाप्यनिस्तारः । देवदेव इत्यत्रापि षष्ठीसमासादुपरि एकदिभक्तेः सत्वात् । अन्तर्वर्तिन्योस्तु लुका लुप्तत्वेन प्रत्ययलक्षणाभावात् । अत्राहुः । सहविवक्षायामेव एकशेषः । इतरेतरयोगद्वन्द्वस्य विषये इति यावत् । यत्र ह्यनेकस्यार्थस्य मिलितस्येतरान्वयः स तथाभूतो विषयः । उक्तञ्च । अनुस्यूतेव भिनानामेका प्रख्योपजायते । यदा सहविवक्षान्तामाईद्वन्दैकशेषयोरिति ॥ अयञ्च विषयनियमो ऽभिधानवलाल्लभ्यते वृद्धोयूनेत्यादिसूत्रेषु सहयोगे तृतीयायाः प्रयोगाच्च । यद्वा । पूर्वमूत्रात् द्वन्द्वे इत्यनुवर्तते । अाधिकाराचेतरेतरयोगद्वन्द्वावगमः। तेन द्वन्द्वे प्रसक्ते सतीति व्याख्यानादुक्तविषयनियमसिद्धिः । न च द्वन्द्वे कृतइत्येव व्याख्यायतामिति वाच्यम् । स्वरसमासान्तादिदोषप्रसङ्गेन कृतद्वन्द्वानामेकशेष इति पक्षस्य दूषयिष्यमाणत्वात् । एतेन सारवसारवोर्मिज इति श्रीहर्षप्रयागोपि
Page #430
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० व्याख्यातः । सरव्यां भवाः सारवाः । ते च ते आरवसहिताश्चेति कर्मधारये सहविवक्षाविरहात् । विद्वन्मानसराजहंसेत्यादिश्लिष्टरूपके तु मानसमेव मानसमिति तन्त्रेण प्रयोगो. न तु सौत्र एकशेषः । सहविवक्षाविरहात् । सारव इत्यत्रापि तथा स्यादिति चेत् । पक्षे एवमेव । तावतापि उभयप्रयोगस्य निर्वाह्यत्वात् । न चैवं समाहारद्वन्द्वविषये एकशेषानुशासनात्पाक्षिकं घटघटमित्यादि दुर्वारमेवेति वाच्यम् । तत्रानभिधानस्यैव शरणीकरणीयत्वात् । अस्तु वा तत्राप्येकशेषप्रवृत्तिः। न चैवं नपुंसकतापत्तिः । समाहारद्वन्द्व एव तदनुशासनात् । तथा च प्रत्यर्थ शब्दनिवेश इति पक्षे न ब्राह्मणं हन्यादित्यादौ सकलव्यक्तिसङ्ग्रहो भविष्यतीति प्रतिव्यक्तिलक्षणं नावतनीयम् । एकवच्चास्यान्यतरस्यामिति ज्ञापकादकशेषे कृते. एकवद्भावो नेति तु तत्त्वम् । एकश्च एकश्च द्वौ च द्वौ चेत्यादौ तु द्वन्द्वैकशेषौ उभावपि अनभिधानेनैव वारणीयौ । उत्सर्गतः संख्याशब्देप्येवमेवेति बोध्यम् । विंशतीत्यादौ त्वेकशेष इष्ट एवेति दिक् । एवं स्थिते सूत्रारंभपक्षेपि बहुशो ऽनभिधानस्यैवाश्रयणाद् घटघटावित्यादावपि तथैवास्तु किं तमिरासार्थ सूत्रारम्भेणेत्याशयेन भगवता एकशेषप्रकरणं प्रत्याख्या. तम् । न चैवं पितरावित्यत्र मातुः श्वशुरावित्यादौ श्वश्वादश्च प्रतीतिः कथं स्यादिति वाच्यम् । एकशेषारम्भेपि तौल्यात् । यः शिष्यते स लुप्यमानार्थाभिधायीति चेत्, तर्हि द्विवचनाद्युपाधिविशेषपुरस्कारेण पित्रादिशब्दानामेव मात्रादौ शक्तिनिरूढलक्षणा चेति फलितोर्थः । तथा च लोकव्यवहारादव तद्गहसम्भवे न किञ्चिदनुपपन्नम् । न चैवमग्निचिदित्यादौ किवादयोपि प्रत्याख्यायतामिति वाच्यम् । प्रत्ययलक्षणेन तुगाग
Page #431
--------------------------------------------------------------------------
________________
२ पा. ३ आ. शब्दकौस्तुभः । मप्रातिपदिकसंज्ञाद्यर्थ तदारम्भात् । तदेवं सरूपाणां विरूपाणां च सर्वमेकशेषं प्रत्वाचक्षाणेनापि भगवता सरूपसूत्रमात्रं तु शास्त्रीये व्यवहारे संज्ञापरिभाषादिवद्विनापि सहविवक्षामेकशेष विधातुं भविष्यतीत्याशयेन द्विवचनेचीत्यत्र एकशेष इति भाष्यभिहितमिति दिक् । आरभ्यमाणे तु सूत्रे यद्यपि षट् प. क्षाः सम्भवन्ति तथापि तत्र त्रयो दुष्टा एव त्रयस्तु निर्दोषा इत्यवधेयम् । तथाहि । पृथक्सर्वेभ्यो विभक्तौ परत एकशेषः । एकवचनान्तानाश्चाकृतद्वन्द्वानां वा समुदायादेकविभक्तौ वा युगपदधिकरणवचने वा अनैमित्तिको वेति षट् पक्षाः । तत्राये एकशब्दः समानपर्यायस्तथा च वृक्ष स् वृक्ष स् इति स्थिते आधयोनिवृत्तौ स् स् वृक्ष स् इति स्थिते संयोगान्तस्य पदान्तस्य लोप इति व्याख्याने मध्यमस्य सोर्लोपः । संयोगान्तं यत्पदं तदन्तस्यति व्याख्याने तु हल्ङयादिलोपः तत्रापि सुतिसीति प्रत्ययैः प्रकृतेराक्षेप इति पक्षे तु न कस्य चिल्लोपः । सर्वथापीष्टरूपं न सिध्यत्येव । आद्यन्तयोनिवृत्तौ तु स् वृक्ष स् स् इति स्यात् । परयोनिवृत्तौ तु वृक्ष स् स् इति स्यात् । तथा वृक्षा अनित्या इत्यादावन्तसुप्रत्ययश्रवणं स्यादिति दुष्ट एव प्रथमः पक्षः। द्वितीये तु वृक्ष स् इति सविभक्तिकस्यावस्थानात् । द्विवचनबहुवचनयोरनुत्पत्तिरेकवचनश्रवणञ्च स्यात् । तृतीये तु द्वन्द्वे इति अनुवर्त्य अभिमतवाक्यार्थों यद्यपि लब्धं शक्यते तथापि अश्व अश्व औ इति स्थिते विभक्तयपेक्षाच्छेषात्पूर्वमन्तरङ्गत्वात्समासान्तोदात्ते कृते यदि पूर्वशेषस्तार्ह सर्वानुदात्तं पदं स्यात् । परशेषे त्वन्तोदात्तं स्यात् । इष्यते त्वाद्युदात्तम् । अशेः कनिब्व्युत्पादनात् । यो अश्वेभिर्वहतेविभवोह्यश्वा इत्यादौ तथैव प्रयोगाच्च । किञ्च ऋक्च ऋक्च ऋचावि
Page #432
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
त्यत्रान्तरङ्गत्वादृक्पूरिति समासान्ते कृते विभक्तेरकारेण व्यव धानादेकशेषो न स्यात् । समासान्तो हि समासभक्तस्तमेव न व्यवदध्यात् । स्वरूपं तु व्यवदधात्येव । समासार्थोत्तरपदस्यावयव इति भाष्यमतेपि विरूपत्वादेकशेषो दुर्लभः । त्रिरूपाणामपि समानार्थानामिति तु यद्यपि प्राप्नोति तथापि पक्षे ऋ च इत्यस्य शेषे टापि ऋचे ऋचा इत्याद्यपि स्यात् । एवं पथा पौ इत्याद्यपि पक्षे स्यात् । अपि च करौ करा इत्यादि न सिध्येत् । प्राण्यङ्गानां समाहार एवेति नियमात् । अपि च सर्वेचामित्यादौ द्वन्द्वे विभाषाजसीति प्रवर्त्तेत । अत एव विरूपैकशेषो न कृतद्वन्द्वानां तेषामित्यादौ त्यदादीनि सर्वैरित्येकशेषे सर्वनामत्वाभावप्रसङ्गात्तदेवं त्रयः पक्षा दृष्टा इति स्थितम् । सिद्धान्तस्तु त्रेधा । तथाहि । राम राम राम इत्यत्रावयवानामिव समुदायस्याप्येका प्रातिपदिकसंज्ञा तावदस्ति । मिलितेनार्थवत्वात् । न चार्यवत्समुदायानां समासग्रहणं नियमार्थमित्युक्तेः कथमेतदिति वाच्यम् । नियमस्य सजातीयविषयकत्वेन यत्र समुदाये पूर्वो भागः पदं तत्रैव प्रवृत्तेः । अत एव बहुपटव इत्यश्र प्रातिपदिकत्वं भवत्येवेत्युक्तमर्थवत्सूत्रे । तथा चैकाद्विर्वचनन्यायेन समुदायप्रातिपदिकादेव द्विवचनबहुवचनयोरुत्पत्तिः । तावताप्यवयवानां संख्यान्वयेनानुग्रहसम्भवात् । तथा च समुदायादेकविभक्तौ परत एकशेषः । रामकृष्णावित्यादौ तु यद्यप्युक्तरीत्या समुदायादेकविभक्तिः प्राप्ता तथापि द्वन्द्वविधा - घनेकं सवन्तमित्यस्यानुवृत्त्या बाध्यते । अस्मिन्पक्षे मातृमाश्रोरपि एकशेषः प्राप्तः । एकविभक्तावित्यस्यावृत्त्या एवकारस्य चानुकर्षणेन एकविभक्तौ यानि सरूपाण्येवेति व्याख्यानान भवति । यद्वा युगपदधिकरणवचनतायां द्विवचनबहुवचना
४३२
Page #433
--------------------------------------------------------------------------
________________
२ पा. ३ आ. शब्दकौस्तुभः । न्तानामेकशेषः । द्वन्द्वोप्येवम् । अजहत्स्वार्थायां हि वृत्तौ रामकष्णावित्यादौ पूर्वपदमप्युभावभिधते तावेवोत्तरपदमपि । न चान्यतरवैयर्थ्यम् । परस्परसमभिव्याहारेणैवो भयार्थताध्यवसायात् । तथा च द्वन्द्वसत्तेः प्रागेकैकार्थतावगमोप वृत्तावुभयाभिधानात्मत्येकं द्विवचनाद्युत्पत्तिः । एवमकेशेषवृत्तावपि परार्थाभिधानं वृत्तिरिति सिद्धान्तात् । तथा च रामश्च कृष्णश्चेति लौकिकवाक्य. स्यादूरविप्रकर्षेण विग्रहतया प्रदर्शनपि अलौकिकदन्द्रकशेषयोः प्रक्रियावाक्ये राम औ कृष्ण औ इति प्रविशति । तथा च विभक्त्यन्तानामेकशेषोपि निधि एव । अथ वा उपक्रमएव यथा व्याख्यातं तद्रीत्या अनैमित्तिक एवैकशेषः । तथा च पक्षत्रयं स्थितं सिद्धान्ते । अत्रेदमवधेयम् । उक्तपक्षत्रयमध्योपि समुदायादेकविभक्ताविति पक्षस्तावत् दुष्ट एव मातृमातारावित्यत्रातिप्रसङ्गं वारयितुं एकविभक्तावित्यस्य सरूपाण्यवेत्येतद्विशेषणतया आवश्यकत्त्वे स्थिते एकशेषविशेषविशेषणत्त्वायोगात् । आवृत्तौ मानाभावात् फलाभावाच्च । न च पयः पयो जरयती. त्यादिव्यावृत्तिः फलम् । सहविवक्षायामित्यस्य द्वन्द्वग्रहणवले. 'नावश्यवाच्यत्त्वात् । अन्यथा पयः पयो नयतीत्यत्र गाणमुख्यकर्मणोरेकशेषापत्तेः । देवदेव इत्यादावतिप्रसङ्गाच्च । प्र. त्युत आवृत्त्योभयविशेषणत्वे भैक्षमिति न सिध्येत् । तथा हि । भिक्षा ३ आम् अ इति स्थिते अन्तरङ्गानपि विधीन्बहिरगोपीति लुकि छते लुका लुप्ते प्रत्ययलक्षणविरहादेक शेषो न स्यात् तथा युगपदधिकरणवचनतापक्षोपि दुर्बलः । जहत्स्वार्थायां वृत्तौ तदयोगात् । तथा च द्वितीये भाष्यम् । सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा चेति । तच्च तत्रैव स्फुटीकरिष्यामः । तस्मात्प्रागुक्तपटपक्षीमध्ये ऽनैमित्तिकत्वपक्ष
Page #434
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ. एव प्रबलः । इतरे पश्चापि हेया इति तदभिप्रायंकतयैव सूत्रं व्याख्यातम् । पचतीत्यादौ तु धातोर्द्वन्द्वादिप्रसक्तिरेव नास्ति यद्वाक्यशेषो मृग्येत । न च मिलिताल्लडादिप्रसङ्गः । धातोरित्यकत्वस्य विवक्षितत्वात् । न चैकस्मादेव कद्वये लद्वयं कर्तृबहुत्वे लकारबहुत्वञ्च स्यादिति वाच्यम् । इष्टापत्तेः । लस्येत्यत्र जातिविवक्षया लद्वयस्य तसादयः बहूनान्तु झिथादय इति सुवचत्वात् । वस्तुतस्तु वर्तमामाने लडित्यादौ व्यक्तिनिष्ठकत्वस्य विवक्षणान्न कश्चिद्दोषः । अत एव वृक्षवृक्ष सिञ्चतीत्यादौ नानकत्वाभिधानार्थ विभक्तिपरम्परा नेति दिक् । गर्गावित्यादावपि पितुरेकत्वात्प्रकृतिरेकाप्रत्ययास्तु बहवः । सर्वेषां प्रकृत्यान्विताभिधायितया विरूपाणामपि समानार्थानामिति गर्गयशब्दस्य शेषः । न च पक्षे यशब्दमात्रस्यापि तदापत्तिः । विकल्पस्याष्टदोषदुष्टत्वात् । न च विनिगमका• भावः । अणुरपीति न्यायेन स्पष्टप्रतिपत्तिसामर्थ्यस्यैव विनिगमकत्वात् । यद्वा । यत्र इत्यपि व्यक्त थैक्यं विवक्षितम् । प्रतिप्रधानञ्च गुणावृत्तिः । गार्यशब्दत्रयस्य चैकशेषः । उभयथा यजन्तं यद्बहुष्विति लुक् । न चैवं काश्यपस्य प्रतिकृतिः काश्यपः । ततः प्रतिकृतीनां सहविवक्षायां काश्यपा इत्यत्रापि अजन्तं बहुषु वर्ततइति लुक् स्यादिति वाच्यम् । यस्कादिभ्योगोत्रइत्यतो गोत्रइत्यनुवत्तेः । यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं तथापहि ऋषिप्रजन एव गोत्रं विवक्षितमिति स्त्रीपुंसाभ्यांनञ्स्नबाविति सूत्रे कैयटः । तेन पौत्रा दौहित्रा इत्यत्र न लुगित्यवधेयम् । एतेन संख्यया कर्मभेद इत्यस्य व्युत्पादनाय प्रवृत्ते पृथक्त्वनिवेशात्संख्यया कर्मभेदः स्यादित्यधिकरणे सप्तदश प्राजापत्यानित्युदाहृत्य, किं त्वयं तद्धितान्ता
Page #435
--------------------------------------------------------------------------
________________
२ पा. ३ आ. शब्दकौस्तुभः । नामेक शेषः कृतो भवेत् । किं वा कृतैकशेषाणां पश्चात्तद्धितसङ्गतिरिति वदतां भट्टानां ग्रन्थोपि व्याख्यातः । ण्यप्रत्ययान्तानामेकशेषः । ण्यप्रत्ययान्तानामेव वेति तदाशयात् । कृतैकशेषाणां प्रजापतिर्देवता येषामिति कृतैकशेषयच्छब्देनोपस्थापितानां तद्धितसङ्गतिस्तद्धितवाच्यता । तथा च मिलितानां देवतासम्बन्धं बोधयितुं लौकिकविग्रहे येषामिति निर्देशः । वृत्तौ तु देवतावद्वाचकस्य तद्धितस्यैकशेष इति मिलितेषु पशुषु देवतान्वयादेको यागः । अग्नीषोमीय इत्यादौ मिलितयोर्देवतायामभेदान्वये यथेत्युदात्तवार्तिकस्योत्तरार्थोध्यवसेयः । युक्तं चैतत् । प्रत्ययार्थबहुत्वं हि प्रत्यक्षमुपलभ्यते । तत्कृतं चैकशेषत्वमिति न प्रकृतौ भवेदित्युत्तरवार्तिकस्यानुगुण्यात् । स्यादेतत् । प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् । अभेदश्चेह सम्बन्ध आग्नेयादावियं स्थितिरिति पक्षे देवतावतां साहित्यं लभ्यते न तु सहितानां देवताक्त्वे देवतायां प्रदेये च खण्ड शः शक्तिरिष्यतइति पक्षेपि एकप्रत्ययोपात्तदेवतान्वयस्यान्तरङ्गत्वादेवमेवोत चेत्सत्यम् । प्रदेय एव शक्तिः प्रकृतेस्तु प्रत्ययसमभिव्याहारादेवतायां निरूढलक्षणेत्याशयेनायं ग्रन्थो नेयः । केवलादेवतावाची तद्धितोग्नेः समुच्चरन्नित्यादिग्रन्थास्तु मतान्तराभिप्रायेण नेयाः । न चैवमपि विरूपैक शेषपक्षे समानार्थतालाभार्थ प्रकृत्यर्थान्वयस्य प्राथमिकत्वं स्वीकार्यमेवेति वाच्यम् । ययय इत्येषा मेकविभक्ति प्रति प्रकृतित्वाभावे ऽपि: विभक्तौ परतः सारूप्यसम्भवेन सरूपैकशेष एवेत्याशयात् । प्रकृतमनुसरामः । स्वरभिन्नानां यस्योत्तरः स्वरविधिः स शिप्यतइति वक्तव्यम् । तेन पूर्वोदात्ते हरिण्यावित्यत्र ङीवन्तस्य पिन्त्वादनुदात्तप्रत्ययकस्य शेषः । न तु जातौ पुंयोग वा
Page #436
--------------------------------------------------------------------------
________________
४३६
शब्द कौस्तुभः ।
[ १ अ०
यों ङीष् तदन्तस्य प्रत्ययस्वरेणान्तोदासस्य । ननु वर्णादनुदाशादिति ङीषन्तस्यापि उदात्तनिवृत्तिस्वरेणान्तोदात्तता स्यादेवेति चेत् । भ्रान्तोसि । उदात्तनिवृत्तेरेवाभावात् । वर्णानान्तणातिनितान्तानामिति फिट्सूत्रेण प्रकृतेरनुदात्तत्वात् । तदुक्तं वर्णादनुदात्तादिति । तथा मीमांसते इति मीमासकः । लित्स्वरेण मध्योदात्तः । मीमांसामधीते मीमांसकः । क्रमादिभ्यो वुन् । नित्स्वरेणाद्युदात्तः । उभयोः सहविवक्षाया माद्युदात्तः । उभयोः सहविवक्षायामाद्युदात्तः शिष्यते नित्स्वरस्य परत्वात् । अक्षौ अक्षाः | अक्षस्यादेवनस्येति फिट्सूत्रेण शकटाक्षे आद्युदात्तः । देवनाक्षे तु फिष इत्यन्तोदात्तः । यद्वा । अशेद्देवने इति प्रत्ययान्तत्वादन्तोदात्तः । शकटावयवबिभीतकयोस्तु घञन्तत्वादायुदात्तः । अत एव प्राचेयामेति सूक्ते अक्षकितवनिन्दाप्रस्ताव अक्षस्या हमेक परस्येत्यादयाक्षेशब्दा बहवोन्तोदात्ता एव प्रयुज्यन्ते । तस्य नाक्ष इत्यादौ तु रथावयवपरत्वादायुदात्तः । उभयोः सहविवक्षायान्तु आद्यदातस्य शेषः । इन्द्रियवाचिना क्लीवेन सहविवक्षायान्तु नपुंस कमनपुंसकेनेति अक्षमक्षाणीत्याद्यूह्यम् । नन्वचेतनानां देवतानां कथं पुंनपुंसकादिव्यवस्थेति चेत् । उच्यते । लोकप्रसिद्धमवयवसंस्थानविशेषात्मक लिङ्गं तावन्न व्याकरणे आश्रीयते । दारान् इत्यादौ नत्वाभावप्रसङ्गात् / तटस्तटतटमित्यादौ यथायथं लिङ्गात् त्रितयनिबन्धनकार्याणामसिद्धिप्रसङ्गाच्च । कितु पारिभाषिकमेव लिङ्गत्रयम् । तच्च केवलान्वयि । अयमर्थः इयं व्यक्तिरिदं वस्त्वितिशब्दानां सर्वत्राप्रतिबद्धप्रसरत्वात् । तत्र कश्चिच्छब्दः एकस्मिन्नेव लिङ्गे शक्तः कश्चित्तु द्वयोः कश्चित् त्रिष्विति_लिङ्गानुशासनादिभ्यो निर्णेयम् । कुमारब्राह्मणा
-
Page #437
--------------------------------------------------------------------------
________________
२ पा. ३ आ.
शब्दकौस्तुभः ।
४३७
दिशब्दास्तु लौकिक पुंस्त्वविशिष्टे शास्त्रीये पुंस्त्वे शक्ताः लौकिविशिष्टे च शास्त्रीयस्त्रीत्वे । कथमन्यथा कुमारी कुमार इत्यादयः प्रयोगा व्यवतिष्ठेरन् । करेणुरिभ्यां स्त्रीनेभइत्यमरस्याप्ययमेवार्थः । नन्वेवं पशुनेतिपुंस्त्वं विवक्षितमिति मीमांसकोद्घोषः कथं योज्यः । पारिभाषिकस्याव्यावर्त्तकतया तद्विवक्षाया अकिञ्चित्करत्वात् । लौकिकस्य तु पशुशब्दादप्रतीतेरिति चेत् । सत्यम् । छागो वा मन्त्रवर्णादिति षष्ठान्त्याधिकरणन्यायेन पुंस्त्वस्य नियमो बोध्यः । छागशब्दस्य लौकिक पुंस्त्वविशिष्टपारिभाषिके शक्तत्वादिति दिक् । तच्च जा तित्रयमित्यके । उक्तं च हरिणा । तिस्रो जातय एवैताः केपां चित्समवस्थिताः । अविरुद्धा विरुद्धाभिर्गोमनुष्यादिजातिभिरिति भाष्ये तु स्त्रियामितिसूत्रे प्रकारान्तरमुक्तम् । संस्त्यान - सव लिङ्गमास्थय स्वकृतान्ततः । संस्त्याने स्त्यायतेर्डट् स्त्रीसूतेः सप्रसवे पुमान् ॥ उभयोरन्तरं यच्च तदभावे नपुंसकमिति ॥ अयमर्थः । संस्त्यानं स्त्री । सत्वरजस्तमोलक्षणानां गुणानामपचयः । प्रसवो गुणानामुपचयः । स एव पुमान् । सूतेर्धातोः सप्सकारस्य पकारादेश इत्यर्थः । सूङो डुमसुन्निति माधवः । यत्तूज्ज्वलदत्तेन यातेर्दमसुन्नित्युक्तम् । यच्च पुंसोसुङतिसूत्रे न्यासरक्षिताभ्यां पुनातर्मकसुन हूस्वचेति सूत्रं पठितं तदुभयमपि भाष्याननुगुणन्तयोरुपचयापचययोरभावे सति यदुभयोरन्तरसदृशं तन्नपुंसकम् । न भ्राणनपादिति निपातनादिति भावः । तथा च स्थितिमात्रं नपुंसकम् । अत एवाविभवतिरोभावयापि स्थितिसामान्यविवक्षासम्भवान्नपुंसकलिङ्गसर्वनामेति सिद्धान्तः । स्त्रीपुमान्नपुंसकमितिशब्दाच शुक्तयादिशब्दवद्धर्मे धर्मिणि वर्त्तन्तइत्यवधेयम् । स्वकृतान्त इति । कृता
Page #438
--------------------------------------------------------------------------
________________
४३८
शब्दकौस्तुमः । [१ अ० न्तौ यमसिद्धान्तावित्यमरः । वैय्याकरणसिद्धान्ते इत्यर्थः ॥
वृद्धोयूनातल्लक्षणश्चेदेवविशेषः ॥ वृद्धो गोत्रम् । अपत्यमन्तहितं वृद्धमिति पूर्वाचायः मूत्रितत्त्वात् । यूना सहोक्तौ वृद्धः शिष्यते गोत्रयुवप्रत्ययमात्रकृतञ्च तयोर्वै रूप्यं कृत्स्नं स्यात् । गार्यश्च गाायणश्च गाग्यौँ । तल्लक्षणं किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गाय॑वात्स्यायनौ ॥
स्त्रीपुंवच्च ॥ यूना सह विवक्षायां वृद्धा स्त्री शिष्यते तदर्थश्च पुंवद्भवति । स्त्रीत्वस्य वैरूप्यकारणस्याधिक्यात्पूर्वेणापाप्तौ वाच्यम्, पुवदिति विधातुञ्च । गार्गी च गाायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने योश्चेति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥
पुमान् स्त्रिया ॥ सरूपाणां मध्ये स्त्रिया सहोक्तौ पुमान् शिष्यते स च पुंवदेव स्यात्तल्लक्षणएव विशेषश्चेत् । सम्पृक्ता च सम्पृक्तञ्च सम्पृक्तौ । यः शिष्यते स लुप्यमानार्थाभिधायीति सिद्धान्तात्स्त्रीत्त्वस्यापि सत्वेन टाप् प्राप्तः पुंवदेवेत्यनुवृत्तेने भवति । हंसश्च वरटा चेत्यादौ हंसजातिसाम्येपि शब्दवैलक्षण्यस्य स्त्रीत्वपुंस्त्वमात्रप्रयुक्तत्वादेकशेषः प्राप्तः रूपग्रहणानुव
त्या वार्यते तदनुवृत्तौ च भ्रातृपुत्रौ स्वमृदुहितभ्यामिति सूत्रं ज्ञापकम्, अन्यथा एकापत्यत्वस्य अपत्यत्वस्य वा साम्यात्तत्रापिपु. मास्त्रियेत्येव सिध्येत् । नन्वेवमपि गौरीयं गौश्चायं तयोः सहोक्तौ एतौ गावाविति नियमतो न स्यात् । नैष दोषः।इयमयामिति पदान्तरगम्यपि तल्लक्षणविशेषे पुमानस्त्रियेत्यस्य प्रवृत्तिसंभवादिति कैयटः । स्यादेतत् । तल्लक्षणविशेषरूपो विशिष्टाभावो ऽत्र हेतुः स च किन्नरैरप्सारोभिश्च क्रीडद्भिरित्यादौ विशेषणाभावात् । गावावित्यत्र तु विशेष्याभावादित्यन्यदेतत् । तथा चकिमर्थ
Page #439
--------------------------------------------------------------------------
________________
२ पा. ३ आ. शब्दकौस्तुभः । पदान्तरगम्यत्वपर्यन्तमुक्तमिति चेत् । उच्यते । नेह विशिष्टाभावः प्रयोजकः किन्तु तन्मात्रप्रयुक्तो विशेषः प्रयोजकः । अन्यथा भागवित्तिंभागवित्तिकावित्यत्र वृद्धोयूनति स्यात् । इह हि कुत्सासौवीरत्वाभ्यां प्रयुक्तपिठकि युवप्रयुक्ततास्त्येवेति विशिष्टाभावो निधिः । एवमिन्द्रेन्द्राण्यावित्यत्र प्रकृतमूत्रप्रवर्तेत। हिमहिमान्यावित्यादौ चोत्तरसूत्रमिति दिक् । नन्वेवं गार्यवात्स्यायन योरतिप्रसङ्ग इति चेत् । योसौ विशेषः स तल्लक्ष. णश्चेदिति वचनव्यक्तया पाठादुद्देश्यविधेयान्वयलाभात् । एवञ्च कृत्स्नस्य विशेषस्य तन्मात्रप्रयुक्तत्त्वं फलितम् । तेन पदान्तरपर्यन्तानुसरणं कैयटादीनां युक्तमति दिक् । तदितरप्रयुक्तविशेषविरहरूपविशिष्टाभावविवक्षायान्तु सर्व सुस्थम् । एतेन सा च स च तावितिव्याख्यातम् । अनैमित्तिकस्यैकशेषस्य तद् तद् इत्यवस्थायां प्रवृत्तावपि पुंस्त्वनियमस्यैतेन लभ्यत्वात् । ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र तु न भवति । स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सहविवक्षा च प्रधानयोरेव । तेन यत्र प्रधानयोरेव स्त्रीपुंसयोर्विशेषप्रयोजकता तत्रैव एकशेषप्रवृत्तेः । इह वा प्रधानकृतस्यापि विशेषस्य सत्त्वात् । एवकारानुवृत्तेर्नेह । इन्द्रेन्द्राण्यौ । इह हि पुंयोगकृतोपि विशेषः । आरण्यारण्यान्यौ । इह महत्वकृतोपि विशेषः ।पुमानितिकिम् । प्राक् च प्रतीची च प्राक्मतीच्यौ स्तः । प्रपूर्वादश्चेः क्विनन्तादस्तातरंचेलगिति तद्धितश्चासर्वविभक्तिरित्यव्ययत्त्वादलिङ्गः प्राक्शब्दः ॥
भातपुत्रौ स्वमृदुहितृभ्याम् ॥ यथासख्यं शिष्यते । भाता च स्वसा च भातरौ । पुत्रश्च दुहिता च पुत्रौ ॥
नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् ॥ अक्लीवेन स
Page #440
--------------------------------------------------------------------------
________________
४४०
शब्दकौस्तुमः । [१ अ० होक्तौ क्लीनं शिष्यते तच्च वा एकवत् स्यात् । तल्लक्षण एव चेद्विशेषः । शुक्लः कम्बलः शुक्ला बृहतीका शुक्ल वस्त्रं तदिदं शुक्लम् । तानीमानि शुक्लानि । अनपुंसकेनेति किम् । शु. क्लञ्च शुक्लञ्च शुक्ले । एकवच्चेति न भवति । अस्येति किम् । उत्तरसूत्रे एकवद्भावानुवृत्तिर्मा भूत् ॥
पिता मात्रा ॥ मात्रा सहोतो पिता वा शिष्यते । पितरौ । मानामितरौ।अयं योगः शक्योकर्तुम् । तथाहियः शिष्यते स लुप्य- . मानार्थाभिधायीतिन्यायेनास्मिनावषये पितृशब्द एक मातरमपि वक्तीति निर्विर्वादम्। तत्र च निरूढलक्षणा वा शक्तिरेव वेत्यन् । देतत् । न च द्वन्द्वनिवृत्यर्थ सूत्रम् । तस्यापि पक्षे इष्टत्वात् । एक श्वशुरः श्वश्वत्यत्रापि बोध्यम् । एतेन पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथेत्यस्य व्याख्यावसरे विग्रहे क्रमप्रतीतेः प्रथम माता धनभाक् तदभावे तु पितेति विज्ञानेश्वरग्रन्थश्चिन्त्यः । एकपदजन्ये बोधे कमाभावात् । सूत्रारम्भेप्येवमेव । प्रत्युत मुख्यार्थस्य प्रथमप्रतीतिरुचिता ॥ न तु लक्ष्याया मातुः। यत्तु विग्रहे क्रपतीतिरिति । तन्न । वृत्तिविग्रहयोः सहाप्रयोगात् । - तेरेवेह व्याख्येयश्लोके प्रयोगात् । किं च वृत्तावपि प्रयुक्तायां विग्रहोपि स्मयतां कथञ्चित् । न तु तत्रापि पूर्वापरिभावे किञ्चिनियामकमस्ति । तस्मात्क्रमनिर्णये प्रमाणान्तरं मृग्यम् ॥ - श्वशुरः श्वश्वा ॥ श्वाना सहोक्तौ श्वशुरो वा शिष्यते । श्वशुरौ । श्वभूश्वशुरौ। श्वश्वोति सौत्रनिर्देशादेव प्रत्ययान्तस्यापि प्रातिपदिकत्वम् । अन्यथा हि प्रकृतिवदनुकरणमिति ऊड. न्ततृतीया न स्यात् ॥ - त्यदादीनि सनित्यम् ॥ सर्वैस्त्यदादिभिरन्यैश्च सहोक्तौ
Page #441
--------------------------------------------------------------------------
________________
४४१
२पा. ३ आ. शब्दकौस्तुमः । • त्यदादीनि नित्यं शिष्यन्ते । प्रत्यासत्तेस्त्यदादिभिरेव सहो
तावित्यर्थो मा भूदिति सर्वग्रहणम् । स च देवदत्तश्च तौ । द्वन्द्वनिवृत्यर्थ वचनम् । ताविति तु सरूपसूत्रेणैव सिद्धं देवदत्तस्यापि तच्छन्देनैव निर्देष्टुं शक्यत्वात् । त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते शब्दपरविप्रतिषेधात् । स च यश्च यौ । पूर्वशेषोपि दृश्यतइति भाष्यम् । स च यश्च तौ । अहं च भवांश्चावाम् । त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि । आद्यादित्वात्त. सिः । त्यदादीनां शेषे सहविवक्षितो योर्थः पुमान् यश्च नपुं. सकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । सा च देवदत्तश्च तौ। तच्च देवदत्ताच यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु सहविवक्षायां नपुंसकवशेन व्यवस्थापरत्वात् । तच्च देवदत्तश्च ते । अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् । कुक्कुटमयूयोविमे । मयूरीकुक्कुटाविमौ । अर्द्ध पिप्पल्यास्तत् । अर्धपिप्पली च सा अ. धपिप्पल्यौ ते । इह परवल्लिङ्गमिति समासार्थस्य लिङ्गातिदेशे कृते तद्विशेषणस्य सर्वनाम्नस्तदेव लिङ्गम् । भाष्ये तु एतत्सूत्रं प्रत्याख्यातम् । यदाह । सामान्यविशेषवाचिनोश्च द्वन्द्वाभावासिद्धमिति । विशेषसन्निधौ हि प्रयुक्तः सामान्यशब्दो विशेषान्तरे वर्तते । ब्राह्मणा आगता वसिष्ठश्चेति यथा । तथाविधे विषये वाचनिकोयं द्वन्द्वनिषेधः । तेनैव तदेवदत्तावित्यादिनिवृत्तेः सिद्धत्वादयमेकशेषो न वक्तव्य इत्यर्थ इति कैय्यटः । कथं तर्हि शूद्राभीरङ्गो बलीवर्दै तृणोपलमिति । अत्राहुः । आभीरी जात्यन्तराणि ।ब्राह्मणादग्रकन्यायामाभीरो नाम जायते। माहिष्योग्रौ प्रजायते विट्शूद्राङ्गनयोर्नुपादिति स्मृतेः ॥ योशब्दस्तु स्त्रीगवीपरोयं स्त्रीलिङ्गः । अपामुलप इति नामधेरामिति । अनित्योयं निषेधः । प्राच्यभरतेष्वितिमूत्रनिर्देशाल्लिङ्गात् । तेन
Page #442
--------------------------------------------------------------------------
________________
४४२. शब्दकौस्तुभः ।
[१ अ प्रमाणप्रमेयेत्यादिषु इन्द्रः सिद्धः । एतेनाविद्या तच्चितो योगः . पदस्माकमनादयः । मत्स्यादौ द्विशेषयोरित्यादिप्रयोगा व्याख्याताः। सूत्रारम्भे स्वेतेव सिद्धयेयुरेवेति सत्दयैराकलनीयम् ॥ __ ग्राम्यप सफेष्वतरुणेषु स्त्री ॥ एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रियेत्यस्यापवादः । गाव इमाः । ग्राम्यग्रहणं किम् । सरव इमे। पशुग्रहणं किम् । ब्राह्मणाः । सधेषु किम् । एतौ गातौ चरतः । एकशेपस्यानेकविषयत्वे लब्धे सङ्घग्रहणसामर्थ्यावहूनां सङ्घो गृह्यते । अतरुणेषु किम् । वत्सा इमे । बकेरा इमे । अनेकफेष्विति वक्तव्यम् । अश्वा इमे । गर्दभा इसे । एकसफच्यात्'शेष एव । शफं क्लीबे खुरः पुमानित्यमरः । हरदत्तस्तु शफाः खुरा इति प्रायुक्त । तत्र शफशब्दस्य पुंस्त्वे मूलान्तरं मृग्यम् । उष्ट्राणां त्वारण्यत्वात स्त्रीशेषाभावः ॥
. इति श्रीशब्दकौस्तुभे प्रथपाध्यायस्य द्वितीये पादे . तृतीयमान्हिकम् ॥ पादश्च समाप्तः ॥
भूकादयो धातकः । क्रियाचाचिनो गणपठिता धातुसंज्ञा: स्युः। धातुत्वालडादयः । भवत्ति एधते । क्रियावाचिनः किम् । याः पश्येत्यादौ धातुत्वं मा भूत् । सति हि तस्मिनातोधातो. स्त्यिालोप: स्यात् । न च यामापणइत्याद्यर्थनिर्देशो नियामकः। मस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिशरिति मर्यते। पाणिनिस्तु भवेध इत्यापाठीदिति भाष्यवार्तिकयोः स्पष्टम् । किञ्च । अभियुक्तैरपि कृतार्थनिर्देशो नार्थान्तरनिटतिपरः सुखमनुभवतीत्यादावधानुस्वासङ्गात् । उक्तञ्च । क्रियावाचित्वमाख्यातुमेकैको प्रदर्शितः । प्रयोगतानुसतव्या अनेकार्था हि धातव इति ॥ अत एव कुर्द खुर्द गुर्द गुद क्रीडायामेवेत्येव
Page #443
--------------------------------------------------------------------------
________________
३ पा. १ आ.
शब्दकौस्तुभः ।
४४३
कारः । पच्यते श्लिष आलिङ्गनइत्यादिसूत्राण्यपीह ज्ञापकानि । तस्माद्याः पश्येत्यादिव्यावृत्तये क्रियावाचिन इति विशेषणं स्थितम् । गणपठिता इति किम् । हिरुक् पृथक् ऋते इत्याद्यव्ययानां शिष्ये इति भावार्थतिङन्तस्य च मा भूत् । न चैवं सौत्रेष्वव्याप्तिः । स्तम्भ्वादीनामुदित्करणेन धात्वधिकारीयका
1
विधानेन च धातुत्वानुमानात् । न चैवमपि लौकिकानां चुलुम्पादीनामसङ्ग्रहापत्तिः । भ्वाद्यन्ते यजादिसमाप्त्यर्थं वृत्करणेपि भ्वादीनामसमाप्तेः । धातुवृत्तिषु तथैव व्याख्यातत्वात् । कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमिति कात्यायनवचनेनाप्येतल्लभ्यते । एवं भ्वाद्यन्ते वृत्करणस्य पुषादिसमाप्तयर्थतया दिवादीनामपरिसमाप्तेर्मृग्यतीत्यादिसिद्धिः । वस्तुतस्तु चुरादीनामन्ते बहुलमेतनिदर्शनमिति गणसूत्रेण सकलष्टसिद्धिः । तद्धि धातुवृत्तिषु द्वेधा व्याख्यातम् । भ्वादिगणपठितेभ्यापि णिच् प्रयोगानुसाराज्जप इति । दशगणीपाठो दिङ्मात्रप्रदर्शनार्थस्तेनान्येपि शिष्टप्रयुक्ता धातवः सङ्ग्राह्या इति च । स्यादेतत् । भूरादियेषामिति विग्रहे यणि सति भ्वादय इति स्यात् । क्रियावाचित्व ञ्च सूत्रानारूढमेवेति । उच्यते । भवनं भूः क्रियासामान्यम् । वदन्तीति वादयः वदेरौणादिक इञ् इति भाष्यम् । यद्यपि वसिवपि यजि राजि व्रजि सहि हाने वासि वादि वारिभ्य इञित्यौणादिकसूत्रेण वदेर्ण्यन्तादिञ् विहितस्तथापि बहुलग्रहणात् केवलादपि भविष्यतीति न्यासकारादयः । वस्तुतस्तु वदन्तीति वादय इति भाष्यमर्थकथनपरम् | ण्यन्तादेव त्विम् । न चेह व्यर्थानन्त्रयः । पचतिपाचयत्योस्तुल्यार्थत्वात् । भुवो वादय इति विग्रहः । तथाच क्रियावाचित्वं तावत्सूत्रारूढम् । निरनुबन्धानां शब्विकरणानां भूप्रभृतीनां पाठसामर्थ्यात्पठितानामेव संज्ञेत्यनुमीयते । सनाद्य
4
Page #444
--------------------------------------------------------------------------
________________
४४४
शब्दकौस्तुभः । [१ अ० न्ता धातव इति सूत्रारम्भाच्च । अथ वा भूरादिर्येषामिति वि प्रहः । निपातनादुगागमः महासंज्ञाकरणं तु दधति क्रियामिति धातव इत्यन्वर्थसंज्ञाविज्ञानार्थम् । यद्वा । भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोस्तु व्यवस्थापकारवाचिनोरेकशेषः । ततो भूवौआदी येषामिति बहुव्रीहिः। भूप्रभृतयो वासदृशाः क्रियावाचिन इति यावत् । अथवा वाइत्ययमादिर्येषामिति बहुव्रीहिः वाइत्यस्यादय इति तत्पुरुषः। तयोरेकशेषे खरभिन्नानामिति बहुव्रीहिशेषः। भुवो वादय इति षष्ठीतत्पुरुषः । वाच्यवाचकभावश्च षष्ठयर्थः । द्विर्वचनेचीतिवत्तंन्त्रात्यादिना वा उभयलाभः । सर्वथापि क्रियावाचिनो भ्वादय एव धातव इति स्थितम् । का पुनः क्रिया । उच्यते । करोत्यर्थभूता उत्पादनापरपर्याया उत्पन्त्यनुकूलव्यापाररूपा भावनैव किया । तथाहि । अभवतो गगनादेरक्रियमाणतया भवतश्च घटादेः क्रियमाणतया भवत्यर्थकर्तुः करोतिकर्मत्वम् । तथा च करोत्यर्थक वित्प्रयोजकतया भवतरुत्पत्त्यर्थापयोजकव्यापारे गिजुत्यद्यमानः करोत्यर्थमवलम्बते । उक्तञ्च । करोतिक्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥ करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यत्त्वं प्रपद्यते ॥ प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः । ण्यन्ता एव प्रयुज्यन्ते तत्पयो. जककर्मसु ॥ तेन भूतिषु कर्तृत्त्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुभाविनां भावनाविद इति ॥ सा च सकलधातूनां वाच्या । अत एव किं करोतीति प्रश्ने पचतिपठतीत्यायुत्तरं सङ्गच्छते । न चासौ मीमांसकोक्तरीत्या प्रत्ययवाच्यैवास्तामिति वाच्यम् । भोक्तव्यमित्यादावाख्यातं विनापि तत्प्रतीतेः । तथा च तत्रापि कारकापेक्षा दृश्यते । अस्ति च तत्रापि करो
Page #445
--------------------------------------------------------------------------
________________
३ पा. १ आ.
शब्दकौस्तुभः ।
४४५
तिसामानाधिकरण्यं, किं कर्त्तव्यं, भोक्तव्यम्, किं कृतवान्भुक्तवानिति । किञ्च । भावयति घटमिति वच्चन्मते भवति घटमित्यपि स्यात् । तुल्यार्थत्वात् । दृष्टान्ते कर्तुः कुम्भकारस्य व्यापारं णिजाचष्टे दान्तिके त्वाख्यातप्रत्ययः । ननु प्रयोजकव्यापारो णिजर्थः कर्तृव्यापारस्त्वाख्यातार्थ इति वैषम्यमिति चेत् । कारकचक्रप्रयोक्तुः कर्तृत्वे घटस्यातथाच्त्वात् । यदि तु धातुनोक्तक्रिये नित्यं कार के कर्तृतेष्यतइति भर्तृहरिप्रतिपादितरीत्या प्राधान्येन धातूपात्तव्यापारत्वरूपं कर्तृत्वं तवापि सम्मतं कस्तर्हीींदानीमाख्यातार्थः । व्यापारस्य धातुनैवाभिहितत्वात् । अपि च । धातोः सकर्मकाकर्मकत्वविभाग उच्छिद्येत । अकर्मकाच्चेत्यादिसूत्राणि च विरुध्येरन् । ननु सिद्धान्तेऽपि क्रि यायाः कर्मापेक्षानियमात्कथमकर्मकतेति चेत् । न । फलव्यापारयोः सामानाधिकरण्यवैयधिकरण्याभ्यां सकर्मकाकर्मकविभागस्य वक्ष्यमाणत्वात् । किञ्च । ज्योतिष्टोमयाजीत्यादौ करणे यज इति णिनिरस्मत्पक्षे सङ्गच्छते । धातुत्वेन धातूपा तां भावनां प्रति यजित्वेन तदुपात्तस्यांशान्तरस्य करणत्वात् । पच्यादयो हि धातुत्वेन भावनामाहुः । विक्लित्याद्यंशान्तरे तु पाचत्वादिना प्रातिस्विकरूपेणाहुः । तचांशान्तरभावतां प्रति प्रायेण भाव्यतया सम्बध्यते । ज्योतिष्टोमयाजीत्यादौ तु करणतया ज्योतिष्टोमाख्येन यागेन स्वर्ग भावितवानित्यर्थप्रतीतेः । स्पष्टं चेदं णिनिविधौ हरदत्तग्रन्थे । एतेन द्र्यर्थः पचिरिति भाष्यं व्याख्यातम् । भट्टिश्चाह, विभज्य सेनां परमार्थकर्मा सेनापतींश्वापि पुरन्दरोथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातूनिति ।। ननु क्रियाया धात्वर्थत्वे पचतीत्यादौ एककर्तृका वर्त्तमाना पचिक्रियेति क्रियाविशेष्यको बोधो न स्यात् । प्र
Page #446
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः । [१ अ. त्ययार्य मति मकृत्यर्थस्य विशेषणताया औपगवादी क्लृप्तत्वादिति चेन । प्रत्ययार्थी प्रधानमिति बुत्सर्गः स चेह त्यज्यते। क्रियाप्रधानमाख्यातमिति स्मरणात् । पाचिकेत्यादौ स्त्रीत्वस्य विशेषणत्वाभ्युपगमाच्च। प्रत्युत तवैव पचतीत्यादावनुपपतिः। पचन्तं तं पश्येत्यादौ शतृशानचोः कर्तृणधान्यस्य सर्वसम्मततया तिइक्ष्वपि तथात्वापत्तेः । शत्रादीनां तिङाच लादेशत्वस्याविशिष्ठत्वात् । आदेशानाञ्च स्थानिस्मारकत्वे स्थान्यर्थाभिधायित्वे वाक्यध्रौव्यात् । अत एव हि युष्मदि समानाधिकरणे मध्यमः अस्मद्युत्तम इत्यादिपुरुषव्यवस्था सङ्गच्छते । अभिहिते कर्तरि प्रथमत्यादि च । न च समानाधिकरणइत्यनेन स्वाभिधेयसंख्यान्वयित्वमभिहितशब्देन चाभिहितसङ्ख्याकत्वं विवक्षितमिति वाच्यम् । सूत्राननुगुणत्त्वात् । कृत्तद्धितसमासैः संख्याया अनभिधानात्तदभिहितपि तृतीयाप्रसङ्गाच । न च कृत्यनाभिधानमेव कर्तुरनभिधानमिति वाच्यम् । भावार्थलकारोप कर्तरि प्रथमापत्तेरिति दिक। स्यादेतत् । अस्तिमवतिविधतिषु क्रियावाचितमव्यासम्।नहि तंत्रोत्पादः प्रतीयते। एवन्तिष्ठतावपि तथाजायतउत्पद्यते इत्यत्राप्यव्याप्तिः उत्पत्तिर्हि आद्यक्षणसम्बन्धः । तदनुकूलव्या. पारश्चोत्पादना । तदनुभवश्चास्त्यादिभ्यो नास्त्येष । अत एवं किं करोतीति प्रश्ने पचतीत्यादिवदस्तीति न प्रतिब्रुवतइति चेत् । उच्यते । अस्तीत्यादेः स्वरूपधारणं करोतीत्यर्थः । धारणञ्चोत्तरकालसम्बधः । तथासत्यपि करोत्पर्थे धात्वर्थान्तर्गतेन धारणेनैव भाव्यकाङ्क्षायाः पूरणात् जीवतिनृत्यस्पादिवदकर्मकता क्रिया हि व्यापारव्यधिकरणवोत्पत्तिरुच्यते । अत एव तत्र घटादीनां कर्मता । परसमवेतव्यापारफलीभूतोत्पत्तिशालित्वात् । जनि
Page #447
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुमः ।
४४७ प्रभृतिभिस्तु व्यापारसमानाधिकरणैवोच्यते । अत एवाकर्मकता तेषाम् । सोत्पत्त्यनुकूलव्यापारभाजामपि सूक्ष्मरूपापन्नघटादीनां परसमवेतवघटिनकर्मताविरहात् । उक्तञ्च हरिणा । आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यतइति ॥ अन्येप्याहुः । अस्त्यादावपि धर्म्य भाव्येस्त्येव हि भावना । अन्यत्राशेषभावात्तु सा तथा न प्रकाशतइति ॥ तथा पचौ विक्लिदौ च विक्लित्तिर्यद्यपि साधारणी तथापि पचौ व्यापारव्याधिकरणा विक्लिदौ तु तत्समानाधिकरणा सेति सकर्मकार्मकविभागः । नहि धात्वर्थभूतफलशालित्त्वमात्रं कर्मत्वं किन्तु व्यापारवैयाधिकरण्यमपि फलेपेक्ष्यते । यतूक्तं किं करोतीति प्रश्ने इत्यादि । तदसिद्धम् । आसन्नविनाशं कञ्चिदुद्दिश्य किं करोतीति प्रश्ने अस्तीत्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणादस्तीति नोत्तरम् । एतेन यात्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयसे । आश्रितक्रमरूपत्त्वात्सा क्रियेत्यभिधीयतइत्यपि व्याख्यातम् । पूर्वापरीभावापन्नानकक्षणविशिष्टस्योत्पत्तिरात्मास्तीत्यादावापि सुलभैवेति भावः । पचत्यादावपि हि अधिश्रयणादिरधाश्रयणान्तो व्यापारकलापः क्रिया । अत एव तस्य युगपदसनिकर्षान प्रत्यक्षता । किन्तु एकैकस्याधिश्रयणादिव्यापारस्य क्रमेणानुभवे सति मनसा सङ्कलना क्रियते । तदुक्तं भाष्ये । क्रिया नामेयमत्यन्तापरिदृष्टा अशक्या पिण्डीभूता निदर्शयितुमिति । ऐक्यमपि पारिभाषिकम् । एकफलावच्छिन्नत्वात् । उक्तं च । गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यतइति ॥ तदेवं भवत्यादौ क्रियावाचकत्त्वं सुवचम् । अत एवाभूदस्तिभविष्यतीति का.
Page #448
--------------------------------------------------------------------------
________________
४४८
शब्दकौस्तुभः । [१ अ० लयोगः। न हि क्रियात्वं विनासौ सम्भवति । तदुक्तम् । क्रिया- : भेदाय कालस्तु सङ्ख्या सर्वस्य भोदिकोत ॥ कालानुपातियदूपन्तदस्तीति प्रतीयतइति च ॥ भाष्ये तूक्तार्थसाधनाय निरुक्तकारवचनमुदाहृतम् । षड्भावविकाराइति ह स्माह भगवान्वार्थीपणिरिति।भावस्य क्रियायाः षद् प्रकारा इत्यर्थः । तेषु च जायते ऽस्तीति पाठगत्सर्वक्रियान्वयः सिद्ध इत्यर्थः । कैयटस्तु प्रकारान्तरेणापि व्याचख्यौ । भावास्य सत्ताया एते प्रकाराः सप्तैवा- . नेकक्रियात्मिका साधनसंबन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतयावभासतइति । तथा च । जातिसमुद्देशेपि सम्बन्धिभेदत्सत्तैवेत्युपक्रम्योक्तम्, प्राप्तक्रमविशेषेषु क्रिया सैवाभिधीयते। क्रमरूपस्य संहारे तत्सत्वमिति कथ्यतइति ॥ व्यापारविशेषाणां । साध्यत्वात् क्रमिकत्त्वाच तदुपहितायास्ते भवत इत्यर्थः । पाक इत्यादौ तु प्रकृत्या साध्यावस्थाया असत्वरूपाया उपस्थितिः । घबा तु सिद्धरूपायाः। उक्तश्च । क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छीन्त घविधिम् ॥ आख्यातशब्दे भागाभ्यां साध्यसाधन वतिता । प्रकल्पिता यथा शास्त्रे स घबादिष्वपि क्रमः ॥ साध्यत्त्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स घनादि निबन्धन इति ॥ लिङ्गसङ्ख्याकारकायन्वययोग्येनावस्थाविशेषेण घबादिभ्य उपस्थितिरित्यर्थः । एतेन कुदभिहितो भावो द्रव्यपत्प्रकाशतइति तृतीयाध्याये भाष्यमपि व्याख्यातम् । प्रकल्पितेत्यनेन पदस्फोटस्यैव वास्तवतां ध्वनयति । साध्यत्त्वेनेति । अत एव तम्पति कारकतया ओदनादेरन्वय इति भावः । अत एव भोक्तुं पा. को भुक्त्वा गमनमित्यादौ तुमुनादयः सिद्धाः । कृत्वार्थास्त्व
Page #449
--------------------------------------------------------------------------
________________
३ पा. १ आ.
शब्दकौस्तुभः ।
४४९
नभिधानान्नेत्येव शरणम् । अत एव क चिद्दृश्यतेपि द्विर्वचनम् । द्विरविधिरिति सूत्रवार्त्तिकयोः प्रयोगात् । सत्वभावस्त्विति । अत एव पाकं करोतीत्यादौ कारकत्वेन सान्वेतीत्यर्थः । नवेवं पश्य मृगो धावतीत्यादौ मृगकर्तृकेशीघ्रगतेर्दर्शनम्प्रति कर्मता न स्यात् । न च संसर्गमर्यादयेह कर्मताभानेपि प्रकारत्नाभानानोक्तदोष इति वाच्यम् । एवमपि पचतिभवतीत्यादावसङ्गतेः । एककर्तृका वर्त्तमाना पचिक्रिया एककर्तृका वर्तमाना भवनक्रियेति हि तत्र वाक्यार्थः । तत्र च भवतीति लकारार्थस्य कर्तुर्देवदत्तकर्तृकपचिक्रियां प्रत्यभेदेन संसर्गेण विशेष्यत्वस्यावश्यकत्वात् । तथा च देवदत्तवत्पचिक्रियायाः सत्वधर्मो दुर्वारः । अल्लाहुः । कर्तृत्वकर्मत्वयोरनुभववलाद्भानं स्वीक्रियते । कारकान्तराभावमात्रे तु तात्पर्यमिति । आख्यातशब्दे भागाभ्यामित्युदाहृत श्लोकोप्येतदभिप्रायक एव । तंत्र यं प्रतीत्युत्तरश्लोकानुरोधादिति तृतीये स्फुटीकरिष्यामः । एतेन अपाक्षीदपाक्षीः पचतः पचन्ति पक्ष्यति पक्ष्यत इत्यादावपि भवतीत्यनेन कर्तृत्वेनान्वयो व्याख्यातः । भा वी वर्त्तते ध्वस्तोस्तीत्यादाविव सूक्ष्मावस्थस्य वर्त्तमान सत्तासम्भवात् ॥
उपदेशेजनुनासिक इत् ॥ उपदेशनुनासिकोजित्संज्ञः स्यात् । उपदिश्यतेनेनेत्युपदेशः । कृत्यल्युटो बहुलमिति बाहुलकाकरणे घन् । अन्यथा ल्युट् स्यात् । स च धातुपाठप्रातिपदिकपाठ सूत्रवार्त्तिके च । एतैर्हि शब्दा उपदिश्यन्ते । तत्र शास्वकृता पठितस्याप्यनुनासिकस्य पाठ इदानीमप भ्रष्टः । अत एवाहुर्वृत्तिकाराः । प्रतिज्ञानुनासिक्याः पाणिनीया इति । तत्र एधस्पर्धेत्यादावनुदात्तेत्वादात्मनेपदम् । एधते । स्पर्धते । भवत्वित्यत्रो
Page #450
--------------------------------------------------------------------------
________________
४५०
शब्दकौस्तुभः । [१ अ० गित्त्वान्नुम् । भवान् । लणसूत्रे अकारस्येत्त्वाद्रप्रत्याहारसिद्धिः। - आचारेवगल्भक्लीबहोढेभ्य इति वार्तिके ऽवगल्भादरनुनासिकखेनानुदात्तेत्त्वात्तङ् । अवगल्भतइत्यादि । उपदेशे इति किम् । अभ्रआँअपः । आङोनुनासिकश्छन्दसीत्यनुनासिकः । नासौ शास्त्रे पठितः। नन्वेवं उत्र ऊँ इत्यत्रातिप्रसङ्गः। विधानसामर्थ्यानेति तु प्रकृतोपि सुल्यम् । अथानुबन्धा अनेकान्ता इति पक्षे अभूआँ अटित इत्यादावादितश्चेतीनिषेधार्थमित्संज्ञा किन्न स्यादिति चेन्न । एवमपि आङ इदिति वक्तव्ये अनुनासिकविधानस्य वैयापत्तेः । एतेन दघि इच्छतीति दधि ब्राह्मणकुलं दधीयतेः किप्यल्लोपयलोपयोईस्वत्वे चाणोप्रगृह्यस्येत्यनुनासिकः । अत्रेदितोनुम्धातोरिति नुम् स्यात् । दधि मचित्यादिषु प्रातिपदिकेषु भवतिपचतीत्यादिषु च इत्कार्य लोप एव स्यात् । तस्मादुपदेशग्रहणं कर्त्तव्यमिति परास्तम् । अणोप्रगृह्य इदिति वक्तव्ये ऽनुनासिकविधानसामादित्संज्ञाविरहोपपत्तेः । सत्यम् । उत्तरार्थमुपदेशग्रहणम् । आजति किम् । मनिन्प्रत्यये मकारस्य मा भूत् । सत्यां हि तस्यामन्येभ्योपि दृश्यन्तइति हलन्तेष्वंत्यादचः परः स्यात् । अनुनासिकः किम् । चिरिणोति जिरिणोति ॥ .. हलन्त्यम् ॥ उपदेशेन्त्यं हलित्स्यात् । यद्यपि सर्वो हल् तन्तमवधिं प्रत्यन्त्यो भवति तथापि धातुपातिपदिकत्वाद्युपाधिपरिच्छिन्नसमुदायं प्रत्यन्त्य इह गृह्यते । अन्त्यग्रहणसामर्थ्यात् । शीङ् स्वमे ङित्त्वात्तङ् । शेते । उपदेशे किम् । अग्निचिव । श्रोत्रियञ्छन्दोधीते क्षेत्रियच् परक्षेत्रे चिकित्स्य इत्यादौ तु वाक्यार्थे पदवचनमिति पक्षे ऽविद्यमानप्रकृतिप्रत्ययविभागे-प्युपदेशेन्त्यत्त्वाद्भवत्येवेत्संज्ञा । सनुत इत्यस्य स्वरादिपाठा
Page #451
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुमः । दिसंज्ञा प्राप्ता उच्चारणसामान भवति । न च रित्स्वरः प्रयोजनम् । अन्तोदात्तनिपातनवैय्यापत्तेः । स्यादेतत् । हल्पत्याहारसिद्धरेतत्सूत्रसापेक्षत्वादन्योन्याश्रयः । पदार्थबोध विना वाक्यार्थज्ञानासम्भवात् । अत्राहुः । हल् च ल चेति समाहारद्वन्द्वे संयोगान्तलोपेन लकारोप्यत्र निर्दिश्यते । तेन लस्येसंज्ञायां सत्यामादिरन्त्यनोत हल्संज्ञा । ततोन्त्यं हलिदिति वाक्यार्थबोधः । यद्वा । हल् इति तन्त्रात्येकशेषाणामन्यतमाश्रयणाद्धस्य समीपवर्ती लकारो हल् स इदिति । सम्पूर्णसूत्रा. वृन्त्या हलमूत्रस्यान्त्यं हलन्त्यमिति वा । इह पक्षत्रये पूर्वः पू. वः प्रबलो लाघवादिति तत्त्वम् । यद्वा । हलमूत्रे लुकारस्यैव तवल्कार इतिवद् गुणभूतस्य निर्देशः । तस्य च पुषादिद्युताय्लूदित इति ज्ञापकादित्संज्ञा । न तूपदेशेजनुनासिक इति। अच्संज्ञाया अद्याप्यनिष्पादात् । यत्तु णलो लित्करणं ज्ञापकामिति । तच्चिन्त्यम् । लित्त्वस्याद्याप्यसिद्धेः । न च विभेदेत्यत्र लोपाभावार्थ हल्ङन्यादिसूत्रे ऽपृक्तं हलिति द्वितीयहल्ग्रहणं तत्र ज्ञापकमिति वाच्यम् । भवितेत्यादौडानिहन्त्यर्थ हल्ग्रहणोपपत्तेः। न च सुतिसीतिप्रत्ययैः प्रकृतेराक्षेपानवमिति वाच्यम् । यासेत्यादौ सुलोपानापत्तेः । न चैकदेशविकृतस्यानन्यत्त्वादेकादेशस्य च पूर्वान्ततया ग्रहणाद्वलन्तायाः प्रकृतेः परत्वेनेष्टसिद्धिः । यः स इत्यत्रातिप्रसङ्गात् । तस्माल्लोपप्रवृत्तिकाले हलस्तत्वं वाच्यम् । तच्च यासेत्यत्रापि नास्ति किं त्वाबन्तात्परसमाश्रित्य लोपः कार्यः। न च तत्राबन्ता प्रकृतिः । उभयत आश्रयणेन्तादिवद्भावायोगात् । अथ तदस्यांप्रहरणमिति निदेशादाबन्तस्थले उभयतआश्रयेप्यन्तादिवद्भावं ब्रूषे तथापि हलशब्दस्यैवाद्यापि शक्त्यग्रहे कथं हल्ग्रहणसमार्थ्याणलो लित्वं
Page #452
--------------------------------------------------------------------------
________________
४५२
शब्दकौस्तुभः ।
[१ भ० निश्चयम । न च लितीति ज्ञापकम । ल्युडादौ चरितार्थत्वात् । तस्मादुक्तमकारचतुष्टयमेव शरणम् । स्यादेतत् । आधे हल्संज्ञातः पूर्व कथं संयोगान्तलोपः । संयोगसंज्ञाया अनिष्पतेः। द्वितीये हस्य ल् इति कथं समासः । सुप्संज्ञाया था. निष्पादात् । एवं तृतीये हलोन्त्यमिति तत्पुरुषः कथम् । चतुर्थे च लूदित इति बहुव्रीहिः कथम् । उच्यते । साधुत्वज्ञानोपयोगिनः शास्त्रस्याप्यर्थबोधो यदि तद्वोध्यसाधुत्वानां पदानां स्वार्थानुभावकतायामुपयुज्येत तदैष दोषः स्यात् । स च नोपयुज्यते । प्रमाणाभावात् । शतशो व्यभिचाराच । यथा चैतचथा अइउणित्यत्रैव प्रतिपादितम् ॥
न विभक्तौ तुस्माः ॥ विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । रामान् । पचेरन् । ब्राह्मणाः । पचतः । रामम् । अद्राक्षम् । विभक्तौ किस् । अचो यत्, ऊर्णाया युस्, रुधादिभ्यः नम्, प्राग्दिशीविभक्तिरिति यत्र विभक्तिसंज्ञा तत्रायं निषेधोन भवति।इदमस्थमुरिति मकारपरित्राणार्थमुकारानुबन्धासञ्जनाज्ज्ञापकात् । लेन किमोत्, क्व इति सिद्धम् । स्यादेतत् । तदानीमित्यादौ दानीमोपि तर्हि मिस्त्वं स्यादिति चेत्रायान्तत्त्वात्तस्य । यकारोह्यत्यत्वमनुभवन्मकारस्येत्संज्ञा प्रतिबन्धाति । संयोगान्तस्य लोपः इति यलोपस्येत्संज्ञा प्रत्यसिद्धतया मकारस्यान्त्यत्वाभावाव । यद्वा । इदमस्थमुरित्यनेनानित्यत्वमात्रं ज्ञाप्यते । न तुं प्राग्दिशीयेष्वप्रवृत्तिः। औत्, इटोदित्यत्र तु सुखमुखार्थस्तकारः। न त्वित्संज्ञकः । तित्स्वराफ्तेः । न चेष्टापत्तिः । उरोवाये । भक्षीयतवराधारा इत्यादौ उरौभक्षीयेत्यनयोरन्तोदान्ततादर्शनात् । आधुदात्तश्चेति सूत्रे भविषीयेत्यत्र भाष्यकारैरेवान्तोदात्तत्वस्य सिद्धान्तितत्वाच्च । यत्त्विह वृत्तिकृतोक्तम्, किमोत,
Page #453
--------------------------------------------------------------------------
________________
३ पा. १ आ.
शब्द कौ स्तुमः ।
४५३
इटोत् इत्यत्रायं निषेधो न भवति अनित्यत्वादस्य विधेरिति । तत्स्वोक्तिविरुद्धम् । इटोदिति सूत्रे तकार उच्चारणार्थ इति तेनैवोक्तत्वात् । तस्मादभ्युपेत्यवादमात्रम् । यद्वा । इटोदित्यत्रास्य अकारमात्रस्य विधेः । अनित्यत्वादिति तु किमोदित्येतत्परमिति व्याख्येयम् ।।
आदिवः ॥ उपदेशे आदिभूताः बिटु डु एते इतः स्युः । ञिइन्धी । इद्धः । टुवेपृ । वेपथुः । डुवप् । उप्त्रिमम् । उपदेशइति किम् । ञिकारीयति । आदिः किम् । पटूयति । अस्ति हि पृथ्वादिषु पटुशब्दस्योपदेशः | अत्रेत्संज्ञायां सत्यामथुच् स्यात् । अवयवे ह्यचरितार्थं द्वित्वं समुदायस्य विशेषकं स्यात् ॥
षः प्रत्ययस्य ॥ प्रत्ययस्यादिः ष इत्स्यात् । शिल्पिनि ष्वनू, नर्त्तकी । प्रत्ययस्येति किम् । षोडश । षषत्वमित्यत्रोपदेशस्थोयं षकारः । आदिः किम् | अविषः । महिषः । अविमहिभ्यां टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति ईकारस्य टित्वादेव सिद्धेः । न च पक्षे ङीषर्थः षकारः । ङीषोपि चितः परस्योदात्तनिवृत्तिस्वरेणोदात्तत्वात् । सत्यम् । विनिगमकाभावेन पक्षे टकारस्यापि श्रवणं स्यात् ॥ चूट् । प्रत्ययाद्यौ चुटू इतौ स्तः । गोत्रे कुञ्जाहिभ्यश्च्फञ् । कौजायन्यः । छस्य ईयादेशं वक्ष्यति । जस् । ब्राह्मणाः । झस्यान्तादेशो वक्ष्यति । सोस्याभिजन इत्यधिकारे शण्डिकादिभ्यो ञ्यः । शाण्डिक्यः । चरेष्टः । कुरुचरी । ठस्येकादेशं वक्ष्यति । सप्तम्यां जनेर्डः । उपसरजः । ठस्यैकादेशं वक्ष्यति |धनगणंलब्धेत्यतो लब्धेत्यनुवर्तमाने, अन्नाण्णः । अन्नं लब्धा आन्नः। चुटुषाः प्रत्ययस्येति कर्त्तव्ये योगविभागादनित्यमिदम् । तेन केशचुञ्चुः केशचण इत्यत्र
Page #454
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः ।
[ १ अ०
चकारस्येत्संज्ञा न । सत्यां हि तस्यां चित इत्यन्तोदात्तः स्यात् । चित्करणं तु पर्यायार्थं स्यात् । अवात्कुटारच्चेत्यतो Sवादित्यनुवर्त्तमाने नतेनासिकाया इति टीटच् । अवटीटः । यद्वा । चञ्चुप्चणप्टीटचोयादयः । लोपोन्योरिति यलोप इति व्याख्येयम् ॥
1
1
लशकतद्धिते ।। तद्धितभिन्ने प्रत्यये आदिभूता लशकवर्गा इतः स्युः । ल्युट् च । भवनम् । कर्त्तरि शप् । भवति । क्तक्तवतू निष्ठा । भूतः भूतवान् । प्रियवशेवदः खच् । प्रियंवदः । वशंवदः । ग्लाजिस्थश्वग्स्नुः । जिष्णुः । भञ्जभासमिदो घुरच् । भगुरम् । ङे । हरये । अतद्धिते किम् । चूडालः । प्राणिस्थादातो लजन्यतरस्याम् । लोमशः । अत्र प्रयोजनाभावान्नेत्संज्ञेत्यपि सुवचम् | कर्णिका । कर्णललाटात्कनलङ्कारइति भवार्थे कन् । अत्र कितिचेति वृद्धिः स्यात् रूपञ्च न सिध्येत् । इर उपसङ्ख्यानं, रुणद्धि । अयं वा रेफो हलन्त्यमितीत्संज्ञः । इकारस्तूपदेशेजनुनासिक इति । स्यादेतत् । एवं सतीदित्त्वान्नुम् स्यात् । न च तक्रकुम्भीधान्यन्याय आश्रयितुं शक्यः नन्दतीत्याद्यव्याप्तेः । सत्यम् । स्कन्दिरप्रभृतीनां नकारपाठों ज्ञापकः अन्तेदितामेव नुमिति । यद्वा । गोः पादान्तइति सूत्रादन्तग्रहणमनुवर्त्तयिष्यते । तच्चावश्यमनुवर्त्यम् । चक्षिङो नुम्मा भूदिति । अथवा न दृश इति ज्ञापकान्न भविष्यति सति हि नुमि इगुपधत्वाभावादेव क्सस्याप्राप्तेः किं तन्निषेधेन । यद्वा । इरितोवेति ज्ञापकात्समुदायस्येत्संज्ञा । अवयवे अचरितार्थस्य स्वरितत्वस्य समुदायविशेषकत्वात्स्वरितत्वप्रयुक्तमात्मनेपदम् । तेन रुन्ध इत्यादि सिद्धम् ||
तस्य लोपः ।। तस्येतो लोपः स्यात् । तस्यग्रहणं सर्व लोपार्थम् ।
४५४
Page #455
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुमः । ४५५ * बिटुडूनामलोन्त्यस्य मा भूत् । नानर्थकेलोन्त्यविधिरिति तु नास्ति । अलोन्त्यात्पूर्व उपधेति सूत्रे तस्य प्रत्याख्यानात् ॥ __ यथासङ्ख्यमनुदेशः समानाम् ॥ समसङ्ख्यानां सम्बन्धो यथाक्रमं स्यात् । नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । न. न्दनः । ग्राही । पचः । समूलाकृतजीवेषु हन्कृञ्ग्रहः । समूलघातं हन्तीत्यादि । अत्रानुवाद्ययोरापिधातूपपदयोर्यथाक्रमं बोध्यम् । स्यादेतत् । विदिभिदिछिदेः कुरजित्यादौ तच्छीलाद्ययंत्रयेण यथासङ्ख्यं प्राप्नोति । एवं ख्यत्यान्ङसिङसोरित्यादावपीति चेत् । अत्र भाष्यम् । स्वरितेनेत्याकृष्यते । तेन स्वरितत्वाभावान्नेह यथासङ्ख्यमिति । प्रतिज्ञास्वरिताः पाणिनीयाः । स्वरितत्वाभावादेव कर्तृकर्मणोश्वभूकमोरित सूत्रे न यथासंख्यं नाडीमुष्ट्योश्चेति सूत्रे यथासंख्यं च भवत्येवोति भाष्यम् । वृत्तिकारस्तु कर्तृकर्मणोश्च नाडीमुष्ट्याश्चेति सूत्रद्वयेपि भाष्यं विपरीतं वदन्नुपेक्ष्यः । नाडीमुष्ट्योश्चोत सूत्रे यथासङ्ख्याभावपरं भाष्यमपि पूर्वापरविरोधाचिन्त्यम् । एतदेव वा मतान्तरपरं सत्तत्रत्यवृत्तरालम्बनमस्तु । कर्तृकर्मणोरित्यत्र तु वृत्तिश्चिन्त्यैव । वेशोयशआदेभंगायल्खावित्यत्राप्यस्वरितत्वादेव न यथासङ्ख्यम् । इह सूत्रे भाष्ये वृत्तौ चेत्थं स्थितम् । चतुर्थे तु वृत्तिकारो योगं व्यभजत् । भगाद्यलिति खचेति च ॥
स्वरितेनाधिकारः ॥ इत्थंभूतलक्षणे तृतीया । अधिकारो विनियोगः स्वरितत्वयुक्तशब्दस्वरूपमधिकृतं बोध्यम् । प्रत्ययः परश्चेत्यादि । यथा प्रायेणोत्तरत्रोपस्थितिः। क चित्तु पूर्वस्थत्रापि । तदुक्तम् । अतिङित्युभयोर्योगायोः शेष इति । कियहूरमधिकार इत्यत्र व्याख्यानं शरणम् ।यथा आवृतीयाध्यायान्तं धात्वधि
Page #456
--------------------------------------------------------------------------
________________
४५६
शब्दकौस्तुभः ।
[ १ अ०
कारो न तु प्राग्लादेशेभ्य एव । तथा आसप्तमाध्यायपरिसमाप्तेरेङ्गाधिकारो न तु मागभ्यासविकारभ्य एवेत्यादि । यद्वा । स्वरिते इति सप्तम्यन्तम् । तेन तस्मिन्दृष्टे अधिकारो निवर्त्ततइत्यर्थः । कः स्वरिताधिकारार्थः कश्च तन्निवृत्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तां किमनेन सूत्रेण । सत्यम् । अर्थान्तराणि सङ्ग्रहीतुं सूत्रं कृतम् । तथाहि । स्वरितेनाधिकाररूपोर्थो ग्राह्यः । गोस्त्रियोरित्यत्र च स्त्रीशब्दः स्वर्यते । तेन गोटाङ्ग्रहणं कृन्निवृत्त्यर्थमिति न वक्तव्यम् । किsa अधिकं कार्यमधिकारः । गौणेपि शास्त्राप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते । अपादानाधिकरणादौ तत्र स्वरितः पाठ्यः । अपि च अधिकः कारः कृतिरियम् । यत्पूर्वः सन् परं बाधते । तथा च पूर्वविप्रतिषेधाः संगृहीता भवन्ति । तत्रतत्र स्वरितपाठेनैव गतार्थत्वादिति दिक् ॥ इति श्रीशब्द कौस्तुभे प्रथमस्याध्यायस्य तृतीये पादे प्रथममान्हिकम् ||
अनुदात्तङित आत्मनेपदम् | अनुदात्तेत्क उपदेशे यो ङित्तदन्ताद्धातोर्लस्थाने आत्मनेपदमेव स्यात् । एषते । स्पर्धते । बोभूयते । ऋतीयते । कथं ता शेतइत्यादि, ङिदेव त्वयमिति चेत् | सत्यम् । व्यपदेशिवद्भावो बोध्यः । उपदेशे किम् । चकुटिषति । गाङ्कुटादिभ्य इति सन आतिदेशिकं ङित्वम् । धातोरिति किम | अत्युतत् अदुद्रुवदिति ङिदभ्यामङ्चङ्भ्यां मा भूत् । कथं पुनर्धातोरिति लभ्यतइति चेत् । भूवादिस्त्रान्मण्डूकप्लुत्यानुवृत्तस्य धातव इत्यस्य विभक्तिविपरिणामात् । सादृश्यमात्रेण परिणामव्यवहारो वस्तुगत्या तु योग्यशब्दान्तरभेवः सन्निहितं भवतीति कैयटः । यद्वा । आत्मनेपदेनैव लका
·
Page #457
--------------------------------------------------------------------------
________________
४५७
३ पा. १ आ. शब्दकौस्तुभः । रस्य धातोश्चाक्षेपः । इकोझलित्यत्र सना धातोराक्षेपवत् । अत एव डिता तस्य विशेषणात्तदन्तविधिर्व्याख्यातः । चित्रीयतइत्यादौ तु अवयवे ऽचरितार्थेन डकारेण क्यजन्तस्य विशेपणं ततो व्यपदेशिवद्भावान्दिन्ततति दिक् । एतेन चिनुतः सुनुत इति व्याख्यातम् । यत्तु तत्र डिन्तीव द्विदिति व्या. ख्यानमाश्रित्य समाधानं, तदापाततः । पचेतेइत्यादावातोडिन्त इति इयादेशाभावप्रसङ्गात् । ननु वृद्भ्यः स्यसनोरिति सूत्रे स्यग्रहणेन विकरणेभ्यो नियमो बलीयानिति ज्ञापितत्त्वाच्चङडोश्चिनुत इत्यादौ चानुपपत्तिरेव नास्तीति चेव । उपजनिष्यमाणेनापि ङिता उपसजातनिमित्तस्यापि परस्मैपदस्य बाधापत्तेः । नियमो बलीयानित्यस्यापि पाक्षिकवाच । वृद्भ्यः स्यसनोरित्यस्य विकरणव्यवधानपि नियमप्रवृत्तिरिति ज्ञापकताया अपि सुवचत्वात् । शदेः शित इति मूत्रे भाष्यकैयटयोरिदं स्पष्टम् । तस्माद्यथाव्याख्यानमेव मनोरमम् । हरदत्तस्तु ङित इत्येव व्याख्यत् । धातोरिति नापेक्ष्यते । नियमो बलीयानित्याश्रयणाच्चङादी न दोषः । न च भाविना डिता बाधः । परत्वात्परस्मैपदस्यवोचितत्वादिति तस्याशयः । उभयथापि यङीयङगोर्डत्वस्य गुणनिषेधे चरितार्थतामाशङ्कय यङः प्रागनुदात्तमकारं पश्लिष्य जुचक्रम्यदन्द्रम्योत ज्ञापकायुजभावं वदन्तः ईयङः प्रागिकारमीकारं वा प्रश्लिष्य आये अन्तदित्त्वाभावान नुम्, द्वितीये एकाच इत्यनुवृत्तेः श्वीदितोनिष्ठायामिति नेनिषेध इति कल्पयन्तः परास्ताः । स्यादेतत् । यङ्लुक्यपि सर्वत्रातिव्याप्तिः । प्रत्ययलक्ष. णेन डिदन्तत्वात् । सत्यम् । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणतया सुदृषदित्यत्र सोर्मनसीर्तिस्वरस्येवात्वसन्तस्योत दीर्घ
Page #458
--------------------------------------------------------------------------
________________
४५८
शब्दकौस्तुभः । [१ अ० स्येव चेहात्मनेपदस्याप्रवृत्तरिति निष्कर्षः । प्राञ्चस्तु बोभूतुतेतिक्तइत्यत्र तिर्जयलुगन्तादात्मनेपदविधानं ज्ञापकं यङ्लुगन्तात्प्रत्ययलक्षणेनात्मनेपदं नेति । अत एव चर्करीतं चे. त्यदादौ पठितस्य चकारात्परस्मैपदमिति व्याख्यानं ज्ञापकसि. दार्थानुवाद इति सिद्धान्तः । नन्वेवमपि पास्पर्धीतीत्यादावात्मनेपदं दुर्वारम् । स्परनुदात्तत्त्वात् । न चेदं प्रकृत्यन्तरमिति वाच्यम् । द्विःप्रयोगो द्विवचनं पाष्ठमिति वक्ष्यमाण. त्वात् । सत्यम् । शितपाशपेत्यादिना निषेधो बोध्यः । अनुब. न्धेन निर्देशो हि द्विधा । कचित्साक्षात् । शीङः सार्वधातुके गुणः । दीडोयुडिति यथा । अनुदात्तेत इत्यादौ स्वनुबन्धत्वेन । यत्र तु नोभयथापि निर्देशस्तद्भवत्येव । आङोयमहनः भावकर्मणोरित्यादि यथा । नन्वाङ इति कथं नानुबन्धनिदेश इति चेत् । न । प्रकृतिग्रहणे यलुगन्तस्य ग्रहणमित्यस्य ह्ययमपवादः । तेन प्रकृतयंत्रानुबन्धेन निर्देशः स एवास्य विषयः। अत एव चेचितः मरीमृष्ट इत्यादौ ङितिचेति प्रवततएवेति दिक् । अथ कथं स एवायं नागः सहति कलभेभ्यः परिभवमिति । अत्राहुः । आधुषाद्वेति विकल्पितणिच: सहेरिदं रूपम् । यद्वा । चक्षिडो डिक्करणमनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यतां ज्ञापयति । स हि अनुदात्ते. व । विचक्षणः प्रधयनित्यादावनुदात्तेतश्चहलादेरितियुचो दर्शनात् । न चायं ल्युट् । लित्स्वरापत्तेः । अन्तो. दात्तस्य च पाठ्यमानबादिति । एतेन स्फायनिर्मोकसन्धीति मुरारिप्रयोगो व्याख्यातः । स्यादेतत् । लस्य तिवादयः । लटः शतृशानचौ । लिटः कानज्वा । कसुश्च । लुटः सद्वेत्यात्मनेपदपरस्मैपदयोर्विहितत्त्वादित आरभ्यापादपरिसमाप्तेः प्रकरणं कि
Page #459
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुमः ।
४५९ मर्थमिति चेत् । नियमार्थमित्यवेहि । अत एवानुदात्तङित आत्मनेपदमवति व्याख्यातम् । सोयं प्रकृतिनियमः । उत्तरसूत्रे च भावकर्मणोरात्मनेपदमेवेति अर्थनियमः । यत्रैवकारस्ततोन्यत्रावधारणमिति सिद्धान्तात् । तथाहि । तदसम्बन्ध्यसम्बन्धो व्याप्तिः सैवावधारणम् । व्यापकत्त्वद्योतकैवशब्दसम्बदभिन्ननम् ॥ न चास्मिन्पक्षे अनुदात्तत्प्रभृतिभ्यः परस्मैपदं मा भूत् आत्मनेपदं त्वनियतत्त्वादत्तीत्यादावपि स्यादिति वाच्यम् । शेषात्परस्मैपदमवेति नियमात् । ननु तत्र कर्तरीत्युक्तेः कर्तरि परस्मैपदमेवास्तु । भावकर्मणोस्तु जागर्यते अद्यतइत्यादौ परस्मैपदं दुर्वारमेवोत चेन्न । भावकर्मणोरात्मनेपदमेवोत नियतत्वात् । अस्तु वा प्रत्ययनियमः । आत्मनेपदमनुदात्तङिन्त एवति । भावकर्मणोरेवेति । नचैवमनुदात्तेत्प्रभृतिभ्यः पस्मैपदप्रसङ्गः। परस्मैपदस्यापि शेषात्कर्तरीति नियतत्वात् । ननु कीदृशस्तत्र नियमः कर्तरि यदि परस्मैपदं भवति शेषादेवेति, शेषाद्यदि भवति कर्तर्येवेति वा, आये अशेषात्कर्तरि मा भूत् । भावकर्मणोस्तु शेषादशेषाच्च परस्मैपदं दुर्वारम् । अन्त्ये शेषाद्भावकर्मणोर्मा भूत्, अशेषात्तु भावकर्मकर्तृषु त्रिष्वपि प्राप्नोति । सत्यम् । योगविभागेन नियमद्वयं बोध्यम् । शेषादेव तत्रापि कर्तर्येवेति । तस्मादिह प्रकरणे प्रकृत्यर्थनियमः प्रत्ययनियमो वेति पक्षद्वयमपि स्थितम् । स्यादेतत् । विकरणव्यवधाने नियमो न प्राप्नोति । तथाहि । विकरणानामवकाशो लादेशभिन्नाः । इश्तिपौ धातुनिर्देशइति शितप् । पायाध्माधेदृशः शः । ताच्छील्यादिषु चानश् । नियमस्यावकाशः लिलिङौ लुइलुनमश्च । पस्पर्धे, स्पर्धिषीष्ट, आस्ते, शत, अत्ति, जुहोति, भिनत्ति, भूयादित्यादि । एधते,
Page #460
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० स्पर्धते, कुरुते, निविशतइत्यादावुभयप्रसङ्गे परत्वानित्यत्वाच । विकरणेषु तैर्व्यवधानानियमो न स्यात् । ततश्च प्रकृतिनियमपक्षे विकरणान्तादुभयमसङ्गः । प्रत्ययनियमपि तुल्यजातीयस्यैव नियमेन व्यात्तिः धातोरनन्तरस्य लस्य यद्यात्मनेपदमनु. दात्तडिन्त एव यदि तु परस्मैपदं शेषादेवेत्यादि । तथा च धात्वन्तरात्तव्द्यावृत्तावपि विकरणव्यवधाने नियमाप्रवृत्तेः पदद्वयमपि स्यादेव । सत्यम् । विकरणेभ्यो नियमो बलीयानिति वृद्भयास्यसनोरितिस्यग्रहणेन ज्ञाप्यते । अतो नियमद्वयेप्यदोपः । तत्रापि प्रकृत्यर्थनियमपक्षो बलीयानित्यवधेयम् । तत्र हि शेषात्कर्तरीति न वाच्यम्, किन्तु परस्मैपदमित्येव यत्र तच्चान्यच्च प्राप्तं तत्र परस्मैपदमेव स्यात् । प्रत्ययनियमपक्षे तु शेषादिति कर्तरीति वाच्यम्, योगश्च विभजनीय इति दोषत्रयमधिकं स्यात्। तिवादिवाक्येन सह वाक्य भेदः परिसङ्ख्याप्रयुक्तत्रिदोषता चेति दोषचतुष्कन्तु पक्षद्वयप्यस्त्येत्र । यदि तु तदपि किमर्थ सोढव्यमिति बुद्धिस्तार्ह लस्य तिबादय इत्यनेनसहेदं प्रकरणमेकवाक्यतया विधायकमिति व्याख्येयम् । अस्मिन्पक्ष शेषात्क-रीति कर्त्तव्यमेव । परस्मैपदमात्मनेपदमिति च सूत्रशाटकवद्भाविनी संज्ञाश्रयणीया । अन्यथा विहितानां संज्ञा संज्ञया च विधानमित्यन्योन्याश्रयः स्यात् । अस्मिश्च पक्षे विकरणेषु न कश्चिद्दोषः । लादेशेषु कृतेषु सार्वधातुकमाश्रित्य विकरणप्रवृत्तः । न च स्यादिषु दोषस्तदवस्थ एवेति वाच्यम् । लमात्रापेक्षयान्तरङ्गेषु तिबादिषु कृतेषु लकारविशेषापेक्षतया बहिरङ्गाणां स्यादीनां प्रवृत्तेः॥
भावकर्मणोः। अनयोविहितस्य लस्यात्मनेपदं स्यात् । सुप्यते । क्रियते । प्राग्वदेकवाक्यतया विधिः भिन्नवाक्यतया नि
Page #461
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुभः ।
४६१ यमो वेति बोध्यम् । नियमोपि द्विधा । प्रत्ययनियमो ऽर्थनियमश्चेति । न चान्त्यपक्षे कर्मणि पञ् न स्यात् को भवता लामो लब्ध इति, अकतरचेत्यस्य त्वपादानादिरवकाश इति वाच्यम् । तुल्यजातीयस्य परस्मैपदस्यैव नियमेन व्यावर्तनात् । स्यादेतत् । लूयते केदारः स्वयमेवेत्यत्र परस्मैपदं प्राप्नोति । कमवत्कर्मणेत्यनेन हि शास्त्रं व्यपदेशो वातिदिश्यते । तथा च तेन तेन शास्त्रेण तत्तकार्य कर्तव्यम् । तत्र कर्मण्यात्मनेपदमित्यस्यावकाशः शुद्धं कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता। कर्मकर्त्तयुभयप्रसङ्गे परत्त्वात्परस्मैपदमिति । सत्यम् । प्राधान्याकार्यातिदेश एवेत्यात्मनेपदमेव परं बोध्यम् । पक्षान्तरे तु शेषाकर्तरीत्यत्र कर्तरिकर्मेत्यतः कर्तरीत्यनुवर्त्य कत्तैव यः कर्ता तत्र परस्मैपदं न तु कर्मकर्तरीति व्याख्यातम् ।। - कर्तरि कर्मव्यतिहारे ॥ विनिमयविषयीभूतायां क्रियायां वर्तमानाद्धातोः कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः। सम्प्रहरन्ते राजानः ।व्यात्युक्षीमाभिसरणग्लहामदीव्यन् । कत्तग्रहणमुत्तरार्थम् ॥ .. ___ न गतिहिंसार्थेभ्यः ॥ एभ्यः कर्मव्यतिहारे आत्मनेपदं न स्यात् । व्यतिगच्छन्ति । व्यतिसर्पन्ति । व्यतिघ्नन्ति । प्रतिषेधे हसादीनामुपसङ्ख्यानम् | हसादयो हसपकाराः शब्दक्रियाः। व्यतिहसन्ति । व्यतिजल्पन्ति । हरतेरपतिषेधः । सम्पहरन्ते राजानः । अथग्रहणसामर्थ्याधे शब्दान्तरनिरपेक्षा गतिहिंसयोर्वर्तन्ते तइह गृह्यन्ते । हरतिस्तूपसर्गवशादिंसायां वर्ततइति न तस्यायम्प्रतिषेध इत्याहुः । ततः सम्पहरिष्यन्तौ दृष्ट्वा कर्णधनंजयावित्यत्र तु योत्स्यमानाविति विवक्षितं न तु
Page #462
--------------------------------------------------------------------------
________________
४६२
शब्दकौस्तुमः ।
[ १ अ०
कर्मव्यतिहारः । वस्तु नायं प्रतिषेधः । अगत्यर्थत्वात् । प्रापणं हि वहेरर्थः । गतिप्रतीतिस्त्वाक्षेपात् ॥
इतरेतरान्योन्योपपदाच्च ॥ आत्मनेपदं न स्यात् । परस्परोपपदाश्चेति वक्तव्यम् । इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति । लौकिके शब्दव्यवहारे लाघवं प्रत्यनादरादितरेतरादिशब्दा व्यतीत्युपसर्गौ च कर्मव्यतिहारद्योतनाय समुच्चीयन्ते । तथात्मनेपदमपि समुच्चयेतेति निषेधोयमारभ्यते । न न्वेवं सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयमित्यत्र तङ् कथं नेति चे, करणविनिमये सत्यपि क्रियाविनिमयस्याविवक्षितत्वात् ॥
विंशः ॥ निपूर्वाद्विश आत्मनेपदं स्यात् । निविशते । नेः किम् । प्रविशति । कथं तर्हि न्यविशत न्यविक्षनेति, अटा व्यवधानात् । न च स्वाङ्गमव्यवधायकमिति वाच्यम् । अङ्गभक्तस्याटो विकरणानां प्रत्यवयवत्वेपि धातुम्प्रत्यनवयवत्वेन व्यवधायकस्वादिति । अत्राहुः । तिवादिविधेः प्राग्लावस्थायां धातोरेवाडागमः । लुङ्लङित्यत्र द्विलकारकनिर्देशस्य भाष्यकृता ऽसिद्धवत्सूत्रप्रत्याख्यानावसरे वक्ष्यमाणत्वात् । मतान्तरेपि लकारविशेषापेक्ष स्वाद्वहिरङ्गपडागमं बाधित्वा लमात्रापेक्षत्वादन्तरङ्गेषु | तिवादिषु कृतेषु नियमो भविष्यति । विकरणेभ्यो नियमो बलीयानिति सिद्धान्तात् । अत्र च वृद्भयः स्वसनोरिति स्यग्रहणं ज्ञापकमिति बोध्यम् । अथेदं ज्ञापकं विकरणव्यवधानेपि नियमः प्रवर्त्ततइत्येवं परतयानीयेत तथाप्यदोचः । अन्तरङ्गत्वात्तिवादिषु सत्सु शब्दान्तरप्राप्त्याऽनित्ययोरडविकरणयोर्मध्ये परत्वाददद्मवृत्तेः । ननु त्रिकरणः शब्दान्तरात्माप्तो न तु शद्धान्तरस्येति चेत्, किन्ततः । न हि शब्दान्तरस्येति वाचनिकम् । किन्तु न्यायोयम् । तथा च शब्दा
Page #463
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुमः । ४६३ न्तरस्य प्राप्नुवत इत्र तस्मात्प्राप्नुवतोप्यनित्यखम् । यद्यक्ति सम्बधितया पूर्व प्राप्नोति तद्वयक्तिसम्बन्धितया पुनरमाप्तस्तुल्यत्त्वात् । अत एवोपसर्गनियमे ऽव्यवायउपसङ्ख्यानमिति वार्तिकं प्रत्याख्यातम् । शदेशित इति सूत्रे भगवता भाध्यकारेणेति दिक् । अर्थवद्ग्रहणपरिभाषया नेरुपसर्गस्य ग्रहणं तेनेह न । मधूनि विशन्ति भ्रमराः । कथं तर्हि इत्युक्त्वा मैथिली भर्तुरङ्के निविशन्ति भयादिति कालिदास इति चेत् । अङ्गानि विशतीमिति पाठ इति प्रामाणिकाः। यत्तु पदसंस्का. रपक्षेण समाधानं दुर्घटवृत्तौ कृतम् । तन्न । अपवादविषयपरिहारेणोत्सर्गप्रवृत्तेः । अन्यथा ऽतिप्रसङ्गात् । वालिप्सायामित्यादेवैयापत्तेश्चेति दिक् ॥
परिव्यवेभ्यः क्रियः । एभ्यः क्रीणातेरात्मनेपदं स्यात् । बित्त्वादेव सिद्धे सत्यक-भिमायार्थोयमारम्भः। परिक्रीणीते । विक्रीणीते । अवक्रीणीते । पर्यादय उपसा इह गृह्यन्ते । तत्रावृत्ताद्याश्रयणेन क्रीणातेर्ये पर्यादयस्तेभ्यः क्रिय इति व्याख्यानात् । परस्परसाहचर्याद्वा । तेनेह न । विक्रीणासी. ति । अत्र त्वेकदेशविकृतस्यानन्यत्वात्प्राप्नोति । न चायं विभक्तिविशिष्टस्य विरित्यस्य विकारो न तु विशब्दस्येत्युत्तरसूत्रस्थकैयटवाक्याद् भ्रमितव्यम् । विभक्तोपात् । प्रकृतिभागस्यैव विकारात् । कैयटस्याप्ययमपरितोषोस्त्येव । अत एव वक्ष्यात पक्षिवाचिनो विशब्दस्य सम्भवे तु साहचर्यादुपसर्गग्रहणं व्याख्येयमिति ॥
विपराभ्याञ्जः ॥ स्पष्टोर्थः । विजयते । पराजयते । प्राग्वदुपसर्गग्रहान्नेह । विजयति पराजयति सेना । परा उत्कटा । ननु जोति कथं निर्देशः । प्रकृतिवदनुकरणमित्यतिदेशेन
Page #464
--------------------------------------------------------------------------
________________
४६४
शब्दकौस्तुभः ।
[ १ अ०
धातुतया इयङि जिय इति वक्तव्यत्वात् । न च नियः क्रिय इति दीर्घे सावकाशमियडं परत्वाद् घेर्डितीति गुणो वा धतइति युक्तम् । स्वेष्वपि पूर्वविप्रतिषेधेनेयङ इष्टत्वात् । अव एव क्षिय इति निर्दिश्यते । किञ्च क्षियोदीर्घादिति सूत्रे दीर्घग्रहणमपीह ज्ञापकम् । अन्यथा क्षिय इति निर्देशादेव दी - र्वस्य निर्णये किं तेन । उच्यते । अनित्योयमतिदेशः । अतो नेय । अनित्यतायां प्रमाणन्तु ऋलुक्सूत्रएवोक्तम् । अविवक्षितार्थरूपमात्रानुकरणाद्वा । यन्तु पराजेरसोढ इति सूत्रे इयङः परवारिति गुण इति हरदतेनोक्तम् । तच्चिन्त्यम् । क्षियोदीघादित्येतत्सूत्रस्य भाष्यकै यटवृत्तिग्रन्थैस्तत्रत्यं हत्य स्वग्रन्थाभ्याञ्च सह विरोधात् ॥
• आङ दोनास्यविहरणे ॥ आङ्पूर्वाद्ददातेर्मुख विकसनादन्यत्रार्थे वर्त्तमानादात्मनेपदं स्यात् । विद्यामादत्ते । अनास्थावेहरणे किम् । मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । उपेयिवाननाश्वानित्यत्रापशब्दवत् । तेनेहापि न विपादिकां व्याददाति । पादस्फोटो विपादिका । नदीकूलं व्याददाति । पराङ्गकर्मकादनास्यइति निषेधो नेष्यते । तथा च वार्त्तिकम् । स्वाङ्गकर्मकाच्चेति । स्वमङ्गमिह स्वाङ्गं न त्वद्रवं मूर्त्तिमदिति परिभाषितम् । व्याददते पिपीलिकाः पतङ्गस्य मुखम् । कथन्तर्हि व्यादत्ते विहगपतिर्मुखं स्वकीयम् । कर्त्रभिप्राये भविष्यति । अकर्त्रभिप्रायार्थो ह्ययमारम्भः । एतेन मुखं व्यादाय स्वपितीत्यत्र सुप्त्वा व्यादत्तइति व्यत्यासेन प्रयोग इति प्रेत्य भावपरीक्षायां वाचस्पतिग्रन्थोपि व्याख्यातः । आङो ङिद्विशिष्टस्य ग्रहणामेह, भिक्षामाददाति । अत्र स्मृतावाकार इति हरदत्तः ॥
क्रीडो सम्परिभ्यश्च ॥ क्रीड विहारे । अस्मादात्मनेपदं
Page #465
--------------------------------------------------------------------------
________________
४६५
३ पा. १ आ. शब्दकौस्तुमः । स्यात् । अनुसम्परिभ्यः। चकारादाङः। अनुक्रीडते । सङ्क्रीडते। परिक्रीडते । आक्रीडते । उपसर्गेण समा साहचर्यादनोः कर्मप्रवचनीयान । माणवकमनुक्रीडति । माणवकेन सहेत्यर्थः । तृतीयार्थइत्यनोः कर्मप्रवचनीयसंज्ञा । समो ऽकूजने ॥ सङ्कीडति शकटम् । मयास्य सङ्क्रीडति चकिचक्र इति श्रीहर्षः । कथं तर्हि क्रीडते नागराज इति । अपप्रयोग एवायामित्याहुः । आगमेः क्षमायाम् ॥ ण्यन्तस्येदं ग्रहणम् । आगमयस्व ता. वत् । सहस्व कञ्चित्कालम् । मा त्वरिष्ठा इत्यर्थः । एतेन यावदागमयतेथ नरेन्द्रानिति श्रीहर्षप्रयोगो व्याख्यातः । यावत्पतीक्षते इत्यर्थात् । शिक्षेर्जिज्ञासायाम् ॥ धनुषि शिक्षते । शिक्ष विद्योपादानइत्यस्य नेह ग्रहणम् । अनुदात्तेत्त्वादेवे सिद्धत्वात् किन्तु शके सन्नन्तस्य । सनिमीमेतीस् । धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः । क्रियव हि शकरर्थ प्रति विषयतयैवान्वेति । भोक्क्तुं शक्नोतीत्यादिदर्शनात् । भोजनविषयकशक्तिमानिति हि तदर्थः । शकषज्ञाग्लाघटरभेति तुमुन् । इह तु ज्ञानं विषयः । ज्ञातुमिति तु न प्रयुज्यते अत्मनेपदेनैव ज्ञानविषयकताया गमितत्त्वात् । न चैवं जिज्ञासायामित्यसंगतम् । ज्ञानेच्छा हि तदर्थः । लक्ष्ये तु ज्ञानं शक्तो विषयः । शक्तिस्तु सनर्थभूतायामिच्छायामिति व्याख्यानात् । सत्यम् । ज्ञानविशिष्टायाः शक्तरिच्छाविषयतया ज्ञातस्यापि विषयतानपायात् । एतावानेव परम्भेदः । इच्छा सन्वाच्या शक्तिस्तु प्रकृत्यर्थः । तस्यास्तु ज्ञानविषयकत्वमात्मनेपदेन द्योत्यतइति । आशिषि नाथः ॥ अनुदात्तेत्त्वादेव सिद्ध नियमार्थ वार्तिकम्, अशिष्येवेति । न चैवमनुदात्तेत्त्वं व्यर्थमिति वाच्यम् । तस्य नाथनइति युजर्थत्वात् । सर्पिषो नाथते । आशिषि नाथ इति कर्मणि
Page #466
--------------------------------------------------------------------------
________________
सापर्म भूया
उच्यते । नायव
काव्यप्रका
४६६
शब्दकौस्तुभः । [१ अ० षष्ठी।पि भूयादित्याशास्तइत्यर्थः कथं तर्हि नाथसे किमु पति न भूभृतामिति भारविः। उच्यते । नाधसइति पाठः। तवर्गचतुर्थस्थाने लिपिप्रमादाद् द्वितीयः पठ्यते । अत एव काव्यप्रकाशे च्युतसंस्कृतेरुदाहरणम् तत्पल्लीपतिपुत्रिकुज्जरकुलं कुम्भाभयाभ्यर्थनादीनं त्वामनुनायते कुचयुगं पत्रात मा कृथा इति ॥ अनुनाथति स्तनयुगमिति तु पठनीयमिति तत्रैवोक्तम् । अत्रापि धकारो वा पाठ्यः । हरतेर्गतताच्छील्ये ॥ गतं प्रकारः । पैतृकमवा अनुहरन्ते । मातृकं गावो ऽनुहरन्ते । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ऋतष्ठञ् । इसुसु. तान्तात्कः । गतताच्छील्ये किम् । मातुरनुहरति । साह. श्यमात्रमिह विवक्षितं न तु प्रकारताच्छील्यम् । किरतेईर्षजीविकाकुलायकरणेषु ॥ विक्षेपार्थः किरतिः । हर्षादयस्तु विषयत्वे. नोपात्ताः । तत्र हर्षो विक्षेपस्य कारणं जीविकाकुलायकरणे तु फलम् । एष्वेवार्थेष्वपाच्चतुष्पादिति सुविधीयते । अपस्किरते वृषो वृष्टः कुक्कुटो भक्षार्थी श्वा आश्रयार्थी च । हर्षादि. विति किम् । अपकिरति कुसुमम् । इहात्मनेपदसुडागमौ न भवतः । हर्षादिमात्रसत्वे तु यद्यपि तङ् प्राप्नोति । तद्विधौ चतुष्पाच्छकुनिकर्तृकत्वस्य निमित्तत्वेनानुपादानात् । तथापि शब्दशक्तिस्वाभाव्यात्सुटा सह समानविषयोयं तङ् । तेन ग. जोपकिरतीत्येव भवतीत्याहुः । आङि नुप्रयोः ॥ आनुते। उत्कण्ठापूर्व शब्दं करोतीत्यर्थः । णु स्तुती, अदादिः । आपृच्छते । प्रच्छ ज्ञीप्सायाम, तुदादिः । अहिज्यति सम्प्रसारणम् । शप उपालम्भने ॥ शप आक्रोशइति स्वरितेत् । तस्मादात्मनेपदमर्तृगेपि फले वक्तव्यं शपथरूपेर्थे । देवदत्ताय शपते लत्पादौ स्पृशामि नैतन्मया कृतमित्येकं रूपं शपथं करोतीत्यर्थः ।
Page #467
--------------------------------------------------------------------------
________________
३ पा. १ आ.
शब्दकौस्तुभः ।
४६७
श्लाघन्द्रस्थाशपामिति सम्प्रदानसंज्ञा । ज्ञीप्स्यमाने, विवदन्ते । तद्यथा । यस्माआख्यायते स सम्प्रदानमित्येके । य आख्यायते स इत्यन्ये । कथं तर्हि नीवीम्प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामीति । अत्राहुः | स्वाशयं प्रकाशयामीत्येतावदिह विवक्षितं न तु शपथ इति ॥
समवप्रविभ्यः स्थः ॥ एभ्यस्तिष्ठतेः प्राग्वत् । सन्तिष्ठते । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते । आङः प्रतिज्ञायामुपसंख्यानम् । शब्दं नित्यमातिष्ठते नित्यत्वेन प्रतिजानीतइत्यर्थः । वृत्तौ तु अस्तिसकारमातिष्ठते । गुणवृद्धी आगमा वा तिष्ठतइत्युदाहृतम्। अस्यार्थः । आपिशलिर्हि अस भुवीति न पठति किं तु सकारमात्रम् ! स्तः सन्तीत्युदाहरणम् । अस्ति आसीदित्यादि सिद्धये तु अडाटावागमौ प्रतिजानीते । तावेव गुणवृद्धीति ॥
प्रकाशनस्थेयाख्ययोश्च ॥ तिष्ठतेरेतयोरर्थयोरात्मनेपदं स्यात् । गोपी कृष्णाय तिष्ठते । स्वाभिप्रायं प्रकाशयतीत्यर्थः । श्लाघनूङिति सम्प्रदानत्वम् । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीनिर्णेतृत्त्वेनाश्रयतीत्यर्थः । स्थेयो विवादपदनिर्णेता तिष्ठतेस्मिन्निति व्युत्पत्तेः । वृत्तौ तु तिष्ठन्त्यस्मिन्निति प्रयुक्तम् । तत्र प्रकरणाच्छिादना विवादपदनिर्णेतुः प्रतीतिर्न तु शाब्दीत्यभिप्रायेण परस्मैपदं बोध्यम् । कृत्यल्युटाहुलमिति अधिकरणे अचो यत् ॥
उदोनूर्ध्वकर्माणि ॥ उत्पूर्वातिष्ठतेरनूर्ध्वस्वविशिष्टे परि स्पन्दे वर्त्तमानादात्मनेपदं स्यात् । उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । अनुध्वेति किम् । जवेन पीठादुदतिठदच्युतः । इह क्रियाया अनूर्ध्वत्वं नाम उपरिदेशसंयोगफलकस्वाभावः । यद्यपि उदोनूइत्युक्तेरनूर्ध्व ताविशिष्टक्रियात्रा -
Page #468
--------------------------------------------------------------------------
________________
४६८
शब्दकौस्तुमः। [१ अ० चकत्वं लभ्यतएव धातोः। क्रियावाचित्वाव्यभिचारात्तथापि लोकासिद्धपरिस्पन्दात्मकर्मपरिग्रहार्थ कर्मपदम् । तेनेह न । अस्माद् ग्रामाच्छतमुत्तिष्ठति । उत्पद्यतइत्यर्थः । तथा च उद ईहायामिति वार्तिकं सौत्रकर्मपदासद्धार्थकथनपरम् ॥ ___ उपान्मन्त्रकरणे ॥ मन्त्रकरणं कारकविशेषो यत्र तस्मिन्नथे वर्तमानादुपपूर्वकात्तिष्ठतेरात्मनेपदं स्यात् । आग्नेय्याग्नीध्रमुपतिष्ठते ऐन्द्रया गार्हपत्यमुपतिष्ठते । मन्त्रकरणे किम् । भारमुपतिष्ठति यौवनेन । उपादेवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् ॥ देवपूजायां, आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वतीति । देवतात्वारोपाद्भविष्यति । महीपतेर्देवतांशत्त्वाद्वा । सङ्गतकरणे, रथिकानुपतिष्ठते । उपश्लिष्यतीत्यर्थः । एवं गङ्गा यमुनामुपतिष्ठतेइति । मित्रकरणन्तूपश्लेष विनापि भवति । रथिकानुपतिष्ठते । अयं पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ॥ वा लिप्सायामिति वक्तव्यम् । भिक्षुको ब्राह्मणमुपतिष्ठते उपतिष्ठति वा । लिप्सया हेतुभूतया उपगच्छतीत्यर्थः ॥ . ___अकर्मकाच्च ॥ उपपूर्वकात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निधत्तइत्यर्थः ।।
उद्विभ्यां तपः ॥ आभ्यां तपतेरकर्मकादात्मनेपदं स्यात् । उ- . त्तपते वितपते ।दीप्यतइत्यर्थः । स्वाङ्गकर्मकाचति वक्तव्यम् ॥स्वमङ्गं स्वाङ्गम् । न त्वद्रवमिति परिभाषितम्। उत्तपते वितपते पाणिम्। अकर्मकात्स्वाङ्गकर्मकादित्युक्तेः स्वमङ्गं स्वाङ्गामात व्याख्यानाच्च नेह देवदत्तो यज्ञदत्तस्य पाणिमुत्तपति । सन्तापयतीत्यर्थः । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । उद्विभ्यां किम् । निष्टपति । निसस्तपतावनासेवनइति मूर्धन्यः॥
Page #469
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुमः। ४६९
आङो यमहनः ॥ आङ्पूर्वाभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्याञ्च यमिहनिभ्यामात्मनेपदं स्यात् । आयच्छते । आहते । आयच्छते पाणिम् । अहते शिरः । नेह । परस्य शिर आहन्ति । कथं ताजघ्ने विषमविलोचनस्य वक्ष इति भारविः । अत्र के चित् । आजेति पदं छित्वा घ्न इति भावे विपि चतुर्थेकवचनान्तमुक्त्वा घ्ने हन्तुं आजजगामेति व्याचख्युः । तन्न । अजेलिटि वीभावेन विवायेति सिद्धान्तात् । अन्ये तु विषमविलोचनस्य समीपमेत्य स्वं वक्षमास्फालितवानित्यर्थः । मल्लो ह्युत्साहाविष्करणाय स्वं वक्षमास्फालयती. त्याहुः । भागवृत्तौ तु प्रमाद एवायमित्युक्तम् । एवञ्च मोहादाहध्वंमा रघूत्तममिति भट्टिप्रयोगोपि चिन्त्यः ॥ ___ समो गम्यूच्छिभ्याम् ॥ सम्पूर्वाभ्यामकर्मकाभ्यां गम्यूच्छिभ्यामात्मनेपदं स्यात् । सङ्गच्छते । समृच्छिष्यते । अकर्मकाभ्यां किम् । ग्रामं सङ्गच्छति । कथन्ताह तच्चैक्यं समगच्छतति । आर्षत्वात् । यद्वा । चातुर्वण्यादित्वात्स्वार्थे व्यम् । एकं समपद्यतेत्यर्थः । विदिपृच्छिस्वरतीनामुपसङ्ख्यानम् ॥.दिदानार्थस्येह ग्रहणम् । परस्मैपदिभ्यां साहचर्यात् । न लाभार्थस्य । स हि स्वरितेत्त्वादुभयपदी । सत्ताविचारणार्थयोस्त्वनुदात्तत्वादात्मनेपदं सिद्धमेव । संवित्ते सविदाते सं. विद्रते । सम्पृच्छते संस्बरते । अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् ॥ अर्तीतिभ्वादिजुहोत्यादी द्वावपि गृह्यते । सर्तिशास्तीत्यविधौ तु शास्तिना लुप्तविकरणेन साहचर्याज्जुहोत्यादेरेव ग्रहणम् । परस्मैपदेष्विति तूत्तरार्थमनुवर्तमानमपि योगविभागसामर्थ्यादवि धौ न सम्बध्यते । तेन मासमृत मासमृषातां मासमषतेनि भाष्यं भ्वायभिप्रायेण । समारत समारेतां समारन्तेति वृत्तिस्तु जुहोत्या
Page #470
--------------------------------------------------------------------------
________________
४७०
. शब्दकौस्तुभः । [१ अ. धभिप्रायेण योज्या । संशणुते सम्पश्यते । रक्षांसीति पुरापि संशगुमहे इति मुरारिपयोगस्तु चिन्त्यः । अकर्मकादित्यनुवृत्तेः । . त्तिकारस्तु समो गम्युच्छिपच्छिस्वरतिश्रुविदिभ्य इति पठित्वा दृशेश्चेति वक्तव्यरूपेण पपाठ । तत्र वार्तिकानुपूर्वीभने केषाञ्चिदेव सूत्रे प्रक्षेपे दृशेश्च तहहिष्कारे बीजं न पश्यामः । अथास्मिनकर्मकाधिकारे ये सकर्मका हनिगामिप्रभृतयस्तेषां कथमकर्मकता । उच्यते । धातोरान्तरे वृत्तेर्धात्वर्थनोपसंग्रहात् । प्रसिदेरविवक्षातः कर्मणोकार्मका क्रिया ॥ वहति भारमिति प्रापणे सकर्मको वहिः । स्पन्दने त्वकर्मकः । वहन्ति नद्य इति । प्राणविशिष्टं धारणं जीवतिराह । गात्रविशिष्टं विक्षेपञ्च नृत्यतिः । अतो द्वावप्यकर्मको । प्रसिद्धेयथा । मेघो वर्ष. तीति । कर्मणो ऽविवक्षातो यथा । हितान यः संशृणुते स किंभुः । उपसर्गादस्यत्यूह्योर्वेति वक्तव्यम् । इत आरभ्याकर्मकादितिन सम्बध्यते । निरस्यति निरस्यते। समूहति समूहते। ऊपसगोत्किम् । अस्यति । ऊहते । अनुदात्तेत्त्वादात्मनेपदी । कथन्तर्हि अनुक्तमप्यूहति पण्डितो जन इत्यादि। चक्षिङो ङित्करणेनानुदात्ते त्वलक्षणस्यात्मनेपदस्थानित्यतीज्ञापनात्समाधेयम् ॥
निसमुपविभ्यो हः ॥ स्पष्टोर्थः । निह्वयते । अकभिप्रायार्थ सूत्रम् । स्यादेतत् । निहास्यते इत्याद्युदाहरणमस्तु न तु नियते इति । आकारान्तस्य सूत्रे उपादानात् । एकारान्तस्य ग्रहणाभावात् । नहि विकृतिः प्रकृति गृह्णातीति चेत् । उच्यते । आकारान्तादपि कथमभ्युपैषि । नहि ह इति सूत्रे आकारावशिष्टः पठितः । प्रयोगसमवायिनां वाचकतेति सिद्धान्तरीत्या ह इति वान्तस्य आकारान्तमर्थः । दध्नेत्यत्र नान्तस्य दधी वेति यदि तर्हि वान्तस्यैव एकारान्तमर्थ इत्यपि
Page #471
--------------------------------------------------------------------------
________________
४७१
३ पा. ? आ. शब्दकौस्तुमः । तुल्यम् । प्रक्रियादशायां हि एकारान्तानुकरणे लक्षणचशादात्वं न तु आकारान्त इहानुकार्यः । तस्मान्न किञ्चिदिहानुपपन्नम् । यत्तु न्यासकृतोक्तं नव्योलिटीत्यात्वनिषेधके सूत्रे कृतात्वस्य व्य इत्यस्य निर्देशाज्ज्ञाएकाद्विकृतिरपि प्रकृति गृह्णातीति । सोयमस्थाने संरम्भः । उक्तरीत्या पूर्वपक्षस्य शिथिलत्वात् । एरनेकाच ओ:सुपीत्यादावपि विकृतिग्रहणे शिशयिषतइत्यादावपि यणापत्तेः । विकृतेः प्रकृतिग्राहकत्वे विश्वराजावित्यत्रापि विश्वस्यवसुराटोरिति दीर्घप्रसङ्गात् । तुरासाहमित्यादौ मूर्धन्यप्रसङ्गाच्चेति दिक् ॥ ___ स्पर्धायामाङः ॥ आङ्पूर्वात् हयतेरात्मनेपदं स्यात्स्पर्धाया विषये । मल्लमाह्वयते । स्पर्धमानस्तस्याव्हानङ्करोतीत्यर्थः । स्पर्धायां किम् । पुत्रमाव्हयति । यद्यपि स्पर्धायामप्ययं धातुः पठ्यते तथापि आङपूर्वकस्तत्र न वर्त्तते किं तु शब्दने । अत एव स्पर्धायां विषये अयं विधिरिति व्याख्यातम् ॥
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृअः ॥ सप्तस्वर्थेषु कृत्र आत्मनेपदं स्यादकर्तृगेपि फले । गन्धनमिह सूचनम् । तथाहि । गन्ध अर्दने अर्द हिंसायामिति च चुरादौ पाठाद्न्धनं हिंसा । सूचनमपि वधबन्धादिकरणत्वादि सेति स एवेह गन्धनशब्दार्थः । उत्कुरुते । सूचयतीत्यर्थः । अवक्षेपणं भर्सनम् । श्येनो व. तिकामुदाकुरुते भर्त्सयतइत्यर्थः । हरिमुपकुरुते । सेवतइत्यर्थः । सहसा वर्तते साहसिकः। ओजःसहोम्भसा वर्त्ततइति ठक् । तस्य कर्म साहसिक्यम् । ष्यञ् । परदारान्प्रकुरुते । तेषु सहसा प्रवर्त्ततइत्यर्थः । प्रतियत्ने, एधो दकस्योपस्कुरुते । अवोदैधौध्मेति निपातः । समाहारद्वन्द्वः । कञः प्रतियत्नइति षष्ठी ।
Page #472
--------------------------------------------------------------------------
________________
४७२
शब्दकौस्तुभः । [१ अ. उपात्मतियत्नेत्यादिना सुट् । तस्य गुणान्तराधानं करोत्यर्थः । . गाथाः प्रकुरुते । प्रकर्षेण कथयतीत्यर्थः । उपयोगः समीचीनो विनियोगः । शतं प्रकुरुते । धर्मार्थ विनियुक्तइत्यर्थः । एषु किम् । कटं करोति ॥ ___ अधेः प्रसहने ॥ अधिपूर्वात्कृषः प्राग्वदभिभवे क्षमायाञ्च । षह मर्षणे ऽभिभवे चेति पाठात् । ये त्वभिभवे छन्दसीति पठन्ति तेषामपि छन्दसीति प्रायोवाद इति हरदत्तः । तमधिचक्रे । अभिभूतवान् सोढवान्वेत्यर्थः । एतेन भवादृशाश्चेदधिकुर्वते परानिति भारविप्रयोगोपि व्याख्यातः । क्षमन्तइत्यर्थात् ॥
वेः शब्दकर्मणः ॥ विपूर्वात्कृत्र आत्मनेपदं स्यात् शब्द. श्वेत्कर्म कारकं भवति । स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ॥ ___ अकर्मकाच ॥ वेः कुलोकर्मकात्माग्वत् । हीनान्यनुपकर्ट णि प्रवृद्धानि विकुर्वते ॥
सम्माननोत्सजनाचार्यकरणज्ञानभूतिविगणनव्ययेषु नियः॥ एषु बोधनीयेषु नयतरात्मनेपदं स्यात् । तत्रोत्सजनज्ञानविगणनव्यया नयतेाच्याः । इतरे प्रयोगोपाधयः । तथाहि । आचार्यः शास्त्रे नयते । शास्त्रीयसिद्धान्तानुपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयतीत्यर्थः । ते च शिष्या युक्तिभिनिश्वाय्यमानाः सम्मानिता भवन्ति तदीयाभिलषितार्थसम्पादनात् । तथा चात्र नयतेः प्रापणमेवार्थः । शिष्यसम्माननन्तु तदीयं फलं सत्प्रयोगोपाधिः । उत्सजने दण्डमुन्नयते । उक्षिपतीत्यर्थः । आचार्यकरणे, माणवकमुपनयते । विधिना आत्मसमीपमापणीमह नयतेरर्थः । तत्फलं माणवकसं
Page #473
--------------------------------------------------------------------------
________________
३ पा. १ आ.
शब्दकौस्तुमः ।
४७३ स्कारः । तस्य कर्तृगामित्वाभावादप्राप्तमात्मनेपदं आचार्यकरणे विधीयते उपनयनपूर्वकेणाध्यापनेन हि कश्विदतिशयोध्यापके जन्यते । स एवाचार्यशब्दप्रवृत्तिनिमित्तम् । उपनीय दमाचार्यः स उदाहृत इत्यपि अतिशयविशेषपरिचायपरम् । तथा चाचार्यकरणं फलीभूतं प्रयोगोपाधिः । न च तस्य कर्तृगामित्वादात्मनेपदं सिद्धमेवेति वाच्यम् । नहि तदुपनयनक्रियायाः साक्षात्फलं किन्तूपनयनपूर्विकाया अध्यापनक्रियायाः । प्रयोगोपाधित्त्वं तु परम्परया फलीभूतस्याप्यस्तीति दिक् । विनिन्युरेनं गुरवो गुरुप्रियमित्यत्र तु आचार्यकरणस्याविवक्षितत्वान्न दङ् । विवक्षा हि स्वायत्तेत्युपज्ञोपक्रमं तदाद्याचिख्यासायामितीच्छासना ज्ञापितम् । ज्ञाने, तत्त्वं नयते । निश्चिनोतीत्यर्थः । भृतिर्वेतनम् । कर्मकरानुपनयते । भृतिदानेनात्मसमीपं प्रापयतीत्यर्थः । विगणनघृणादेर्नियतनम् । करं विनयते, राजदेयं भागं शोधयति निर्यातयतीत्यर्थः । व्ययो, धर्मादौ विनियोगः । शतं विनयते । धर्मार्थं विनियुतइत्यर्थः । एषु किम् । घटं नयति ॥
कर्तृस्थे चाशरीरे कर्मणि ॥ नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिने एव स्यात् । शरीरशब्देन तदarat लक्ष्यते । शरीरतादात्म्यापन्नस्य कर्तृतया शरीरस्य तत्स्थत्त्वासम्भवात् । अवयवानान्तु सम्बन्धविशेषेण तत्स्थवस्यानुभवात् । अत एव हि करादि पुरुषत्त्वव्याप्यमित्युद्घोषः । क्रोधं विनयते । स्वकीयं क्रोधमपगमयतीत्यर्थः । क्रोधापनयनफलस्य चित्तप्रसादादेः कर्तृगतत्वात्स्वरितत्रित इति सूत्रेण सिद्धे नियमार्थमिदम् । तेनेह न । गहुं विनयति । कथन्तार्ह विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषत्र
Page #474
--------------------------------------------------------------------------
________________
४७४
शब्दकौस्तुमः । १०अ] इति भारविः । कर्षभिप्रायत्त्वाविवक्षायां भविष्यति । के चि. तु अपनयने वर्तमानादनेनात्मनेपदं विधीयते । इह तु करोत्यर्थे प्राप्तयर्थे वावर्त्तते । धातूनामनेकार्थत्त्वादित्याहुः ॥ .. वृत्तिसर्ग तायनेषुक्रमः ॥ क्रमआत्मनेपदं स्यादप्रतिबन्धोत्साहस्फीततासु । वृत्तौ । ऋच्यस्य क्रमते बुद्धिः । न प्रतिहन्यतइ. त्यर्थः । सर्गे । व्याकरणाध्ययनाय क्रमते । उत्सहतइत्यर्थः । सृजतेरुत्साहार्थतायेनेन्द्रलोकावजयाय सृष्ट इत्यादी प्रसिद्धा । तायने । क्रमन्तेस्मिन् शास्त्राणि । स्फीतीभवन्तीत्यर्थः । तायसन्तानपालनयोरत्यस्माल्ल्युटि तायनमिति रूपम् ॥ - उपपराम्याम् ॥ वृत्त्यादिषूपपराभ्यामेव क्रमेरात्मनेपदं स्यान तूपसर्गान्तरपूर्वात् । उपक्रमते । आभ्यामेवेति नियमाअह । सङ्क्रामति । वृत्त्यादिष्वित्येव । नेह । उपकामति पराक्रामति ॥ : आङ उद्गमने ॥ आपत्क्रिमेरुद्गपने वर्तमानादात्मनेपदं स्यात् । आक्रमते आदित्यः । उदयतइत्यर्थः । ज्योतिरुगमन इति वाच्यम् । नेह, आक्रामति धूमो हऱ्यातलात् । भाष्ये तु हयेतलमिति पठ्यते । तत्रोद्गमनपूर्विकायां व्याप्तौ ऋमिष्टव्यः न तूगमनमात्रे अकर्मकतापत्तेः । कथन्तर्हि नभः समाजामति चन्द्रमाः क्रमादिति । उच्यते । व्याप्ताविह क्रमिवर्चते न तूगमने ॥ - वे पादविहरणे ॥ विपूर्वात्तमः पादविहरणे वर्तमानादात्मनेपदं स्यात् । साधु विक्रमते वाजी । पादविहरणं पादविक्षेपः । यद्यपि क्रमिस्तत्रैवार्थे पठ्यते तथापि धातूनामनेकार्थवात्सूत्रेर्थोपादानम् । तेनेह न विक्रामत्यजिनसन्धिः, द्विधाभवति स्फुटतीत्यर्थः॥
Page #475
--------------------------------------------------------------------------
________________
३ पा. १ आ.
शब्दकौस्तुमः ।
४७५
प्रोपाभ्यां समर्थाभ्याम् ॥ तुल्यार्थाभ्यां प्रोपाभ्यां क्रमेरात्मनेपदं स्यात् । समस्तुल्योर्थो ययोरिति विग्रहे शकन्ध्यादित्वात्पररूपं संशब्द एव वा तुल्योर्थो बोध्यः । प्रारम्भेनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । आरभतइत्यर्थः । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः । उपपराभ्यामिति तु नेह प्रवर्त्तते । तत्र वृत्त्यादिग्रहणानुवृत्तेरुक्तत्वात् । इह च वृत्यादेरविवक्षणात् ॥
1
अनुपसर्गाद्वा || अनुपसर्गात्क्रमेरात्मनेपदं वा स्यात् । क्रामति । क्रमते । उपपराभ्यामित्यस्य नियमार्थत्वाद्वृन्त्यादिम्त्रमनुपसर्गविषयकमेव । तेन वृप्त्यादौ नायं विकल्पः । तस्मादप्राप्तविभाषैवेयम् ॥
अपन्हवे ज्ञः || अपलापे वर्त्तमानाज्जानातेरात्मनेपदं स्यात् । शतमपजानीते । अपलपतीत्यर्थः ॥
अकर्मकाच्च ॥ अकर्मकाज्जानातेरात्मनेपदं स्यात् । सर्पिघो जानीते । सर्पिषा उपायेन प्रवर्त्ततइत्यर्थः । ज्ञोविदर्थस्यति करणे षष्ठी । अकर्मकादित्यस्य स्थाने सकरणादित्येव तु नोक्तम् । स्वरण पुत्रं जानातीत्यत्रातिव्याप्तेः ॥
1
सम्प्रतिभ्यामनाध्याने || आभ्यां जानातेरात्मनेपदं स्याearera | शतं सञ्जानीते । अवेक्षतइत्यर्थः । शतम्प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्याने किम् । मातुः सञ्जानाति । उत्कण्ठापूर्व स्मरतीत्यर्थः । अधीगर्थेति कर्मणि षष्ठी । ननु तत्र शेष इत्यनुवर्त्तते । तेनात्र कर्मणः शेषत्वेन विवक्षितत्त्वादकर्मकाच्चेति पूर्वेण प्राप्नोति । अत्राहुः । अनाध्यानइति विभज्यते । स चोभयोर्योगयोः शेषः तेनाध्याने पूर्वेणापि न भवतीति ॥
Page #476
--------------------------------------------------------------------------
________________
४७६
शब्दकौस्तुमः । [१ अ. भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ॥ एष्व-' र्येषु पदेरात्मनेपदं स्यात् । अत्रोपसम्भाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः। भासनन्दीप्तिः । शास्त्रे बदते । भासमानो ब्रचीतीत्यर्थः । भासनं हेतुभूतं. सद्विशेषणं शिष्यैः स्तूयमानो हि भासते । तथा चोपर्युपरि शास्त्रार्थप्रतिभासामुष्टूक्तिनिर्वहति । तेजोभने तु न शक्नुयावदितुमिति भावः । उपसम्भाषोपसान्त्वनम् ।कर्मकरानुपवदते उपसांत्वयतीत्यर्थः। ज्ञाने, शास्त्रे वदते । उक्तिविषयकज्ञानवानिति फलितोर्थः । यत्न उत्साहः । क्षेत्रे वदते । तद्विषयकमुत्साहमाविष्करातीत्यर्थः । अत्राविष्करणरूपस्य बदत्यर्थस्य यत्नः कर्मेत्याहुः । विशिष्टोत्र वदतरर्थ इत्यपि सुवचम् । विमतौ, क्षेत्रे विवदन्ते । विमत्या हेतुभूतया नानाविधं भाषन्तइत्यर्थः । उपमन्त्रणमुपच्छन्दनम् । कुलमार्यामुभवदते । स्वापिलषिते प्रवर्त्तयितुं प्रार्थयतइत्यर्थः । एतेष्विति किम् । यत्किञ्चिद्वदति ॥ ___व्यक्तवाचां समुच्चारणे ॥ मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात् । सम्प्रवदन्ते ब्राह्मणाः देवा वा । यद्यपि यद धातुयक्तायामेव पठ्यते । तथापि व्यक्तवाचामित्युपादानलामाघेषां प्रसिद्धतरं व्यक्तवाक्यन्तदेवेह गृह्यते । तेन शुफसारिकादीनां समुच्चारणे न भवति । वरतनु सम्प्रवदन्ति कुक्कुटाः । नन्विह तनुशब्दस्य ह्रस्वान्तत्वे सम्बुद्धौ चेति गु
न भाव्यं, दीर्घान्तत्वे नदीलक्षणः कप प्राप्नोति । सत्यम् । तनुशब्दः स्त्रीलातौ कविभिः प्रयुज्यते । तस्मादूकुत इल्यूडि कृते कर्मधारयोयामिति हरदत्तः॥ ... अनोरकर्मकात् ॥ अनुपूर्वाद्वदेरकर्मकाद्वयक्तवाग्विषयकादात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अनुः सादृश्ये
Page #477
--------------------------------------------------------------------------
________________
४७७
३ पा. १ आ. शब्दकौस्तुमः । तेन कलापस्येति तुल्यायोगे शेषलक्षणा षष्ठी । अकर्मकादिति किम् । पूर्वोक्तमनुषदति । व्यक्तवाचामित्येव । अनुवदात चीणा ॥
विभाषा विप्रलापे । विप्रलापात्मके व्यक्तवाचा समुच्चारणे वर्त्तमानाद्वदेरात्मनेपदं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः । युगपत्परस्परविरोधेन वदन्तीत्यर्थः । विप्रलापे किम् । सम्प्रवदन्ति ब्राह्मणाः । व्यक्तवाचामित्येव । विप्रवदन्ति शकुनयः । समुच्चारणइत्येव । क्रमेण विप्रवदन्ति ॥ । ____ अवादः ॥ अवपूर्वाद्विरतेरात्मनेपदं स्यात् । अवगिरते । अवाकिन् । गिरति । गृणातेस्त्ववपूर्वस्य प्रयोगो नास्ति अनभिधानादिति भाष्यम् ॥ - समः प्रतिज्ञाने । सम्पूर्वागिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं स्यात् । शब्दं नित्यं सङ्गिरते । प्रतिजानीतइत्यर्थः । प्रतिमाने किम् । सङ्गिरति ग्रासम् ॥ ___ उदश्वरः सकर्मकात् ॥ उत्पूर्वात्सकर्मकाच्चरतेसत्मनेपदं स्यात् । धर्ममुच्चरते । उल्लङ्घ्य गच्छत्तीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टादच्छतीत्यर्थः ॥
समस्तृतीयायुक्तात् ।। सम्पूर्वाञ्चरतेस्तृतीयान्तेन युक्तादास्मनेपदं स्यात् । रथेन सञ्चरते । तृतीयायुक्तात्किम् । उभौ लोको सञ्चरसि इमं चामुञ्च देवल ॥
दाणश्च सा चेचतुर्थ्यर्थे ॥ सम्पूर्वाधाणस्तृतीयान्तेन युतादात्मनेपदं स्यात्सा चेतृतीया चतुर्थ्यर्थे । दास्या संयच्छते। कामुकः संस्तयै ददातीत्यर्थः। आशिष्टव्यवहारे चतुर्थ्यर्थे तृतीया वक्तव्या ॥ एतच्चानेनैव ज्ञाप्यते । यद्वा, इह सूत्रे चेच्छब्दश्चशब्दार्थे । निपातानामनेकार्थत्वात् । सा च चतुर्थ्यर्थे भवतीत्य
Page #478
--------------------------------------------------------------------------
________________
४७८
शब्दकौस्तुमः ।
[ १ अ
-
र्थः । अशिष्टव्यवहारइति तु वक्तव्यमेव । भाष्ये विदं सूत्रमपि प्रत्याख्यातम् । तथाहि । यो दास्या सह भुञ्जानस्तया दत्तं स्वयं भुंक्ते स्वयञ्च तस्यै ददाति तद्विषयेयं प्रयोग इष्य-: ते । तत्र सहयुक्तइत्येव तृतीया । कर्मव्यतिहारे च तङ् । दानपूर्वके भोगे दाणधातुर्बोध्य इति । नन्वारभ्यमाणे सूक्रे सम्प्रयच्छतइत्यत्र कथं तङ् सम इति पञ्चम्या आनन्तर्यलाभात् । अत्राहुः । सम इति विशेषणषष्ठी तेन पूर्वसूत्रमप्यश्वेन I समुदाचरतइत्यादौ प्रवर्त्ततइति दास्या सम्प्रयच्छतइत्युदाहृत्य शिष्टव्यवहारे तु ब्राह्मणीभ्यः सम्प्रयच्छतीति प्रत्युदाहरन् भाव्यकारश्चेह व्याख्याने प्रमाणम् ॥
"
उपाद्यमः स्वकरणे ॥ उपपूर्वाद्यमेः प्राग्वत् स्वीकारेर्थे । भार्यामुपयच्छते । यत्स्वस्य सतो रूपान्तरेण करणं तदिह न गृचते कि न्त्वस्वस्य सतो यत्स्वत्वसम्पादनं तदेव । च्चिप्रत्ययस्तु सूत्रे न कृतः समर्थानां प्रथमाद्वेति विकल्पितत्वात् । तेनेह न । स्वं शाटकमुपयच्छतीति । अत्र वृत्तिकारः पाणिग्रहणएवेष्यते । तेनेह न । देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति । दासीत्वेन रूपेण स्वीकरोतीत्यर्थ इति । एतच्च भाष्यविरुद्धम् । तत्र स्वीकारमात्रे आत्मनेपदस्योक्तत्वात् । तथा च भट्टिः प्रायुङ्क्त । उपायंस्त महास्त्राणि शस्त्राण्यपायंसत जित्वराणि । नोपायंस्त दशाननः । उपायंसत नासवमित्यादि ॥
ज्ञाश्रुस्मृदृशां सनः ॥ सन्नन्तानामेषामात्मनेपदं स्यात् । अपन्हवे ज्ञ इत्यादिभिः सूत्रैर्जानातेरात्मनेपदं विहितं शुशोरपि समोगम्यृच्छिभ्यामित्यत्रोपसङ्ख्यानम् । तस्मिंश्च विषये पूर्ववत्सन इत्येव सिद्धम् । विषयान्तरेनेन विधीयते स्मरतेस्तु अप्राप्त एव विधानम् । धर्म जिज्ञासते । शुश्रूपते । सुमूर्षते ।
Page #479
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः ।
३ पा. १ आ.
दक्षते ॥
नानोईः ॥ अनुपूर्वाज्जानातेः सन्नन्तादात्मनेपदं न स्यात् । पुत्रमनुजिज्ञासति । अनोः किम् । धर्म जिज्ञासते । पूर्वसूत्रेण प्राप्तस्यायं निषेधः । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति न्यायात् । तथा च सकर्मकस्यैव प्रतिषेध इति फलितम् । पूर्वसूत्रस्य सकर्मक विषयत्वादकर्मकान्तु पूर्ववत्सन इत्यात्मनेपदं भवत्येव । अकर्मकाच्चेति सूत्रेण केवलाद्विधानात् । औषधस्यानुजिज्ञासते । औषधेन प्रवर्त्तितुमिच्छतीत्यर्थः ॥
४७९
प्रत्याभ्यां श्रुवः || आभ्यां श्रुवः सन्नन्तादात्मनेपदं न स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । उपसर्गग्रहणं चेदम् । परस्परसाहचर्यात् । तेनेह न । देवदत्तं प्रति शुश्रूषते । लक्षणेत्थंभूतेत्यादिना प्रतिः कर्मप्रवचनीयो नोपसर्गः ॥
शदेः शिवः । शिवः प्रकृतिभूतो यः शदिस्तस्मादात्मनेपदं स्यात् । शीयते शीयेते शीयन्ते । शितः किम् । शत्स्यति । अशत्स्यत् । शेषात्कर्त्तरीति परस्मैपदम् ।।
1
म्रियते लुङ्लिङोश्च ॥ शितो लुङ्लिङोश्च प्रकृतिभूतो यो म्रियतिस्तत एवात्मनेपदं स्यान्नान्यस्मात् । तत्र शित्मकृतित्वं पूर्ववच्छिदुत्पत्तेः प्रागेव योग्यतया बोध्यम् । लुङ्लिङोस्तु सत्यामेवोत्पत्तौ बोध्यम् । म्रियते । म्रियताम् । अमियत । अमृत । मृषीष्ट । नियमः किम् । ममार । मर्त्तासि । मरिष्यति । अमरिष्यत् । ङित्वं तु स्वरार्थम् । मा हि मृत । लुङि तास्यनुदात्तेदिति ङिल्लक्षणः सार्वधातुकनिघातः हि चेति तिङि निघातप्रतिषेधः ॥
पूर्ववत्सनः ॥ सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्म
Page #480
--------------------------------------------------------------------------
________________
४८०
शब्दकौस्तुमः । [१ अ० नेपदं स्यात् । येन निमित्तेन सनः प्रकृतेरात्मनेपदं विधीयते तदेव निमित्तं सना व्यवहितं सदप्यात्मनेपदं प्रवर्त्तयतीत्यर्थः । इह सूत्रे तेनतुल्यमिति तृतीयान्ताद्वतिर्न तु पञ्चम्यन्तात् । लक्षणाभावात् । यथा च ब्राह्मणेन तुल्यं वैश्यादधीत इत्यत्र ब्रामणादिवेति गम्यते तथेहापि पूर्वस्मादिवेति गम्यते । ब्राह्मणापादानकेध्ययने ब्राह्मणशब्दस्य. लक्षणया ब्राह्मणापादानकाध्यवनसादृश्यं वैश्यापादानकाध्यापनमिति क्रियासाम्यं दृष्टान्ते निर्वाह्यम् । अन्यथा वतिप्रत्ययायोगात् । यदाह तेन तुल्यं क्रिया चेदिति । एवञ्च प्रकृतपि आत्मनेपदभावनस्य तुल्यत्वं बोध्यम् । तदपि निमित्तस्य तुल्यत्वात्तद्वारकमिति फलितोर्थः । एतेन शब्दो नित्यः कृतकत्वात् घटवदित्यादि व्याख्यातम् । तत्रापि भवनक्रियायाः साम्यात् । अन्यथा वत्सत्ययासाधुतापत्तेः । अत एवानित्यो भवितुमर्हतीति प्राञ्चः प्रयुञ्जते । साध्यपदस्य ज्ञाने लक्षणया ज्ञानयोः साम्यं वाक्यार्थ इति वास्तु । सर्वथापि शब्दघटयोः साम्यमार्थ न तु शाब्दमिति दिक् । आसिसिषते । शिशयिषते । निविविक्षते बुभुक्षतइत्यादि । इह तु न भवति । शिशत्सति मुमूर्षति । न ह्येषा शदिम्रियतिव्यक्तिः शितः प्रकृतिः अतो नात्मनेपदनिमित्तम् । कृते हि सनि सन्नन्तमेष शितः प्रकृतिः । शिशयिषतइत्यादौ तु प्रकृतौ डित्त्वानपायानिमित्तातिदेशः सम्भवत्यवति वैषम्यात् । नन्वेवमनुचिकीर्षतीत्यत्रातिप्रसङ्गः । गन्धनादेरर्थस्य बित्वस्य चात्मनेपदनिमित्तस्यातिदेशापत्तेरिति चेन । अनुपराभ्याङ्कअ इति वचनपर्यालोचनया अनुपूर्वकत्वाभावविशिष्टस्यैवात्मनेपदनिमित्तताध्यवसायात् । अस्तु वा प्राधान्यात्कार्यस्यैवातिदेशः पाक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योपि भवतीति । न
Page #481
--------------------------------------------------------------------------
________________
३ पा. १ आ.
शब्दकौस्तुभः ।
चैवं शिशत्सति मुमूर्षतीत्यत्रातिप्रसङ्गः शदेः शितो म्रियतेलुङलि ङोश्चेति सूत्रद्वयेपि सनो नेत्यनुवर्त्य वाक्यभेदेन सन्नन्तान्निषेधात् । जुगुप्सतइत्यादौ तु यद्यप्ययमतिदेशो न प्राप्नोति । नित्यसन्नन्ततया प्राक् सन आत्मनेपदादर्शनात् । तथाप्यनुदा - दात्तङित इत्यनेनैवात्मनेपदम् । अत्रयवे चारितार्थ लिङ्गं समुदायं विशिनष्टि सामर्थ्यात् । न चैवं जुगुप्सतीत्यादावतिप्रसङ्गः । सन्पर्यन्तविशेषणेन चारितार्श्वे सति ततोप्यधिकविशेषणे प्रमाणाभावात् । नन्वेवं गोपयति तेजयतीत्यादावतिप्रसङ्गः । सणिचोर्मध्ये कतरद्विशेषणीयं कतरनेत्यत्र विनियामकाभावादिति । अत्राहुः । पत्र निन्दादौ सन्निष्यते तदर्थका एवानुदात्तेतः नित्यसन्नन्ताश्चैते । अर्थान्तरे त्वननुबन्धका एव चुरादौ पाव्याः । अन्यथा निन्दाक्षमादिभ्योन्यत्र यथा णिज् भवति तथा लडादिरपि स्यात् ॥
आम्प्रत्ययत्रस्कृञोनुप्रयोगस्य || आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्मकृतिभूतस्य धातोरिवानुप्रयुज्यमानात्करोतेरात्मनेपदं स्यात् । वित्त्वादेव सिद्धे ऽकभिप्रायार्थ सूत्रम् । ईहाञ्चक्रे । नन्वस्य विध्यत्वादिदाञ्चकारेत्यादावपि कर्त्रभिप्रायेत प्राप्नोति । सत्यम् । पूर्ववदित्यनुवर्तते । तत्सामर्थ्याद्वाक्यभेदेन नियमपि क्रियते पूर्ववदेवात्मनेपदं न तु पूर्वविपरीतमपीति । कृञः किम् । Ferra | Feाभूव । इह कृञ्ग्रहणसामर्थ्यान प्रत्याहा - रग्रहणम् । अत एत्र च ज्ञापकादनुप्रयोगविधौ प्रत्याहारग्रहणम् ॥
४८ १
मोपाभ्यां युजेरयज्ञपात्रेषु । प्रोपाभ्यां युजेरयोगइत्यस्मादात्मनेपदं स्यादयज्ञपात्रेषु । प्रयुङ्क्ते । उपयुङ्क्ते । युजिरः
६१
Page #482
--------------------------------------------------------------------------
________________
४८२
शब्दकौस्तुमः । १ ] स्वरितेतो रुपादेरकर्षभिप्रायार्थोयं विधिः । युज समाधाविति दिवादेस्तु नेह ग्रहणम् । अनुदात्तेत्त्वादेव सिद्धेः । सूत्रे युजरितीकारस्य विवक्षितत्वाच्च । यज्ञपात्रविषयतायास्तत्रासम्भवाच्च । स्वराधन्तोपस्टष्टादिति वक्तव्यम् ॥ स्वरोआदिरन्तो वा यस्य तादृशेनोपसर्गेण सम्बद्धादित्यर्थः । सम् निस् निर् दुस् दुर् एतद्भिनाः सर्वेप्युपसर्गाः सङ्ग्रहीताः । उद्युक्ते नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्व न्यचिपात्राणि प्रयुनक्ति ।
समः क्ष्णुवः ॥ सम्पूर्वाक्ष्णुधातोः प्राग्वत् । समागम्यूच्छिभ्यामित्यतो विच्छिय पाठः सकर्मकादपि विधानार्थः । संक्ष्णुते शस्त्रम् ॥ - भुजो ऽनवने ॥ रक्षणातिरिक्तेर्थे वर्तमानाद् भुजेः प्राग्वत् । भुजो ऽभक्षणइति वक्तव्ये ऽनवनइति वचनमर्थान्तरेष्वपि यथा स्यात् । भुजेहि पालनाभ्यवहारादिवोपभोग आत्मसातकरणं चार्थः । ओदनम् क्ते । अभ्यवहरतीत्यर्थः । बुभुने पृथिवीपालः पृथिवीमेव केवलाम् । दिवं मरुत्वानिव भोक्षते मही म् । नेह पालनमर्थः किन्तूपभोग आत्मसात्करणं वा । एतेन वृद्धो जनो दुःखशतानि भुङ्क्तइति व्याख्यातम् । अनवने किम् । महीं भुनक्ति । रुधादेरेवेह ग्रहणम् । अवनप्रतिषेधात् । पठन्ति हि । संयोगो विप्रयोगश्चेत्युपक्रम्य विशेषस्मृतिहेतव इति । यथा दोधीपर्यायो धेनु शब्दः संसर्गिभिर्विशेषेवस्थाप्यते । सवत्सा धेनुरानीयतां सकिशोराः सवर्करेति तथा व.
सा किशोराऽबर्करेति गौधनुर्वडवा अजा च क्रमेणानीयते नान्या तथेहापि। तेन भुज कौटिल्य इत्यस्य तुदादेरग्रहणानेह विभुजति पाणिमिति ॥.. .......
णेरणौ यत्कर्म णौ चेत्स कानाध्याने ॥ ण्यन्तादात्मनेपदं
Page #483
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुभः ।
४८३ स्यादनाध्याने । अणौ यत्कर्म णौ चेदिति द्वितीयं वाक्यम् । कर्मेह क्रिया णिच्प्रकृत्युपात्ता या सैव चेपण्यन्तेनोच्येतत्यर्थः । सकर्तेति तृतीयं वाक्यम् । अणावित्याद्यनुवर्तते कर्येष्ठ कारक शब्दाधिकाराश्रयणात् । णिप्रकृतेरथ प्रति यत्कर्म कारक स चेण्ण्यन्ते कर्तेत्यर्थः । णिचश्चेत्यात्मनेपदे सिद्धपि अभिप्रायामिदं सूत्रम् । कर्मभिप्रायेपि विभाषोपपदेनप्रतीयमानइ. ति विकल्पबाधनार्थञ्च । अणावकर्मकादिति परस्मैपदवाधनार्थच । न चाकर्षभिप्राये चरितार्थस्यास्य विकल्पपरस्मैपदा. भ्यां पराभ्यां बाधः स्यादिति वाच्यम् । पूर्वविप्रतिषेधाश्रयणात् । अत्र च प्रमाणं दर्शयते राजेति भाष्योदाहरणमि. ति दिक् । उदाहरणन्तु कर्तृस्थभावकाः कर्तृस्थक्रियाश्च । तत्र हि कर्मवद्भावो नास्तीति वक्ष्यते । प्रकृतसूत्रेणैव त्यात्मनेपदम् । तथाहि विषयत्वापत्युपसर्जनविषयत्वापादनवचनो म.. शिः सकर्मकाणामशब्दाभिधायितानियमात् । तत्र धातूपात्तव्यापाराश्रयः कर्ता धात्वर्थभूतव्यापारव्यधिकरणफलशालिकर्म तथा च पश्यन्ति भवं भक्ता इति प्रयोगः चाक्षुषज्ञानेन विषयीपूर्वन्तीत्यर्थः । यदा तु सौकर्यातिशयविवक्षया प्रेरणां. शस्त्यज्यते तदा पश्यति भव इति प्रयोगः, विषयीभवतीत्यर्थः । उक्तञ्च । निवृत्तप्रेषणं कर्म स्त्रक्रियावयवैः स्थितम् । निवर्तमाने कर्मले खकर्तृत्वेवतिष्ठतइति ॥ सतः पश्यन्तं प्रेरयन्तीति णिचि दर्शयन्ति भवं भक्ता इति प्रयोगः । पश्यन्तीत्यर्थः । उक्तञ्च । निवृत्तप्रेषणाद्धातोः प्राकृतेर्थे णिजुच्यतइति ॥ ततः पुनयर्थस्य सौकर्यद्योतनार्थमविवक्षायां दर्शयते भवः विषयीमवतीत्यर्थः । तदिह पश्यतिदर्शयत्योः समानार्थतया कर्तस्थभावकत्त्वाच्च कर्मवद्भावविरहे प्रकृतसूत्रेणात्मनेपदम् । इह हि
Page #484
--------------------------------------------------------------------------
________________
४८४
भन्दकौस्तुमः । [१ अं० णिच्पकृतिभूतेन हशिना य एषार्थो द्वितीयकक्षायामुपातः स एव चतुर्थ्यामिति सामानक्रियत्वमस्ति अणौ यत्कर्म प्रथमकक्षायां तदेव कर्तृ । एवं आरोहयते हस्तीत्यप्युदाहरणम् । आरोहन्ति हस्तिनं इस्तिपकाः । न्यग्भावयन्तीत्यर्थः । आरोहति हस्ती न्यग्भवतीत्यर्थः । ततो निवृत्तप्रेषणाणिचि आरोहयन्ति । आरोहन्तीत्यर्थः । ततः पुनर्ण्यर्थत्यागे आरोहयते । न्यग्भवतीत्यथः । इहापि प्राग्वत्मथमतृतीययोदितीयचतुथ्र्योश्वार्थसाम्याकचतुर्थी कक्षा उदाहरणम् । सोयं निवृत्तप्रेषणपक्षः । आह च । न्यग्भावनं न्यग्भवनं रुही शुद्ध प्रतीयते । न्यग्भावनं न्यग्भवनं ण्यन्तेपि प्रतिपद्यते ॥ अवस्था पञ्चमीमाह ण्यतन्तस्कर्मकर्तरि । निवृत्तमेषणादातोः प्राकृतेर्थे णिजुच्यतइति ॥ इह विशिष्टवाचकयोः श्रुद्धण्यन्तयोवाच्यावंशी वाचकभेदात् देवा गणयित्त्वा पूर्वोक्तपथमतृतीयकक्षायामवस्थाचतुष्टयञ्चतुर्थकक्षायान्तु पञ्चमी अवस्थेति श्लोकार्थोभिप्रेतः । यद्वा । पश्यन्ति भवं भक्ताः । आरोहन्ति हस्तिनं हस्तिपका इति प्राग्वदेव प्रथमकक्षा । ततः सौकर्ययोतनार्थ कर्मणा एव प्रेषणमध्यारोप्य णिच् क्रियते । दर्शयति भवः आरोहयति इस्तीति पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिप्रकृतिभ्यां णिजभ्याञ्चोपात्तयोयोरपि प्रेषणयोर्युगपत्यागे दर्शयते आरोहयतइत्युदाहरणम् । विषयीभवति न्यग्भवतीति च पूर्ववदेवाथः । सोयमध्यारोपितप्रेषणपक्ष इहाध्यारोपितषणपक्षे दर्शयति भव आरोहयति हस्तीति द्वितीयकक्षायामतिव्याप्ति: वारयितुं समानक्रियत्वपरं द्वितीयं वाक्यम् । तेन प्रेषणाधिक्याआतिव्याप्तिः । निवृत्तप्रेषणपक्षे दर्शयन्ति भवमारोहयन्ति हस्तिनमित्येवंरूपं तृतीयकक्षायामतिव्याप्ति वारयितुमणी
Page #485
--------------------------------------------------------------------------
________________
३ पा. १ आ.
सन्दकौस्तुमः ।
४८५
पत्कर्म स चेण्णौ कर्तेत्येवंरूप तृतीयं वाक्यम् । इह तु अणौ कर्मणोर्भवहस्तिनोः कर्मत्वमेव न तु कर्तृतोत नातिव्याप्तिः। अत्र प्राञ्चः । अणौ यत्कति वाक्यं कर्मान्तरनिवृत्तिपरम् । तथा हि । यत्तदोनित्यसम्बन्धादिह यच्छब्देन तच्छन्न आक्षिप्यते । धर्मान्तरस्य चानिर्देशादुद्देश्यतयापि श्रुतं कर्मत्वमेव विधीयते । तच्च विधीयमानं सामर्थ्याण्णेरित्यस्य सन्निहितत्त्वाच्च ण्यन्तावस्थायामेव विधीयते । न घणो सद्विधानं सम्भवति अणौ यत्कर्मेत्यनुवादसामर्थ्यादेव सत्सिद्धेः । तदेवमणौ यत्कर्मेत्येतावत एवाणौ यत्कर्म णौ चेत्तत्कर्मेत्यर्थः फलितः । अनेन च कर्मान्तरनिवृत्तिः क्रियते । न त्वणी कर्मणो णौ कमत्त्वं प्रतिपाद्यते । स कर्मेत्युत्तरवाक्येन तस्य कर्तृत्वप्रतिपादनात् । एकस्य युगपदेकस्यां क्रियायां कर्मकर्तृत्त्वयोरसम्भवातस्मात् । उद्देशप्रतिनिर्देशाल्लब्धे यत्सङ्ग्रहे पुनः । तद्हो वाक्यभेदेन कर्मान्तरनिवृत्तये ॥ ततो णौ चेदिति वाक्यान्तरम् । अणौ यदित्येव, अणौ यत्प्रतिपाद्यं वस्तुं तदेव णौ प्रतिपाद्यश्चेदित्यर्थ इति व्याचख्युः । अत्रेदं चिन्त्यम् । कमन्तिरनिवृत्तिपरं व्याख्यानं यद्यपि कर्तुं शक्यं तथापि तस्य फलं दुर्लभम् । आरोहयमाणो हस्ती स्थलमारोहयात मनुष्यानित्यस्य व्यावृत्तिः फलमिति चेम । तत्र समानाक्रियत्वाभावाण्णौ चेदिति वाक्यं हि प्रतिपाद्यसाम्यामिति वृत्तिपदमर्योः स्थितम् । न चेह तदस्ति । न चास्तु वृत्यादिमते दोषोयं भाष्यकैयटयोस्तु समानक्रियत्त्वस्यानुक्तत्वाकर्मान्तरल्यावृत्तिफलकं वाक्यं सार्थकमेवेति चेत् । न । भाष्यमपि स्वमानक्रियत्वस्य व्याख्येयत्वात् । तस्यानुक्तन्त्वेप्यप्रत्याख्याततया सम्मतत्वात् । अन्यथा अध्यारोपितप्रेषणे द्वितीयकक्षायामतिप्रसङ्गात् ।
Page #486
--------------------------------------------------------------------------
________________
क्रियत्वं तथा सभ्युपेत्यापि मा पापरतयैव व्याख्यात
४८६
शब्दकौस्तुभः । [१ अ. भाष्यवार्तिकयोः कर्मशब्दस्य क्रियापरतयैव व्याख्यातुं शक्यत्वाच्च । अभ्युपेत्यापि ब्रूमः । मास्तु भाष्यमते समानक्रियत्वं तथापि दर्शयते भृत्यान् राजेत्युदाहरणं व्याचक्षाणेन कैयटेन अणौ ये कर्तृकर्मणी तद्भिनं कर्म घ्यावय॑ते इति सापत्स्पष्टीकृतम् । तथा च मनुष्यानित्यस्याणौ कर्तृतया गत्यर्थाद दही कर्मत्वपि दुर्वारमात्मनेपदम् । मनुष्यस्थलयोरणौ कर्तृकर्मणोरेवेह कर्मतया तदितरकर्माभावात् । अपि च । सकतॆत्यंशोपीह नास्ति । हस्तिन एवं कर्तृत्त्वात् । स्यादेतत् । आरोहयमाण इत्यत्राणौ कर्मणो हस्तिन एक कर्तृत्वं स एव च स्थलमारोहयतीत्यत्रापि कर्तेति । तदपि न । प्रत्यासत्तिबलेनै. वातिप्रसङ्गभङ्गात् । तथाहि । ण्यन्तादात्मनेपदं स्यादणौ यत्कर्म स चेत्कर्तेत्युक्ते प्रत्यासत्तेरेतदम्यते । येन णिचा भयंतादात्मनेपदं विधित्सितं तत्प्रकृतौ यत्कर्म स चेत्क”ति । इह तु यत्रायमुपाधिः कृतमेव सत्रात्मनेपदम् । आरोहयमाण इति यत्र तु न कृतं स्थलमारोहयतीति न सत्रायमुपाधिरस्ति, येनातिव्याप्तिः स्यात् । यत्तु हरदतेनोक्तम् । हस्तिपकानारोहयति हस्तीत्यत्र मा भूदिति । तत्रेदं वक्तव्यम् । किमिदमध्यारोपितप्रेषणपक्षे द्वितीयकक्षायामुदाहरणं किं वा निवृत्तप्रेषणपक्षइति । नाद्यः । णिज्वाच्यव्यापारभेदेन समानक्रियत्त्वाभावात् । न द्वितीयः। तत्राययोः कक्षयोरण्यन्तत्त्वात् । तृतीयस्यान्तु हस्तिनः कर्तृत्त्वायोगात् । हस्तिपकानां कर्मत्त्वासम्भवाच्च । तस्माचतुर्थी परिशिष्यते । तत्रापि न्यग्भवतीत्यर्थापर्यवसानेन कर्मणो नान्वयः स्पष्ट एव । स्यादेतत् । दर्शयते भृत्यान् राजेति तावद्भाष्ये स्वीकृतं तत्समर्थनाय आणौ ये कर्तृकर्मणी तदितरकर्मव्यवच्छेदोभिप्रेत इत्याह कैयटः । तस्याप्ययमाशयः ।
Page #487
--------------------------------------------------------------------------
________________
३ पा. १ आ. शब्दकौस्तुमः ।
४८७ 'अणौ यत्कर्मेत्यत्र कर्तरिकर्मेत्यतोनुवृत्तं कर्तरीत्येतत्प्रथमया विपरिणम्यते । यश्च यच्च यदिति नपुंसकमनपुंसकनेत्येकशेषः । तेन कर्मकोंौँ कर्मत्त्वेप्यदोषः । एवञ्च करेणुरारोहयते नि. पादिनमिति माघप्रयोगोप्युपपद्यतइति एवं स्थिते निवसप्रेषणाध्यारोपितप्रेषणपक्षयोर्द्वयोरपि चरमकक्षायामकर्मकतया भाष्यकैयटादिग्रन्थाः सर्वएवानन्विताः स्युस्तक्किं हरदत्तं प्रत्येव पर्यनुयोगेन । एताबानवे हि भेदः भाष्यमते ऽणो ये कर्तृकर्मणोरिति व्याख्यानाद्दाहरणमिदं वृसिकारहरदत्तादिमते तु प्रत्युदाहरणम् । अणौ यत्कर्मेत्येव व्याख्यानादिति । अत्रोच्यते । अनन्वयस्तावदुरुद्धरः । बाधे दृढेन्यसाम्यात्किं दृद्वेन्यदपि वाध्यतामिति न्यायात् । गम्भीरायां नद्यां घोष इत्यत्र गम्भीरनदीपदार्थगोरभेदबोधानन्तरं तीरलक्षणायामपि प्राथमिकबोधमादाय गम्भीरपदसार्थक्यवदिहाप्यध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मण्य. न्विते ततो णिजथस्येव कर्मणोपि त्यागे णिचः कर्मपदस्य च प्राथमिकबोधमादाय कथं चित्सार्थक्यम् । स्वज्ञाप्यसम्बन्धो लक्षणेत्यभ्युपगमात् । एषवार्थवादः प्राशस्त्यलक्षणायां गतिरित कैयटस्योक्तिसम्भवो बोध्यः । निष्कर्षस्तु कर्मव्यवच्छे इवाक्या. र्थो भाष्यवार्तिकयोरनभिमत एव । उक्तरीत्या प्रयोजनाभावात् । ग्रन्थस्तु कर्मपदस्य क्रियापरतायां सुस्थ एव । उदाहरणेषु तु भृत्यानित्यादेविवक्षायां कर्मव्यापारमात्रे विवक्षिते सिद्धं भवतीत्येवाशयो बोध्यः । स्मरयत्येनं वनगुल्मः स्वयमेवोति भा. ज्यवृत्त्योाख्यावसरे एनमिति कर्मणो विवक्षायाः कैयटहरदत्ताभ्यामुभाभ्यामपि शरणीकृतत्त्वाच्च । यत्तु सूत्रशेषे कैयटेननमित्यस्य विवक्षेति पुनः प्रतिपादितं तदेव त्वापातत इति दिक् । तस्मात्, भृत्यादीनां परित्यागाच्छन्दभेदात्परिग्रहात् ।
Page #488
--------------------------------------------------------------------------
________________
शब्द कौस्तुभः ।
[ १ अ०
कर्मवाक्ये च तादर्थ्य व नात्सर्वमुज्ज्वलम् || स्यादेतत् । सकर्मका णांसर्वेषामंशद्वयाभिधायितया कर्मकर्तरि कर्मवद्भावातिदेशादेव सिद्धानीह मूळोदाहरणानि । न चाध्यारोपितप्रेषणपक्षे आरोहय तौ हस्तिनः कर्मत्वाभावात्समानधातौ च कर्मत्वाभावन पचत्योदनं देवदत्तो राध्यत्योदनः स्वयमेवेतिवत्कर्मवद्भावो न प्राप्नोतीति वाच्यम् । निवृत्तप्रेषणप्रक्रिययैव सकललक्ष्यसग्रहात् । अध्यारोपितप्रेषणपक्ष परित्यागेपि क्षत्यभावात् । न च दृशेः कर्तृस्थभावकतया रुहेव कर्तृस्थक्रियतया कर्मवद्भावो न प्राप्नोतीति वाच्यम् । पचिभिद्यादिभ्यो वैलक्षण्यस्य दुरुपपादस्वात् । विक्लेदनद्विधाभवनयोरपि कर्तृस्थतापत्तौ कर्मवद्भावातिदेशस्य निर्विषयतापत्तेः । तत्र व्यापारांशस्य कर्तृस्थत्वेपि विलत्तिद्विधाभवनरूपे फले कर्मस्थे इति । यदि तार्ह दृशिरुह्योरपि विषयस्वन्यग्भावी कर्मस्थाविति तुल्यम् । तस्मादिह वैषम्ये बीजं वक्तव्यमिति चेत् । अत्रानुर्भर्तृहरिः । विशेषदर्शनं यत्र क्रिया तंत्र व्यवस्थिता । क्रियाव्यवस्थात्वन्येषां शब्दैरेव प्रकल्पितेति || अस्यार्थः । यत्र क्रियाप्रयुक्तो विशेषो दृश्यते यथा पकेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु । तत्र क्रिया स्थिता । तेन पच्यते ओदनः छिद्यते काष्ठमिति कर्म्मवद्भावः सिद्धः । अन्येषां मते । अन्येषां धातूनां वाशब्दैरेव क्रियाव्यवस्था | शब्देन कर्तृव्यापारस्यैव प्राधान्येनावगमात्कर्तृस्थतेत्यर्थः । उद्देशता - पिक चित्कर्मस्थांशस्य क्व चिन्तु व्यापारांशस्यति औत्सर्गिकं नियामकं बोध्यं तदिह दर्शनरोहणाभ्यां विषये न्यग्भूते च विशेषानुपलम्भात्कर्तृस्थ एवेह भावः क्रिया च । उद्देशानुरोधा - च्च । अहं पश्येयमिति सुद्देशः न तु अयं विषयो भवत्वित्येवमहमुपरि गच्छेयमित्युद्देशो न तु हस्तिनो न्यग्भावो भवत्विति ।
४८८
Page #489
--------------------------------------------------------------------------
________________
३ पा. २ आ. शब्दकौस्तुमः ।
४८९ उपरिगमनरूपएव च व्यापारविशेषो रुहेरर्थो न तु न्यग्भावनमात्रम् । भूमिष्ठे वृक्षस्य शाखां हस्ताभ्यामवनमयत्यपि आरोहतीत्यप्रयोगात् । अत एव यद्धितुपरं छन्दसीत्यत्र भाष्यं रुहिर्गत्यर्थ इति । अत एव चाणौ कर्तुंर्णी कर्मत्त्वम् । पचिच्छिद्योस्तु विक्लित्तिद्विधाभवनरूपो विशेषः कर्मणि दृष्टः तदुद्देशेनैव च कारकव्यापार इति महद्वैषम्यम् । एवञ्चारुह्यते ह. स्तीति कर्मवद्भावं प्रदर्शयन्तो भाष्यन्यायविरोधादुपेक्ष्या इति कैयटः । एतेन, अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्कृपावशतस्तस्मै नमोस्तु गुरवे सदोति प्रयोगो व्याख्यातः । न चैवं क्रियतइति न स्यादिति वाच्यम् । यत्नार्थतावादिनामेतदोषप्रसङ्गेपि भूवादिसूत्रस्थभाष्यानुसारेण करोतेरभूतपादुर्भावार्थतामभ्युपगच्छतामस्माकं सर्वसामञ्जस्यात् । एवञ्च कस्थभावक्रियेषु कर्मवद्भावाप्राप्तेविध्यर्थमिदं मूत्रमिति स्थित भाष्ये।लावयते स्वयमेवेत्यादौ तु कातिदेशपक्षे परत्वाकर्मवत्कमणेत्येवात्मनेपदम् । शास्त्रातिदेशे तु भावकर्मणोरित्यतदपेक्षया परत्वाण्णेरणादिसूत्रेणेत्यवधेयम् । यदि त्वणौ ये कर्तृकर्मणी तद्भिन्नकर्मनिवृत्तिर्भाष्यकृतोभिप्रेता स्यात्तर्हि सकर्मकाणां मध्ये तत्सूत्रोदाहरणतापत्तौ कर्मस्थक्रिया अप्युदाहरणं स्युः। न हि तत्रातिदेशः सुलभः । कर्मवदकर्मकाणामिति वक्ष्यमाणत्वात् । तथा नियमार्थत्वपराणां यक्चिणोः प्रतिषेधार्थ वित्यादिभाष्यवातिकग्रन्थानामप्यसामञ्जस्यं स्यादिति दिक् । तस्मादिहास्मदुक्तमेव वाक्यार्थत्रयं मुनित्रयसंमतम् । जयादित्यन्यासकारहरदत्तकैयटादिसकलग्रन्थकाराणामिह महानेव पूर्वापरविरोधो विपश्चिद्भिरुद्धर्तव्यः । अस्मदुक्तिस्तु मात्सर्यमुत्सार्य परिभावनीयेत्यलं बहुना । यन्तु करेणुरारोहयते निषादिनमिति माघे
Page #490
--------------------------------------------------------------------------
________________
४९०
शब्दकौस्तुभः ।
१ अ० ]
प्रयुक्तं तण्णिचश्चेति सिद्धम् । एतेन स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुतामिति व्याख्यातम् । बन्धुता तं पश्यति तां दर्शयते । यद्वा । बन्धुतां कृताधिपत्यामित्र लोकः पश्यतितां दर्शयते इत्यर्थः । आये बन्धुता अणो कर्त्री । द्वितीये त्वौ सा कर्म । उभयथापि णौ कर्मत्वं निर्वि बादमेवेति दिक् । णेरिति किम् । आरोहतीति निवृत्तप्रेषणान्मा भूत् । न च णौ चेदिति वाक्यशेषे श्रुतत्वाण्णेरेव भविष्य - सीति वाच्यम् । अणावित्यस्यापि श्रुतत्त्वात् । किं चोत्तरार्थमत्रश्यं णरिति वाच्यमेव । तदिहैव स्पष्टार्थमुक्तम् । हेतुमणिज्य - हणार्थ च । भीस्म्योस्तस्यैव सम्भवात् । तेन गणयते गणः स्वयमेवेति सिद्धम् । गणयतिहिं विभज्य भागशोवस्थापने वर्त्तते । तथा च कर्मस्थभावकादस्पान्निवृत्तप्रेषणाद्धेतुमण्णौ पुनः प्रेषणांशत्यागे सत्यात्मनेपदमिष्टम् । णेरिति हेतुमणिचा संभिधानादणावित्यत्रापि तस्यैव ग्रहणाच्चुरादिणौ यत्कर्म तत्कर्तृकाद्धेतुमण्ण्यन्तादपि सिध्यतीति । यन्तु वृत्तिकृता गणयतीत्येव रूपमवस्थाचतुष्टयेप्युदाह्रियते । तत्र सङ्ख्यानि - मित्तस्य परिच्छेदस्य ज्ञानविशेषात्मकतया कर्तृस्थस्य धातुवा - यतामाश्रित्य कर्मवद्भावाप्रवृत्त्या द्वितीयावस्थायां परस्मैपदम्पपादनीयम् । चतुर्थावस्थायां तु परस्मैपदमशुद्धमेव । रणावित्यत्रापि अणावकर्मकादित्यत्रेव हेतुमण्णिच एवं ग्रहणस्य न्यास्यत्वात् । तथैव भाष्ये स्थितत्वाच्च । भागशोवस्थापन परस्वे तु द्वितीयावस्थायामप्यात्मनेपदमिति विशेषः । कर्मवद्भावस्य दुर्वारत्वात् । यकिणौ तु णिश्रन्थीत्यादिनिषेधान्नस्त इति दिक् । णौ चेदिति किम् । निवृत्तमेषणाण्णौ आरोहयन्ति ह - स्तिपका इति तृतीयकक्षायां मा भूत् । असति हि णौ चेद्र
Page #491
--------------------------------------------------------------------------
________________
३ पा. २ आ.
शब्दकौस्तुभः ।
४९१
हणे श्रुतत्वादणाचे कर्मत्वं कर्तृत्वञ्च लभ्येत । न चैकस्योभयरूपता बाधितेति वाच्यम् । प्रथमावस्थायां कर्मणो द्वितीयावस्थायां कर्तृत्वस्य निर्विवादत्त्वात् । अनाध्याने किम् । स्मरति वनगुल्मङ्कोकिलः । ततश्चतुर्थावस्थायां स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । स्मृ आध्याने, घटादिः ॥
I
1
भीस्म्योर्हेतुभये || आभ्यां ण्यन्ताभ्यामात्मनेपदं स्यात्मयोजकादेव चेद्भयविस्मयौ स्तः । सूत्रे भयग्रहणं विस्मयस्याप्युपलक्षणम् । मुण्डो भीषयते । भियो हेतुभये पुगिति षुक् । विभेतेहेतुभयइति वैकल्पिकात्वपक्षे तु भापयते अत्र पुन । द्विधावीकारमश्लेषात् । जटिलो विस्मापयते । नित्यंस्मयतेरित्या - त्वम् । अर्त्तिद्दति पुक् । हेतुभये किम् । कुञ्चिकया भाययति । रूपेण विस्माययति । इह करणाद्भयविस्मयौ न तु हेतोः । यद्यपि हेतोर्व्यापारे णिज्विधानात्प्रयोजक साध्यता दुर्वारा त थापि हेतुस्वरूपमेवान्यनिरपेक्षं धात्वर्थमयोजक चेदितीत्यर्क । विशेषणोपादानसामर्थ्यात् । अत एव मौंड्येन भापयतीत्यत्र न, मोंड्याख्यधर्मस्य भेदेन विवक्षणात् । उदाहरणे तु तादात्म्यस्य विवक्षणाद्धेतारेवे भयम् । एतेन मनुष्यवाचा मनुवंशकेतुम्, विस्माययन्निति, व्याख्यातम् । इह हि न सिंहाद्विस्मयः किन्तु मनुष्यवाचेति कारणात् । अत एवात्र नित्यंस्पयतेरित्या - त्वं न । तद्विधा वितेर्हेतुभयइत्यतो हेतुभयानुवृत्या भयग्रहणस्य च स्मयोपलक्षणतया व्याख्यानात् । क्व चिन्तु विस्मापयमिति पुगागमपाठः प्रामादिकः । यद्वा । वाक् विस्मापयते सिंहस्तु विस्मापयमानां वाचं प्रयुङ्क्ते विस्मापयति । ण्यन्ताण्णिच् । वाचेति तु प्रयोज्ये कर्त्तरि तृतीया न तु करणे इति समाधेयम् ॥
1
Page #492
--------------------------------------------------------------------------
________________
शब्द कौस्तुभः ।
[ १ अ०
गृधिवच्योः प्रलम्भने । प्रतारणार्थाभ्यामाभ्यां ण्यन्ताभ्यामात्मनेपदं स्यात् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् | श्वानङ्गर्धयति । अभिकांक्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः ॥
४९२
लियः सम्माननशालिनीकरणायोश्च ॥ सम्माननशालिनीकरणयोश्चकारात्पलम्भने च वर्त्तमानाण्ण्यन्ताल्लीधातोरात्मनेपदं स्यात् । लीङ् श्लेषणे दिवादिः, ली श्लेषणे क्रयादिः, उभयोरपि ग्रहणम् । निरनुबन्धकपरिभाषा तु प्रत्ययविषयिणी । वामदेवाड्यड्याविति डित्करणेन ज्ञापिता हि सा । ज्ञापकञ्च सजातीय विषयक मेवेत्युत्सर्गः । सम्मानने, जंटाभिरालापयते । पूजां समधिगच्छतीत्यर्थः । अकर्मकश्चायम् । धात्वर्थेन क्रोडीकृतकर्मत्वात् पुत्रीयसीत्यादिवात् । शालिनीकरणे, श्येनो वत्तिकामुल्लापयते । न्यक्करोतीत्यर्थः । प्रलम्भने, बालमुल्लापयते । विभाषालीयतेरिति णावात्वं विधीयते । तदस्मिन्विषये नित्यम् | अन्यत्र तु विकल्पः । व्यवस्थितविभाषा हि सा । न च लीयतेरिति विहितमात्वं कथं लीनातेः स्यादिति वाच्यम् । लीनातिलीयत्योर्यका निर्देशोयमिति सिद्धान्तात् । संमाननादिष्विति किम् । बालकमुल्लापयति । आश्लेषयतीत्यर्थः ॥
मिथ्योपपदात्कृञोभ्यासे || ण्यन्तात्कृञो मिथ्योपपदादात्मनेपदं स्यात्पौनःपुन्ये । पदं मिथ्या कारयते । सापचा - रं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । नित्यवीप्सयोरिति द्वित्वं तु न भवति । आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात् । करोतिश्चहोच्चारणवृत्तिरकर्मकः । ण्यन्तस्तूच्चारणवृत्तिः सककश्च । मिथ्योपपदात्किम् । पदं सुष्टु कारयति । कृञः
Page #493
--------------------------------------------------------------------------
________________
३ पा. २ आ. शब्दकौस्तुमः ।
४९३ किम् । पदं मिथ्या वाचयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति ॥ ___ स्वरितत्रितः कञभिप्राये क्रियाफले ॥ स्वरितेतो जितश्च धातोरात्मनेपदं स्याक्रियाफले कर्तृगामिनि सति । यजते । सुनुते । कञभिप्राये किम् । यजन्ति याजकाः । सुन्वन्ति । दक्षिणादि तु न फलम् । उक्तं हि हरिणा । यस्यार्थस्य प्रसिद्धयर्थमारभ्यन्ते पचादयः । तत्प्रधानफलं तेषां न लाभादि प्रयोजनमिति । पचा, पाकः । षिवादङ् । के चिन्तु प्रयोजकव्यापारवृत्तिभ्यो धातुभ्यस्तदद्योतकमात्मनेपदमनेन विधीयते । कुरुते । कारयत्यिर्थः । कारयतइत्यत्र तु प्रयोजकव्यापारद्वयमर्थः । णिजन्ताणिचि यथा कर्मभिप्रायइति सूत्रांशोपि कर्तृपदस्याहेतुकर्तपरत्वादुक्तार्थतात्पर्यक एवेत्याहुः । उक्तञ्च हरिणा, क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता । असती वा सती वापि विवक्षितनिबन्धना ॥ येषाञ्चित्कर्षभिप्राये णिचा सह विकल्प्यते । आत्मनेपदमन्येषां तदर्थाप्रकृ. तिर्यथा ॥क्रीणीष्व पचते धत्ते चिनोति चिनुतपि च । आप्तप्रयो. गा दृश्यन्ते येषु ण्यर्थोभिधीयतइति ॥ असती चेत्यनेन कमलवनोद्घाटनं कुर्वते यइत्यादयः प्रयोगाः समार्थताः । तत्रापि स्वाथताविवक्षायाः सम्भवात् । ण्यर्थस्य वाचकं द्योतकं वा आत्मनेपदमिति मतद्वयं सगृहीतं केषां चिदित्यादिना श्लोकेन । चिनोति चिनुत इति, चिनोति चापयति चेति क्रमेणार्थः ॥ ____ अपाद्वदः ॥. अपपूर्वाद्वदतेरात्मनेपदं स्यात्कर्तृगामिनि फले संविधाने च । न्यायमपवदते । कभिप्राये किम् । अपवदति ॥
णिचश्च ॥ णिजन्तादात्मनेपदं कर्तृगे फले संविधाने च।
Page #494
--------------------------------------------------------------------------
________________
४९४
शब्दकौस्तुभः । [१ अक्ष कटं कारयते । कथं कृतश्चक्षुरपि श्मशूणि कारयतीति भाष्यम् । संविधानइति व्याख्याने भविष्यति । आद्यपक्षे तु कर्तृगाषित्त्वाविवक्षायां भविष्यति । अत्र कश्चित् कायते: स्वरितेत्कर णाज्ज्ञापकाच्चुरादिणिजनादिवयात्मनेपदं न भवतीतिः । आह च स्वरितेत्स्यादहिः क्रयादौ लक्षिश्चैकश्चुरादिष्विति । चन्द्रस्तु णिजभावपक्षे स्वरितेसस्य सार्थकतामोक्तर्थज्ञापकता अतश्चुरादेरप्ययं विधिर्भवत्येवेत्याहः । मैत्रेयस्तु स्वरितत्वमा स्यानाकरमित्याह । तदेतद्धरदत्तोपि सञ्जग्राह । एष विधिर्न चुरादिणिजन्तात्स्यादिति कश्चन निश्चिनुते स्म । आप्तकचोत्र न किं चन दृष्टं लक्षयतेः स्वरितत्त्वमनामिति ॥
समुदाझ्यो यमो ऽग्रन्थे ॥ एभ्यो यमः प्राग्वत्कर्तृगे फले संविधाने च न तु ग्रन्ये विषये । आङ्यूर्वकस्य वचनं सकर्मकार्थम् । अकर्मके त्वाडोयमहन इत्येव सिद्धम् । श्रीहीन्संयच्छते. भारमुद्यच्छते वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति चिकित्सां वैद्यः । इहाधिगमपूर्वकमुद्यम यमेरर्थः । चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः । कर्बभिमायइत्येव । संयच्छति उद्यच्छति आयच्छति ॥ ... ...... .. अनुपसर्गाज्ज्ञः ॥ अस्मात्माम्वत्कर्तृगे फले संविधाने च । अकर्मकाच्चेत्येव सिद्ध वचनमिदं सकर्मकार्थम् । गाजानी.. ते । अनुपसर्गात्किम् । स्वर्ग लोकं न प्रजानाति । कथं तहि भट्टिः, इत्थं नृपः पूर्वमवालुलोचे नतोनुजझे ममनं सुतस्येति । कर्मण्ययं लिट् । नृपेणेति तृतीयान्तस्य विपरिणामादिति जयमाला ॥ .. .... . विभाषोपपदेन प्रतीयमाने ॥ स्वरितेत्मभृतिभ्यः आत्मनेपदं वा स्यात् समीपोच्चारितपदेन क्रियाफलस्य कर्तृगत्वे
Page #495
--------------------------------------------------------------------------
________________
३ पा. २ आ.
शब्दकौस्तुमः ।
४९५
प्रतीते । स्वरितवित इत्यादि पञ्चमूच्या यदात्मनेपदं विहितन्तत् क्रियाफलस्य कर्तृगत्त्वे उपपदे न धोतिते न प्राप्नोति । उक्तार्थानामप्रयोगात् । तत्राप्राप्तीवभाषेयम् । उपपदं चेह समीपे श्रूयमाणं पदं न तु पारिभाषिकम् । असम्भवात् । इह च पञ्चमूत्री अनुवत्तते । स्वं यज्ञं यजति यजते वा। स्वं कटं करोति कुरुते वा । स्वं पुत्रमपवदात अपवदते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वाङ्गां जानाति जानीते वा॥
शेषात्कर्तरि परस्मैपदम् ॥ आत्मनेपदानमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । याति वाति । कथं तार्ह स्मरानो जुव्हानाः सुरभिघृतधाराहुतिशतैरिति सौन्दर्यलहरी । सत्यम् । नायं शानच् किन्तु चानश् । एतेन रसमानसारसेनेतिमाघो व्याख्यातः॥ - अनुपराभ्यां कुत्रः ॥ आभ्यां कुत्रः परस्मैपदं स्यात् कर्तृगेपि फले गन्धनादावपि । अनुकरोति पराकरोति । ननु कर्मकर्तर्यपि प्राप्नोति । अनुक्रियते स्वयमेवेति । नैष दोषः । कार्यातिदेशपक्षे कर्मवत्कर्मणेत्यात्मनेपदेन परेणास्य बाधात् । शास्वातिदेशे तु भावकर्मणोरित्यस्य पूर्वत्त्वात्परणानेन यद्यपि भाव्यं तथापीह कर्तरिकर्मेत्यतः शेषात्कर्तरीत्यतश्च कर्तृग्रहणद्वयमनुवर्तते तेन कतैव यः कर्ता तत्रायं विधिन तु कर्मकर्तरीति बोध्यम् ॥ ___ अभिप्रत्यातिभ्यः क्षिपः ॥ क्षिप प्रेरणे । स्वरितेत् । अभिक्षिपति । प्रतिक्षिपति । अतिक्षिपति । एभ्यः किम् । आक्षिपते । कर्तरीत्येव । नेह । आक्षिप्यते सूत्रम् । द्वितीयकर्तृग्रहणानुवृत्तेः कर्मकर्त्तयपि न ।।
प्राद्वहः ॥ वह पापणे स्वरितेत् । पाहति । प्रात्किम् ।
Page #496
--------------------------------------------------------------------------
________________
४९६
शब्दकौस्तुभः । [१ अ. आवहते ॥ :: परेम॒षः ॥ मृष तितिक्षायां स्वरितेत् । परिमृष्यति । परे किम् । आमृष्यते । इह परेरिति योगं विभज्य वहइत्यनुवर्च नात्परिवहतीति के चिदिच्छन्ति ॥ . व्यापरिभ्यो रमः ॥ रंमक्रीडायाम् । अनुदात्तेत् । विरमति । प्रारमति । परिरमति । एभ्यः किम् । अभिरमते ॥
उपाच ॥ उपपूर्वाद्रमे प्राग्वत् । सकर्मकार्थोयमारम्भः । अकर्मकान्तु विभाषां वक्ष्यति । स्यादेतत् । उपपूर्वको रमिनि. त्तिविनाशयोर्वतते । उपरतोध्ययनात् । उपरता निधनानीति यथा । न चानयोरर्थयोः सकर्मकता सम्भवति । सत्यम् । अन्तर्भावितण्यर्थोत्रोदाहार्यः । तद्यथा । यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः ॥ ...... विभाषाकर्मकात् ॥ उपाद्रमेरकर्मकात्परस्मैपदं वा स्यात् । उपरमति उपरमते वा । निवर्ततइत्यर्थः ॥ . ., बुधयुधनशजनेरुद्रुसुभ्योणेः ॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्चेत्यस्यापवादः । बोधयति पाम् । योधयात काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । इहाणावकर्मकादिति न सिध्यति । अचित्तवस्कर्तृकत्वात् । इङ्, अध्यापयति ।
द्रुस्खूणां निगरणचलनार्थेभ्यश्चेत्यच सिद्धे यदा न चलनार्थस्तदर्थं वचनम् । प्रावयति । पापयतीत्यर्थः । द्रावयति । वि. लापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः । स्यन्दनं द्रवत्वजन्यचलनम् । न चैवं चलनार्थत्वात्सिद्धामिति वाच्यम् । दवत्वजन्यतावच्छेदकचलनवव्याप्यजातिविशेषे शक्ततयास्य वि. शेषशब्दत्वेप्यपर्यायत्वात् ॥
निगरणचलनार्थेभ्यश्च ॥ अभ्यवहारार्थेभ्यः कम्पनार्थेभ्य
Page #497
--------------------------------------------------------------------------
________________
३ पा. २ आ. शब्दकौस्तुभः ।
४९७ श्व ण्यन्तेभ्यः परस्मैपदं स्यात् । निगारयति । आशयति । भोजयति । चलयति । चोपयति । कम्पयति । सकर्मकार्थोऽचित्तवस्कर्तृकार्थश्चायमारम्भः । आदेः प्रतिषेधो वक्तव्यइति काशिका। भाष्यकारस्तु गतिबुद्धीति सूत्रे इममर्थ वक्ष्यति । आदयते देवदत्तेन । गतिबुद्धीत्यादिना णौ कर्तुः कर्मसंज्ञा प्राप्ता आदिखायोः प्रतिषेध इति वचनान्न भवति । कथं तादयत्वनं बटुनेति । अभिप्राये भविष्यति । कञभिमाये प्राप्तस्य निगरगचलनेत्यस्य ह्ययं निषेधो न तु शेषात्कर्त्तरीत्यस्य । कथं तहि श्रीहर्षः, इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भचन्मुखस्पृशीति । न च नायं भक्षणार्थः, न पीयतां नाम चकोरजिव्हया कथं चिदेतन्मुखचन्द्रचन्द्रिकेति पूर्वार्धानुरोधेन पानार्थत्वादिति वाच्यम् । पानस्यापि भक्षणविशेषात्मकत्त्वात् । सामान्यग्रहेण विशेषस्यापि ग्राह्यत्त्वात् । अन्यथेहैव सूत्रे चोपयतीत्युदाहरणासङ्गतेः । चुपेर्मन्दगत्यर्थकत्वात् । इमामित्यस्याकर्मकत्त्वासङ्गतिप्रसङ्गाच्च । गत्यादिसूत्रेण ह्यस्य कर्मसंज्ञा सा च प्रत्यवसानार्थता विना दुरुपपादेति । अत एव नपादमीति सूत्रे पाग्रहणं धेट उपसङ्ख्यानञ्च सङ्गच्छते। अन्यथा पाधेटोरप्याचमिवत्पानार्थत्वेन निषेधो व्यर्थः स्यात् । न चैवं बुध. युधादित्सूत्रे द्रवतिग्रहणं व्यर्थ चलनविशेषवाचकस्यापि चलनवाचकतानपायादिति वाच्यम् । चलनत्वव्याप्याया अखण्डाया एव जाते. प्रतिनिमित्तताया उक्तत्वात् । पानन्तुद्रवद्रव्यस्य गलादयः करणम् । तत्र द्रवद्रव्यांशस्याधःकरणे कर्मीभूतस्याधिकस्य भानेपि भक्षयतेरर्थस्य भानं निर्विवादम् । यथा मन्दगतौ भासमानायां गर्भानम् । अधिकं प्रविष्टं न तु तद्धानिरिति न्यायात् । न च पानत्वमप्यखण्डस्यन्दन
Page #498
--------------------------------------------------------------------------
________________
४९८
शब्दकौस्तुभः । १ अ] • त्ववदिति वाच्यम् । तत्साधकानिरुक्तः । दृष्टान्ते तु कार्यतावच्छेदकतया तत्सिद्धरिति । उच्यते । आचामयेति लोडन्तं छित्वा' किं नाचामयेरिति व्याख्येयम् । से इति तु सम्बोधनं दमयन्त्याः । तथाहि । अस्य स्त्री ई लक्ष्मीः तया सह वतैमाना सेः तस्याः सम्बोधनं से । सलक्ष्मीके इत्यर्थः॥
अणावकर्मकाच्चित्तवत्कर्टकात् ॥ णे:पूर्वमकर्मकाच्चित्तवत्कर्तृकाण्ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं शाययति गोपी । अणौ किम् । आरोहयमाणं प्रयुक्त आरोहयते । पेरणाविति सूत्रे उदाहरणत्वन योकर्मको निर्णीतस्तस्माद द्वितीये ‘णौ मा भूत्। स हि णावकर्मकः निवृत्तप्रेषणाध्यारोपितप्रेषणयोरुभयोरपि न्यग्भवतीत्यर्थे पर्यवसानस्योक्तत्वात् । अकर्मकात्किस। कटं कुर्वाणं प्रयुक्ते कारयते । चित्तवत्कर्तृकात्किम् । बीहीन शोषयते । अत्र केचित् । चुरादिण्यन्ताद्धेतुमण्णावणावित्यस्य प्रत्युदाहरणमाहुः । तत्तु भाष्यादिविरुद्धम् । तथाहि । घुधादिसूत्रादिह रित्यनुवर्तते । बुधादिभ्यश्च हेतुमण्णिरेव सम्भवतीति निषेधोपि प्रत्यासत्तेस्तस्यैव न्याय्यः । तेन चुरादि- . "ण्यन्तादपि हेतुमण्णौ भवत्येवेदं परस्मैपदमिति भाष्ये स्थितम् । 'यतु रूपयन्तं प्रयोजयति रूपयतइति केन चित्मत्युदाहृतं त.
उचुरादिण्यन्तादेतुमण्णिचं विधाय तस्य च सौकर्यातिशयात्म* योजकन्यापाराविवक्षायां प्रयोज्यव्यापारमावस्या अकर्मकसामाश्रित्य ततो द्वितीये हेतुमण्णिचि बोदव्यम् । अत एव प्रयोजयतीत्याह । इह हि युजिना णिचा च प्रयुक्तिद्वयं वदता हेतुमण्णिद्वयं सूच्यते । अन्यथा प्रयुक्तइत्येवादर्शयिष्यत् । " एवञ्च चेतयमानं प्रयुक्ते चेतयतइति केषां चित्प्रत्युदाहरणं यत्तिकृता दूषित तत्समर्थितं भवति । स्वार्थण्यन्तादेकेस्मिन्ने
Page #499
--------------------------------------------------------------------------
________________
४९९
३ पा. २ आ. शब्दकौस्तुमः । व हेतुमण्णौ तु रूपयति चेतयीत्येव बोध्यम् ॥
नपादम्याङ्यमाङयसपरिमहरुचिऋतिवदवसः॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं न स्यात् । तत्र पिबतिनिगरणार्थः । इतरे चित्तवत्कर्तृकाः। नतिश्चलनार्थोपि। तेनाणावकर्मकादिति निगरमचलनेति प्राप्तमिह निषिध्यते । पा पाने पाययते । पा रक्षणइत्ययन्तु न गृह्यते । लुम्विकरणाऽलुग्विकरणयोरलुग्विकरणस्यैव ग्रहणामिति परिभाषणात् । तेनाणावकर्मकत्वाविवक्षायां परस्मैपदं भवत्येव । पालयति । पाते वक्तव्य इति लुगागमः । दमु उपशमे । दमयते। आपूर्वो यम उपरमे । आयामयते । नकम्यमिचमामित्यतो नेत्यनुवर्तमाने यमोपरिवेषणइत्यनेन मित्संज्ञापतिषेधः। डकारविशिष्टस्योपाक्षानमुपसर्गप्रतिपन्त्यर्थम् । तेनान्यान्वितादाकारात्परस्य न । आङ्पूर्वो यस प्रयत्ने । आयासयते । परिपूः अह वैचित्ये । परिमोहयते ।रोचयते । नर्तयते । वादयते । वासयते । वस आच्छादनइत्यस्य लुग्विकरणत्वादप्रहणम् । पादिषु धेट उपसख्यानम् ॥ धापयेते शिशुमेकं समीची । प्रत्यवसानार्थत्त्वाच्छिमित्यस्य कर्मत्वम् । समाची. ति प्रथमाद्विवचनम् । वाछंदसीतिपूर्वसवर्णदीर्घः । स्यादेतत् । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । अवीवदद्वीणां परिवादकेन । भिक्षा चासयती, त्यादिप्रयोगास्ताह कथमिति चेत् । अनाहुः । कर्तृगे फले माप्तस्यात्मनेपदस्यापवादो यद्विहितं परस्मैपदं तस्यैवायं निषेधः। यत्कभिप्राये शेपादिति परस्मैपदं तनिधिमेवेति ॥
वा क्यषः ॥ क्यषन्तात् परस्मैपदं वा स्यात् । लोहितायति. लोहितायते । नन्विह परस्मैपदाभावपक्षे लकार एव अयेत न त्वात्मनेपदम् । तस्य प्रकृतिविशेषेर्थविशेषे च
Page #500
--------------------------------------------------------------------------
________________
त्यविनाभूतेन महात्मनेपदविकल्प
स्थिती
५०० शब्दकौस्तुमः । [१ अ० नियतत्वात् । सत्यम् । पूर्वसूत्रे तावदपवादमपनयता प्रति. षेधेनात्मनेपदं प्रवर्त्यतइति निर्विवादम् । स एव च प्रतिषेध इहानुवय॑ते । तदनुवृतिसामर्थ्याच्चेहात्मनेपदविकल्पः सिध्यति । आत्मनेपदप्रवृत्त्यविनाभूतेन निषेधेनात्मनेपदस्य लक्षणया उप- . स्थितौ तस्यैव विकल्पनात् । तेन मुक्ते शेषात्क-रिपरस्मैपदं भविष्यति । प्रकृत्यर्थनियमपक्षे एकवाक्यताविधिश्चोत पक्षे च परस्मैपदविकल्पेपि न कश्चिद्दोष इत्यवधयम् ॥
धुभ्यो लुङि ॥ द्युतादिभ्यः परस्मैपदं वा स्याल्लुङ । अद्युतत् । अद्योतिष्ट । अलुठत् । अलोठिष्ट । लुङि किम् । द्योतते । लोठते । अनुदात्तत्त्वानित्यं तङ् । नन्विह विकल्पानुवृत्तियों । अनुदावेत इत्यनेन प्रतिषिद्धस्य परस्मैपदस्यानन प्रतिप्रसवे कृते लत्येत्युत्सर्गेणैव पाक्षिकस्यात्मनेपद स्य सिद्धेः । सत्यम् । परस्मैपदे प्रतिप्रसूते आत्मनेपदं न भवतीति झापयितुं वानुवृत्तिः । तेनानुकरोतीत्यादौ पाक्षिकमात्मनेपदं न भवति । यदात्वनुदात्तङित इत्यादिप्रकर
नात्मनेपदमेव विधीयते शेषादित्यादिना च परस्मैपदम् । तदानुकरोतीत्यादौ परस्मैपदेनात्मनेपदं बाध्यते येन नामाप्तिन्यायात् । पक्षे आत्मनेपदमवृत्त्यर्थ चेह वाग्रहणमित्यवधेयम् । पक्षद्वयमपीदमनुपराभ्यामिति सूत्रे भाष्ये स्थितम् । प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रे नियमसूत्राणां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति पक्षद्वयस्यापि तत्त्वं निरूपितमस्माभिः । तदप्येतस्माद्भाष्यादुत्थितमित्यवधेयम् ॥
वृभ्यः स्यसनोः ॥ वृतुवृधुगधुस्यन्दूभ्यः परस्मैपदं. वा स्यात्स्ये सनि च । वत्स्यति । अवय॑त् । विकृत्सति न वृभ्यश्चतुभ्यं इतीनिषेधः । पक्षे वर्तिष्यते । अवर्तिष्यत । .
Page #501
--------------------------------------------------------------------------
________________
४ पा. १ भा. शब्दकौस्तुभः ।
५०१ विवर्तिषते । स्यसनोः किम् । वर्तते । ननु शुतादिष्वेव वृतादयः पठ्यन्ते । तथा च तक्रकौण्डिन्यन्यायनेयं प्राप्तिभ्यः पूर्वी प्राप्ति बापत । सतश्चातृतदवर्तिष्टेति लुङिः पूर्वेण विकल्पो न सिध्येत् । तथा चोत्तरसूत्रे चकारः क्रियते । लुटीति विशेष विधिना स्यसनोरियं प्राप्तिा बाधीति । अन्यथा कृपेरपि वृताधन्तर्भावादनेनैव सिद्धे किञ्चकारेणेति चेत् । सत्यम् । द्युतादिपाठसामोद्वतादिभ्यो लुङि भविष्यति यद्वा लुङीति स्वरयिष्यते ॥
लुटि च क्लुपः ॥ लुटि स्यसनोश्च कृपेः परस्मैपदं वा स्यात् । कल्तासि । कल्प्स्यति अल्प्स्यत् । चिक्लप्सति । तासिचक्लप इतीप्रतिषेधः । पक्षे कल्पितासे । कल्पिष्यते । अकल्पिष्यत । चिकल्पिषते । इहेनिषेधो नास्ति । तत्र हि गमेरिटपरस्मैपदेष्वित्यतः परस्मैपदेष्वित्यनुवर्तते । अदित्वात्पाक्षिक इडभावस्त्वस्त्येव । स्यादेतत् । स्यसनोरित्यस्य स्वरितत्वमेवास्तु वाक्यष इति वाशब्दस्य यथा । तथाच स्वरितेनाधिकार इत्येव सिद्ध किञ्चकारेण । सत्यम् । स्पष्टार्थश्च कारः । अतएवानुकर्षणार्थाः सर्वे चकारा भाष्ये प्रत्याख्याताः ॥ . इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य तृतीये
पादे द्वितीयमान्हिकम् ॥ पादश्च समाप्तः॥ ___आकडारादका संज्ञा ॥ इत ऊर्ध्व कडाराः कर्मधारयइत्यतः प्रागेकस्य एकैव संज्ञा स्यात् । तत्रोभयोः सावकाशत्वे विप्रतिषेधेपरमिति परैव । निरवकाशत्वे तु सैवेति विवेकः । तत्र प. रस्या उदाहरणं धनुषा विध्यतीति । शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकत्वमित्युभयप्रसङ्गे परत्वाकरणसंज्ञा अपादानसंज्ञां बाधते । तथा कांस्यपाच्याम्भुङ्क्ते
Page #502
--------------------------------------------------------------------------
________________
५०२
शब्दकौस्तुमः । [१० इत्यधिकरणसंज्ञा धनुर्विध्याति कर्तृसंज्ञा च । तदुक्तम् । अपादानमुत्तराणीति । निरवकाशायास्तूदाहरणमततक्षदिति । अत्र हि संयोगेगुर्विति गुरुसंज्ञा लघुसंज्ञा बाधते । तेन सन्वल्लघुनीत्येतन्न प्रवर्त्तते । स्यादेतत् । अपदसंज्ञाभ्यां तर्हि असंज्ञा वाध्येस । तथा च गार्य इत्यत्र यस्येतिचेति लोपो न स्यात् । धान. एक इत्यत्राङ्गस्योच्यमाना वृद्धिर्न स्यात् । अङ्गसंज्ञा तु कर्त्तव्यमित्यादौ सावकाशा । न हि धातुप्रत्यये पूर्वस्य भपदसंझे स्तः । अत्राहुः । सुपिच बहुवचनेझल्येत् तद्धितेष्वचामादेरित्यादौ स्वादिषु तद्धितेषु चाङ्गस्य कार्यविधानं समावेशस्य ज्ञापकम् । द्विविधा हि स्वादयः । यजादयो वलादयश्च तत्र ययाक्रमं भपदसंज्ञाभ्यां भाव्यम् । ताभ्यां चाङ्गसंज्ञा बाधे निर्विषया एव तत्तद्विधयः स्युः । गुरुलघुसंज्ञे वर्णमात्रस्य विधीयते नदीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविश्वतः । तेन वात्सीवभुरित्यत्र नदीकधुनीति पूर्वपदान्तोदात्तत्वं हे वात्सीबन्धो इत्य. प्र गुरोरन्त इति प्लुतश्च सिध्यति । तथा विश्व ना च विनरौ द्वन्द्वेषीति पूर्वनिपातः । विनरावाचष्टे विनयति प्रविनय्य गतः । ल्यपिलघुपूर्वादिति रयादेशः । यथा चायादेशे कतव्ये टिलोपो न स्थानिवत्तथा ऽचःपरस्मिन्नित्यत्र व्युत्पादितम् । यसूक्तं विन्तो वो वैन्त्रम् । इगन्ताच्चलघुपूर्वादित्याणति, सच्चिन्त्यम् । द्वन्द्वमनोज्ञादिभ्यश्चति वुअपसकादिति कैयटः । पुरुषसंज्ञा तु परस्मैपदसंज्ञां न बाधते णलुत्तमावेति ज्ञापकात् । अन्यत्रापि यत्र समावेश इष्टस्तत्र चकारादिना स्वस्थाने साधयिष्यते । भाष्ये तु पाठान्तरमप्युपन्यस्तम् । प्राकडारात्परं कार्यमिति । अस्यार्थः प्राकडारात्संज्ञाख्यं कार्य परं स्यादिति । संज्ञामकरणादि संज्ञारूपमेवेह कार्यम् । परा
Page #503
--------------------------------------------------------------------------
________________
४ पा. १ आ. शब्दकौस्तुभः । संज्ञेत्येव तु न मूत्रितम् । विप्रतिषधे इत्युत्तरसूत्रे परकार्यमित्यस्यानुवृत्तिर्यथा स्यात् । तत्र यस्याः संज्ञायाः परस्याः पूवयानवकाशया बाधः प्राप्तः सा परा ऽनेन विधीयते । एतदेव च ज्ञापकमिह प्रकरणे संबानां बाध्यबाधकभावस्य तेन परयानवकाशया सावकाशा पूर्वा बाध्यते द्वयोस्तु सावकाशयोर्विप्रतिषेधे परया पूर्वा वाध्यतइति । अस्मिन्पक्षे अङ्गसंज्ञा परा कर्तव्या भपदसंज्ञे तु पूर्वे, एवं यत्रयत्र समावेश इष्टस्तत्र सर्वत्र बोद्धव्यम् । अस्मिन्पक्षे ऋत्विय इति न सिध्यति । तथाहि । ऋतोरण छन्दसिघस । सितिचेति पदसंज्ञैवेष्टा । तेन तत्र परं कार्यमिति वचनाद्भसंज्ञापि स्यात् । ततश्च ओर्गुणः प्रसज्येत । पदत्त्वप्र. युक्तेनावग्रहेण सित्करणं सार्थकं स्यात् । शेषोबहुव्रीहिः शेषोध्यसखीति शेषग्रहणं चास्मिन्पले कर्तव्यं स्यात् । अन्यथा हि उन्मत्तगङ्गमित्यादावन्यपदार्थेचसंज्ञायामिति सत्यामव्ययीभावसंज्ञायां परकार्यमिति वचनाद्बहुव्रीहिसंज्ञापि स्यात् । मत्र इत्यत्र नदी संज्ञापर्याये घिसंज्ञापि स्यात ततश्च गुणप्रसङ्गः । वस्तुतो बहुव्रीहौ शेषग्रहणं पाठद्वयेपि कर्तव्यं घिसंज्ञायान्तु पाठद्वयपि न कर्तव्यमिति तत्रैव वक्ष्यामः । इदंत्व वधेयम् । एका संज्ञेति पाठेपि संज्ञाग्रहणं न कर्तव्यम् । एकेत्युक्तेपि संज्ञाधिकारादेव तल्लाभात् । स्यादेतत् । आद्वन्द्वादित्येवोच्यताम् । न हि चाथेद्वन्द्व इत्यतः परत्रेदमुययुज्यते । सत्यम् । तथा सति द्वन्द्वश्चमाणितूर्येत्यस्याप्यवधित्वं सम्भाव्येत । ततश्च सम्बुद्धिसंज्ञामन्त्रितसंज्ञयोः समावेशो न स्यात् । नन्वाकडारादिन्यु. तोपि प्राकडारात्समास इत्यस्यावधित्वं कुतो न स्यादिति चेत् । व्याप्तिन्यायालिङ्गाच्च । यदयं तत्पुरुषो द्विगुश्चेत्यारभते । समावेशार्थ हि च तत्।वस्तुतस्तु सङ्ख्यापूर्वोद्विगुरित्यत्रैव चकारः पाठ्यः।
Page #504
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० तावतव दिवः कर्मच तत्पयोजकोहेतुश्चेत्यादाविव समावेशसिद्धः। द्विगुश्चेति सूत्रान्तरं तु न कर्तव्यमेव । एवं समानाधिकरणसमासप्रकरणं समाप्य कर्मधारयश्चेत्येव पाठ्यम् । तत्पुरुषः समानाधिकरणः कर्मधारय इति सूत्रं तु मास्त्विति दिक् ।।
विप्रतिषेधे परङ्कार्यम् ॥ विरोधे सति कृत्यह यत्परन्तत्स्यात् । विप्रतिपूर्वात्सेधतेर्घन् । उपसर्गात्मुनोतीति षत्वम् । उपसर्गवशाच्च विरोधार्थकत्वम् । कार्यमित्यवाहेकत्यतृचश्चेत्यर्हार्थे कृ. त्यप्रत्ययः । तेन तुल्यबलविरोध इति पर्यवस्यति । नद्यपवादादीनां सनिधौ उत्सर्गादीनां कृत्यहत्वं ते धितत्वात् । तत्र नित्यमावश्यकत्वाद्वाधकम् । अन्तरगन्तु लाघवात् । अपवादस्तु वचनप्रामाण्यात् । तद्भिन्नस्तु प्रकृतसूत्रस्य विषयः । तदुक्तम् । परनित्यान्तरङ्गापवादानामुत्तरोत्तरस्य बलवत्त्वामिति । जातिपक्षे विध्यर्थ सूत्रम् । वृक्षेषु वृक्षाभ्यामित्यत्र हि लब्धावकाशयोरेत्वदीर्घत्वशास्त्रयोवृक्षेभ्य इत्यत्र युगपत्मसङ्गे सति गमकामावादपतिपत्तिरेव स्यात् । तदुक्तम् । अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वादिति। तत्रास्माद्वचनात्परस्मिन्कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति यथा भिन्धकोत्यत्र परत्वाद्धिभावे कृतेप्यकच । तदुक्तं, पुनः प्रसङ्गविज्ञानात्सिद्धमिति। व्यक्तिपक्षे तु तव्यक्तिविषयकयोलक्षणयोरन्यत्र चरितार्थत्वासम्भवात्तव्यत्तव्यानायरामिव पर्याये प्राप्ते नियमार्थमिदं सूत्रम् । विप्रतिषेधे परमेव न तु पूर्वमिति । एतल्लक्षणारम्भाच्च तत्र पूर्वस्यानारम्भोनुमीयते । तथा च जुहुतात्त्वमित्यत्र परत्वात्ताताऊ कुते स्थानिवद्भावेन धित्वं न भवति । तदुक्तं सकृद्गतौ विप्रतिषधे यद्बाधितं तहाधितमेवेति । जातिव्याक्तिपक्षयोश्च लक्ष्यानुरोधाद्यवस्थेत्युक्तं पस्पशायाम् । नित्यादिषु तु नास्य प्रवृत्तिरित्युक्तम् । तेन रथे.
Page #505
--------------------------------------------------------------------------
________________
४ पा. १ आ. शब्दकौस्तुभः ।
५०५ णिचि अतउपधाया इति वृद्धि परामप्यनियां बाधित्वा रधिजभोरिति नुमेव । न च सोपि शब्दान्तरप्राप्त्यानित्य एवेति वाच्यम् । कृताकृतप्रसङ्गित्वमात्रेणापि क चिनित्यताभ्युपगमा. त् । तेन रन्धयतीति सिद्धम् । तथादुद्रुवदित्यादावन्तरङ्ग उ. वङ् परमपि लघूपधगुणं बाधते । तथा शुन इत्यत्रान्तरङ्गत्वासम्प्रसारणाच्चति पूर्वत्वम् । अल्लोपे तु सति तस्य स्थानिवत्त्वाधण् स्यात् । बहुश्वा नगरीत्यत्रानउपधालोपन इति. ङीप् स्यात् । सिद्धान्ते गौरादिलक्षणो ङीष् तु न । उपसर्जनत्वात् । यत्त्विहत्यभाष्यं बहुशुनीति तत्सिद्धान्तेन स्थितम् । अल्लोपाभ्युपगमपक्षे प्रवृत्तत्वात् । एतच्चेहैव कैयटे आभात्सूत्रीयभाष्यकैयटयोश्च स्पष्टं न्यायसिद्धञ्च । यत्तु बहुश्वेत्येव भवितव्यमिति डाप्सूत्रे भाष्यम्, तदिह साधकतया न ग्राह्यम् । डाप्पक्षमेवोपक्रम्य बहुशूकोत रूपं तिरस्कर्तु तस्य प्रवृत्तत्वात् । वृक्ष इहेत्यादौ त्वन्तरङ्गेण गुणेन दी? बाध्यते । न चा. सौ अपवादः कथं बाध्यतामिति वाच्यम् । समानाश्रये तस्य चरितार्थत्वात् । तथा च वार्तिकम्, इङिशीनामाद्गुणः सवर्णदीर्घत्वादिति । इह शीनामिति नदीत्वान्नुट् । विभक्तिपरतया नित्यस्त्रीत्वात् । अत एव औङः श्यामिति प्रयोगः । उदाहरणन्तु अयजे इन्द्रं वृक्षे इन्द्रं सर्वे इहेति बोध्यम् । इहान्तरङ्ग बलवदिति लाघवन्यायमूलकमिति कैयटः । अचःपरस्मिन्नितिसूत्रे भाष्यमप्येवम् । असिद्धं बहिरङ्गामिति तु पाहऊडित्यूग्रहणेन ज्ञापितम् । षत्वतुकोरित्यनेन तु तदपवादभूतं नाजानन्तर्यइति । तत्रासिद्धमित्यनया पचावेदमित्यादावत्वाभावार्थमवश्याश्रयणीयया गतार्थत्वादन्तरङ्ग बलीय इति न कर्तव्येतीहत्यं भाष्यं विरुद्धम् । न्यायसिद्धताया उक्तत्वात् । किञ्च ,
Page #506
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० सापवादया ऽसिद्धपरिभाषया कथं निरपवादाया गतार्थता । अथ षत्वतुकोरित्यनेनासिद्धं बहिरङ्गमित्यस्या अनित्यतैव ज्ञाप्यते लाघवात् न तु नाजानन्तर्यइति, गौरवात् । तर्हि पबलमिदं भाष्यं, स्फुटीकृतं चेदमचः परस्मिन्निति सूत्रे ऽस्माभिः । एवञ्चाचारानन्तमिति द्वित्त्वं विवक्षितम् । नचेत्यादयोपि पाचाङ्कलहा मुधैव । एवञ्चान्तरानपि विधीन् बहिरङ्गो लुग्बाधतइत्यपि गतार्थम् । षत्वतुकोरिति वा कृतितुग्ग्रहणेन वा ऽनित्यताज्ञापनात् । अश्विमानण् श्वयुवेत्यादिनिर्देशाच्च । तेन गोमत्तिय इत्यादि सिद्धम् । आचारकिपि तवममादिवाधे च क्रमेण प्रत्ययोत्तरपदग्रहणस्य कृतार्थत्वात्तदीयज्ञापकताप्रवादोपि यथाश्रुताभिप्रायेणैवेति दिक् ॥ - इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य चतुर्थे ।
पादे प्रथममान्हिकम् ॥ खंयाख्यौ नदी ॥ इवोवर्णान्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । दीर्घान्तयोरेषा संज्ञा व्यवतिष्ठते । अण्त्वेन सवर्णग्रहणात् । हूस्वान्तयोस्तु प्राप्ताप्येषा परया घिसंज्ञया बाध्यते । तेन मते धेनो इत्यादौ अम्बार्थनद्योरिति इखो न भवति । ननु शेषग्रहणाद् घिसंज्ञा कथं भवेदिति चेन्न । शेषग्रहणस्य प्रत्याख्यातत्वात् । तथाहि । एका संज्ञेति पाठे तावच्छेषस्यग्रहणं व्यर्थमिति स्पष्टमेव । अपरङ्कार्यमिति पाठे तु दीर्घान्ते सावकाश नदीसंज्ञा पुनपुंसकयोः सावकाशा घिसंज्ञा हे मतइत्यादौ परत्वाद्वाधिष्यते । मत्यै धेन्वै इत्यादौ तु निरवकाशापि डितिहस्वश्चति नदीसंज्ञा घिसंज्ञा न बाधेत । अतः शेषग्रहणं कृतम् । तदपि वस्तुतो व्यर्थमेव । नदीसंज्ञावचनसामर्थ्यादेव घिसंज्ञाबाधोपपत्तेः। ह्रस्वलक्षणा हि नदीसंज्ञा । सा च
Page #507
--------------------------------------------------------------------------
________________
४ पा. २ आ. शब्दकौस्तुमः ।
५०७ प्रत्ययापेक्षत्वाबाहिरका तत्रान्तरङ्गायां घिसंज्ञायां घेड़ितीति च गुणे कृते ह्रस्वाभावानदीसंज्ञा निर्विषया स्यात् । तदुक्तम् । तत्र वचनप्रामाण्यानदीसंज्ञायां घिसंज्ञाभाव इति । यद्वा । ईश्च ऊश्च यू वाछन्दसीति पूर्वसवर्णः । तेन दीर्घयोरेवेयं नदीसंज्ञा । न चैवं ङितिहस्वश्चति सूत्रे हूस्वांशे ऽनन्वयः स्यादिति वाच्यम् । विभक्तिविपरिणामेन वोः सवर्णो यो ह्रस्व इति व्याख्यानात् । उदाहरणन्तु गौर्ये वध्य इत्यादि । यू इति किम् । मात्रे स्वस्र । स्वयाख्यौ किम् । वातप्रम्ये । स्यादेतत् । स्त्रियमाचक्षाते इति विग्रह स्वयाख्यायाविति प्रामाति । आतश्चोपसगइति कपत्ययस्य सुग्ल इत्यादौ सावकाशस्य परेण कर्मण्यणा बाधितत्वात् । सत्यम् । मूलविभुजादित्वात्कः। यद्वा । विचमत्ययो भविष्यति । एतेन तत्पख्यञ्चान्यशास्त्रमिति जौमिनिसूत्रमपि व्याख्यातम् । नन्वेवमपि स्त्रियामित्येवास्तु किमधिकेन । मैवम् ।आसमन्ताचलाते इति व्युत्पत्त्या नित्यस्त्रीत्वलाभार्थं तदुपादानात् । तेन ग्रामण्ये सेनान्ये स्त्रिये इत्यत्र न भवति । ग्राम सेनाञ्च नयतीति हि क्रियाशब्दावेतो लिङ्गत्रयसाधारणौ । अत एव आध्ये ब्राह्मण्य इति भाष्योदाहरणं चिन्त्यमिति कैयटः । आध्यानकर्तृत्वस्यापि लिङ्गत्रयसाधारणत्वात् । स्यादेतत् । आसमन्तादीर्यस्या इति विग्रहउत्तरपदस्य नित्यस्त्रीत्वात् नदीत्वमस्तु । प्रथमलिङ्गग्रहणं चेति वक्ष्यमाणत्वात् । अतिलक्ष्म्यै ब्राह्मणायेतिवत् । तत्कुतो भाष्यस्य चिन्त्यतेति चेन । तथा सति यणो दुर्लभत्वात् । गतिकारकपूर्वस्येष्यते इत्यत्र हि गतिसाहचर्यात्कारकपूर्वस्यापि नित्यसमासस्य ग्रहणं, गतिसमासश्च प्रतिपदोक्त एव गृह्यते । तेन दुर्षियः निर्भियः वृश्चिकभिया पलायमानस्येत्यादावनित्यसमासत्वान यणिति पुरुषोत्तम
Page #508
--------------------------------------------------------------------------
________________
५०८
- शब्दकौस्तुभः । [१ अ० प्रभृतयः । अत एव कृन्मेजन्त इति सूत्रे मानः समस्यदूढय इति मन्त्रव्याख्यायां दुर्धिय इति कैयटेनेयङ् प्रयुक्तः। अदूरवि. प्रकर्षेण बहुव्रीहिणेदमप्यर्थकथनम् । व्याख्येयमन्त्रे तु दुष्टं ध्यायतीति विग्रहे नित्यसमास एव बोध्यः । ततो यण् । दुरो नाशदाशदभध्येष्विति पृषोदरादिसूत्रस्थवार्तिकेन उत्वष्टुत्वे । यन्तु तद्वार्तिकव्याख्यावसरे दुष्टं ध्यायतीति विगृह्य आतश्चोपसर्गइति कमत्यय इति कैयटहरदत्तादिभिरुक्तम् । तच्चिन्त्यम् । अन्तस्वरितानुरोधेन अर्थानुरोधेन च ख्यत्यादितिवत्कृतयणादेशानुकरणतयैव वार्तिकस्य व्याख्येत्वात् । सर्वस्य दुर्वधेः अंहतिरुपद्रवः नोस्मान् मा वादिति तृतीयचरणस्थेन स. हान्वयः । अमेरतिरित्यनुवर्तमाने हन्तेरंहचेत्यंहादेशोतिश्च प्रत्ययः । अहातशब्दस्य प्रादेशनं निर्वपणमपवर्जनमंहतिरित्यमरकोशादिबलादाने रूढौ तु प्रद्वेषयुक्तमाभिचारिकाधगभूतमेव तदिह ग्राह्यम् । उणादीनामव्युत्पत्तिपक्षाश्रयणादन्तोदात्तता। वहिवस्यर्तिभ्यश्चिदिति चिद्रहणानुवृत्तेरिति तु तत्त्वम् । एतेन मानो गर्व इति व्याचक्षाणा अपि प्रत्युक्ताः । पदद्वयत्वस्याध्यापकसम्प्रदायसिद्धन्त्वात् वाक्यशेषानुगुण्याच्च । तस्मादाध्यै ब्रा. ह्मण्य इति भाष्योदाहरणं चिन्त्यमिति स्थितम् । प्राक्सुबुत्पत्ते. यंत्र समासस्तत्रैव गतिकारकपूर्वस्येष्यत इति यण प्रवर्ततइति वदतां श्रीपतिदत्तादीनामपि मते कैयटोक्तं चिन्त्यं दृढमेव । वस्तुतस्तु आध्यानमाधीरिति व्युत्पाद्य गुणगुणिनोरभेदविवक्षयैव प्रयोगोयमिति चिन्त्योद्धारो ऽवधेयः । हरदत्तस्त्वाह । नित्यस्त्रीत्वं नाम न लिङ्गान्तरानभिधायकत्वं किन्तु शब्दान्तरसमभिष्याहारं विनैव स्त्रियां वर्तमानत्वं तत् । वृत्तिस्वरसाप्येवम् । कथम्तार्ह ग्रामण्ये खलप्वइत्यादि प्रत्युदाहियतइति चेत् । श्रृणु ।
Page #509
--------------------------------------------------------------------------
________________
४ पा. २ आ. शब्दकौस्तुभः । ५०९ क्रियाशब्दत्वेप्यनयोः पुंसि मुख्या वृत्तिः । पुंसामेव त्वयमौत्सर्गिको धर्मः यद्रामनयनं खलपवनं वा आध्यानं तु स्त्रीपुंससाधारणमेवेति वैषम्यं तस्माद्युक्तमेवेदं भाष्यमिति । अत्र वात्तिकम् । प्रथमलिङ्गग्रहणञ्च । प्रयोजनं क्विब्लुक्समासाः । अस्यार्थः। यः पूर्व स्व्याख्यः पश्चादुपसर्जनतया लिङ्गान्तरविशिष्टं द्रव्यान्तरमाह तस्य नदीसंज्ञा वक्तव्या। विपि कुमारीमिच्छति कुमारीयति ततः क्विप् अल्लोपयलोपौ क्वौ लुप्तस्य स्थानिकत्वनिषेधान यण् । यद्वा कुमारयतीति कुमारी आचारक्विवन्तास्कर्तरि क्विप् । कुमारी ब्राह्मणः। ङयन्तत्वात्सलोपः । तस्मै कुमाय ब्राह्मणाय । स्यादेतत् । इह क्यच्चिपोः प्रकृतिभूतस्य ङीवन्तस्यापि नित्यस्त्रीत्वं दुर्लभं पुंलिङ्गात्स्यक्विपोः निवृत्तेन त्रि लिङ्गेन समानाकारत्वादिति चेन्न । अर्थभेदेन शब्दभेदाश्रयणात् । तत्र प्रथमोदाहृतस्येत्थं रूपाणि कुमारीमिच्छन् कुमारीवाचरम् वा ब्राह्मणः कुमारी ङयन्तत्वात्सुलोपः। कुमार्यो । कुमायः।न चेह अचिश्नुधात्वितीयमसङ्गः।एरनेकाच इति यणा बाधितत्त्वात् । अत एव अमि शसि च कुमार्य कुमार्यः प्रध्यं प्रध्य इतिवत् । न च गतिकारकपूर्वस्यैवति निषेधः शङ्कयः । तदित. रपूर्वस्य नेत्यर्थात् विशिष्टाभावस्यापूर्वेपि सत्वात् । यि कु. मा कुमार्याः कुमारीणां कुमार्या ब्रह्मणे । हे कुमारि ब्राह्मणेत्यादि । पत्न्यादेस्तु संयोगपूर्वकत्वादियङ् । पत्नियो पत्निय इत्यादि । शेषं प्राग्वत् । पुंलिङ्गात्क्यच्क्यङोर्निष्पन्नस्य तु अङयन्तत्वात्सुलोपो न । कुमारीः । हे कुमारीः । अनदीत्वाद्धूस्वो न । कुमार्य कुमार्याः कुमार्या ब्राह्मणानां कुमार्य ब्राह्मणे इत्यादि । कुमारमात्मनमिच्छन्ती ब्राह्मणी कुमारीरित्यत्रापि कैयटमते नित्यस्त्रीत्वाभावात्पुंवदेव रूपम् । हरदत्तमते तुलक्ष्मीवत् ।
Page #510
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । अमि असि च यविशेषः । प्रकृतमनुसरामः । लुम्मनुष्यइति लुम् । खरकुत्र्यै ब्राह्मणाय । यद्यप्यत्र युक्तवद्रावात्स्त्रीत्वमस्ति तथापि स्वाश्रयस्य पुंस्त्वस्यापि सत्वान्नित्यस्त्रीत्वं नास्तीति कैयटहरदत्तादयः । तच्चिन्त्यम् । चश्चाः पश्येत्यादौ शसो नत्वापत्तेः । तस्माल्लुबन्तैः खरकुटीचश्चादिशब्दैः शास्त्रीय स्त्रीत्वविशिष्ठ एव लौकिक पुमानभिधीयतइत्येव तत्त्वम् । एवञ्च लुपः प्रयोजितत्त्वेन कथं गणनेत्यपि चिन्त्यम् । समासे अतिलक्ष्मीः बहुश्रेयसी । इयसथेति कनिषेधः।ईयसो बहुब्रीहनेत्युपसजनस्वो न । उभयत्रापि सम्बुद्धों इस्वः डिम्त्सु आडागमादि. कञ्च नदीसंज्ञाकार्य बोध्यम् ॥ अवयवस्त्रीविषयत्वात्सिद्धम् ।। समासे तावदवयवो लक्ष्यादिशब्दः स्त्रियामेव वर्त्ततइति तदानीमेव संज्ञाः । ततश्च वर्णसंज्ञापले समुदायस्य नद्यन्तत्वाकायसिद्धिः । तदन्तस्य संज्ञति पक्षे तु अङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वचनात् । वस्तुतस्तूक्तवचनस्य मागेव दूषितवात्तदन्तत्वेनैव सिद्धिोध्या । अतितन्त्रीबन्धुरित्यत्रापि नदीबन्धुनीति पूर्वपदान्तोदात्तत्वं सिध्यति । पूर्वपदस्य नद्या विशेषणात् । किब्लुपोरपि अन्तरङ्गत्वात्किबादेः मागेव प्रवृत्ता संज्ञा बहिरङ्गेण लिङ्गान्तरयोगेण न निवर्तते त्वकपितृकेऽकज्वत् । अकृतव्यूहा इत्यस्यानित्यताया अचः परस्मिन्निति सूत्रे वर्णितत्वात् । स्यादेतत् । इयङवङ्स्थानप्रतिषेधे यणस्थानप्रतिषेपमसङ्गोवयवस्येयडुवङ्स्थानत्वात् । यथा ह्यवयवस्य स्त्रीविषयत्वात्समुदायस्य नदीसंज्ञेत्युक्तम् । तथावयवस्येयङवस्थानत्वात्समुदायस्य यणस्थानस्यापि प्रतिषेधः स्यात् । यथा स्त्रियै आध्यै प्रध्यै । अत्राहुः । इडुवङ्भ्यामङ्गमाक्षिप्यते । अङ्गाधिकारे तयोर्विधानात् । तेन यस्याङ्गस्येयडुवको
Page #511
--------------------------------------------------------------------------
________________
४ पा. २ आ. शब्दकौस्तुभः । निवर्तेते तस्य नदीसंज्ञानिषेधः । आध्यै इत्यत्र तु अवयवस्या
त्वं नास्ति अङ्गस्य तु एरनेकाच इति यविधानादियडुवङः स्थानता नास्तीति निषेधाभावः । एतदर्थमेव च तत्र स्थाजग्रहणम, इयवङोर्यदा स्थितिस्तदा प्रतिषेधो यथा स्यात् यदा त्वपवादेन बाधस्तदा मा भूदिति । एवं डिति हूस्वश्चेत्यत्राप्यङ्गस्याक्षेपात्सोपि विधिरङ्गस्यैव स्त्रीत्वे भवति नावयवस्य । शकव्यै । अतिशकटये ब्राह्मणाय । श्रियै अतिश्रिये ब्राह्मणाय । इह तु स्या-. देव । अतिश्रिये अतिश्रियै वा ब्राह्मण्य इति स्थित भाष्ये । न चेह नित्यस्त्रीत्वं नास्तीति वाच्यम् । हरदत्तमते तत्सत्वात् । कैयटमते तु डितिस्वश्चेत्यत्र स्त्रीमहणमात्रमनुवर्तते न त्वाख्याग्रहणम् । एवञ्च सुधीशब्दपि रूपद्वयं निर्विवादम् । सुध्यादयः पुंवदिति प्रक्रिया तु प्रामादिक्येव । अतिलक्ष्म्यतिचम्बोर्वातप्रमीहूहूभ्यां साम्योक्तिरप्येवम् । तथा स्वयंभूः पुंवदित्यपि प्रमाद एव । स्यादेतत् । निष्कौशाम्बिः पुमानित्यत्रापि अन्तरगतया नदीसंज्ञा स्यादतिलक्ष्म्यादौ यथा । सत्यम् । सत्यामपि तस्यां न कश्चिद्रूपे दोषः । न च सम्बुद्धिहस्वादिप्रसङ्गः । हूस्वादशेन नद्या अपहारात् । वर्णस्य नदीत्वात् । स्वयाख्यत्वं तु तस्य शतयाश्रयतामात्रण बोध्यम् । पर्याप्तयधिकरणताया अविवक्षितत्त्वात् । तदन्तस्य नदीसंज्ञति पक्षेपि एकदेशविकारानभ्युपगमेन सर्वादेशस्यैव वक्तव्यत्वात् । न च स्थानिवद्भावः । अ. विधित्वात् । प्रपश्येत्यत्रेडभावार्थ विशेषणतयाप्यलाश्रयणे निषेधस्य सिद्धान्तितत्त्वादिति दिक् । निष्कौशाम्ब्य निष्कौशाम्बये ब्राह्मण्य इत्यत्र तु डितिहस्वश्चति विकल्पो भवत्येवेति दिक् ॥
नेयङवङ्स्थानावस्त्री ॥ इयडुबङोः स्थितिः स्थानं निरपवादा प्रसक्तिर्यत्र तावीदूतौ नदीसंज्ञौ स्तः स्त्रीशब्दं विना। हे श्रीः।
Page #512
--------------------------------------------------------------------------
________________
५१२
शब्दकौस्तुभः । [१ अ० हेभूः । अस्त्रीति किम् । हेस्त्रि । कथं तर्हि विमानना मुझ कुतः पितुहे इति कालिदासः। हापितः क्वासि हे मुझ इति भट्टिश्च । एकवंशमभवभ्रुव इति श्रीहर्षश्च । प्रमाद एवायमिति इरदत्तः । सामान्ये नपुंसकमिति वा कथं चित्समाधेयम् । के चिन्तु तदो दावचनेन सकृद्वंद्वमनित्यमिति परिभाषाज्ञापनमाश्रित्यानि त्योयं प्रतिषेध इति समादधुः । किन्त्वेतत्सकलप्रमादेषु मुवच.म् । तदोदावचनपत्याख्यानपरभाष्यादिविरुद्धञ्च । अन्ये तु वामीत्यतो वाग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तस्य व्यवस्थितविभाषापरत्वेनेष्टसिद्धिमाहुः । तदपि न । सिंहावलोकितन्यायस्येहाभिमतत्त्वे नग्रहणस्य वामीत्युत्तरसूत्रस्य च वैयर्थ्यापत्तेः । यतूक्तं दुर्घटवृत्तौ शब्दादप्राणिजातेश्चेत्यूङि समासे उपसर्जनहूस्वत्वे च कृते उडत इत्यूङि तस्य समुदायभक्तत्वानोवङ्स्थानत्वमिति । तदतिस्थवीयः । प्रत्ययस्य भक्तताया निष्पमाणकत्वात् । तत्स्थानिकस्यैकादेशस्यान्तवद्भावेन भरूशब्दावयवताया अनपायात् । अङ्गाधिकारे तदुत्तरपदग्रहणस्य निर्विवादतया समुदायभक्तेप्युवङ्मवृत्तेश्च । सुरुवावित्यादिरूपाणां सर्वसम्मतत्त्वाच्चेति दिक् ॥ .
वामि ॥ इयडुवङ्स्थानौ वा नदीसंज्ञा स्तः स्त्रियामामि । श्रीणाम् । श्रियाम् । भ्रूणाम् । भरुवाम् । द्वितीयैकवचनं तु नेह सूत्रे गृह्यते । तत्र नदीकार्याभावात् । अत्रीत्येव । स्त्रीणाम् । इह वाचि ह्रस्वश्चेत्येव कुतो न कृतम् । एवं हि डिन्तीति न कर्तव्यमिति चिन्त्यम् । वस्तुतस्तु सन्निपातपरिभाषया भ्रूणामिति नुट् न स्यादत आमीत्युक्तम् । परिभाषा चेयमनेनैव ज्ञाप्यतइति ध्येयम् ।।
ङिति हूस्वश्च ॥ इयङचङ्स्थानौ ह्रस्वौ च यू वा नदी
Page #513
--------------------------------------------------------------------------
________________
४ पा. २ आ. शब्दकौस्तुभः । ५१३ संज्ञौ स्तः स्त्रियां डिति परे । श्रियै, श्रिये, सबै, रुवे, कृत्यै, कृतये, धेन्वै, धेनवे । अस्त्रीत्येव । स्त्रियै । स्त्रीलिङ्गाविति किम् । अग्नये । वायवे । इह प्रथमलिङ्गग्रहणं नास्ति । तेन निकौशाम्बिर्हरिवदित्युक्तम् । स्त्रियमतिक्रान्तो ऽतिस्त्रिरित्यत्र तु विशेषः । अतिस्त्रियौ अतिस्त्रिया इतीयङ् । अयं हि गौणत्वपि भवति । किन्तु, गुणनामावौत्वनुभिः परत्वात्पुंसि बाध्यते । क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥ जसिचेति गुणः। अतिस्त्रयः। वाम्शसो अतिस्त्रियम् अतिस्त्रीम्।अतिस्त्रियों अतिस्त्रियः अतिस्त्रीन् । आङो नास्त्रियाम् । अतिस्त्रिणा। अतिस्त्रिभ्याम् । घेर्डितीति गुणः । अतिस्त्रये अतिखेः अतिस्त्रियोः । इस्वनद्याप इति नुट् । अतिस्त्रीणाम् । अच्च घेः। अतित्रौ । सङ्ग्रहश्च, औकारे ओसि नित्यं स्यादम्शसोस्तु विभाषया । इयादेशो ऽचि नान्यत्र स्त्रियाः स्यादुपसर्जने ॥ एवं क्लीबे नुमा इयङ् बाध्यते । तेनातिस्त्रि अतित्रिणी इत्यादि वारिवत्। स्त्रियान्तु डिति ह्रस्वश्चेतिहस्वान्तत्वप्रयुक्तो नदीसंज्ञाविकल्पः । अस्वीति तु इयङबङ्स्थानावित्यस्यैव विशेषणम् । तत्सम्बद्धस्यैवानुवृत्तेः । न चेहावृत्त्योभयविशेषणता । प्रमाणाभावात् । तेनातिस्त्रियै अतिस्त्रिये । औदिति बाधित्वा इदुद्भ्यामिति डे. राम्, अतिस्त्रियाम् । पक्षे अच्चघेः अतिस्त्रौ ॥
शेषो ध्यसखि ॥ इस्वौ यो यू तदन्तं सखिभिभमनदीसंझं घिसंझं स्यात् । हरये भानवे । इस्त्रौ किम् । ग्रामण्ये खलप्वे । यू किम् । मात्रे । असखिकिम् । सख्ये । शेषः किम् । मत्यै । शेषग्रहणं व्यर्थमिति नदीसंज्ञासूत्रएवोक्तम् । समासे तु सुसखेरागच्छतीत्यादौ घिसंज्ञा भवत्येव । समुदायस्य सखिशब्दाद्भिनत्वात् । तदन्तग्रहणं तु नास्ति । विशेष्यसम्बन्धाभावात् ।
६५
Page #514
--------------------------------------------------------------------------
________________
५१४
शब्द कौस्तुभः ।
[ १ अ०
यत्तु ग्रहणवतेत्यादि हरदत्तेनोपन्यस्तं ख्यत्यात्सूत्रे च कैयटेन । तत्पूर्वापरविरुद्धमिति येनविधिारीत सूत्रे व्युत्पादितम् । न चैवं यस्येतिचेति सूत्रे इवर्णस्य इति सखीत्युदाहरणं न युज्यते । सखिशब्दात्सख्यशिश्वीतिभाषायामिति ङीषि सति लोपे सवर्णदीर्घे वा विशेषाभावात् । यन्तु तत्र भाष्ये वृत्तौ चोक्तम्, असति लोपे ऽतिसखेरागच्छतीत्यत्र सवर्णदीर्घस्य पूर्व प्रत्यन्तवद्भावादसखीति घिसंज्ञाप्रतिषेधः स्यादिति, तदसखीति प्रस ज्यप्रतिषेधमाश्रित्येति कैयटादौ स्पष्टम् । अत एवापाततः पर्युदासस्यैवेह स्थितत्वात् । अन्यथा वाक्यभेदाद समर्थ समासात् सुसखेरित्याद्यसिद्धयापत्तेश्च । तस्मादीति लोपे फलं दुर्लभमिति चेत्, अत्रोच्यते । सखी सख्यौ सख्य इत्यादावनणित्वे मा भूतामिति इलोप एषितव्यः । न च सिद्धान्तेपि प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणाद्दोषतादवस्थ्यम् । विभक्तौ लिङ्गविशिष्टाग्रहणात् । एतेन इकारलोपस्य तद्धितएवोदाहरणं न त्वीति परत इति वदन् हरदत्तोपास्तः ॥
पतिः समासएव । पतिशब्दः समासएव घिसंज्ञः स्यात् । भूपतये । नेद, पत्या पत्ये । विपरीतनियमं वारयितुमेवकारः. हढमुष्टिना । स्यादेतत् । शेषोघ्यसखिपती इत्येवास्तु समस्तस्य तु पूर्वोक्तरीत्या सिद्धम् । न चोत्तरसूत्रे सख्युरपि सम्बन्धापत्तिः । बाधकाभावात् । इष्टरूपस्य तावतापि सिद्धेः । द्वितीयस्य तु साधोरपि छन्दस्यपठितस्यानापाद्यत्वात् । न चैवमुत्तरसूत्रे षष्ठीयुक्तग्रहो व्यर्थः स्यादिति वाच्यम् । इष्टापत्तेः । एवमेव हि श्रीग्रामण्यो च्छन्दसीति श्रीग्रहणं नित्यं मन्त्रइत्यादीनि च प्रत्याख्यातानि । सम्बुद्धौ शाकल्यस्येत्यत्रानार्थग्रहणमध्ये - वम् । सत्यम् । यथा सखिगृहे गृहसखायावित्यत्र पूर्वनिपातानि -
1
Page #515
--------------------------------------------------------------------------
________________
४ पा. २ आ. शब्दकौस्तुभः । यमस्तथा पतिगृहे इत्यत्र मा भूत् । इह हि घित्वात्पूर्वनिपात एव । बहुपूर्वस्य तु सुसखिन्यायेन घित्वाहहुपतिनेत्यादि बोध्यम् । अथ कथं सखिना वानरेन्द्रेण, पतिना नीयमानायाः पुरः शुक्रो न दुष्यति, न मृते प्रव्रजिते कीबे च पतिते पतावित्यादि । अत्र हरदत्तः, छन्दोवदृषयः कुर्वन्तीति । अस्याय. माशयः। असाधव एवैते त्रिशङ्काद्ययाज्ययाजनादिवत्तपोमाहात्म्यशालिनां मुनीनामसाधुप्रयोगोपि नातीव बाधते अस्मदादीप्रति तु स्मृतिपुराणाद्यध्ययनविधिवलादेव तदन्तर्गततत्पाठो न बाधकः । तथा च स्वातन्त्र्येणेदृशं प्रयुञ्जाना अस्मदादयः प्र. त्यवयन्त्येवोति नदीसंज्ञामूत्रे भाष्यकैयटयोरपि स्थितमिदम् । यद्वा सखेत्याख्यातः सखिः पतिरित्याख्यातः पतिः तेन सखिना पतिना आख्यातण्यन्ताकर्मणि अच इरित्यौणादिक इ. प्रत्ययः । लाक्षणिकत्वाच्चैतयोर्घिसंज्ञापर्युदासे ग्रहणं नास्तीति दिक् । एतेनार्जुनस्य सखा कृष्णः कृष्णस्य सखिरर्जुन इत्यपि व्याख्यातम् । कथं वचो वाचस्पतेरपीति माघः । न ह्ययं समासः । अलुग्विधायकादर्शनादिति, सत्यम् । तत्पुरुषेकृतीति बहुलग्रहणादलुक् । एतेन दिवस्पतिवास्तोष्पती व्याख्यातौ । षष्ठयाः पतीत्यादिना सत्वम् । ये तु तत्र छन्दसीत्यनुवर्तयन्ति श्रियापतिरित्यादिसिद्धये, तन्मते पारस्करादित्वात्सुट् । के चितु द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छचेति सामान्यापेक्षज्ञापकात् षष्ठया अलुक् । कस्कादित्वात्सत्वम् । इणः परस्य तु षत्वमित्याहुः । पदकारास्तु वाचस्पतिं विश्वकर्माणम्, वास्तोष्पते प्रतीत्यादौ पृथक् पदमधीयते ।।
षष्ठीयुक्तश्छन्दसि वा. ॥ षष्ठयन्तेन युक्तः पतिशब्दश्छ
Page #516
--------------------------------------------------------------------------
________________
५१६
शब्दकौस्तुभः । [१ अ. न्दास घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् । इह योगो विभज्यते। षष्ठीयुक्तश्छन्दसीति । ततो, वा । छन्दसीत्येव । सर्वे विधयश्छन्दसि विकल्प्यन्ते इत्यर्थः । बहु लम्छन्दसीत्या. दिकस्त्वस्यैव प्रपञ्चः ॥ .. इस्वं लघु ॥ ह्रस्वं लघुसंज्ञं स्यात् । लघूपधगुणः, चेतति । न च इस्वप्रदेशेष्वपि लघुसंज्ञयैव व्यवहारः सुकरः । सर्पिष्ट्वमित्यादौ इस्वात्तादौ तद्धित इति षत्वासिद्धिप्रसङ्गात् गुरुसंज्ञया तत्र लघुसंज्ञाया बाधात् तस्मादेकसंज्ञाधिकाराईिस्वसंज्ञाप्रणयनं सम्यगेव कृतम् । यद्येवन्तर्हि दीर्घप्लुतसंज्ञायाः समावेशमाशकथ एकसंज्ञाधिकारेयं योगः करिष्यतइति भाष्यं विरुध्यते गुरुसं. शाया लघुसंज्ञाया इव गुरुलघुसंज्ञाभ्यां दूस्वसंज्ञाया बाधप्रसङ्गात् । न च निरवकाशता । लघुसंज्ञाप्रवृत्त्युपायतामात्रेण सार्थक्यात, यथा पदं सद्भ भवतीति व्याख्यायां पदसंज्ञायाः । सत्यम् । चकारादिना समावेश कर्तव्य इत्याशयः । एतदपरितोषादेव वा तत्र पक्षान्तराण्युक्तानीति दिक् ॥
संयोगे गुरु ॥ हूस्वं गुरुसंज्ञं स्यात्संयोगे परे । शिक्षा भिक्षा । गुरोश्व हल इत्यकारप्रत्ययः ॥
दीर्घश्च ॥ दीर्घ गुरुसंज्ञं स्यात् । ईहाश्चक्रे ॥
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययङ्गम् ॥ प्रत्ययो यस्माद्विहितस्तदादि शब्दः प्रत्यये परे ऽङ्गसंज्ञं स्यात् । रामेण । विधिरिति किम् । स्त्री ईयती । न चेह वतुपः स्त्रीशब्दादविधानेपि स विधिरस्त्येवेति वाच्यम् । सन्निधानबलेन यस्माद्यः प्रत्ययो विहितस्तस्मिन्त्सोङ्गमिति व्याख्यानात् । तदादि किम् । वदामि वदिष्यामि । अतोदी?यनीति दीर्घः । न चायमारम्भसामर्थ्यादेव भविष्यतीति वाच्यम् । यय गतौ चय गतौ
Page #517
--------------------------------------------------------------------------
________________
४ पा. २ आ.
शब्दकौस्तुभः ।
५१७
आभ्यां यङ्लुकि यायामि यायात्रः यायामः चाचामि चाचावः चाचाम इत्यादौ चरितार्थत्वात् । प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोप्यधिकस्य वा मा भूत् । एवं हि वनश्चेत्युरदत्वस्य परनिमित्तत्वं न लभ्येत । तथा च अचः परस्मिन्निति स्थानिवत्वाभावाद्वकारस्य सम्प्रसारणप्रसङ्गः । न च प्रथमसूत्रेण स्थानिवद्भावः । अल्विधित्वात् । अत एव हि सत्यपि प्रथमलिङ्ग ग्रहणे निष्कौशाम्ब्यादौ नदीकार्य नेत्युक्तम् । इह प्रकृत्यादिमत्ययेङ्गमित्येव लाघवाद्वक्तुं युक्तम् । प्रकृतिमात्रस्य तु व्यपदेशि - वद्भावात्सिद्धम् । योगविभागेन परिभाषार्थलाभार्थं तथोक्तमिति तत्त्वम् । कर्ता कारकः । इह योगो विभज्यते । यस्मात्प्रत्य1 यविधिस्तदादिप्रत्यये इति परिभाषेयम् । प्रत्यये गृह्यमाणे यस्मातस्य विधिस्तदादि गृह्यतइत्यर्थः । तेन नित्यादिरित्यादौ यत्र प्रत्ययः सप्तम्या निर्द्दिश्यते तत्र तदादेर्ग्रहणम् । तेन देवदत्तो गार्ग्य इति सङ्घातस्य बित्स्वरो न भवति । सुप आत्मनः क्यजित्यत्राप्यनेन तदादिनियमः तत्र सुपा कर्मणस्तदादेर्वा वि शेषणात्तदन्तविधिः । तेन महान्तं पुत्रमित्यादावतिप्रसङ्गो न । सति हि वाक्यात्क्याचे महत्पुत्री यतीति स्यात्, तथा देवदत्तश्चिकीर्षतीति सङ्घातस्य धातुसंज्ञा न देवदत्तो गार्ग्य इति सङ्घातस्य प्रातिपदिकसंज्ञा न देवदत्तो गार्ग्यायण इति सङ्घातात्फङ् नेति दिक् । अस्यापवादः कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति । इह च गतिरनन्तर इत्यनन्तरग्रहणं ज्ञापकम् । तद्धि अभ्युद्धृतशब्दे उच्छन्दव्यवहितस्याभिशब्दस्य प्रकृतिस्वरनिवृत्त्यर्थम् । न च परत्वाद्गतिर्गताविति निघाते कृते उदात्तग्रहणानुवृच्या विधीयमानः पूर्वपदप्रकृतिस्वरो न भविष्यतीति वाच्यम् । अपादादावित्यधिकारात्पादादौ निघातामवृत्तेः । तदा
Page #518
--------------------------------------------------------------------------
________________
५१८
शब्दकौस्तुभः । [१ अ. दिनियमे तु हृतशब्दस्य क्तान्तत्वेप्युद्धृतशब्दस्याक्तान्तत्वाप्राप्तिरेव नेति किमनन्तरग्रहणेन । प्रयोजनन्तु समासतद्धित. स्वराः । तथाहि । अवतप्तेनकुलस्थितमित्यत्र क्तेनेत्यनुवर्तमाने क्षेपे इति समासः । तत्पुरुषेकृतीत्यलुक् । सांकूटिनमित्यत्र अ. णिनुण इति सोपसर्गादण् । अत एव वादिवृद्धिरुपसर्गाशे पर्यवस्यति । व्यावक्रोशीत्यत्र कर्मव्यतिहारे णचस्त्रियामिति णच् ततो णचः स्त्रियामित्यञ् । न कर्मव्यतिहारे इत्यैजागमनिषेधः । दूरादागत इत्यत्र थाथादिस्वरेणान्तोदात्तत्वम् । ननु परिभाषां विनापि समासस्येत्यन्तोदात्तो भविष्यतीति चेत् । मैवम् । आगम्यते स्मेति हि कर्मणि क्तः । तथा च समासस्वरं बाधित्वा गतिरनन्तर इति मध्योदात्तं स्यात् । सत्यान्तु परिभाषायां थाथअित्यनेन कृत्स्वरापवादगतिस्वरं बाधित्वा परत्वादन्तोदात्तत्वं भवति । ननु थाथादिस्वरस्याप्यपवादो ग. तिस्वरः । सत्यम् । गतेरुत्तरस्य क्तान्तस्य यदन्तोदात्तत्वं तस्यैवासावपवादः । कारकादुत्तरस्य तु थाथादिस्वर एव भवतीति वक्ष्यते । नन्वस्तु गतिस्वरेणाद्युदात्त आगतशब्दः ततो दूरशब्दस्य स्तोकान्तिकति समासः । पञ्चम्याः स्तोकादिभ्य इत्यलुक् । ततः सतिशिष्टत्वात्समासान्तोदात्त एक भविष्यति । सत्यम् । अन्यार्थ कृतया परिभाषया कृदुत्तरपदप्रकृतिस्वरेणाद्युदात्ते आगतशब्दे प्राप्ते सगतेरपि क्तान्तत्वास्थानान्तरमाप्तत्वाद्गतिस्वरस्य बाधकस्यापि बाधेन थाथादिस्वरो भवतीत्येवाभिप्रेतं न तु स्वर एवानन्यथासिद्धं परिभाषोदाहरणं तथा च परिभाषा प्रातिपदिकसंज्ञायां न प्रवर्तते । मध्येपबादन्यायेन कृद्ग्रहणस्याप्रत्यय इति निषेधमात्रबाधकत्वात् । समासेतरपदसंज्ञकपूर्वभागघटितः सङ्घातो न प्रातिपदिकमिति
Page #519
--------------------------------------------------------------------------
________________
४ पा. २ आ. शब्दकौस्तुभः ।
५१९ निषेधस्तु परत्वाबाधक एव । तेन मूलकेनोपदंशमित्यत्र न सुपो लुक् । न च समासविकल्पसामर्थ्यम् । न समासइति शाकलानिषेधाप्रवृत्त्या दध्युपदंशादौ तत्सार्थक्यसम्भवात् । एतच्च पुंयोगादाख्यायामिति सूत्रे भाष्यकैयटयोः स्पष्टमिति दिक् । प्यङः सम्प्रसारणमिति सूत्रे भाष्ये तदादिनियमस्यापवादान्तरं पठितम् । स्त्रीप्रत्यये चानुपसर्जने तदादिनियमो नेति । एतच्च वाचानकमेवेति सर्वादिसूत्रे व्याख्यातम् । यद्वा इह नेयडुब
स्थानावित्यतो ऽस्त्रीत्यनुवर्त्तते । तच्च यद्यपि तत्र स्वरूपपदार्थकन्तथापीहार्थपरं सम्पद्यते । प्रत्ययग्रहणे तदादि ग्राह्यं, स्त्री चेन्नाभिधीयतइत्यर्थः। तेन स्त्रीप्रत्यये तदादिनियमो नास्तीति फलितम् । न चैवमतिकारीषगन्ध्या पुत्र इत्यत्र सम्प्रसारणप्रसङ्गः । अस्त्रीत्यनेन प्रधाननियामेव प्रतिषेधात् । गौणमुख्ययोरिति न्यायात् । तेन यावान् शब्दः स्त्रियं प्राधान्येनाह तावान् स्त्रीप्रत्ययान्तः न तु ततोधिकोपीति स्थितम् ॥
सुप्तिङन्तं पदम् ॥ सुबन्तं तिङन्तञ्च पदसंज्ञं स्यात् । ब्राह्मणा ऊचुः । अन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति ज्ञापनार्थ, गौरब्राह्मणितरा । घसंज्ञाया. न्तरबन्तग्रहणे हि सति गौरीशब्दस्य पुंवत्कर्मधारयोत पुंवद्भावं बाधित्वा पुंवद्भावाद्-हस्वत्वं खिद्घादिकष्विति-हस्वः स्यात् पवितरेतिवत् । ब्राह्मणीशब्दस्य हस्वो न स्यात्। कथं तार्ह प्रातिपदिकसंज्ञायां कृत्तद्धितशब्दाभ्यां तदन्तग्रहणमिति चेत् ,अत्र भाष्यकाराः।अर्थवद्ग्रहणं तत्रानुवर्तते तत्सामर्थ्यात्तदन्तग्रहणमिति । स्यादेतत् । यद्यर्थवत्ता पारमार्थिकी विवक्ष्यते तर्हि सा पदस्य वाक्यस्य वास्ति न तु कृत्तद्धितान्तस्य तथा चार्थवत्सूत्रे वार्तिकम्, अर्थवता नोपपद्यते केवलेनावचनादिति । अथ
Page #520
--------------------------------------------------------------------------
________________
५२०
शब्दकौस्तुभः ।
[ १ अ०
सिद्धं त्वन्वयव्यतिरेकाभ्यामिति । तत्रत्योत्तरवार्तिकानुरोधेन प्रक्रियादशायां कल्पिता सा विवक्ष्यते, तर्हि कृत्तद्वितयोरपि सास्तीति चेत् । सत्यम् । अत एवार्थवद्ग्रहणसामर्थ्यमुक्तम् । प्रत्ययान्तेन त्वेकार्थीभूतेन प्रतीयमानोर्थ इह गृह्यते तस्य aौकिकार्थे प्रति प्रत्यासन्नतरत्वात् । मतुपः प्राशस्त्यपरतया तस्यैव ग्रहणात् । अत एव च तदुपादानं सार्थकम् । पूर्वसूत्रे धातुरिति पर्युदासबलेनापि तल्लाभसम्भवात् ॥
नः क्ये ।। क्यचि क्या क्यषि च नान्तमेव पदसंज्ञं स्यात् । क्यच् । राजीयति । क्यङ् । राजायते । क्यप् । चर्मायति । चर्मायते । सामान्यग्रहणार्थे क्यषः ककार इति वदतो वृत्तिकारस्य मतेनेदमुदाहृतम् । भाष्ये तु क्यषः ककारस्य प्रत्याख्यानात्क्यचक्यङोरेवेह ग्रहणम् । चर्मायतीति रूपं चासाधु । क्यङन्ततया नित्यमात्मनेपदाभ्युपगमात् । तथाच वक्ष्यते, कोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीति । एतच्च तृतीयएव स्फुटीकरिष्यामः । नान्तमेवेति किम् । वाच्यति । स्रुच्यति । तपस्यति । ननु क्य एव नान्तमिति विपरीतो नियमः कुतो नेति चेन्न । ङिसम्बुद्धघोरिति ज्ञापकात् नलोपः प्रातिपदि - कान्तस्येति ज्ञापकाच्च । अन्यथा हि नलोपः क्ये इत्येव सूत्रयेत् ॥
सिति च ॥ सिति प्रत्यये परे पूर्व पदसंज्ञं स्यात् । भसंज्ञापवादः । भवतष्टक्छसौ । भवदीयः । ऋतोरण् छन्दसिघस् ऋतुः प्राप्तोस्य ऋत्वियः ॥
स्वादिष्वसर्वनामस्थाने ॥ कप्रत्ययावधिषु स्वादिष्व सर्वनामस्थानेषु पूर्व पदसंज्ञं स्यात् । राजभ्यां राजभिः । राजत्वं राजता । सर्वनामस्थाने तु राजानौ । राजानः । भुवद्वभ्यो धारयद्व
Page #521
--------------------------------------------------------------------------
________________
२४ पा. २ आ.
शब्दकौस्तुभः ।
५२१
व इति पदसंज्ञाया उपसङ्ख्यानम् । तसौमत्वर्थे इति भसंज्ञाया अपवादः व्यत्ययेन भवतेः शपो लुक् ॥
यचि भम् ॥ यकारादिष्वजादिषु च स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् । गार्ग्यः । राज्ञः । वाचिकषडियोस्तु यथा भत्वाभत्वे निर्वहतस्तथा पञ्चमे वक्ष्यते । नभोङ्गिरोमनुषां वत्युपसंङ्ख्यानम् । नभसा तुल्यं वर्तते इति नभस्वत् भत्वाद्रत्वाभावः । मनुष्वदग्ने । अङ्गिरस्वदङ्गिरः । जनेरुसीत्यत्र बहुलग्रहणानुवृत्तेर्मन्यतेरुपिप्रत्ययः आदेशप्रत्यययोरिति षत्वम् । वृषण्वस्वश्वयोः वृष वर्षुकं वसु यस्य सः वृषण्वसुः । एवं वृषणधः । कर्मधारये षष्ठीतपुरुषादिर्वा यथासम्भवं बोध्यः । इहान्तवर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्रसज्येत भत्वान्तु न पदत्वम् । अत एव पदान्तस्येति णत्वनिषेधो न । अल्लोपोन इति तु न भवति अङ्गसंज्ञाया अभावात् अङ्गस्येति तत्राधिकारात् । उपसं ङ्ख्यानान्येतानि छन्दोविषयाणीति कैयटः ||
तसौ मत्वर्थे ॥ तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थ प्रत्यये परे । विद्युत्वान् भत्वाज्जश्त्वं न । उदकेन श्वपतिर्वर्धते उदश्वितू हि उदश्वितोन्यतरस्यामिति निपातनात्सम्प्रसारणाभावः । उदकस्योदः संज्ञायाम् । उदश्वित्वान् घोषः । यशस्वी । मत्वर्थवृत्तित्वं मतुपो विनिप्रभृतीनां चाविशिष्टं, अत उभयत्र भत्वमवृत्तिः । यथा देवदत्तशालास्था आनीयन्तामित्युक्ते देवदतोप्यानीयते उद्देश्यतावच्छेदकरूपाक्रान्तत्वात् ।
अयस्मयादीनि छन्दसि । एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोगन्तदुभयद्वारैषां साधुत्वं विधीयते । तथा च वार्त्तिकम्, उभयसंज्ञान्यपीति वक्तव्यमिति । अयस्मयं
६६
Page #522
--------------------------------------------------------------------------
________________
५२२
शब्दकौस्तुभः। ... [१ अ० पात्रम् । भत्वादुत्वन्न । अयसो विकार इत्यर्थे घचश्छन्दसति मयट् । एतेन मयड्वैतयोर्भाषायामित्युक्तेः कथमिह मयडित्याशङ्क्यात एव निपातनादिति वदन् न्यासकृत्परास्तः । ससुष्टुभा सऋकता गणेन । इह ऋकतेति पदत्वात्कुत्वम् । भत्वाजश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वेन प्रतिबन्धात् ॥ . बहुषु बहुवचनम् ॥ बहुत्वे एतत्स्यात् । वृक्षाः । कथन्त.हि दारा इति । अवयवबहुत्वस्यावयविनि आरोपाद्भविष्यति । न चैवमेकस्मिन्नपि वृक्षे बहुवचनापत्तिः । तत्रारोपे प्रमाणाभावात् । दारादौ तु नित्यबहुवचनान्तत्वग्राहककोशादेवृद्धव्यवहारस्य च मानत्वेन वैषम्यात् ॥ . व्धेकयोर्द्विवचनैकवचने ॥ द्वित्वैकत्वयोरेते स्तः । वृक्षौ। वृक्षः । इह द्वयेकशब्दो सङ्ख्यापरौ। न तु सङ्ख्येयपरौ । अत एव द्वयकयाोरति द्विवचनम् । अन्यथा बहुवचनं स्यात् । पूर्वसूत्रेपि बहुष्विति सङ्ख्यापरमेव । बहुवचनन्तु आश्रयगतं बहुत्वं धर्मे आरोग्य कृतम् । तत्फलन्तु बहुः पर्वत इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव । वस्तुतो व्यर्थ तत् । परत्वादेकवचनसम्भवात् । यत्तु आदशतः सङ्ख्याः सङ्ख्येयइति, तत्मायोवादमात्रम् । अत्र श्लोकवार्तिकं, सुपाङ्कर्मादयोप्यर्थाः सङ्ख्या चैव तथा तिङाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकतेषु वा ॥ कणि द्वितीयेत्यादेः प्रकरणस्य बहुषुबहुवचनमित्यादेश्च स्वादिसूत्रेण सहैकवाक्यतया विधायकत्वम् । तथा बहुषुबहुवचनमित्यादिसूत्रयोस्तिबादिवाक्येनाप्येकवाक्यतेति पूर्वार्धस्यार्थः । तृतीयचरणेनार्थनियम उक्तः । चतुर्थेन तु प्रकृतार्थापेक्षः प्रत्ययनियम उक्तः एषां पक्षाणांबलाबलचिन्ता
Page #523
--------------------------------------------------------------------------
________________
४ पा. ३ आ. शब्दकौस्तुभः। ५२३ तु तद्धितश्चासर्वविभक्तिरिति सूत्रएवास्माभिः कृता । इह एकद्विबहुष्वेकवचन द्विवचनबहुवचनानीति कर्तुमुचितम् । बहुशब्दश्च सङ्ख्यावाच्येव ग्रहीष्यते द्विशब्दसाहचर्यात् । अत एव हि एकशब्दः सङ्ख्यावाच्येव गृह्यते । वस्तुतस्तु इदं सूत्रद्वयं मास्तु । एकवचनादिसंज्ञानामन्वर्थताश्रयणेन सकले. एसिद्धेः ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य चतुर्थे
पादे द्वितीयमान्हिकम् ॥ कारके ॥ अधिकारोयम् । व्यत्ययेन प्रथमार्थे सप्तमी । तथा च ध्रुवमित्यादौ प्रतिसूत्रं वाक्यं भित्वा कारकसंज्ञा वि. धीयते । तथाहि । अपाये ध्रुवं कारकसंज्ञं स्यात् । सत अपादानम् । उक्त कारकमपादानसंज्ञं स्यात् । पुनः कारकशब्दानुवृत्तिसामर्थ्याद्विशेषसंज्ञाभिः सह समावेशो न तु पर्यायः । अनुवृत्तिं विनापि प्रथमवाक्यमात्रात्तात्सद्धेः । तेन स्तम्बरम इत्यादौ अधिकरणत्वात्सप्तमी, कारकत्वाद्दतिकारकोपपदास्कृदिति प्रकृतिस्वरश्च सिद्धः । थाथादिस्वरस्तु न भवति । अपा साहचर्यादेरच एवं तत्र ग्रहणात् । न चोपपदत्वादेव कुदुत्तरपदप्रकृतिस्वरोस्त्विति वाच्यम् । स्तम्बकर्णयोरिति निर्देशा. त्पातिपदिकयोस्तथात्वोप सप्तमीविशिष्टयोरतथात्वात् । न हि सप्तमीविशिष्टं सप्तम्या निर्दिष्टम्, येनोपपदसंज्ञां लभेतति दिक् । अन्वर्था चेयं संज्ञा करोतीति कारकमिति । तेन क्रियानन्वयिनो न भवति । ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । इह हि ब्राह्मणः पुत्रविशेषणं न तु क्रियान्वयी । ननु पुत्रोपि कथं कारकम् । प्रश्नो हि जिज्ञासा । तत्र प्रष्टुः कारकत्वपि यं प्रति प्रश्नस्तस्य जनकत्वायोगादिति चेत् । सत्यम् । मा
Page #524
--------------------------------------------------------------------------
________________
५२४
शब्दकौस्तुभः । [१ अ० स्तु जनकता। क्रियान्वयमात्रमिह विवक्षितम् । तचास्त्येव । एतेन सम्पदानस्य कारकत्वं व्याख्यातम् । यद्वा । सम्पदा. नादेरपि प्रथमं बुद्धयारोहात्कारकता । एवं ज्ञायते करोतीत्या. दौ कर्तृकर्मणोरपि बोध्यम् । कार्याव्यवहितपूर्वक्षणवृत्तीनां कथं कारणति चेत् । यथा यागस्येत्यवोहि । तत्र व्यापारोस्तीति चेन्न । तावतापि यागस्य पूर्ववर्तितानुपपादनात् । अव्यवहितपूर्ववर्तिस्वस्वव्यापारान्यतरकत्वं कारणत्वमिति चेन्न। व्यापारत्वस्य कारणत्वगर्भतया आत्माश्रयापत्तेः । स्वव्यापारस्येव स्वज्ञानस्यापि प्रवेशसम्भवाच्च । अत एव झायमानं लिङ्ग पदञ्चानुमितिशब्दज्ञानयोः कारणमिति जरनैयायिकाः। शायमानाः पदार्थाः कारणमिति च मीमांसकाः । अत एव च रथन्तरसामादेरैन्द्रवाय्वाग्रत्वादौ निमित्ततेत्युद्घोषो मीमांसकानाम् । अथ वा उपसर्जनसंज्ञा यथा राज्ञः कुमार्या राजकुमार्या इत्यादौ यथा सम्भवमन्वर्थापि अर्धपिप्पलीत्यादौ वचनाद्भवति तथा कारकसंज्ञापि प्रतिसूत्रं विधीयमाना वचनात्सम्पदानादौ भवति । प्रदेशेषु तु संज्ञाप्रकारक एव बोधः। तत्तद्रूपप्रकारको वे. त्यन्यदेतत् । स्यादेतत् । वृक्षस्य पर्ण पततीत्यादौ पर्णविशेषणस्यापि वृक्षस्य कारकतापत्तिः । वृक्षात्पततीति प्रयोगानुरोधात् । तर्हि अस्मदीयशब्दप्रयोगवैलक्षण्यमात्रेण एकस्यैव जनकत्वाजनकत्वे व्यवतिष्ठेते इति चेत् । अत्रे सिद्धान्तरहस्यम् । कारकत्वं तद्वयाप्यकर्तृत्वादिषट्कञ्च वस्तुविशेषे ऽनवस्थितम् । विशेषणविशेष्यवत् तर्हि गौः सर्व प्रति गौरेव न तु कं चित्मत्यगौरितिवद्विशेषणं विशेषणमेवेति सुवचम् । तथा च कि कारक कः कर्ता किं कर्मेत्यादिप्रश्ने सर्वमित्युत्तरम् । वक्ष्यमाणकर्तृत्वकर्मत्वादेरचेतनेषु अनादिषु च निर्वाधत्वात् कया पचिधातुव्य
Page #525
--------------------------------------------------------------------------
________________
४ पा. आ.
शब्द कौस्तुभः ।
तया उपस्थापितेर्थे किं कर्त्रादिकमिति मने तु प्रकृतपचिव्यक्त्युपात्तव्यापाराश्रयः कर्ता । व्यापारव्यधिकरणफलाश्रयः कर्म । यद्व्यापारोत्तरभावित्वं क्रियाया विवक्ष्यते तत्करणम् । कर्तृकर्मणोराश्रयोधिकरणमित्यादि क्रमेणोत्तरम् । विक्लित्त्यनुकलव्यापारो हि पच्यर्थः । व्यापारश्चानेकधा । तत्र पचेर - विश्रयणतण्डुलाव पधापकर्षणापकर्षण फूत्कारादितात्पर्यकत्वे त दाश्रयो देवदत्तः कर्ता । ज्वलमतात्पर्यकत्वे त्वेधाः कर्तारः ।
I
1
धारणादिपरत्वे स्थाली कर्त्री । अवयवविभागादिपरत्वे तण्डुलाः कर्त्तारः । अत एव कर्मकर्ता करणकर्तेत्यादिव्यवहारः । एवं स्थाल्या पतीत्यत्र तृतीयोपात्तव्यापाराश्रयोपि स्थालीकरणमेव न तु तदा । देवदत्तादिव्यापारस्यैव तत्र धातूपात्तत्वात् । तथा आदिवादिभ्यामुपायें बटुः कर्त्ता । तस्मिन्नेबायें भक्षयतिनोपा से बटुः कर्ष । अधिपूर्वैः शीस्थाप्रभृतिभि रुपात्तेर्थे आधारः कर्म । तत्रैव केवलैरूपात्तेधिकरणामित्यादि । मइति चेत्, सत्यम् । कस्य कः पिता को भ्रात इत्यत्रेवाननुगतस्यैव लक्ष्यत्वात् । अत एव प्रयोगाणां साध्वसाधुता व्यवतिष्ठते । अन्यथा कचित्कर्तुः सर्वत्र कर्तृतापत्तौ सकलप्रयोगाः सङ्कीर्येरन् । उक्तं च हरिणा । वस्तुतस्तदानर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यतइत्येषा व्यवस्था दृश्यते यत इति । अत एव प्रयोजकव्यापारव्याप्यत्वाविशेषेपि पच्यादिधातृपु प्रयोज्यो न कर्म गम्यादिष्वेव तु कर्म तथा पौराणिकाच्छृणोति नटस्य शृणोतीत्यत्र पौराणिकोपादानं कारकञ्च नटस्तु नोभयमित्यादि वक्ष्यमाणं सङ्गच्छते । नन्वेवं लः कर्मणीत्यादिविधिषु किं कर्म ग्राह्यमिति चेत् । विनिगमकाभावात्सर्वमित्यवेहि, यथा भस्येत्यत्र सर्व भम् । ता दिनु
५२५
-
Page #526
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
भादिवत्पारिभाषिकमेव कारकत्वकर्मत्वादिकं स्यादिति चेत् । को वा ब्रूते नेति । एतावानेव परं भेदः । टिघुभादीनां शब्दसंज्ञात्वमितरेषान्त्वर्थसंज्ञात्वमिति । एवञ्च कर्मणिद्वितीयेत्यनेन यथायथमाधारादावपि द्वितीया विधीयतइति फलितम् । रथेन गम्यते रथो गच्छतीत्यादावपि कर्तृविभक्तिरुत्सर्गेणैव सिद्धेति न तत्र लक्षणाश्रयणायेत्यवधेयम् । विभक्तीनां वाच्यांशानिष्कर्षस्तु करिष्यते । एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोधमुद्भावयन्तः परस्ताः । शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षादावुक्तिसम्भवात् । एतेन परसमवेतक्रियाफलशालित्वं कर्मत्वं चेदपादानेतिव्याप्तिरित्याशङ्क्य घात्वर्थतावच्छेदकफलशालित्वं तदिति परिष्कुर्वन्तोपि परास्ताः । ग्रामं गमयति देवदत्तमित्यादौ गन्तरि अव्याप्तेः । त्वन्मते गमनस्य प्रकृत्यर्थ - त्वेपि तथात्वानवच्छेदकत्वात् । तत्वे वा पाचयत्यादिप्रयोज्यकर्तर्यतिव्याप्तेः । तत्र पारिभाषिकमनुशासनोपयोगिकर्मत्वं वचनबलाद्वयवस्थितमिति चेत् । अपादानेपि तर्हि तन्नास्तीत्यवे - हि । एकसंज्ञाधिकारे ऽनवकाशया बाधात् । अत एवात्मानमात्मा हन्तीत्यादौ परया कर्तृसंज्ञया कर्मसंज्ञाबाधमाशङ्कयाहङ्कारादिविशिष्टात्मभेदमाश्रित्य तत्रतत्र भाष्ये समाहितमिति दिक् । नन्वेवं करणं कारकमिति सामानाधिकरण्यं कथम् । अस्वातन्त्र्येण ण्वुल्प्रत्ययायोगात् । अन्यथा कर्तृसंज्ञापत्तौ क रणसंज्ञायाः पर्यायापत्तेरिति चेत् । उच्यते । अधिकारसामर्थ्यात्कारकशब्दोपनीतं स्वातन्त्र्यमवस्थान्तरगतं विज्ञायते । अत्रस्थान्तरे यत्स्वतन्त्रं तत्साधकतमङ्करणमिति यथा कुरुक्षेत्रस्थाः काश्यां वसन्तीत्यादौ । कर्तुस्तु साम्प्रतिकं स्वातन्त्र्यम् । तच्च कर्तृसंज्ञायामुपयुज्यतइति । यद्वा । कारकशब्दः क्रिया
५२६
Page #527
--------------------------------------------------------------------------
________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५२७
परः करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः । तथा च अपादानादिसंज्ञाविधौ क्रियायामित्यस्योपस्थित्या क्रियान्वायनामेव तत्तत्संज्ञाः स्युः । कारकात्ततयोरित्यादौ तु कारकशब्दः स्वर्यते तेनैतदधिकारोक्तं कर्मादिषट्कमेव गृह्यतइति ॥
ध्रुवमपाये ऽपादानम् । अपायो विश्लेषो विभागस्तद्धेतुत्वोपहितो गतिविशेषश्वेह विवक्षितस्तस्मिन्साध्ये ऽवधिभूतमपादानसंज्ञं स्यात् । वृक्षात्पतति । ध्रुवमित्यत्र ध्रु गतिस्थैर्ययोरित्यस्मात्कुटादेः पचाद्यच् । ये तु ध्रुव स्थैर्ये इति पठन्ति । तेपामिमुपधलक्षणः कप्रत्ययः, ध्रुवतीति ध्रुवं स्थिरम् । एकरू पमिति यावत् । ध्रुवमस्य शीलमिति यथा । तथा चापाये साध्ये यदेकरूपमित्युक्ते प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तदुपयोगीति लभ्यते । तच्चार्थादवधिभूतमेव पर्यवस्यति । तेन धावतो ऽश्वात्पततीत्यादौ क्रियाया विशिष्टस्याप्यश्वस्य प्रकृतधातूपातक्रियां प्रत्यवधित्वन्न विरुध्यते । तथा परस्परस्मान्मेपावपसरत इत्यत्र सृधातुना गतिद्वयस्याप्युपादानादेकमेपनिष्टाङ्गतिं प्रत्यपरस्यापादानत्वं सिध्यति । उक्तश्च हरिणा प्रकी
•
काण्डे । अपाये यदासीनं चळं वा यदि वा ऽचलम् । ध्रु वमेवादावेव तदपादानमुच्यते ॥ पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमिष्यते ॥ मेषान्तर क्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रिया पक्ष कर्तृत्वञ्च पृथक्पृथगिति । अतदावेशादिति अपायानावेशादि - त्यर्थः । गतिर्विना त्वधिना नापाय इति कथ्यतइति तत्रैवोक्तेरवधिनिरपेक्षस्य चलनस्यापायत्वाभावादिति भावः । पतात्पततो वात्पततीत्यत्र तु पर्वतावधिकपतनाश्रयो योश्वस्त
Page #528
--------------------------------------------------------------------------
________________
५२८
शब्दकौस्तुभः ।
[ १ अ०
दवधिकं देवदत्तायं पतनमर्थः । पञ्चमी त्ववधौ शक्ता । तत्राभेदेन संसर्गेण प्रकृत्यर्थो विशेषणम् । प्रत्ययार्थस्तु क्रियायां विशेषणम् । कारकाणां क्रिपयैव सम्बन्धात् । अन्यथा साघुत्वात् । क्रियान्वये सत्येव हि कारकसंज्ञा तत्पूर्विका विशेषसंज्ञाश्च स्थिताः । अत एवाहुः । नाम्नो द्विधैव सम्बन्धः सdवाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठ्या वापि कचिद्भवेदिति । सामानाधिकरण्येनेति नीलो घट इत्याद्यभिप्रायम् । नीलं घटमानयेत्यादावप्यन्तरङ्गक्रियान्वयानन्तरमेकक्रियावशीकृतानां पाणिभिप्रायञ्च । षष्ठयेति अकारकविभक्तेरुपलक्षणं हरये नम इति यथा । कचिदिति, अकारकविभक्ते - रपि, नटस्य शृणोतीत्यादौ क्रियान्वयदर्शनादिति भावः । एतेन भूतले घटो नेस्यत्र भूतलावेयत्वाभावो घटे भूतलाधेयत्वं वा घटाभावे विशेषणामेति द्वेधा व्याचक्षणा नैयायिकाः परास्ताः । उभयथापि क्रियानन्वये कारकविभक्तेरसाधुत्वात् । अर्थाभावे ऽव्ययीभावापतेश्च । तस्य नित्यसमासत्वात् । नवस्मदुक्तोपि बोधोस्मदर्शन व्युत्पन्नानामनुभवसाक्षिक इति चेत् । सत्यम् । न हि वयं बोध एवं नादेतीति श्रूमः । सर्वे सर्वार्थबोधनसमर्था इत्यभ्युपगमात् किन्तु तस्मिन्नर्थे ऽसाधुताम् । तथा च सिद्धे शब्दार्थसम्बन्धइति वार्तिकं व्याचक्षाणा भाव्यकारा आहुः । समानायामर्थावगतौ साधुभिश्चासाधुभिश्च गम्यागम्येतिवन्नियमः क्रियतइति । उक्तञ्च । भेदाभेदक'सम्बन्धोपाधिभेदनियंत्रितम् । साधुत्वं तदभावेपि बोधो नेह निंवार्यतइति ॥ एवञ्च कस्माद्वाक्यात्कीदृगुवोध इति प्रश्ने यो यथा व्युप्तन्नस्तस्य तादृगेवेति स्थितिः । कीदृशे बोधे साधुत्वं कुल नेति परं विचारविषय इति तत्त्वम् । एतेन घटः कर्मत्व
Page #529
--------------------------------------------------------------------------
________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
६२९
मानयनं कृतिरित्यादीनां स्वरूपायोग्यतेति परास्तम् । तथाव्युत्पन्नस्य बोधानुभवात् । अन्यथा व्युत्पन्नस्य व्युत्पत्तिरूपसहकारिविरहात्कार्यानुदयेपि स्वरूपयोग्यतानपायात् । एतेन प्रकृत्यर्थप्रकारको बोधो यत्र विशेष्यतया तत्र विषयतया प्रत्ययजन्य इत्यादिकार्यकारणभावं कल्पयन्तोप्यपास्ता: । विपरीतव्युत्पादिते व्यभिचारस्योद्भवात् । सिद्धान्ते तु घटः कर्मत्वमित्याद्यसाध्येव । तथाहि । अभिहिते प्रथमेति वार्त्तिकं त कथं घटः कर्मत्वमिति प्रथमा । घटानयनयोरानयनकृती प्रति कर्मतया कर्तृकर्मणोरिति पष्ठीमसङ्गाच्चेति दिक् । निर्दिष्टा - विषयं किं चिदुपात्तविषयं तथा । अपेक्षितक्रियञ्चेति त्रिधापादानमुच्यते ॥ यत्र साक्षाद्धातुना गतिर्निर्दिश्यते तन्निर्दिष्टविषयम् । अश्वापततीति यथा । यत्र तु धात्वन्तरार्थी स्वार्थ धातुराह तदुपात्तविषयम् । यथा बलाहकाद्विद्योततइति, निःसरणाने विद्योतने द्युतिर्वर्तते । यथा वा कुलात्पचतीति । आदानांगे पात्र पचिर्वर्तते । अपेक्षितक्रियं तु तत् यत्र प्रत्यक्षसिद्धमागमनं मनसि निधाय पृच्छति कुतो भवानिति, पाटलि पुत्रादिति चोत्तरयति । अर्थाध्याहारस्य न्याय्यताया उक्तत्वात् । इह सार्थाद्धीयतइत्यपि निर्दिषृविषयस्वोदाहरणम् । स्यादेत - त् । परत्वात्सार्थस्य कर्तृसंज्ञा प्राप्नोति । उक्तं हि, अपादानमुत्तराणीति । किञ्च सार्थस्य कर्तृत्वाभावे त्यज्यमानस्य कर्मसंज्ञा न स्यात् कर्तृव्यापारव्याप्यत्वाभावात् । ततश्च हीयते हीन इति कर्मणि लकारो निष्ठा च न स्यात् । न च कर्मकर्तर्ययं लकार इति वाच्यम् । जहातेः कर्तृस्थक्रियत्वात्कर्मण्येवायं लकार इति इन्दुनोक्तत्वात् । यत्तु त्वपादाने चाहयिरुहोरिति सूत्रे न्यासकारेण सम्प्रदानसूत्रे कैयटेन चोकं कर्मसंज्ञा
Page #530
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः। [१ अ० यां कर्तृग्रहणं स्वातव्योपलक्षणम् । अतो हानक्रियायां स्वतन्त्रेणापादानेनेप्स्यमानस्येह कर्मतेति । तचिन्त्यम् । माषेष्वश्वं बन्धातीत्यत्र कर्मणोप्यश्वस्य वस्तुतो भक्षणे यत्स्वातन्त्र्यं तदाश्रयकर्मसंज्ञापत्तेः । अत एव कर्मसंज्ञाविधायकसूत्रशेषे कैयटेनोक्तम् । प्रयोजकव्यापारस्याशब्दार्थत्वात्तदपेक्षं कर्मत्वमयुक्तमिति । अत्राहुः । सार्थादीयतइत्यत्र कर्मकर्तरि लकारः । तथाहि । अपगमना जहातेरर्थः । सा च क्षुदुपघातादिना देवदतस्यापगमते तत्समर्थाचरणम् । यदा तु क्षुदुपघातादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम् । स्फुटमचेदं हरदत्तमाघवग्रन्थयोः । स्यादेतत् । ध्रुवग्रहणं किमर्थम् । न च प्रामादागच्छति शकटेनेत्यत्र शकटे ऽतिव्याप्तिवारणाय तदिति वाच्यम् । परत्वात्तत्र कारणसंज्ञाप्रवृत्तेः । यथा धनुषा विध्य. तीत्यत्र । इह हि शरनिःसरणं प्रत्यवधिभावोपगमेनैव व्यधने करणतेत्युभयप्रसङ्गः । वृक्षस्य पर्ण पततीत्यादौ तु वृक्षः प. विशेषणं न त्वपायेन युज्यते । न च संज्ञिनिर्देशार्थ ध्रुवनहणम् । अपाये क्रियायां यदन्वेतीत्यस्याक्षिप्तस्य संज्ञिसमर्थकत्वात् । यद्वा कारके इति निर्धारणसप्तम्याश्रयणात्कारकमिति लभ्यते । पूर्वत्रापि प्रथमार्थे सप्तमीत्युक्तत्वाच्च । तस्माद् ध्रुवग्रहणं चिन्त्यप्रयोजनम् । जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् । अधर्माज्जुगुप्सते विरमाति प्रमाद्यति वा । संश्लेषपूर्वको विश्लेषो विभागः । स चेह नास्ति । बुद्धिकल्पितस्तु गौणत्वान गृह्यतइति वार्तिकारम्भः । भाष्यकारास्तु जुगुप्सादयोत्र जुगुप्सादिपूर्विकायां निवृत्तौ वर्तन्तइत्युपातविषयमेतत् । कारकमकरणे च गौणस्यापि ग्रहणम् । साधकतममिति तमग्रहणाल्लिङ्गात् । अपायादिपदानां स्वरितत्वाद्वा स्वरितेनाधिकारः,
Page #531
--------------------------------------------------------------------------
________________
४ पा. ३ आ.
शब्द कौस्तुभः ।
गौणोप्यर्थी गृहातइति व्यवस्थापनात् । तेन बुद्धिकल्पितस्याप्यपायस्य सत्वात्सिद्धम् । पूर्वे हि बुद्धया धर्म सम्प्राप्य ततो दोषदर्शनाभिवर्तत इत्यस्त्यपायः । एवमुत्तरसूत्रेष्वपि मपञ्चलं बोध्यमिति दिक् ||
५३१
भीत्रार्थानां भयहेतुः ॥ भयं भी त्राणं त्राः भयार्थानां त्राणार्थानाश्च योगे भयहेतुः कारकमपादानं स्यात् । चोरेभ्य उद्विजते बिभेति रक्षति वा त्रायते भयहेतुग्रहणं चिन्त्यमयोजनम् | अरण्ये विभेतीत्यादौ तु परत्वादधिकरणसंज्ञा । कस्य विभ्यति देवाश्च जातरोपस्य संयुगइति रामायण श्लोकस्तु कस्य संयुगइति योजनया व्याख्येयः ॥
पराजेरसोढः || परापूर्वस्य जयतेः प्रयोगे ऽसोढोह्योथोपादानं स्यात् । अध्ययनात्पराजयते ग्लायतीत्यर्थः । अकर्मकश्चायम् । तत्र पठयां प्राप्तायां वचनम् । असोढः किम् । शत्रून्पराजयते । अभिभवतीत्यर्थः । असोढ इति क्तार्थो भूतकालोत्राविवक्षितः तेनाध्ययनात्पराजेष्यतइत्यादि सिद्धम् । वस्तुतस्तु असोदग्रहणं व्यर्थे शत्रून्पराजयतइत्यत्र परत्वात्कर्मसंज्ञासिद्धेः । इह सूत्रे पराजेरिति रूपं विपराभ्याब्जेरितिवत्समर्थनीयम् । यत्तु परत्वात् घेङितीति गुण इति हरदत्तेनोक्तं तत्सूत्रभाष्यादिविरुद्धमिति प्रागेव प्रपञ्चितम् ॥
वारणार्थानामीप्सितः ॥ वारणार्थानां प्रयोगे क्रियया आप्तुमिष्टं कारकमपादानं स्यात् । यवेभ्यो गां वारयति वृञ् वरणे, चुरादिः । प्रवृत्तिविघातो वारणम् । ईप्सित इति किम् । यवेभ्यो गां वारयति क्षेत्रे । नन्विह परत्वादधिकरणसंज्ञा भविष्यति यथा कृतेपीप्सितग्रहणे गोषु इप्सिततमत्वप्रयुका कर्मसंज्ञा । सत्यम् । चिन्त्यप्रयोजनमेवेप्सितग्रहणम् ॥
।
Page #532
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
अन्तर्धौ येनादर्शनमिच्छति । अन्तर्धाविति सप्तमी येनेति कर्तरि तृतीया । न च कुद्योगे षष्ठीप्रसङ्गः । उभयप्राप्तौ कर्मण्येवेति नियमात् । व्यवधाने स्रति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तस्कारकमपादानं स्यात् । मातुर्निलीयते कृष्णः । लीङ् श्लेषणे दैवादिकः । अत्रान्तर्धाविति चिन्त्य - प्रयोजनम् । न दिदृक्षते चोरानित्यत्र हि परत्वात्कर्मता सिद्धा । इच्छतीति किम् । इच्छायामसत्यां सत्यपि दर्शने यथा स्यात् ।।
५३२
आख्यातोपयोगे ॥ उपयोगो नियमपूर्वकं विद्यास्वीकरणम् । तस्मिन्साध्ये य आख्याता तत्कारकमपादानं स्यात् । उपाध्यायादधीते । उपयोगे किम् । नटस्य शृणोति ॥
3
जनिकर्तुः प्रकृतिः ॥ जायमानस्य हेतुरपादानं स्यात् । पुत्रात्प्रमोदो जायते । इह जनिरुत्पत्तिः । जनिरुत्पत्तिरुद्भव इत्यमरः । इञजादिभ्य इति जनेर्भावे इय् जनिघसिभ्यामित्युणादिसूत्रेणेण वा । जनिवध्योश्चेति वृद्धिप्रतिषेधः । तस्याः कर्तेति षष्ठीतत्पुरुषः । कर्तरि चेति प्रतिषेधस्त्वनित्यः अत एव ज्ञापकात् । यद्वा शेषषष्ठया समासोयम् । निषेधस्तु कर्मषष्ठीविषय इति कारकइति सूत्रे कैयटः । तथा चार्थमात्रस्य ग्रहणाद्धात्वन्तरयोगोपि भवति अङ्गादङ्गात्सम्भवतीति यथा । एतेन इकाइतपौ धातुनिर्देशइतीका निर्देशोयमित्याश्रित्य गमहनेत्युपधालोपमर्थासङ्गतिं चोद्भावयन्तो मीमांसावार्तिककाराः समाहिताः । अत्र प्रकृतिग्रहणमुपादानमात्रपरामित्येके । अत एव प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधादित्यधिकरणे ब्रह्मणो जगदुपादानतायां यतो वा इमानि भूतानि जायन्तइति पञ्चमीमुपष्टम्भिकामाहुः । अन्ये तु पुत्रात्ममोदो जायतइति वृत्तिस्वरसात्मकृतिशब्द इह कारणमात्र पर इत्याहुः । अस्मिंश्च पक्षे यतो
Page #533
--------------------------------------------------------------------------
________________
४ पा. ३ आ. शब्दकौस्तुभः । वेति सामान्यशब्दोपि उपादानरूपविशेषपरः छागो वा मन्त्र. वर्णादिति पाष्ठन्यायात् । अहमेव बहु स्यामिति हि सामानाधिकरण्यं श्रूयते तच्च चतुर्धा भ्रमे, बाधाया, मभेदे, तादात्म्ये च । प्रकृते तादात्म्ये, भिन्नत्वे सत्याभिन्नसत्ताकत्त्वं आविद्यकः सम्बन्धविशेषो वा तादात्म्यमित्याधुत्तरमीमांसायाँ स्पष्टम्.॥
भुवः प्रभवः । भूकर्तुः प्रभवः प्राग्वत् । हिमवतो गङ्गा प्रभवति । कश्मीरेभ्यो वितरता प्रभवति । तसु उपक्षये । भावे तः। विगतस्ता वितस्ता । अशोष्येत्यर्थः । अत्रोपलभतेः कर्मव्यापारे प्रभवतिर्वर्तते । प्रकाशतइत्यर्थः । भीत्रार्थानामित्यारभ्येयं सप्तसूत्री भाष्ये प्रत्याख्याता । तथाहि चोरेभ्यो बिभेति । भयाविवर्ततइत्यर्थः । त्रायते रक्षणेन चोरेभ्यो निवर्तयतीत्यर्थः । पराजयते । ग्लान्या निवर्ततइत्यर्थः । वारयति । प्रवृत्तिम्पति बध्ननिवर्तयति । निलीयते । निलयनेन निवर्ततइत्यर्धः। अधीते । उपाध्यायानिःसरन्तं शब्दफेलातीत्यर्थः । ब्रह्मणः प्रप.
चो जायतइत्यत्रापि । ततोपत्रामति । यथा वृक्षात्फलमिति लोकप्रसिध्याश्रयेणापायो बोध्यः । प्रभवतीत्यत्रापि भवनपूर्वकं निःसरणमर्थः । अत्रेदं वक्तव्यं, निवृत्तिनिःसरणादिधात्वन्तरार्थविशिष्टे स्वार्थे वृत्तिमाश्रित्य यथाकथंचिदक्तप्रयोगाणां समर्थनेपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः । नटस्य शृणोतीतिवत् । न [पाध्यायनटयोः क्रियानुकूलव्यामारांशे विशेषो वक्तुं शक्यः । अनभिधानब्रह्मास्त्रमाश्रित्य प्रत्याख्यानन्तु नातीव मनोरमम् । एवञ्च जुगुप्साविरामेत्यादिवार्तिकमप्यवश्यारम्भणीयम् । तथा च सूत्रवार्तिकमतमेवेह प्रबलमिति यावहाधं साधु । तथा ध्रुवं भयहेतुरसोढ इत्यादिसंज्ञिनिर्देशोपि
Page #534
--------------------------------------------------------------------------
________________
शब्दकास्तुभः । [१ अ. सार्थकः परत्वात्तत्तत्संज्ञामाप्तावपि श्रेषत्वविवक्षायां न माषा- - णामश्नीयादित्यादाविव षष्ठया इष्टतया सत्रापादानसंज्ञाया पा. रणीयत्वादित्यवधेयम् ॥ . कर्मणा यमभिमैति स सम्पदानम् ।। कर्मणा करणभूतेन कर्ता यमभिप्रति सम्बन्धाति ईप्सति वा सत्कारकं सम्पदानं स्यात् । न च युगपत्कर्मत्वं करणत्वञ्च कथमिति वाच्यम् । क्रियाभेदेनाविरोधात् । दानक्रियायां हि कर्म अभिप्रापणक्रि. यायां करणम् । दीयमानया गवा हि शिष्य उपाध्यायमभिप्रैति । उपाध्यायाय गां ददाति । अत्राभिप्रैतीति पदत्रयम् । न तु समासः । उदात्तवता मतिमता च तिला गतेः समासो वक्तव्य इति वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः। भाषाविषयत्वे बाधकं तु तत्रैव वक्ष्यामः । अत्रवृत्तिकाराः । अन्व. र्थसंज्ञेयं सम्यक् प्रदीयते यस्मै तत्सम्प्रदानमिति । तेनेह न । स्जकस्य वस्त्रं ददाति । घ्नतः पृष्ठं ददाति । इह हि ददातिर्गौणः न तु वास्तवं दानमस्तीत्याहुः । भाष्ये तु नैतत्स्वीकृतं खडिकोपाध्यायस्तस्मै चपेटां ददाति । न शूद्राय मतिं दद्यादित्यादिप्रयोगात् । रजकस्य ददातीति तु शेषत्वविवक्षायांबोध्यम्। नन्वे. क्मजानयति ग्राममिति नयतिक्रियाकर्मभिरजैः सम्बध्यमानस्य ग्रामस्य सम्पदानत्वं स्यादिति चेन्न । यमधिप्रैतीत्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं कर्मणोति निर्दिष्टस्य गवादेः शेषत्वं च. प्रतीयते । यथा कभिमाये क्रियाफलइति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वं च । न चेह ग्राम प्रत्यजा शेषभूता तथा च प्रयोजकलक्षणे प्रासनवन्मैत्रावरुणाय दण्डप्रदानमित्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति दण्डदानं न प्रतिपत्तिः । किन्तु द्वितीयापेक्षया बलीयस्या चतुर्थी श्रुत्या ऽर्थ
Page #535
--------------------------------------------------------------------------
________________
४ पा. ३ आ. शब्दकौस्तुभः । कर्मेत्युक्तम् । अत्र वार्तिकं, क्रियाग्रहणं कर्तव्यम् । पत्ये शेते । भाष्यकारास्तु सन्दर्शनप्रार्थनाध्यवसायैराप्यमानत्वाक्रियापि कृत्रिगं कर्म । तथा च सूत्रेणैव सिद्धम् । प्रतीयमानक्रियापेक्षोपि हि कारकभावो भवत्येव । प्रविश पिण्डीमिति वत् । सूत्रकारइचाह क्रियार्थोपपदस्य च कर्मणि स्थानिन इति । न चैवमप्यददातिकर्मत्वात् क्रियाग्रहणं कर्त्तव्यमेवेति वाच्यम् । भाष्ये अन्वर्थसंज्ञात्वास्वीकारात् । नन्वेवं कटङ्करोतीत्यादावपि सम्प्रदानत्वं स्यात् । वचनबलाच्च कर्मसम्प्रदानत्वयोः पर्यायप्रसङ्गः । अत्रादुः। नेदं वार्तिकं सार्वत्रिकम् । किन्तु प्रयोगानुसारानियतवि. पयं धातूपात्तफलानाधारएव प्रवृत्तेः । भाष्यमते तु यत्र सभ्मदानवामिष्टं तत्र सन्दर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते । ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धन्तयाऽभिप्रेयमाणस्य सम्प्रदानत्वम् । यत्र तन्नेष्टं तत्र भेदो न विवक्ष्यते । ततश्चोत्पत्तिविक्लित्त्यायेकफलावच्यनेकीकृतया क्रियया व्याप्यमानस्य कर्मत्वमेव भविष्यति। कटक्करोत्योदनं पचतीनि गत्यर्थेषु तु भेदो ऽभेदश्चेत्युभयं विवक्ष्यते तत्र भेदविवक्षायां ग्रामाय गच्छतीति प्रयोगः अभेदविवक्षायान्तु ग्रामं गच्छतीति तथा च गत्यर्थकर्मणीति सूत्रं प्रत्याख्यास्यते । उक्तञ्च हरिणा । भेदस्य च विवक्षायां पूर्वी पूर्वी क्रिया प्रति । परस्याङ्गस्य कर्मत्वात्तक्रियाग्रहणं कृतम् ॥ क्रियागां समुदाये तु पदैकत्वं विवक्षितम् । तदा कर्मक्रियायोगात्स्वाख्ययैवोपचर्यते ॥ भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता । तस्मादत्यर्थकर्मत्वे व्यभिचारो न. दृश्यते ॥ विकल्पेनैव सर्वत्र संज्ञे स्यातामुभे यदि । भारम्भेण न योगस्य प्रत्याख्यानं स भवेदिति ॥ अस्यार्थः । कर्म स्वा. ख्ययैव क्रियेप्सितत्वप्रयुक्तकर्मसंज्ञयैवोपचर्यते व्यग्रहियते । न
Page #536
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ अ० तु सम्पदानसंज्ञया गत्यर्थकर्मणि तु भेदाभेदी छावपि विवक्ष्येतइति रूपद्वयसिद्धिः । व्यभिचारो ऽतिप्रसास्तु न दृश्यते । विवक्षाया व्यवस्थितत्वादेव। एतदेव द्रढयाति विकयेनेति । समं तुल्यफलकम् । तस्मात्सूत्र प्रत्याचक्षाणस्य भगवतो विवक्षानियमोभमतः गत्यर्थेषु विवक्षाद्वयम् । पत्ये शेतइत्यादौ तु भेदविवक्षव ओदनं पचतीत्यादावभेदविवक्षव चेष्टायामनध्वनीत्येतत्प्रत्युदाहरणयोरपि अभेदविवक्षैव मनसा हारव्रजति अध्वानं गच्छतीति त्रिधा चेदम् । यदाह, अनिराकरणार्कतुस्त्यागाचं कर्मणोप्सतम् । प्रेरणानुमतिभ्याञ्च लभते सम्पदानतामिति । अनिराकर्तृ यथ । सूर्यायाय॑ ददाति । नात्र सूर्यः प्रार्थयते न वानुमन्यते न च निराकारोति । प्रेरकं यथा । विप्राय गां ददाति । अनुमन्तृ यथा । उपाध्यायाय गां ददाति । ननु दानस्य तदर्थबात्तादर्थं चतुर्थी सिदैव तत्किं सम्पदानसंज्ञया । मैवम् । दानाक्रियार्थे हि सम्प्रदानं न तु दानक्रिया तदर्थी कारकाणां क्रियार्थत्वात् । सम्प्रदानार्थ तु दीयमानं कर्मेति वाक्यार्थभूतापादानक्रियाया अतादात्ताद
र्थ्यचतुर्थ्या अप्राप्तौ संज्ञारम्भादिति हेलाराजः । तदेतत्सू. चितम् । त्यागाचं कर्मणप्सितमिति । कर्मसम्पदानयोः करणकर्मत्वे वाच्ये । पशुना रुद्रं यजते । पशुं रुद्रायं ददातीत्यर्थः । एतच्च वचनं उक्तोदाहरणमात्रविषयम् । अत एव सुव्यत्ययेन सिद्धत्वात्प्रत्याख्यायते । लोके तु यजे. पूजार्थत्वात्पशोः करणत्वं सिद्धम् ॥ ___ रुच्यर्थानां प्रीयमाणः॥ सम्पदानं स्यात् ॥ देवदत्ताय रोचने स्वदते मोदकः । अत्राह हरिः । हेतुत्वे कर्मसंज्ञायां शेष
Page #537
--------------------------------------------------------------------------
________________
५३७
४ पा. ३ आ. शब्दकौस्तुभः । त्वे वापि कारकम् । रुच्यादिषु शास्त्रेण सम्पदानाख्यमुच्यते ।। अस्यार्थः । अन्यसमवेतोभिलाषो रुच्यर्थः । रोचते । अभिला. षविषयो भवतीत्यवगमात् । विषयीभवन्तं मोदकं देवदत्तः प्रयुङ्क्ते । लोल्यात्तदानुगुण्यमाचरतीति देवदत्तस्य हेतुसंज्ञायां प्राप्तायां सम्पदानसंज्ञा कथ्यते । तथा च हेतुसंज्ञाविरहे णिजभावाद्धेतुसमवायिन्या द्वितीयस्याः क्रियाया अप्रततिर्मोदकः स्वक्रियायां धातुवाच्यायां कर्ता भवति न तु कर्म । यदा तुरोचते पाणयतीत्यर्थः तदा कर्मसंज्ञायां प्राप्तायां वचनम् । तथा च प्रीयमाण इति विशेषणम् । प्रीश् तर्पणइत्यस्मात्सकर्मकाकर्मणि लट् । देवादिकस्तु डिन्दकर्मकः । तप्यमाण इत्यर्थः । यत्तु समर्थसूत्रे रोचयामहइति हरदत्तेन प्रयुक्तं तदस्मिन्नेव प. क्षेध्यारोपितप्रेषणपक्षमाश्रित्येत्यवधेयम् । यदा तु देवदत्तस्य योभिलाषस्तद्विषयो भवतीत्यर्थस्तदा शेषत्वात्पष्ठयां प्राप्तायां वचनमिति । प्रीयमाणः किम् । देवदत्ताय रोचने मोदकः पथि । कर्मादाविवाधिकरणे मा भूत् । अत एवादित्यो रोचतइत्यत्र दीप्त्यर्थे संज्ञा न भवति ॥
श्लाघन्हूङ्स्थाशपां ज्ञीप्स्यमानः ॥ एषां प्रयोगे वोधयितुमिष्टः सम्प्रदानं स्यात् । देवदत्ताय श्लाघते । श्लाघा स्तुतिः । देवदत्तं स्तोतीत्यर्थः । एवं हि देवदत्तः शक्यते ज्ञापयितुम् । अन्ये त्वाहुः ॥ देवदत्तायात्मानं परं वा । श्लाघ्यं कथयतीत्यर्थ इति । तथा च भट्टिकाव्यम् । श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिप इति । आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः । तत्राद्ये पक्षे कर्मत्वे प्राप्ते द्वितीये तु कारकशेपत्वात् पठ्यां प्राप्तायां वचनम् । हुनौतिप्रभृतयोत्र स्वार्थोपसर्जनज्ञापनावचनत्वात्मकर्मकाः । तथा च शीप्यमान इति सं
Page #538
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः ।
[ १ अ०
शिविशेषणमुपात्तमिति हेलाराजः । देवदत्ताय न्हुते देवदत्तं न्हुवानस्तामेव न्हुतिं तमेव बोधयति । सन्निहितमपि देवदत्तं धनिकादेरपलपतीत्यर्थः । अथवा न्होतव्यं देवदत्तं बोधयतीत्यर्थः । देवदत्ताय तिष्ठते, ईदृशोहमित्यवस्थानेन बोधयतीत्यर्थः । देवदत्ताय शपते, शपथेन किञ्चित्प्रकाशयतीत्यर्थः । ज्ञीप्स्यमानग्रहणादेवदत्तः श्लाघते । गार्गिकया श्लाघते पथीत्यादौ कर्त्रा - दिविषये संज्ञा न भवति । ज्ञीप्स्यमाने विवदन्तइति शप उपालम्भइति वार्त्तिकोदाहरणव्याख्यायां कैयटः । तत्र यस्मा आख्यायते स ज्ञीप्स्यमान इति मते तु यस्मा आख्यायमानः प्रत्युदाहरणं तस्माद् द्वितीया देवदत्तं श्लाघत इति । आख्यायमानोज्ञीप्यमान इति मते तु यस्मा आख्यायते स प्रत्युदाहरणम् । तस्माच्च षष्ठी । देवदत्ताय श्लाघते विष्णुमित्रो यज्ञदत्तस्येति । ज्ञपमिच्चेति चुरादिकात्सनि कर्मणि शानचि ज्ञीप्स्यमान इति रूपं बोध्यम् । न तु ज्ञाधातोः । तस्य बोधने मित्वाभावात् । तज्ज्ञापयतीत्यादिभाष्यप्रयोगात् । अत एव मारणतोपणेत्यत्र निशानेष्विति पाठो न तु निशामनेष्विति । निशानं तनूकरणम् । श्यतेर्युट् । संज्ञपितः पशुरित्युदाहरणम् । आपज्ञाप्यृधार्मादित्यत्र तूभयोरपि ज्ञप्योग्रहणमिति सिद्धान्तः । चौरादिकश्च मारणतोषणनिशामनेषु वर्त्ततइति माधवः ॥
धारेरुत्तमर्णः॥ अयमुक्तसंज्ञः स्यात् । धृङ् अवस्थाने । ण्य - न्तः । उत्तमर्णो धनस्वामी । उत्कृष्टार्थवृत्ते रुच्छब्दात्तमपि द्रव्यप्रकर्षत्वादामभावः । अर्तेक्तः । ऋणम् । ऋणमाघपर्ण्यइत्यत्र कालान्तरदेयन्द्रव्यविनिमयोपलक्षणार्थमाघमण्यग्रहणम् । तेनोत्तमर्णेपि नत्वं भवति । अस्मादेव निपातनान्निष्ठान्तस्य परनिपातो बहुव्रीहौ बोध्यः । देवदत्ताय शतं धारयति । ध्रियमाणं
५३८
2
Page #539
--------------------------------------------------------------------------
________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५३९
स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङ्क्तइत्यर्थः । कारकशेषे षष्ठ्यां प्राप्तायामिदं वचनम् । उत्तमर्णः किम् । देवदत्ताय शतं धारयति ग्रामे । परत्वादिहाधिकरणसंज्ञा भवि ष्यतीति चेत् । उत्तमर्णेपि तर्हि हेतुसंज्ञा स्यात् ॥
1
स्पृहेरीप्सितः ॥ स्पृह ईप्सायां चुरादावदन्तः । अस्य प्रयोगे ऽभिप्रेतः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सि तमात्रे इयं संज्ञा । कर्ष विवक्षायान्तु परत्वात्कर्मसंज्ञा । पुपाणि स्पृहयति । यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्षितं तदा पष्ठयेवेति हरदत्तादयः । हेलाराजस्तु हेतुत्वे कर्मसंज्ञायामिति प्रागुक्तश्लोकव्याख्यावसरे स्पृहयतियोगे कर्मसंज्ञायाः शेषपयाश्च बाधिकेयं सम्प्रदानसंज्ञेत्याह । वाक्यपदीयम्वरसोप्येवम् । अस्मिन्पक्षे परस्परेण स्पृहणीयशोभमिति कर्मण्यनीयर दुर्लभः । दानीयो विम इतिवत्सम्प्रदानएव तु व्याख्येयः । तथा कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चेति षष्ठयप्यसङ्गता । विभक्तिविपरिणामेन कान्ताय स्पृहयन्तीति तु व्याख्येयम् । हरदत्तमते तु यथाश्रुतावेव उक्तप्रयोगौ निर्वाधाविति ॥
क्रुधदुहेर्पासूयार्थानां यम्प्रति कोपः ॥ क्रोधाद्यर्थानां धातूनां प्रयोगे यं प्रति कोपस्तत्कारकं सम्प्रदानं स्यात् । देवदत्ताय कुध्यति ह्यति ईर्ष्यति असूयति वा । वाक्चक्षुरादिविका रानुमेयः प्ररूढः । कोपोत्र क्रोधः । अपकारो द्रोहः । असहनमीर्ष्या । गुणेषु दोषारोपणमस्या । ननु चित्तदोषार्थानामित्येवास्तु किंको - धादीनां विशिष्योपादानेनेति चेन्न । द्विपादावतिप्रसङ्गात् । योस्मान्द्वेष्टीत्यादौ ह्यनभिन्दनं द्विषेरर्थः । अत एवाचेतनेवपि प्रयुज्यते औषधं द्वेष्टीति । यंमतीत्यादि किम् । भार्या -
Page #540
--------------------------------------------------------------------------
________________
५४०
शब्दकौस्तुभः । [१ अ० मार्ण्यति । मैनामन्योद्राक्षीदिति । नात्र भार्याम्पति कोपः किन्तु परैदृश्यमानां तां न क्षमतइत्येव । क्रुधद्रुहोरकर्मकतया कारकशेषत्वान्नटस्य शृणोतीतिवत् षष्ठयां प्राप्तायां वच. नम् । इतरयोस्तु सकर्मकत्वात् द्वितीयायां प्राप्तायाम् ॥ - क्रुधबुहोरुपसृष्टयोः कर्म ॥ सोपसर्गयोरनयोर्य प्रति कोपस्तकारकं कर्मसंज्ञं स्यात् । पूर्वसूत्रापवादः । देवदत्तमभिक्रुध्यति अभिद्रुह्यति ॥ . राधीक्ष्योर्यस्य विप्रश्नः ॥ एतयोः कारकं सम्प्रदानसंज्ञं स्यात् । यदीयो विविधः प्रभः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः । शुभाशुभपर्यालोचनमिह धात्वर्थः । शुभाशुभरूपयोः कर्मणोर्धात्वर्थेनोपसङ्ग्रहादकर्मकावेतौ । षष्ठयां प्राप्तायां वचनम् । अत एव राध्यतीति श्यन् । अकर्मकादेव तद्विधानात् । तथा च दिवाधन्तर्गणसूत्रं राधोकर्मकावृद्धावेवेति । अस्यार्थः । एवकारो भिन्नक्रमः। राघोकर्मकादेव । यथा वृद्धाविति। अत एव कर्मवत् कमणेति मूत्रे राध्यत्योदनः स्वयमेवेति भाष्यं सङ्गच्छते । तत्र हि सिध्यतीत्यर्थः। एतेन न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति । क्रियासमभिहारेण विराध्यन्तं क्षमेत क इति माघप्रयोगौ व्याख्यातौ । एतेनैतयोः कर्मकारकं सम्पदानं स्यादिति व्याचक्षाणाः परास्ताः । यस्येत्यनर्थकं यम्प्रतीत्यनुवृत्त्यैवेटसिद्धेः ॥ . प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता प्रतिपूर्व आपूर्वश्च शृणोतिरभ्युपगमे वर्तते तस्य पूर्वो व्यापार प्रवर्तनक्रिया तस्याः कर्ता सम्पदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा विप्रेण मद्यगां देहीति प्रवर्तितः प्रतिजानीतइत्यर्थः । हेतुसं
Page #541
--------------------------------------------------------------------------
________________
४ पा. ३ आ.
शब्द कौस्तुभः ।
५४१
शायां प्राप्तायां देवदत्तेन प्रतिशृणोतीति प्रयोगनिवृत्तये वचनम् । विवक्षान्तरे तु देवदत्तो गां प्रतिश्रावयतीति भवत्येवेति हरदत्तः | अत्रेदं चिन्त्यम् । उक्तरीत्या देवदत्तो रोचयति मोदकमित्यपि प्रयोगो दुर्वारः । न चेष्टापत्तिः । तत्रत्यस्वग्रन्थेन लाराजग्रन्थेन च विरोधात्तत्र हेतुत्वबाधान्न णिजिति यदि ताईं प्रकृतेपि तुल्यम् । तस्मादिह वैषम्यं दुर्वचमिति ॥
अनुमतिगृणश्च ।। अनुपूर्वस्य मतिपूर्वस्य गृणातेः कारकं पूर्वस्य कर्तृभूतं सम्प्रदानं स्यात् । अनुमतिभ्यां गृणाः अनुमति - गृणाः तस्येति विग्रहः । अनुमतिपूर्वश्च गृणातिः शंसितुः प्रोत्साहने वर्त्तते तत्र पूर्वो व्यापारः शंसनम् । होत्रे अनुगृणाति प्रतिगृणाति वा । होता प्रथमं शंसति तमध्वर्युः अथामादेवेत्यादिभिः शब्दैः प्रोत्साहयतीत्यर्थः ॥
I
साधकतमं करणम् ॥ क्रियायां प्रकृष्टोपकारकं करणसंज्ञं स्यात् । यद्व्यापारानन्तरं क्रियानिष्पत्तिः तत्प्रकृष्टम् । उक्तञ्च। क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा तत्र करणं तत्तदा स्मृतमिति । काष्ठैः पचति । विवक्ष्यतइत्यनेन स्थाल्यादीनामपि वैवक्षिकं करणत्वमस्तीत्युक्तम् । आह च, वस्तुतस्तदनिर्देश्यं न हि वस्तुव्यवस्थितम् । स्थाल्यापच्यतइत्येषा विवक्षा दृश्यते यतः । ननु कारकाधिकारादेव सिद्धे साधकस्वे पुनः श्रुतिः प्रकर्षार्थास्तु किं तमपा, सत्यम् । अस्मिन्प्रकरणे सामर्थ्य गम्यप्रकर्षो नाश्रीयतइति ज्ञापयितुं तमप् । तेन गङ्गायां घोष इति सिद्धम् । यदा च तीरधर्म आधारत्वं प्रवाहे उपचर्यते तदेदं प्रयोजनं । यदा तु गंगाशब्द एव तीरे वर्त्तते तदा न प्रयोजनम् । तत्राद्ये विभक्तिलक्षणिकी । सुब्विभक्तौ न लक्षणेति तु येनविधिरिति सूत्रएव निराकृतम् । द्वितीये तु प्रकृति
Page #542
--------------------------------------------------------------------------
________________
५४२
शब्दकौस्तुभः । [१ अ० लाक्षणिकी । ननु उभयं मुख्यमस्तु परंपरासम्बन्धस्तु संसर्गः। मैवम् । कारकविभक्त्यर्थानां प्रकृत्यर्थे साक्षात्सम्बन्धेन विशेप्यतायाः व्युत्पनत्वात् । अपादानप्रकरणोक्तानि च बहून्युदाहरणानि तमग्रहणस्य प्रयोजनानीति बोध्यम् ॥
दिवः कर्म च ॥ दिवः साधकतमं कर्मसंज्ञं स्यात्, चकारात्करणसंबम् । करणशब्दानुवृत्त्या वक्ष्यमाणस्यान्यतरस्यांग्रहणस्याकर्षणेन वा संज्ञयोः पर्याये लब्धेसमावेशार्थश्चकारः । तेन मनसा दीव्यतीति मनसा देव इत्यत्र कर्मण्यण् करणे तु. तीया चेत्युभयं सिध्यति । मनसः संज्ञायामित्यलुक् । किञ्च अक्षैर्देवयते यज्ञदतेनेत्यत्र सकर्मकत्वादणि कर्तुौँ कर्मत्वं न । अणावकर्मकादिति परस्मैपदं च नेति दिक् । स्यादेतत् । यदि समावेशः, तर्हि अक्षान् दीव्यतीत्यत्र परत्वात्तृतीया स्यात् । तथाहि । करणसंज्ञाया अवकाशः देवना अक्षाः। करणे ल्युट् । कर्मसंज्ञाया अवकाशः । दीव्यन्ते अक्षाः । भावकर्मणोरिति यगात्मनेपदे । अक्षानित्यत्र सूभयसंज्ञाप्रयुक्तकार्यप्रसङ्गे परत्वातृतीयैव प्राप्नोति । अत्राहुः । कार्यकालपक्षे कर्मणि द्वितीयेत्यत्र पदस्योपस्थानं तस्यानवकाशत्वात् द्वितीयेति । ननु दीव्यन्ते अक्षा इत्यत्र कर्मण्यभिहितेपि करणत्वस्यानभिधा. नातृतीया स्यात् । तथा देवना अक्षा इति ल्युटा करणस्याभिः धानेपि कर्मणोनभिधानात् द्वितीया स्यात् । मैवम् । एकैव ह्यत्र शक्तिः संज्ञाद्वययोगिनी । तथा चोभयत्राप्यभिधानमेव न त्वनभिहितत्वम् ।।... ... ... . . . . . . . . . परिक्रयणे सम्पदानमन्यतरस्याम् ॥ नियतकालं वेतनादिना स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं सम्प्रदानसंझं वा स्यात् । शताय शतेन वा परिक्रीतः। परिशब्दः सामीप्यं
Page #543
--------------------------------------------------------------------------
________________
५४३
४ पा.३ आ. शब्दकौस्तुभः । द्योतयति । क्रयोनामात्यान्तिकं स्वीकरणं, नियतकालन्तु तस्य समीपमिति भावः ॥ __ आधारोधिकरणम् ॥ आध्रियन्तेस्मिन् क्रिया इत्याधारः । अध्यायन्यायोद्यावेत्यादिना करणे घम् । क्रियाश्रययोः कर्तृकर्मणोरणात् । परंपरया क्रियां प्रति आधारः तत्कारकमधिकरणं स्यात् । कटे आस्ते । स्थाल्यां पचति । स्यादेतत् । साक्षाक्रियाधारयोः कर्तृकर्मणोरेव कुतो नेयं संज्ञेति चेन । पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अत एवाहुः । कर्तृकर्मव्यवहितामसाक्षाद्धारयक्रियाम् । उपकुर्वक्रियासिद्धौ शास्त्रधिकरणं विदुरिति ॥ अत एव भूतले घट इत्यादौ अस्तीत्यस्याध्याहारो नियतः । यथापुष्पेभ्य इत्यत्र स्पृहयतेः । अत एव च नया सह कारकान्वयं वदन्तः परास्ताः । त्रिविधं चैतदधिकरणमिति संहितायामिति सूत्रे भाष्यं , औपश्लोषिकं वैषयिकमभिव्यापक
चेति । कटे आस्ते गुरौ वसति तिलेपु.तैलामिति ॥ ____ अधिशीङ्स्थासां कर्म । अधिपूर्वाणामेषां आधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः॥ ___अभिनिविशश्च ॥ एतत्पूर्वस्य विशतेराधारः कर्म स्यात् । ग्राममभिनिविशते । अभिानोश आग्रहः । तद्वान् भवतीत्यर्थः । अकर्मकोयं तत्राधिकरणस्य कर्मसंज्ञा विधीयते । प्रवेशनार्थे तु सिदैव । परिक्रयणेसम्पदानमिति मूत्रादिहान्यतरस्यांग्रहणमनुवर्तते मण्डकप्लुतिन्यायन । व्यवस्थितविभाषा चेयम् । एष्वथेष्वभिनिविष्टानामिति समर्थमूत्रस्थभाष्यप्रयोगह मानम् । तेन पापेभिनिवेश इत्यादि सिद्धम् । इह सूत्रे नेरल्पान्तरस्य परनिपाताकरणमीदृशानुपूर्वीकसमुदायविवक्षार्थम् । तेनेह न । निविशते यदि शूकशिखापदे इति । कर्मत्वविवक्षायान्तु तत्रापि
Page #544
--------------------------------------------------------------------------
________________
५४४
शब्दकौस्तुभः। [१ अ० भवितव्यमेव द्वितीयया ॥
उपान्वध्यावसः ॥ एतत्पूर्वकस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसत्यावसति वा ग्रामं से. ना । वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः ॥ अर्थशब्दो निवृत्तिाचनः । व्यधिकरणे षष्ठची। वाध्यवाचकभावः षष्ठयर्थः । भो. जननिवृत्तेर्वाचको यो चसिस्तस्य नेत्यर्थः । ग्रामे उपवसति । कथमुपोष्य रजनीमेकामिति । कालावनोरिति द्वितीया भवि. ष्यति । कथमेकादश्यां न भुजीतेति । उपपदविभक्तेः कारकविभक्तिर्भविष्यति ॥
कर्तुरीप्सिततमं कर्म ॥ कत्रो यदाप्तुमिष्यते तमान्तकर्मसंझं स्यात् । ययापाराश्रयत्वादसौ कर्ता तेनैव व्यापारेणाप्तुमिष्टमिति सभिधानाल्लभ्यते । तेन क्रियाफलशालित्वं पर्यवस्यति । क्रिया हि फलेच्छापूर्वकेच्छाविषयः फलमेव त्विष्टतमम् । तच धातुनोपात्तमिति तद्विशिष्टत्वेनेच्छाविषयोत्र संझी । स च त्रिविधः । उक्तञ्च । निर्वय॑श्च विकार्यञ्च प्राप्यञ्चोत विधा मतम् । तत्रे सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ॥औ. दासीन्येन यत्माप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ तथा । यदसज्जायते सदा जन्मना यत्प्रकाशते । तभिर्वत्यै विकार्यन्तु कर्म द्वेषा व्यवस्थितम् ॥ प्रकृत्यु. च्छेदसंभूतं किश्चित्काष्ठादि भस्मवत् । किञ्चिद् गुणान्तरोस्पत्त्या सुवर्णादिविकारवत् ।। क्रियाकृतविशेषाणां सिद्धियेत्र न गम्यते । दर्शनादनुमानाद्वा तत्माप्यमिति कथ्यते ॥ तत्र निवयं यथा । घटं करोतीति । घोह्यसनेव. जायते वैशेषिकादिमते । सङ्ख्यादिसत्कार्यवादिमते तु सन्नेवाभिव्यज्यते इ. त्यस्ति विशेषलक्षणम् । सामान्यलक्षणन्तु धातूपात्तोत्पत्त्या
Page #545
--------------------------------------------------------------------------
________________
४ पा. ३ आ. शब्दकौस्तुभः । ख्यफलशालित्वात् । एतेन करोतियत्नार्थक इति मतं प्रत्युक्तम् । यततइतिवदकर्मकतापत्तेः । न च जानातिवद्विषयत्वापादनपर्यंतार्थाभ्युपगमेनापि निर्वाहः । लाघवेनोत्पादनमात्रपरत्वात् । कर्तृस्थक्रियतया कर्मवद्भावासिद्धिप्रसङ्गाच्च । प्रकृतेः प्रकृतिभूतस्यात्मन उच्छेदं सम्भूतं प्राप्तम् । तद्यथा, काष्टं भस्म करोनीति । गुणान्तरोत्पत्त्या यथा, सुवर्ण कुण्डलं करोतीति । इह भस्मकुण्डलयोनिवर्त्यत्वमेवेति बोध्यम् । प्राप्यन्तु आदित्यं पश्यतीति । तथायुक्तमिति द्विविधम् । द्वेष्यमितरच्च । अकथितं चेत्यपरम् । संज्ञान्तरप्रसङ्गे चान्यत् । दिवः कर्मचेत्यादि। तदित्थंसप्त विधं कर्मेति स्थितम् । इह प्राप्ये यद्यपि विषयताख्यः क्रियाकृतविशेषोस्त्येव । अन्यथा कर्मत्वानुपपत्तेः । तथापि प्रतिपत्तृव्यतिरिक्तपुरुषापेक्षया विशेषो न गम्यतइत्युक्तम् । विकार्ये तु काष्ठादौ कथं धातूपात्तफलाश्रयतेत्यवशिष्यते । तत्रे. दं तत्त्वम् । प्रकृतिविक योरभेदविवक्षया निरूढया उत्पत्त्याश्रयता। यद्वा । काष्ठानि विकुर्वन् भस्मोत्पादयतीत्यर्थः । तण्डुलान् विल्केदयन्नोदनं निर्वत्यतीतिवत् । एतच्च व्यर्थः पचिरिति प्रक्रम्य भाष्ये व्युत्पादितम् । तत्र तण्डुलानोदनं पचतीति प्रयोगे तण्डुलनिष्ठविक्लित्तरोदनोत्पत्तेश्चानुकूलो देवदत्तनिष्ठव्यापार इत्यर्थः । तण्डुलान्पचत्यित्र तु विक्लेदयतीत्यर्थः । ओदनं पचतीत्यत्र तु विक्लित्या निवर्तयतीत्यर्थः । उक्तंच । सम्बन्धमात्रमुक्तञ्च श्रुत्या धात्वर्थभावयोः । तदेकांशनिवेशे तु व्यापारोस्या न विद्यतइति ॥ तस्माद्धातुत्वेन धातूपात्तां भावना प्रति पचित्वेन पच्युपात्ता विक्लित्तिः कर्मतया करणतया वा यथायथं सम्बध्यतइति स्थितम् । इदं त्ववधेयम् । क्रियाया धातुना कतुरपि देवदत्तादिशब्देन लामाद्यथा न द्वितीयार्थता तथेष्टनम
Page #546
--------------------------------------------------------------------------
________________
५४६
शब्दकौस्तुभः ।
[ १ अ०
त्वादेरपि प्रयोगोंपाधिमात्रत्वात् । अधिशीङादिवत् । एवञ्च तथायुक्तस्थल वेहापि धातूपात्तफलाधारमात्रमर्थः । आधेयमेव वा । तच्चाभेदेन फलेन्वेति । अनन्यलभ्यः शब्दार्थ इति न्यायात् । अन्यथा तथायुक्तत्वानीप्सितत्वयोरपि वाच्यतापत्तौ सकलतान्त्रिकविरोधाच्च । एवन्तु फलाश्रयः कर्मेत्येवास्तां किं द्विसूत्र्येत्यवशिष्यते । तत्रेदमुत्तरम् । अग्नेर्माणवकं वारयतीत्यत्र माणवकस्य अपादानसंज्ञां बाधितुमीप्सिततममिति तावद्वक्तव्यं, तस्मिथोक्ते द्वेष्योदासीनयोः सङ्ग्रहार्थं तथायुक्तमित्यपि सूत्रणीयम् । अनीप्सितग्रहणन्तु शक्यं प्रत्याख्यातुम् । तथा च कर्तृकर्मविभक्त्योरुभयोरप्याधारो वाच्यः । आधेयं वा । व्यापारेण फलेन चान्वय इति तु व्यवस्थया शब्दबोधवैषम्यमिति स्थितम् । गोदोहनी पक्ता पक इत्यादिकृदन्तानां नामार्थे ऽभेदान्वयानुरोधादाधार एवार्थः फलभावनयोस्तु विशेषणविशेष्यभावो विपरीत इत्यवधेयम् ॥
तथायुक्तश्चानीप्सितम् ॥ ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कर्मसंज्ञं स्यात् । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । चौरान् पश्यति ||
अकथितञ्च ॥ अपादानादिविशेषरविवक्षितं कारकं कर्मसंज्ञं स्यात् । नटस्य शृणोतीत्यादावतिप्रसङ्गं वारयितुं परि-गणनं कर्तव्यम् । दुहियाचिरुधिप्रछिभिक्षिचित्रामुपयोगनिमितमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदाकीर्तितमाचरितं कविना || नीवह्योईरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं कर्तव्यमिति निश्चयः । इह प्रछीत्यत्र छेचेति तुङ् न कृतः । आगमशासनस्यानित्यत्वात् सनाद्यन्ताघातव इको यणचीतिवत् । उपयुज्यतइत्युपयोगो मुख्यं कर्म क्षीरा
Page #547
--------------------------------------------------------------------------
________________
४ पा. ३ आ. शब्दकौस्तुमः । ५४७ दि तस्य निमित्तं गवादि दुह्यादीनां मुख्यकर्मणा सम्बध्यमानमिति यावत् । तथा ब्रुविशास्योगुणेन कारकेण कर्मणेति यावत् । कारकाणां क्रियां प्रति विशेषणत्वात् । तत्रापि कर्मण एवं प्रकृतत्वात् । यत्सचते सम्बध्यते । पच समवाये । स्वरितेत् । के चिन्तु परस्मपदिभिः सहैनं धातुं पठन्ति । षच समवाये, रप लप व्यक्तायां वाचीति । तन्मते पच सेवनइत्यस्यानुदात्तेतो धातूनामनेकार्थत्वात्समवाये वृत्तिोंध्या । उभयथापि सम्बध्नातेः कर्मव्यापारे सचिर्वर्तते । अत एव कर्तृपदस्य कर्मपदेनार्थकथनं न विरुध्यते । राध्यत्योदन इत्यस्य पच्यतइत्यनेन यथा उभयत्राप्योदनानिष्ठाविक्लित्तेर्भानाविशेषात् । कविना मेधाविना सूत्रकारेण तदकीर्तितामित्याचरितं व्यवहृतमित्यर्थः । अपूर्वविधाविति । पूर्वोक्तानामपादानादिसंज्ञानां विषयश्चन्नास्तीत्यर्थः । न चैवं वक्ष्यमाणयोर्हेतुकर्तृसंज्ञयोर्विषयतिप्रसङ्गः स्यादिति वाच्यम् । एकसंज्ञाधिकारेण पराभ्यां हेतुकर्तृसंज्ञाभ्यां कर्मसंज्ञाया बाधात् । पाञ्चस्तु पूर्वग्रहणमन्यमात्रोपलक्षणं तेन वक्ष्यमाणयोर्हेतुकर्तृसंज्ञयोर्विषये नातिप्रसङ्गः । मूत्रेप्यकथितमिति कथननिवृत्तिपरायानोदनायां भूतकालो न विवक्ष्यते । यथा पराजेरसोढ इत्यत्रासहिष्यमाणस्याप्यपादानसंज्ञा भवति अध्ययनात्पराजेष्यतइति तथेहापीत्याहुः । तच्चिन्त्यम् । उक्तरीत्या यथाश्रुतपि सर्वसामञ्जस्यात् । नीवत्योरिति श्लोके गत्यर्थानामित्युत्तरसूत्रोपात्तानामुपलक्षणम् । चकारेण जयत्यादयो गृह्यन्तइति कैयटः । माधवोप्याह । जयतेः कर्षतेमन्थेमुपेर्दण्डयतेःपचेः । तारेाहेस्तथा मोचेस्त्याजैदर्पिश्च सङ्ग्रहः ॥ कारिकायाञ्चशब्देन सुधाकर मुखैः कृत इति । एननिष्कर्षस्तु करिष्यते । क्रमेणोदाहरणानि । गान्दो
Page #548
--------------------------------------------------------------------------
________________
५४८
शब्दकौस्तुभः । [१ अ० ग्षि पयः। अविनीतं विनयं याचते । गामवरुणद्धि व्रजम् । माणवकं पन्थानं पृच्छति । पौरवं गां भिक्षते । वृक्षमवचिनोति फलानि । माणवकं धर्म ब्रूते शास्ति वा । अजां नयति ग्राम, वहति भारं ग्रामं हरति वा, गमयति ग्राममित्यादि । जयतेः । शतं जयति देवदत्तम् । कर्षति शाखां ग्रामम् । क्षीरधि सुधां मथ्नाति । मुष्णाति शतं देवदत्तेन । गर्गान् शतं दण्डयति । तण्डुलानोदनं पचति, तारयति कपीन् समुद्रम् । ग्राहयति बटुने- दम् । मोचयति त्याजयति वा कोपं देवदत्तम् । दीपयति शास्वार्थ शिष्यान् । स्यादेतत् । दुहादानामनिबन्धनेयं संज्ञा न तु स्वरूपाश्रया, अहमपीदमचाद्यं चोघे इति तद्राजसूत्रभाष्ये पृच्छपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शनात् । तथा च भट्टिः।
स्थास्नु रणे स्मेरमुचो जगाद मारीचमुच्चैर्वचनं महार्थम् । कालि' दासोपि, शिलोच्चयोपि क्षितिपालमुच्चैः। प्रीत्या समेवार्थमा
भाषतेवेति भारविश्व । उदारचेता गिरमित्युदारा द्वैपायनेनाभिदधे नरेन्द्र इति । तथा च भिक्षरर्थपरत्वाद्याचरपि सिद्धम् । तुल्यार्थत्वात् । पौरवं गामर्थयतइति यथा, तत्कि पाचेः पृथग्ग्रहणेनेति चेत्, अत्राहुः । अनुनयार्थोत्र याचतिः। विनयं याचते । विनयायानुनयनीत्यर्थात् । अस्तु तार्ह याचरेव ग्रहणम् । तस्याः नेकार्थत्वाद्भिरपि सिद्धमिति चेन्न । अर्थभेदेन शब्दभेद इति दर्शनमाश्रित्यानुनयार्थस्यैव पाचेरिह ग्रहणात् । अत एव हि न. यतिग्रहणेनानुनयार्थस्यापि न गतार्थता । स्पष्टार्थ भिक्षेः पृथग्ग्रहणमित्यन्ये । चकारेण पचेर्ग्रह इति यन्माधवादिभिरुक्तं तन्मतभेदेन । तथा च कर्मवत्कर्मणेति सूत्रे दुहिपच्योबहुलं सकर्मकयोरितिवार्तिकन्याख्यावसरे पचेकिर्मकता कैयटेन स्फुटीकृता। यन्तु कर्तुरीप्सिततममिति सूत्रे द्वयर्थः पचिरित्यादिभाष्यन्तन्तु
Page #549
--------------------------------------------------------------------------
________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५४९
मतान्तरेण । अन्यथा तण्डुलानोदनं पचतीति प्रयोगस्य यथाश्रुतस्योपपत्तौ किं मुधा क्लेशेन । अत एव अकfaraब्दो प्रधानार्थी गृह्येत तदा पाणिना कांस्यपात्र्यां दोग्धि पय इति पाणिकांस्यपात्रयोरतिप्रसङ्गः करणाधिकरणयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गो दुहादिपरिगणनादित्यकथितसूत्रे कथयतः कर्मवत्सूत्रे तु पचेोर्द्वकर्मकर्ता - वतो हरदत्तस्य न पूर्वापरविरोधः । मतभेदपरत्वात् । अत एव पचिधातुनिरूपणे तण्डुलानोदनं पचतीति प्रयोगं द्विकर्मकतयैव माधव उदाहृतवानिति दिक् । तथा ग्राहेर्दिकर्मकत्वं बहवो न मेनिरे । अत एव तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पितेति कालिदास श्लोके पूर्वाग्रहेदुद्यर्थतया गतिबुद्धीतिसूत्रेणाणौ कर्तुर्णौ कर्मत्वात्तमिति योजयित्वा उत्तरार्धे तेनेति विभक्तिविपरिणामेन व्याचख्युः | अत एव च अजिग्रहत्तं जनको धनुस्तद्येनार्दिददैत्यपुरं पिनाकी | जिज्ञासमानो वलमस्य बाव्होईसन्नभांक्षीद्रघुनन्दनस्तदित भट्टिप्रयोगो जयमङ्गलायामित्थं व्याख्यातः । अजिग्रह - त् । अनेन धनुषा भगवता त्रिपुरदाहः कृत इति बोधितवानति । युक्तञ्चैतत्, श्रीरघुपतिं प्रति नियोगकथनानौचित्येन स्वरूपापस्थापनस्यैव कर्तव्यत्वात् । एतेन अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाकेति व्याख्यातम् । ग्रहेर्बुद्धयर्थस्वात् । यद्वा । इषिशक्योस्तुमुनन्तसमभिव्याहृतयोर्द्विकर्मकनाया भाष्ये स्थितत्वात्सिद्धमेतदिति माधवः । ग्राहेर्द्विकर्मताभ्युपगमपक्षे तु जायाप्रतिग्राहितगन्धमाल्यामिति न सिध्येत् । तत्र हिण्यन्ते कर्तुश्च कर्मण इति प्रयोज्ये धेनुरूपे कर्मणि क्तः स्यात् । तथा च जायया गन्धमाल्ये प्रतिग्राहिता येति विग्रहे ब
·
Page #550
--------------------------------------------------------------------------
________________
५५०
शब्दकौस्तुमः । [१ अ० हुव्रीहिरेव न स्यात् । त्रिकतः शेषस्य भाष्ये स्थितत्त्वात् । सत्यपि वा तस्मिन् पुंवद्भावो दुर्लभः । सिद्धान्ते तु प्रतिग्रा. हिते गन्धमाल्ये ययेति विग्रहः । जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्पतिग्रहणं तत्कीमित्यर्थः । अन्यपदार्थान्तभीवेणेव विशेषणविशेष्यपरीत्येनैवैकार्थाभावकल्पनात् । मासजातादिवत् । व्यपेक्षापक्षे तु अषष्ठीविभक्तयर्थे बहुव्रीहौ सवत्र व्युप्तत्त्यन्तरकल्पनास्त्येव । प्राप्तादेकामित्यस्य हि उदककतकमाप्तिकर्मीभूतमर्थः । ऊढरथः । रथकर्मकबहनकर्ता । उ. पहृतपशुः । पशुकर्मकापहारसम्पदानम् । उद्धृतोदनः । ओदनकर्मकोद्धरणापादानम् । वीरपुरुषकः । वीरपुरुषकर्तृकस्थित्यधिकरणमिति दिक् । स्यादेतत् । अपादानाद्यविवक्षायां द्विकर्मकतास्तु तद्विवक्षायान्तु जायाप्रतिग्राहितेत्यादि सेत्स्यति । मैवम् । हरतश्चेति चकारेण समुच्चितानां जयत्यादीनामकाथतसूत्रविषयत्वेपि तथैव चेति समुच्चितानामणौ कर्तुौँ कर्मताभ्युपगमात् । गत्यर्थैः साहचर्यात् । अत एव तार्यादयः पृथगव सगृहीताः । युक्तञ्चैतत् । ग्रहणकर्तृत्वस्याविवक्षायां प्रयोजकस्य हेतुत्वाभावे णिचो दुर्लभत्वात् । न चैवं दीपिग्रहणवैयर्थ्यमकर्मकत्वादेवाणौ कर्तुी कर्मत्वसिद्धेरिति वाच्यम् । ण्यन्ताणिचि तत्सार्थक्यात् । शिष्याः तत्वं दीपयन्ति तानसौ प्रेरयतीत्यर्थः । नन्वेवं त्याजेः सङ्गृहीतत्वाद्यद्यपि त्याजितैः फलमुतखातैः, मुक्ताहारञ्चिरपरिचितं त्याजितो दैवगत्यत्याद सिद्धम् । तथापि गवा पयस्त्याजयतीत्यर्थ इति कैयटहरदत्तादिग्रन्थो विरुध्यतइति चैत्रविशेषाविवक्षायां कर्मत्वेपि कर्तृत्वविवक्षायां तस्य निर्वाधत्वात् । स्यादेतत् । कर्तुरीप्सिततमं कर्म तथायुक्तञ्चानीप्सितमिति सूत्राभ्यां सर्वमिदं सिद्धम् । तथाहि।
Page #551
--------------------------------------------------------------------------
________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५५१
यथा विक्लित्त्युपसर्जनं विक्लेदनं पचेरर्थः, न्यग्भावनं रुहेः, द्विधाभावनं भिदेः, तथा त्यजनोपसर्जनं त्याजनं दुहेः । दापनं याचेः भिक्षेश्च । अङ्गीकारणमपि याचेः । प्रवेशोपसर्जनमवस्थापनं रुथेः । आख्यापनं पृच्छेः । मोचनं चिञः । प्रतिवादनं वृञः । तद्विशेषस्तु शासेरित्यादि । एवञ्च धातूपात्तव्यापारविषयाश्रयत्वं गवादेःस्पष्टमेवेति । अत एवाकडारसूत्रे ऽपादानमुत्तराणि, गान्दोग्धीत्यत्र परत्वात्कर्मसंज्ञेति भाष्यं सङ्गच्छते । पञ्चकं प्रातिपदिकार्थ इति पक्षे ऽवधित्वफलाश्रयत्वयोर्युगपद्विवक्षायां चेदम् | अवधिभूता या गौस्तन्निष्टो यः क्षरणानुकूलव्यापारस्ताद्वषयिणी गोपनिष्ठा प्रेरणेत्यर्थात् । अत्रोच्य ते । कर्मणः शेषत्वेन विवक्षायां न माषाणामश्रीयादितिवत् षष्ठीं बाधितुं सूत्रम् । अपादानत्वमात्रविवक्षायां तु पञ्चम्येव, गोः क्षीरविशेषणत्वे तु षष्ठी भवत्येवेति न कश्चिद्दोषः तथा चेह पष्ठीत्सम्बन्धमात्रं द्वितीयार्थ इति स्थितम् । अथेदं विचार्यते । कर्मणि विधीयमाना लकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युगणे वेति । अत्र भाष्यम् । प्रधानकर्मण्याख्येये लादीनाहर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मण इति || अभिधाने इति शेषः । अत्र द्विकर्मणामित्यनेन नीवोहरतेश्चेति चशब्दसमुच्चितः कृषिर्नयत्यादयश्च त्रय उच्यन्ते । अन्येषां विशेषस्य वक्ष्यमाणत्वात् । तथा दुह्यादीनामित्यनेन कारिकोपात्ताः । चशब्दसमुच्चितेष्वहेतुमण्ण्यन्ता दण्ड्यादयश्चोच्यन्ते । व्यन्तइत्यनेन तु गत्यादिसूत्रोपात्ताश्चशब्दसमुचितास्तार्यादयश्च । तत्र अणौ कर्म तस्याभिधाने लादय इत्यर्थः । तत्रापि बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणीति मतांतरम् । तथा च भाष्यम् । कथितेभिहिते त्वविधिस्त्वमतिर्गुणकर्म
Page #552
--------------------------------------------------------------------------
________________
५५२
शब्दकौस्तुभः। [१ अ० णि लादिविधिः सपरे । ध्रुवचेष्टितयुक्तिषु चाथ गुणे तदनल्पमतेर्वचनं स्मरतेति ॥ अत्र प्रधानकर्मणि लादिभिरमिहिते गुणकर्मणि षष्ठीत्येकीयमतदूषणपरः प्रथमः पादः । त्वस्याः ष. कृथाः विधिरितीय त्वस्य अन्यस्य मतिर्न तु ममेत्यर्थात् । सपरे गत्यादिसूत्रोपात्तसहित दुखादौ गुणकर्मणि लादयः । गुण. कर्मेति । पुरुषप्रवृत्तेः पयामभृत्यर्थत्वात् दुहादावप्रधानं गवाधुच्यते । ण्यन्ते तु शब्दतः प्रयोजकव्यापारस्य प्राधान्यम् । प्रयोज्यव्यापारस्य त्वप्राधान्यमिति तदार्थधर्माधुच्यते । ध्रुवयुक्तयो ऽकर्मकाश्चेष्टितयुक्तयो गत्यर्थाः । एष्वगुणे प्रयोग ज्ये । न च बुद्धिमत्यवसानार्थशब्दकर्मकेषु गुणकर्मण्यवे स्यात् ण्यन्ते कर्तुश्चेत्यस्य सपरइत्यनेन बाधादिति वाध्यम् । अपर आहोति भाष्येण मतान्तरताद्यवसायात् । अत्रार्य सङ्ग्रहः । गौणे कर्मणि दुह्यादेः प्रधाने नीत्कृष्वहाम् । बुद्धि प्रत्यवसानार्थशब्दकर्मसु चेच्छया। प्रयोज्यकर्मण्यन्येषां ण्यन्ता. नामिह निश्चितः । लकृत्यक्तखलर्थानां प्रयोगो भाष्यपारगैः॥ तत्र नीप्रभृतीनां प्रधानकर्मसम्बन्धोन्तरङ्गः । दुह्यादीनान्तु विपरीतम् । तेन तदंशे न्यायसिद्धो नियमः । इतरतु सर्व वाचनिकम् । क्रमेणोदाहरणानि । गौदुवते पयः दोह्या दुग्धा सुदोहा। अजा ग्रामं नीयते नेया नीता सुनया । बोध्यते माणकं धर्मः माणवको धर्ममिति वा । देवदत्तो ग्रामं गम्यते गमयितव्यः गमितः सुगम इति । यत्तु कौमुद्या दुधाच्यर्थेत्यादिना दुह्यादीन् न्यादींश्च द्वैराश्येन पठित्वान्यादयो मुख्ये दुह्यादयो गौणइत्युक्तम् । तत्र ग्रहेः पाठो निमूल एव । जग्राह धुतरुं शक्रमित्युदाहरणञ्चायुक्तम् । इतरेषान्तु द्विकर्मकतामात्रतात्पर्यकः पाठः । न्यादयो दुखादयश्चेत्युभयत्राप्यादिशब्दः प्रकारे इति
Page #553
--------------------------------------------------------------------------
________________
४ पा. ३ आ. शब्दकौस्तुभः । सिद्धान्ताविरोधेन व्याख्येयम् । यथाश्रुते हि दण्डिमुषिभ्यां मुख्य स्यात् । तथा च गर्गाः शतं दण्ड्यन्तामिति भाष्यं विरुध्येत शतं त्वत्र प्रधानं गर्गाः अर्थिनश्च राजानो हिरण्येन भवन्तीति वाक्यशेषात् । दण्डिश्चेह ग्रहणार्थो न तु निग्रहार्थः । अत एव ह्यत्र समुदाये वाक्यसमाप्तिः । गुणानुरोधेन प्रधानावृत्तेः सम्भवात् । तथा मन्थेरपि प्रधाने स्यात् । इष्यते तु गौणे । तथा च भारविः । येनापविद्धसलिलः स्फुटनागसमा देवासुरैरमृतपम्बुनिधिर्ममन्थइति । अमृतं ह्यत्रोद्देश्यतया मुख्यम् । अम्बुनिधिस्तु गौणः । यदपि अन्ये तु यथारुचीत्युक्त्वा गोपीहावमका. यतभावश्चैनामनन्तेनेत्युदाहृतम् । तदपि न । ण्यन्ते कर्तुश्च कमण इति सिद्धान्तात् । यद्वा कृविज्ञाने इतिचुरादावात्मनेपदी बोपदेवेन पठितः । तस्येदमुदाहरणम् । बुद्धयर्थेषु पक्षद्वयस्योपपादितत्वात् । यन्तु श्रीहर्षेः प्रायुक्त । स्वक्रीडाहंसमोहग्रहिलशिशुभृशमार्थितोनिद्रचन्द्रेति, तचिन्त्यम् । शिशुना चन्द्रं पाथितेत्यप्रधाने क्तपत्यये बहुव्रीह्ययोगात् । वक्ष्यति हि । अप्रथमाविभक्तयर्थे चायमिति । न च चन्द्रे क्तः । अप्रधाने दु. हादीनामित्युक्तेः । अत एव काकपक्षधरमेत्य याचित इति कालिदासः । कृषष्ठी गुणमुख्याभ्यां कर्मभ्यां प्राप्यते पृथक् । अ. विशेषाद् द्वितीयावन्नेता ग्रामस्य गोरिति ॥ यत्रत्येकेन शब्देन भिन्नकक्ष्यद्वयाभिधा । न शक्यते तत्र युक्तमेकस्यैवोपजीवनम् ॥ प्रधाने नियता षष्ठी गुणे ह्युभयथा भवेत् । इत्याह गोणिकापुत्र इति भाष्याद गुणद्वयम् ।। नेताश्वस्य स्रुध्नस्य स्रघ्नं वा । इह प्रधाने कर्मणि नित्या षष्ठी । भाष्यकारवचनात्तु गुणकर्मणि वैकल्पिकीति स्थितम् । नन्वकर्मकाणां प्राकृत. कर्माभावात्कथं द्विकर्मकता । तथा च ण्यर्थकर्मणि प्रत्ययोस्नु
Page #554
--------------------------------------------------------------------------
________________
५५४
सब्द कौस्तुभः ।
[ १ अ० आस्यते माणवक इति । मासमिति तु प्रयोगोसङ्गतः । ध्रुवचेष्टितयुक्तिषु वाप्यगुण इति श्लोके ध्रुवग्रहणञ्च व्यर्थमिति चेन । कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । देशवाकर्मकाणामिति भाष्याद्गन्तव्योध्वा अद्य गन्तव्यः । अस्मादेव निपातनाद्गन्तव्य शब्दस्य परनिपातः । गन्तव्यतया लोके प्रसिद्धस्य नियतपरिमाणस्य क्रोशयोजनादेरेव ग्रहणम् । तेनाध्वानं स्वपितति न भवति । मासमास्ते । गोदोहमास्ते । यावता कालेन गौर्दुद्यते तावन्तं कालमास्तइत्यर्थः । क्रोशमास्ते । कुरून् स्वपिति । जन्यमात्रं कालोपाधिरिति पक्षे गोदोहादेर्यद्यपि कालत्वात्सिद्धं तथापि लोके मासादेरेव तथात्वेन प्रसिद्धत्वात्पृथग्भावग्रहणम् । देशशब्देन च ग्रामसमुदायविशेषाः कुरुपञ्चालादयो गृह्यन्ते इति कैयटः । तेनाधिशी इस्यासामित्यादेर्वेय्य नेति ध्येयम् । कालाध्वनोरत्यन्तसंयोगइति तु गुणद्रव्ययोरर्थे आरम्भणीयम् । कोशं कुटिला । मासगुडधानाः । सकर्मकार्थञ्च । मासं वेदमधीते । यद्वा आस्यादयस्तत्पूर्वके व्यापने वर्त्तन्ते तथा चोत्सर्गेणैव सिद्धम् । मासमासनेन व्याप्नोतीत्यर्थात् । तथा च द्वितीये भाष्यम् । प्राकृतमेवेदं कर्मेति । न चैवं सकर्मकेष्वप्यतिप्रसङ्गः । लक्ष्यानुरोधेनाकर्मकाणामेवोक्तप्रकाराभ्युपगमात् । आह च । कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते इति ॥ डेला जस्त्वाह । सकर्मकेष्वपि मासमोदनं पचतीति भवत्येव । अत एवोक्तं सर्वैरिति । अकर्मकैरिति त्वविवक्षितमिति कैयटोप्येवम् । अस्मिन्पक्षे मासमास्ते कटे इति कटादेरपि द्वितीया प्राप्ता तथापि कालादेरेव व्यापनकर्मत्वं न तु कटादेरिति हेलाराजः । अनभिधानञ्चेह शरणम् । अधिशीङित्यादिज्ञापकं
1
Page #555
--------------------------------------------------------------------------
________________
४ पा. ३ आ.
शब्दकौस्तुमः ।
५६५
वा बोध्यम् । इह च कर्मणि भावे च लकारे देवदत्तेनास्यते मासो मासं वेति रूपद्वयमपीष्टम् । स्यादेतत् । भावेचाकमभ्य इति वचनान्यासादिकर्मकात्कथं भावे ल इति चेत् । उच्यते । अकर्मकेभ्य इत्यनेनान्तरङ्गं द्रव्यकर्म व्युदस्यते न तु बहिरङ्गं कालादिकर्म । कर्मणीत्यत्र तु व्यक्तिपक्षाश्रयणादन्तरङ्गासन्नि
वहिर कालादिकर्मण्यपि प्रतिरविरुद्धा | जातिव्यक्तिपक्षयोर्लक्ष्यानुरोधेन व्यवस्थेति सिद्धान्तात् । उक्तञ्च हरिणा । शक्तिप्रमाण संख्यादेर्द्रव्यधर्माद्विशिष्यते । क्रियासु कालयो गोतः प्राग्योगो द्रव्यकर्मणेति । अतस्तैः कर्मभिर्धातुयुक्तो द्रव्यैरकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पतइति च ॥ एतेन सस्तेमघमघाभिधानि यमुना गङ्गौघसङ्के ययेति श्रीहर्षमयोगो व्याख्यातः ||
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता सणौ ॥ गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यःकर्ता स णौ कर्मस्यात्। नियमार्थमिदम्। णिजर्थेनाप्यमानस्य यदि भवति ता गत्यर्थादीनामेवेति । तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये पूर्ववृप्रत्तकर्तृ संज्ञाया एव निरपवादत्वेनावस्थाना तृतीया सिद्धयति । आह च । गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मताङ्गतः । नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयतइति ॥ कर्तुः स्वधर्मेण तृतीययेत्यर्थः । गमयति माणवकं ग्रामं ग्रामकर्मकं यद्गमनं तदनुकूलव्यापाराश्रय इत्यर्थः । नीवह्योः प्रतिषेधो वक्तव्यः ॥ यद्यप्येतयोः प्रापणमर्थो न तु गतिस्तथापि विशेषणतया गतिरपि वाच्यकोटिनिविष्टेत्येतावन्मात्रेण प्राप्तिं मत्वा प्रतिषेध उक्तः । नाययति वाहयति वा भारं देवदत्तेन । वहेरनियन्तृकर्तृकस्यैव प्रतिषेधः ॥ नियन्तृकर्तृकस्प प्रयोज्यः कर्मेति वक्तव्यमिति फलितार्थः । वहन्ति वाहाः वा
:
Page #556
--------------------------------------------------------------------------
________________
५५६
शब्दकौस्तुभः । [१ अ० हयति वाहान् रथिनं मूतः । या पापणइत्यत्र तु गतिरेव प्रापणशब्दार्थः । याति गच्छतीत्येकार्थप्रतीतेः । तेन कालं पाचयतीत्यादौ प्रयोज्यस्य कर्मता बोध्या। बुध्यर्थग्रहणेन ज्ञानसामान्यवाचिन एव गृह्यन्ते न तु तद्विशेषवाचिनः स्मरत्यादयः । अत एव श्रुदृशोरुपसङ्ख्यानं करिष्यते । बोधयति माणवकं धर्मम् । प्रत्यवसानं भक्षणम् । भोजयति आशयति माणवकमोदनम् । आदिखायोः प्रतिषेधो वक्तव्यः ॥आदयति खादयत्यन्नं बटुना।भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः ॥ हेतुमण्णिजन्ते विधिरिति प्र. तिषधोप्यणावित्ययं सविधानात्तद्विषयः । तेन चुरादिणिजन्तेपि भक्षयतौ प्राप्तिसत्वात्मतिषेध उपसङ्ख्यातः। भक्षयत्यत्रं बटुना । अहिंसार्थस्येति किम् । भक्षयन्ति बलीवर्दाः सस्यम् । भ. क्षयति बलीवर्दान् सस्यम् । क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा द्रष्टव्या तस्यामवस्थायान्तेषां चेतनत्वाभ्युपगमात् । शब्दः कर्मकारकं येषान्ते शब्दकर्माणः न त्विह कर्तरिकर्मव्यतिहारइत्यत्रेव कर्मशब्दः क्रियापरः। गतिबुद्धिप्रत्यवसानशब्दार्थेति वक्तव्ये ऽर्थशब्दात्कर्मशब्दस्य पृथगुपादानात् अध्याययति पाठयति माणवकं वेदम् । जल्पतिप्रभृतीनामुपसंख्यानम् ॥ जल्पयति वि. लापयति आभाषयति पुत्रं देवदत्तः। दृशेश्वोपसंख्यानम् ॥ द.
यति हरि भक्तान् । यद्यपि दृशेर्ज्ञानसामान्यपरत्वे बुद्वयर्थत्वादेव सिद्धं तथापि ज्ञानविशेषार्थतायां न सिध्यतीत्युपसंख्यानमारब्धम् । श्रावयति श्लोकं देवदत्तमिति तु शब्दकर्मत्वात्सिदम् । शब्दक्रियाणामिति व्याख्याने तु शणोतेरुपसंख्येयं स्यात् । व्हयतिक्रन्दत्योश्च प्रतिषेध्यं स्यात् । व्हाययति क्रन्दयति वा देवदत्तेन । दृशेस्तूभयथाप्युपसंख्येयं स्यात् । शब्दायतेश्चोभयथा प्रतिषेध्यम् । अकर्मकत्वादपि यत्र प्रसंगः। शब्दलक्षणस्य कर्म
Page #557
--------------------------------------------------------------------------
________________
४ पा. ३ आ. शब्दकौस्तुभः ।
५५७ णांतर्भावात् कर्मान्तरायोगाच्च शब्दाययति देवदत्तेन । अकर्मकग्रहणेन तु येषां कालादिभिन्न कर्म न सम्भवति ते गृह्यन्ते । न त्वविवक्षितकर्माणापि । तेन मासमासयति देवदत्तमित्यादौ कर्मचं सिद्धम् । देवदत्तेन पाचयतीत्यादौ च न भवति । ग. त्यर्थाकर्मकेति सूत्रप्येवम् । अत एवाविवक्षितकर्मकेभ्यः पचिददातिप्रभातभ्यः कर्तरि तो न । अन्यथा पक्ववान् दत्तवानित्यर्थे पक्वो दत्त इति स्यात् । लाकर्मणीति सूत्रे तु अविवक्षितकमणां असम्भवत्कर्मणां वा ग्रहणम् । अत एवाविवक्षितकर्मणां न भावे लादय इतीह सूत्रे वदतो जेरणावित्यत्र तु नेह पच्यतइति भावे लकार इति ब्रुवतो हरदत्तस्य मतभेदपरत्वान पूर्वापरविरोध इति दिक् ॥
हकोरन्यतरस्याम् ॥ हा च का चेति विग्रहः । ह्रस्व क्रुश्चेति वा । अनयोरणौ कर्ता णौ वा कर्म स्यात् । नवेतिविभाषासूत्रे : उभयत्रविभाषास्विदं वार्तिककृता पठितम् । तथाहि । अभ्यवहारयति माणवकमोदनं माणवकेन वेत्यत्र प्रत्यवसानार्थत्वाप्राप्ते विकुर्वते छात्राः विकारयति छात्रान् छात्रवेत्यत्राकमकत्वात्माप्ते इतरत्र त्वमाप्ते विभाषेयम् । अभिवादिदृशोरात्मनेपदे वेति वक्तव्यम् ॥ अभिवादयतेरमाप्ते विभाषा | दृशेस्तु बुद्धयाद्यर्थत्त्वादुपसङ्ख्यानाद्वा प्राप्ते । आभिवादयति गुरुंदेवदत्तः अभिवादयते गुरुं देवदत्ते देवदत्तेन वा । णिचश्चेत्यात्मनेपदम् । परस्मैपदे तु अभिवादयाति गुरुं देवदत्तेन । दर्शयते राजानं भृत्यान् भृत्त्यैर्वा । कर्मसंज्ञाभावपक्षे कमान्तरस्याभा. वाणेरणावित्यात्मनेपदमन्यत्र तु णिचश्चेतीति पाञ्चः । वस्तुतस्तु णिचश्चेत्येव युक्तम् । णेरणावित्यस्य तु नायं विषयः । णिज्वाच्यप्रयुक्तिभेदादिति तत्रैवोपपादितम् ॥
Page #558
--------------------------------------------------------------------------
________________
५५८
शब्दकौस्तुभः । [१ अ. स्वतन्त्रः कर्ता ॥ क्रियाया स्वातन्त्र्येण विवक्षितोर्थः कर्ता स्यात् । धातूपात्तव्यापाराश्रयत्वं स्वातन्यम् । आह च । धा. सुनोक्तक्रिये नित्यं कारके कर्तृतेष्यतइति कर्मकर्तर्यप्यस्तदिम् । फलव्यापारोवधिकरण्यमात्रस्य पचावौत्सर्गिकस्य परं त्यागः । विशकलितशक्तिपक्षे विशिष्टशक्तिपक्षे चेदं तुल्यम् । नि. वृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितमिति पक्षे तु प्रधानभूतधात्वर्थ एवेह क्रिया धातुत्वं तु भूतपूर्वभावनार्थत्वात् । एतेन कारकाणां क्रियान्वयनियमोपि द्वेधा व्याख्यातः । देवदत्तः पचति । स्थाली पचति । अनन्यलभ्यस्य शब्दार्थत्वादाश्रयों लकारार्थः । देवदत्तेन पच्यते । देवदत्तरूपो य आश्रयस्त द्विशियो विक्लित्त्यनुकूलव्यापार इत्यर्थः । वैशिष्टयं चाधेयतारूपं संसगमर्यादया भासते ॥
तत्प्रयोजकोहेतुश्च ॥ तस्य कर्तुः प्रयोजको हेतुसंज्ञः स्याचात्कसंज्ञः । संज्ञासमावेशार्थश्चकारः । कुर्वन्तं प्रेरयति कारयति हरिः । हेतुत्वात्तद्वयापारे हेतुमतिचेति णिच् । कर्तृत्त्वाकर्तरि लकारः॥
इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य चतुर्थे . पादे तृतीयमान्हिकम् ॥
माग्रीश्वरानिपाताः ॥ अधिरीश्वरइत्यतः माक् प्राङ्निपाता इत्यधिक्रियते । तन्त्राद्याश्रयणात् । तेन पूर्व निपातसंज्ञाः सन्तः पश्चाद्गत्यादिसंज्ञा इत्यर्थात्संज्ञासमावेशः सिध्यति । अ. न्यथा गत्युपसर्गकर्मप्रवचनीयसंज्ञानां निपातसंज्ञायाश्च पर्यायः स्यात् । तन्त्रादौ प्रमाणं तु माग्ग्रहणसामर्थ्यमेव अन्यथा रीश्वरादिति पञ्चम्यैव दिशब्दाक्षेपात्किं तेन । न च परशब्दाक्षेपप्रसङ्गः । चादयोसत्वे प्रादय इत्येतयोर्विधेययोलाभेना
Page #559
--------------------------------------------------------------------------
________________
२४ पा. ४ आ.
शब्द कौस्तुभः ।
नन्वयापत्तेः । रेफविशष्टग्रहणं किम् । ईश्वरेतोसुन्कसुनावित्यस्य व्याप्तिन्यायेनावधित्वं मा भूत् । वस्तुतस्तु मास्तु रेफः प्रत्यास च्या ऽभिमतसिद्धेः अव्ययीभावस्यान्यय संज्ञारम्भाच्च । न चासौ समासेप्यव्ययीभाव एवेति नियमार्थे स्यादिति वाच्यम् । गौरवग्रस्तं व्याप्तिन्यायमाश्रित्य नियमार्थत्ववर्णनापेक्षया प्र त्यासत्तेर्विध्यर्थतायाश्च न्याय्यत्वात् । अत एव नलोकेति सूत्रे अव्ययात्पृथक लोकादीनां ग्रहणमप्युपपद्यतइति दिक ॥
चादयोसत्वे ॥ चादयो निपातसंज्ञाः स्युः न तु द्रव्ये । निपातत्वादव्ययत्वम् । च वा इत्यादिवस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोर्थो भेद्यत्वेन विवक्षितः । लिङ्गसख्यान्वयि द्रव्यमिति वा । असत्वे किम् । पशुना यजेत, पशु शब्दश्चादिः । चः समुच्चय इत्यपि प्रत्युदाहरणम् । न चात्र प्रकृतिवदनुकरणमित्यतिदेशात् निपातत्वं दुर्वारमिति वाच्यम् । अतिदेशस्यानित्यतायाः ऋलमूत्र एवोपपादितत्वात् । मस ज्यप्रतिषेधः किम् । वातीति वाः विप्रातीति विमः । इह क्रि. याविशिष्टद्रव्यवाचकतया क्रियायाश्चासत्वरूपत्वान्निपातता स्यात् ततश्च विमशब्दस्याप्यव्ययसंज्ञा स्यात् । प्रयोजनं सर्वनामाव्ययसंज्ञायामित्युक्तत्वात् । अथ चादयः । च वा ह अह एव एवं नूनं शश्वत् युगपत् भूयस् कूपत् प्रश्नवितर्कप्रशंसास्वयम् । एवं सुपदपि । कुविदिति भूयोर्थे योगप्रशंसास्तिभावेषु च । नेदिति शङ्कायाम् । निज्जिह्मायन्तोनरकंयताम | नेदेवसापुनजन्नदेवा इत्यादौ तु न इदितिं पदद्वयं पठ्यते । तस्मान्निपातसमदायोयं बोध्यः । निपातैर्ययदीति निघातनिषेधः । प्रतिषेविचारसमुच्चयेष्वयमिति तु शाकटायनः । चेत् चण् अयं चेदथे णितसमुच्चया खननुबन्धः । इदं च निपातैर्ययदीत्यत्र
५५९
-
Page #560
--------------------------------------------------------------------------
________________
५६० . शब्दकौस्तुभः । [१ अ० स्फुटीभविष्यति । कच्चित् । यत्र । नह निश्चितनिषेधे । हन्त हर्षेनुकम्पायां च । माकिः माकी एतौ निषेधे । माकिर्नेशन्माकीरिषन्माकीसंशारिकेवटेत किस्सम्भावितनिषेधेन किरिन्द्रत्वदुत्तरः । नकिरेवायथात्वहिकंनुकम् । मुआकी नकी नकिः । माकी मांकिः । आकृतमिति वेदनिघण्टुः । आमिश्राणि नवोत्तराणीति तयाख्यायां यास्कः । माङ् । माडिलुङितिविशेषणार्थो डकारः । मा भवतु मा भविष्यतीत्यत्र निरनुबन्धो मा. शब्दः । न । अकारो नलोपो नब इति विशेषणार्थः । नस्येत्युक्ते तु पामनपुत्र इत्यत्रापि स्यात् । न च सिद्धान्तपि स्रणपुत्रेतिप्रसङ्ग वारयितुं अलुगुत्तरपदइत्युत्तरपदाक्षिप्तेन पूर्वपदेन नबोवश्यं विशेषणीयत्वात्तेनैव पामनपुत्रस्यापि सिद्धेः किं ब. कारणेति वाच्यम् । नकधागमिकर्मीकृतनैकनीवतेत्यादौ निषे. धार्थेन नशब्देन सहसुपति समासेतिव्याप्ति वारयितुं बित्वस्याप्यावश्यकत्वात् नया पूर्वपदस्य विशेषणेपि अनन्यार्थवित्वस्य निपातस्यैव ग्रहणं न तु वृद्धयो चरितार्थत्रकारस्य तद्धितस्थापीति तु प्राचां ग्रन्यस्योक्तिसम्भवो बोध्यः । यावत् तावत् । त्वै वै एतौ वितर्के । श्रौषट् । वौषट् । स्वाहा । वषट् । स्वधा । ॐ । तथा । हिरुक् । खलु । किल । अथ । सुष्ठु । आदहेति हि सोपक्रमकुत्सनेषु । आदहस्व धामन्नित्यत्र तु पदकारा आदिति पृथक् पठन्ति । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च ।। अवदसं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते । अच उपसर्गात्त इति घोस्तत्वं न भवति । उपसर्गप्रतिरूपकत्वेप्यनुपसर्गत्वात् । विभक्तिमतिरूपको य. था । अहम् । शुभम् । अहंयुः । शुभंयुः । अहंशुभमोर्युम् । चिरेण । अन्तरेण । चिराय । अचिरात् । अकस्मात् । चिरा
Page #561
--------------------------------------------------------------------------
________________
४ पा. ४ आ. शब्दकौस्तुभः ।
५६१ स्य मम । ममत्वं गतराज्यस्य । वेलायां मात्रायामित्यादि। ए. तेन गेये केन विनीतौ वामिति व्याख्यातम् । वामित्यस्याव्ययस्य युवामित्यर्थात् । आह आसेत्यादीनि तु तिङन्तप्रतिरूपकाणि । स्वरास्तु सम्बोधनभर्त्सनानुकम्पापादपूरणप्रतिषेधेषु यथासम्भवं बोध्याः । अ अपेहि आ एवं मन्यसे । इ इन्हें पश्य । ई ईशः। ऊ ऊपरे बीजं वपति । ए इतो भव। ओश्रावय । ऋ ऋल ऐ औ एते मन्त्रस्तोमाः। पश्चिति सम्यगर्थे । लोधं नयन्ति पशुमन्यमानाः । शुकमिति शीघ्रत्वे । यथा कथाचेत्यनादरे । पाट् प्याट् अङ्ग है हे भो अये इत्यादयः सम्बोधने । घेति हिंसामातिलोम्यपादपूरणेषु । विषु इति नानार्थे । एकपदे इत्यकस्मादर्थे । निहन्त्यरीनेकपदे । पुतइति कुत्सायाम् । कुत्सितमवयवञ्छादयति इति पुच्छः । डापुलिति लान्तमिति शाकटायनः। कुत्सितं कसति गच्छतीति पुल्कसः। अस्मीत्यहमर्थे । त्वामस्मि वच्मि विदुषां समवायोत्र तिष्ठति । आत इति इतोपीत्यर्थे । इत्यादि । आकृतिगणश्चायम् ॥
प्रादयः ॥ एते निपातसंज्ञाः स्युनं तु सत्वे । प्रपरा अप सम् अनु अब निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप एते प्रादयः । तत्र निस्दस् इमौ सान्तौ । निसस्तपतावनासेवनइतिनिर्देशादित्युपसर्गस्यायताविति सूत्रे वृत्तिः । निरः कुषः सुदुरोरधिकरणे इत्याद्यनुरोधाद्रेफान्तावपीति तत्रैव सूत्रे हरदत्तः। अद्रव्ये किम् । विः पक्षी । पराः सेनाः॥
उपसर्गाः क्रियायोगे।।प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः॥
गतिश्च ॥ प्रादयो गतिसंज्ञाः स्युः क्रियायोगे । पुल्लिङ्गोयं गतिशब्दः । गतिरनन्तर इति लिङ्गात् । अव्युत्पन्नश्चायं क्तिज
Page #562
--------------------------------------------------------------------------
________________
५६२.
शब्दकौस्तुभः ।
[ १ अ०
न्तो वा । नक्तिचिदीर्घश्येति तु न प्रवर्तते । अत एव निर्देशात् । उपसर्गसंज्ञया सह समावेशार्थश्चकारः । अन्यथा पर्यायः स्यात् । तेन प्रणेयमित्यादौ णत्वं कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति । निपातसंज्ञायास्तु समावेशः प्राग्ग्रहणेन साधित एव । इह यत्कि - यायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । योगग्रहणसाम र्यात् । तेन प्रवृद्धं कृतं प्रकृतमित्यत्र गतिरनन्तर इति स्वरो न । कर्मणि क्तान्तं प्रत्यगत्तित्वात् । कृञर्थविशेषकत्वे तु स्यादेव । तथा प्रवृद्धो भावः प्रभाव इत्यत्र त्रिणभुवानुपसर्गइति घब् सिद्धः । एवं प्रणाययत्यभिपाचयतीत्यादौ प्रकृत्यर्थंगत प्रकर्षाभिमुख्यद्योतकतायां णत्वषत्वे स्तः । ण्यर्थविशेषकत्वे तु नेति बोध्यम् । निपातसंज्ञा तु क्रियायोगं विनाप्यस्ति । एतदर्थमेव हि प्रादय इति योगो विभक्तः । तेन प्रगत आचार्य: प्राचार्य इत्यत्राव्ययपूर्वपदप्रकृतिस्वरः सिध्यति । उपर्गसंज्ञायां मरुच्छब्दस्योपसंख्यानम् || मरुत्तः । उपसर्गसंज्ञा विधानसामर्थ्यादजन्तत्वाभावेप्यचउपसर्गात्त इति तत्वं प्रवर्ततइत्याहुः । एवं च मरुभयतीत्यत्र णस्वमपि प्राप्नोति । तस्मात्तत्वएव संज्ञा वक्तव्या । अत एव कि विधिरङ् च न भवति । निपातसंज्ञा तु नास्येष्टा । तेन तृतीयाकर्मणीति पूर्वपदप्रकृतिस्वरे कृते मरुत्तब्दो मध्योदातः । निपातत्त्वे त्वाद्युदात्तः स्यात् । न चोपसर्गाश्चाभिवर्जमिति फिट्सूत्राद्दोषत्तादवस्थ्यं शक्यम् । निपाता आनुदात्ता इत्येव सिद्धे ऽभेः प्रतिषेधमात्रार्थं तत्सूत्रारम्भादिति हरदत्तादयः । अत एव नाभिरित्येव सूत्र्यताम् । मास्तु वा तदपि । एवादिषु अमेः सुपठत्त्वादित्यवोचाम । एवं च तपर्वमरुद्द्भ्यामिति म रूत शब्दव्युत्पादने उपायान्तरं बोध्यम् । तत्र च तपः पित्वमेव सम्यक् । तन्निति नित्वपाठस्तु क्वाचित्कः प्रामादिकः । अन्य
Page #563
--------------------------------------------------------------------------
________________
४ पा. ४ आ.
शब्द कौस्तुभः ।
1
था मरुतशब्दस्यायुदात्ततापत्तौ प्रकृतसूत्रस्थकै पटादिविरोधापत्तेः । मत्वर्थीयप्रकरणे तनो नित्त्वं मरुत्तशब्दस्याद्युदात्ततां चावलम्ब्य प्रवृत्तो हरदत्तग्रन्थस्तु चिन्त्यः । पर्वतश्चिन्महि वृद्धो विभाषेत्यादौ पठ्यमानं पर्वतशब्दस्याद्युदात्तत्वं तु द्वेधापि सिध्यति । नव्त्रिषयस्यानिसन्तस्येति पर्वतशब्दस्याद्युदात्तत्वात् । श्रच्छन्दस्याद्विधावुपसंख्यानं ॥ श्रद्धा भिदादिपाठात्मज्ञाश्रद्धेतिनिपातनाद्वा सिद्धम् । अन्तःशब्दस्याङ्किविधिणत्वेषूपसंख्यानम् ॥ एतच्चान्तरपरिग्रहे इत्यत्र भाष्ये स्थितम् । अन्तर्धा । अन्तर्द्धिः । अन्तर्हण्यात् । हन्तेरत्पूर्वस्येति णत्वं । एवं चान्तरदेशइति न कर्तव्यम् । देशे तु क्षुम्नादित्वाणस्वाभावः । अयनं चेत्यपि न कर्तव्यम् । कृत्यच इति सिद्धेः । देशे तु क्षुभ्रादिता बोध्येति कैयटः । देशे निषेधार्थं मूत्रद्वयमिति तु हरदत्तः । पक्षद्वयपि अन्तर्णयति अन्तर्भवाणीत्यादौ यथायथं णत्वं बोध्यम् । सुदुरोः प्रतिषेधो नुम्विधितत्वषस्वणत्वेषु || सुलभं । दुर्लभम् । उपसर्गात्खल्घञोरिति नुम् न । एतच्च प्रयोजनमापाततः । नसुदुर्ज्या केवलाभ्यामिति सूत्रस्यावश्यारभ्यत्वात् । अन्यथा ऽतिसुलभमित्यत्र नुम् न स्यात् । तत्त्वं, सुदत्तम् । अचउपसर्गादिति तत्वं मा भूत् । पत्वं दुःस्थितिः। प्रक्रियाजालदुःस्थम् | मुसिक्तम् । सुस्तुतम् । सुःपूजायामिति तु कर्तव्यमेव पूजायामिति विशेषणार्थम् । तेन सुषिक्तं किं तवात्यादौ पत्वं भवत्येव । कथं तार्ह फलवद्भावनोद्भूतकथम्भावतिरोहिताः । नैवाङ्गानां कथं भावाः प्रादुष्यन्ति कथं च नेति । सत्यम् । नेदमुपसर्गत्वप्रयुक्तं किन्तूपसर्गप्रादुर्भ्यामित्यत्र प्रादुसः पृथग्रहणप्रयुक्तम् । एतेन प्रादुष्यन्तीति पठित्वा म आङ दुरु इत्युपसर्गत्रिकपूर्वस्य स्वतेरुपसर्गात्सुनोतीत्यादिना पत्वमिति व्या
५६३
Page #564
--------------------------------------------------------------------------
________________
शब्दकौस्तुभः । [१ भ. चक्षाणाः परास्ताः। दुर उपसर्गतायाः षत्वविधौ निषेधात् । स्यसेरर्यस्य प्रकृतासम्बन्धाच्च । णत्वम् । दुर्भातम् । दुर्नयः । एतेन दुरः परस्य णत्वं नेति के चिदिति पठित्वा सिद्धान्ते णत्वमिति भ्राम्यन्तः परास्ताः । गतिसंज्ञायां कारिकाशब्दस्योपसङ्ख्यानम् ॥ कारिकाकृत्य । कारिकाकृतम् । यत्कारिकाकरोति । तिडिचोदात्तवतीति गतेनिघातः । निपातत्वादव्ययत्वे सति विभक्तेलुक । कारिका क्रिया। मर्यादा स्थितिरित्यर्थः। यत्न इ. त्यपरे । धात्वर्थनिर्देशइति ण्वुल् । यस्तु कर्तरि ण्वुलन्तः का. रिका दासीति । यश्च श्लोकवाची तयोर्नेह ग्रहणम् । क्रियायोगइति कारिकाशब्दस्य विशेषणात्। क्रियाहत्तरेव ग्रहणात् । पुनश्च न सौ छन्दसि गतिसंज्ञाविति वक्तव्यम् ॥ पुनराधेयम् । गतित्वात्समासः । कृदत्तरपदप्रकृतिस्वरेण यतोनाव इति धेशब्द उदात्तः । पुनरुत्स्यूतं वासः । इहापि गतित्वात्समासः । स्वरस्तु प्रवृद्धादेराकृतिगणत्वादन्तोदात्तत्वम् । काठकान्तोदातः पठ्यते । शेषनिघातेन पुनःशब्दो ऽनुदात्तः । गतिर्गताविति निघातं वदन वृत्तिकारस्तु परत्वात्तस्य न्याय्यतां मन्यते । चनीहितः । चायेरन्ने दूस्वश्चेत्यसुन्नन्तत्वानिपातत्वाद्वाऽद्युदातस्य चनःशब्दस्य गतिरनन्तर इति प्रकृतिस्वरः ॥ :ऊर्यादिविडाचश्च ॥ एते गतिसंज्ञाः स्युः क्रियायोगे। कृभ्वस्तियोगे चिडाचौ विहितो। तत्साहचर्याद्रूपादयोपि तद्योगएव प्रयुज्यन्ते नान्यत्र । अनभिधानाच । तत्राप्याविःमादुःशब्दो मुक्त्वा ऽन्येषां करोतिनैव योग इति माधवादयः । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति तथापीह सामर्थ्यात् च्चिडाजन्तग्रहणम् । न हि प्रत्ययमात्रस्य क्रियायोगः संभवति । स्वार्थिकत्वेनानर्थकत्वात् । च्चेरश्रावित्वाच्च । ऊररीकृत्य शुक्लीक
Page #565
--------------------------------------------------------------------------
________________
४ पा. ४ आ.
शब्द कौस्तुमः ।
५६५
त्य पटपटाकृत्य । इदमवधेयम् । श्रौषडादीनां स्वाहान्तानां चादिष्वपि पाठादक्रियायोगेपि निपातत्वम् | आविःशब्दस्य साक्षात्प्रभृतिषु पाठात्कृञो योगे विकल्पः । स्वस्तियोगे त्वनेन नित्यमिति । कथं तर्हि वारुणीमदविशंकमयाविश्वक्ष्युषो भवदसाविव इति माघः । अभवद्युगमद्विलोल जिव्हा गुगलीटोभयस्टक्वभागमाविरिति च । निरंकुशाः कवय इति हरदत्तः । वस्तुतस्तु नेह दोषलेशमपि पश्यामः । तथाहि । गतित्वाद्धातोः प्राक प्रयोगः प्राप्नोतीति त्वदीयपूर्वपक्ष सर्वस्वम् । तच्च भाष्यवार्तिकयोरेव निराकृतप्रायम् । तेप्राग्धातोरिति सूत्रं हि द्वेधा व्याख्यातं प्रयोगनियमार्थं संज्ञानियमार्थे चेति । तत्रान्त्यपक्षे प्राक् चाप्राक् च प्रयोक्तव्याः । प्राक्तु प्रयुज्यमानाः संज्ञां लभन्तइति स्थितम् । इममेव च पक्षमाश्रित्यानुकरणं चेति सूत्रे ऽनितिपरमिति प्रत्याख्यातम् । एवमेव छन्दसिपरेपि व्यवहिताश्चेति मूद्वयमपि प्रत्याख्यातम् । अत एव तेप्रागिति सूत्रे सुकटं कराणि वीणानीति भाष्यं कर्तृकर्मणोश्च भूकृञोरिति सूत्रे स्वायम्भवमिति भाष्यवृत्तिग्रथौ । च्व्यर्थयोः किं स्वाढ्येन भूयतइति वृत्तिग्रन्थश्च सङ्गच्छते । एतेन वृत्तेः प्रामादिकतां वदन् आढ्येन सुभूयतइति पाठः कर्तव्य इति शिक्षयन् हरदत्तोप्यपास्तः । पक्षान्तरैरपि परिहारा भवन्तीति न्यायेन संज्ञानियमपक्षे सर्वस्य सामञ्जस्यात् । एतेन पुरोरामस्य जुहवाञ्चकार ज्वलने वपुरिति भट्टिः । तस्य स्थित्वा कथमपि पुर इति कालिदासश्च समर्थितः । न च पुरोव्ययमित्यस्य कृञ्मात्रविषयत्वमिति भ्रमितव्यम् । कृञोनधिकारात् । तुरासाहं पुरोधायेत्यादिप्रयोगाच्चेति दिक् । जरी ऊरी उररी एते त्रयोङ्गीकारे विस्तारे च । विताली भूसी एतौ विस्तारे । शकला संसकला ध्वंसकला भ्रंसक
Page #566
--------------------------------------------------------------------------
________________
५६६
शब्दकौस्तुभः ।
[ १ अ०
ला एते चत्वारो हिंसायाम् । शकला कृतेत्यादि । हिंसिस्वेत्यर्थः । गुलुगुधा पीडार्थे । गुलगुधाकृत्य । पीडयित्वेत्यर्थः । सजूः सहार्थे । फलफली चिक्की आक्ली एते विकारे । अलोष्टी केवली सेवाली शेवाली वर्षाली मसमसा भस्मसा एते हिंसायाम् । वषद् वौषट् स्वाहा स्वधा पांपी करुणाविलापे । पापीकृत्य । करुणं विलप्येत्यर्थः । प्रादुः प्राकट्ये | थत् शीघ्रार्ये । श्रत्कृत्य । आविः प्राकट्ये । आविष्कृत्य । गरत्ने त्वन्येपि संगृहीताः । तथाहि । पापाली सङ्कला केवासी एते हिंसायाम् । वार्दाली यार्दाली आलम्बी एते प्राकाश्ये हिंसायां च । इत्यूर्यादयः ॥
अनुकरणञ्चानितिपरम् ॥ गतिः स्यात्क्रियायोगे । खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् । सति हि गतित्वे प्रयोगनियमपक्षे धातोः प्राक् प्रयोगः स्यात् । अनुकरणत्वजात्याक्रान्तस्येतिशब्दे परे ऽयंनिषेधः । तेन श्रौषड्वौषडितिकृत्वा निरष्ठीवदित्यत्र श्रौषट्शब्दस्यापि निषेधः । संज्ञानियमपक्षे तु अनितिपरग्रहणं न कर्तव्यमिति । परस्परसंझाप्राप्तेरेवाभावात् ॥
आदरानादरयोः सदसती ॥ क्रमाद्वतिसंज्ञे स्तः । सत्कृ। असत्कृत्य । प्रीतिपूर्विका प्रत्युत्थानादिविषया त्वरादराः । अवज्ञया प्रत्युत्थानादावुपेक्षा त्वनादरः । एतयोः किम् । सत्कृत्वां । असत्कृत्वा । शोभनमशोभनं च कृत्वेत्यर्थः ॥
भूषणेऽम् || गति संयं स्यात् । अलंकृत्य । भूषणे किम् । अलंकृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणमित्यादयस्त्रयो योगाः स्वभावात्कृविषया इति माधवः ।
अन्तरपरिग्रहे ।। स्पष्टम् | अन्तर्हत्य | मध्ये इत्वेत्यर्थः ।
Page #567
--------------------------------------------------------------------------
________________
४ पा. ४ आ. शब्दकौस्तुभः। ५६७ 'अपरिग्रहे किम् । अन्तर्हत्वा मूषिका श्येनो गतः । परिगृह्य गत इत्यर्थः । अत्रेदमवधेयम् । हत्वा गमनं द्विधा । इतं त्यक्त्वा परिगृह्य चेति । आयमुदाहरणम् । द्वितीयं प्रत्युदा हरणम् । अपरिग्रहे इति च प्रयोगोपाधिने तु वाच्यकोटिनि विष्टमिति ॥
कणेमनसी श्रद्धापतीघाते ॥ गती स्तः । कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातोभिलाषातिशये वर्तते । मनःशब्दोप्येवम् । अतिशयेनाभिलष्या तनिवृत्तिपर्यन्तं पिबतीत्यर्थः। ततश्च श्रद्धाया अपगमात्तत्प्रतीघातो धातुगतिसमुदायगम्यः। श्रद्धाप्रतीपाते किम् । कणेहत्या गतः । मनोहत्वा । सूक्ष्मतण्डुलावयवः कणस्तस्मिन् हत्वेत्यथः । मनःशब्दस्तु चेतसि ॥
पुरोव्ययम् ॥ पूर्वाधरावराणामिति व्युत्पादितो ऽसिप्र. त्ययान्तोव्ययं तथाभूतः पुरःशब्दो गतिसंज्ञः स्यात् । पुरस्कृत्य । नमस्पुरसोरिति सत्वम् । अव्ययं किम् । पू: पुरी पुरः कृत्वा ॥
___ अस्तञ्च ॥ अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । अ-: स्तङ्गन्य । अव्ययमित्येव । अस्तं काण्डम् । क्षिप्तमित्यर्थः ॥
__ अच्छगत्यर्थवदेषु ॥ अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिगत्य । अभिमुखमुक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥
अदोनुपदेचे ॥ अदःशब्दस्त्यदादिः सोनुपदेशे गतिः स्यात् । अदाकृत्यादःकृतम् । यदा स्वयमेवेत्थं पर्यालोचयति तदेदमुदाहरणम् । अनुपदेशे किम् । परं प्रति कथने मा भूत् । अदः कृत्वा गतः ॥
Page #568
--------------------------------------------------------------------------
________________
शब्दकौस्तुमः ।
[ १ अ०
तिरोन्तर्धौ । तिरोभूय । अन्तर्धी किम्। तिरोभूत्वा स्थितः । पार्श्वतो भूत्वेत्यर्थः ॥
विभाषा कृषि || प्राप्तविभाषेयम् । तिरोन्तर्धावित्यनुवृतेः । तिरःकृत्य तिरस्कृत्य । तिरसोन्यतरस्यामिति वा सत्वम् । प्रत्युदाहरणे तु न सत्वम् । तद्विधौ गतिग्रहणानुवृत्तेः । तिरः कृत्वा काष्ठम् । के चित्त्विहापि सत्वमिच्छन्तः पराभवे - तिरस्कारशब्दप्रयोगं चानुरुन्धानाः सत्वविधौ गतिग्रहणं निवतयन्तीति माधवः ॥
उपाजेन्वाजे || एतौ कृषि वा गतिसंज्ञौ स्तः । विभक्तिप्रतिरूपकौ निपाताविमौ दुर्बलस्य सामर्थ्याधाने वर्तेते । उ- पाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्वाजेकृत्वा । उपष्टभ्येत्यर्थः ॥
५६८
साक्षात्प्रभृतीनि च । एतानि कृषि वा गतिसंज्ञानि स्युः । व्यर्थ इति वक्तव्यम् ॥ साक्षात्कृत्य साक्षात्कृत्वा । असाक्षाद्भूतं साक्षात्क्रियते चेत्तदायं प्रयोगः । न तु साक्षाद्भूतस्यैव रूपान्तशपादने । च्व्यन्तेषु तु पूर्वविप्रतिषेधादूर्यादिच्विति नित्यैव संज्ञा । तेन लवणीकृत्येत्यत्र मान्तत्वं न भवति । तद्विविकल्पसन्नियोगेनेह गणे निपात्यते । यद्वा लवणशब्दस्य लवणमिति मान्त आदेशः । तथा च मास्तु पूर्वविप्रतिषेधः । त्रैशव्यं हि नः साध्यम् । लवणंकृत्य लवणंकृत्वा लवणीकृत्येति । तत्र व्यन्ताव्यन्तयोः पाक्षिके लवणमादेशे समं रूपं । परेणापि विकल्पेन मुक्ते तु च्व्यन्तस्य नित्या संज्ञेति न कश्चिद्दोषः । इहाग्नौ व शेप्रभृतयो विभक्तिप्रतिरूपका निपाताः । प्रादुराविःशब्दयोरूर्यादित्वात्माप्ते विभाषा । साक्षात् मिथ्या चिन्तेति मनोव्यापारे । चिन्ताकृत्य । भद्रा आलोचनाप्रशंसामङ्गलध्वयम् । रोचनेतीति
Page #569
--------------------------------------------------------------------------
________________
४ पा. ४ आ. शब्दकौस्तुभः । ५६९ श्रद्धोत्पादे प्रशंसायां च । अमति रहःसाहित्ययोः । आस्था श्रद्धापाजावी जर्या जरणक्रियायाम् । माजरुहा बीजरुहतिरुहिक्रियायाम् । लवणम् उष्णं शीतम् । उदकम् । आर्द्र, लवणादीनां पञ्चानां गतिसंज्ञासनियोगेन मान्तत्वं निपात्यते मान्तादेशो वेत्युम् । अग्नौ । वशे विकम्पने विकसने प्रहसने सन्तपने । पादुस् नमस् आविस् । आकृतिगणोयम् ॥
अनत्याधानउरसिमनसी ॥ एतौ निपातौ कृषि वा गतिसं. ज्ञौ स्तः । उरसिकृत्य । उरसिकृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य मनसिकृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषः । तत्र न । उरसिकृत्वा पाणि शेते ॥
मध्येपदेनिवचने च । एते त्रयः कृत्रि गतिसंज्ञा वा स्युरनत्याधाने । मध्येकृत्य मध्येकृत्वा । पदेकृत्य पदेकृत्वा । एदन्तावेतौ निपातौ । निवचनं वचनाभावः। अस्याविशेषेण एदन्तन्ता निपात्यते न तु संज्ञासनियोगेन । व्याख्यानात् । निवचने. कृत्य निवचनेकृत्वा । वाचं नियम्येत्यर्थः । अनत्याधाने किम् । हस्तिनः पदे कृत्वा शिरः शेते ॥
नित्यं हस्तेपाणावुपयमने ॥ एतौ निपातौ कृत्रि नित्यं गतिसंज्ञौ स्त उपयमने । दारकर्मात्यके । स्वीकारमात्रइत्यन्ये । हस्ते कृत्य पाणौकृत्य कन्याम् । महास्त्राणि वा । उपयमने किम् । हस्तेकृत्वा सुवर्ण गतो भृत्यः ॥
प्राध्वम्बन्धने ॥ प्राध्यमिति चादिषु पाठान्मान्तमव्ययमा. नुकूल्ये वर्तते । तत्कृजि नित्यं गतिसंज्ञं स्यादन्धनहेतुकं चेदानुकूल्यम् । प्राध्वंकृत्य । बन्धने किम् । प्राध्वंकृत्वा । प्रार्थनादिना. नुकूलं कृत्वेत्यर्थः ॥
जीविकोपनिषदावौपम्ये ॥ कृत्रि नित्यं गतिसज्ञौ स्तः ।
Page #570
--------------------------------------------------------------------------
________________
५७०
शब्द कौस्तुभः ।
[ १ अ०
जीवयतीति जीविका जीवनोपायः । जीविकामिव कृत्वा जीवि - काकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । गतिसमासस्य नित्यत्वेपि स्वार्थमात्रनिष्ठत्वादगतिना विग्रहोत एव तत्र इवश ब्दप्रयोगः । औपम्ये किम् । जीविकां कृत्वा ॥
ते प्राग्धातोः । ते गतिसंज्ञा धातोः प्रागेव प्रयोज्याः ॥ छन्दसि परेपि ॥
व्यवहिताश्व || स्पष्टम् । हरिभ्यां याह्योक आ । आमन्द्रेरिन्द्र हरिभिर्याहि । इह संज्ञानियमपक्षोपि भाष्ये स्थितः । ते इत्यनेन प्रादीनुपनिषत्पर्यन्तात् स्वरूपेण परामृश्य धातोः प्राक् प्रयुक्तानामेषां पूर्वसूत्रैकवाक्यतया संज्ञाविधानात् । अस्मि श्र पक्षे छन्दसिपरेपि व्यवहिताश्चोत सूत्रद्वयम् अनितिपरग्रहणं च न कर्त्तव्यमिति स्थितम् । सुकटङ्कराणीति भाष्यं च सङ्गच्छते । प्रयोगनियमपक्षे तु कृत्यल्युट इति बहुलग्रहणेन समर्थनीयं स्यात् । यतु खलः खित्करणसामर्थ्यादनव्ययस्य प्राक् प्रयोगे निर्णीते सोः परिशेषाद्व्यवधानं सिध्यतीति तच्चिन्त्यम् । सामर्थ्याद्वयङवहिते मुमः सम्भवात् । कग्रहणे गतिपूर्वस्या पि ग्रहणाच्च । ईषच्छब्दस्यागतिसंज्ञकत ये षदाढ्यम्भव इत्यत्र खलः खित्त्वस्योपक्षीणत्वाच्चेति दिक् । धातोः किम् । प्रकर्तुमैच्छत् प्राचिकीर्षदित्यत्र सनः प्राक् प्रयोगो मा भूत् ॥ कर्मप्रवचनीयाः ॥ श्वरात्प्रागिदमधिक्रियते । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः बाहुलकात्कर्तर्यनीयर् स च भूते । तेन सम्प्रति क्रियां न द्योतयन्तीति लभ्यते । आह च । क्रियाया द्योतको नायं सम्बम्धस्य न वाचकः । नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदक इति । तथाहि । शाकल्यस्य संहितामनुप्रावर्षदित्यत्रानुना न क्रियाविशेषो द्योत्यते । अनुभूयते सुख
Page #571
--------------------------------------------------------------------------
________________
४ पा. ४ आ. शब्दकौस्तुभः । मित्यादौ यथा । नापि षष्ठ्येव सम्बन्ध उच्यते । द्वितीययव तस्योक्तत्वात् । नापि प्रादेशं विपरिलिखति विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभक्तिप्रसङ्गात् । किन्तु संहितासम्बन्धिवर्षणमिति द्वितीयावगतः सम्बन्धो लक्ष्यलक्षणभावरूप एवेत्यवगमात्सम्बन्ध एवानुना विशेषेवस्थाप्यते । क्व चित्तु क्रियागतविशेषद्योतकेपीयं संज्ञा वचनात्मवर्तते । सुः पूजायामतिरतिक्रमणे चेति यथा ॥
अनुलक्षणे ॥ लक्षणे द्योत्ये ऽनुः कर्मप्रवचनीयसंज्ञः स्यात् । लक्षणेत्थंभूतत्यादिना सिद्धे हेतौ तृतीयां बाधितुमिदं सूत्रम् । तथाहि । लक्षणे कर्मप्रवचनीयसंझाया अवकाशः । यो न हेतुः, वृक्षमनुविद्योतते विद्युदिति । हेतुत्तयिाया अवकाशो धनेन कुलमिति । संहितामनुप्रावर्षदित्यत्र तु हेतृभूतसंहितोपलक्षितं वपणमित्यर्थाद्धेतुभूने लक्षणे परत्वात्तृतीया स्यात् । पुनः संज्ञाविधानसामर्थ्यात्तु द्वितीयैव भवति । आह च । हेतुहेतुमतोर्योगपरिच्छेदेनुना कृते । आरम्भाद्राध्यते प्राप्ता तृतीया हेतुलक्षणेति । न च तृतीयार्थे इति सूत्रेण गतार्थता शक्या । तस्य पुरस्तादपवादन्यायेन सहयुक्तेऽप्रधानइत्येतन्मात्राधकत्वात् ॥
तृतीयार्थे । अस्मिन् द्योत्ये ऽनुरुक्तसंज्ञः स्यात् । नदी. मन्ववसिता सेना । नद्या सह सम्बद्धत्यर्थः । षिञ् बन्धने ऽस्माकर्तरि क्तः॥
हीने ॥ हीने द्योत्ये ऽनुः प्राग्वत् । अनु हरिं सुराः । हरिप्रतियोगिकापकर्षरूपसम्बन्धवन्त इत्यर्थः । उत्कृष्पादेव द्वितीया न त्वपकृष्टात् । शक्तिस्वभावात् ॥
Page #572
--------------------------------------------------------------------------
________________
५७२
शब्दकौस्तुमः । [१ अ० उपोधिके च ।। अधिक होने च द्योये उपः प्राक्संज्ञः । उपखायों द्रोणः । खारीतोधिको द्रोणोस्ति । उभयमस्तीति फलितोर्थः । यस्मादधिकमिति सप्तमी । हीने, उपहरिं सुराः ॥ .... अपपरी वर्जने ॥ एतौ वर्जने घोत्ये प्राग्वत् । अपविष्णोः परिविष्णोः संसारः । पञ्चम्यपाङ्परिभिरिति पञ्चमी । परेवर्जनइति द्विवचनम् । तद्धि पञ्चासहितेन कर्मप्रवचनीयेन द्योतितेपि वर्जने भक्त्येव । उभयोरपि विधानसाम
र्थ्यात् । वर्जने किम् । परिषिञ्चति । सर्वत इत्यर्थः । अत्रो पसंगत्वात्पत्वम् ॥ ___आङ् मर्यादावचने ॥ आङ् माग्वत् । मर्यादाशब्दो यस्मिन्सूत्रे उच्यते तत्रत्यश्चेत् । आङ्मर्यादाभिविध्योरित्यत्रोपातो व्यर्थ इत्यर्थः । आमुक्तेः संसारः । आबालेभ्यो हरिभक्तिः ॥
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे । वृक्षं प्रति परि अनु वा विद्योतते विद्युत् । कञ्चित्मकारं प्राप्त इत्थंभूतस्तदाख्याने यथा । साधुर्देवदत्तो मातरं प्रति पर्यन वा । भागे । यदन माम्प्रति स्यात् । परिस्यात् । अनुस्यात् । योत्र मम भागः स दीयतामित्यर्थः । स्वस्वामिभावो द्वितीयार्थः । वीप्सा व्याप्तुमिच्छा साकल्यप्रतिपिपादयिषति यावत् । भूतंभूतं प्रति पयेनु वा प्रभुः । सकलभूतानामित्यर्थः । न चेत्थंभूताख्यानइत्ये. व सिद्धम् । इदं तहुंदाहरणं वृक्षवृक्षं प्रतिसिञ्चति परिसिञ्चति अनुसिञ्चति । इह वीप्सा द्विवचनेनैव द्योत्यते । परिशब्दस्तु क्रिययैव सम्बध्यते । न चैवन्तस्य कर्मप्रवचनीयत्वं न स्यादिति वाच्यम् । वीप्सायाः विषयत्वानपायात् । अत एव वीप्सा
Page #573
--------------------------------------------------------------------------
________________
४ पा. ४ आ.
शब्द कौस्तुभः ।
५७३
यां विषयभूतायामिति वृत्तिग्रन्थमवतारयन्हरदत्त आह । एते च लक्षणादयो यथा विभक्तिसमीपादयो ऽव्ययार्थाः । नैवं प्रत्यादीनामर्थाः । किन्तर्हि संज्ञायां प्रत्यादीनां विषयत्वेन निर्देश इत्याहेति । द्वितीया तु कर्मणि । कर्मप्रवचनीयसंज्ञा तूपसर्गत्वनिवृत्यर्था । तेनोपसर्गात्सुनोतीति पत्वं न । परिशब्दयोगे पञ्चमी तु न भवति । पञ्चम्यपाङित्यत्र वर्जना - र्थेनापेत्यनेन साहचर्यात् ||
1
अभिरभागे || भागवर्जेलक्षणादावभिरुक्तसंज्ञः स्यात् । वृक्षमभवद्योतते । साधुर्मातरमभि | वृक्षमभिसिञ्चति । अभागे किम् । यदत्र ममाभिष्यात्तद्दीयताम् ||
प्रतिः प्रतिनिधिप्रतिदानयोः ॥ उक्तसंज्ञः स्यात् । अभि मन्युरर्जुनात् प्रति । तस्य प्रतिनिधिरित्यर्थः । तिलेभ्यः प्रतियच्छति माषान् । प्रतिनिधिप्रतिदाने च यस्मादिति पञ्चमी ||
अधिपरी अनर्थकौ ॥ उक्तसंज्ञौ स्तः । कुतो ऽध्यागच्छति । कुतः पर्यागच्छति । इहाधिकार्थविरहादनर्थकत्वमधिपर्योः, धात्वर्थमात्रानुवर्तित्वात्तु प्राप्ता गतिसंज्ञा । तद्वावः संज्ञाफलम् । तेन गतिर्गताविति निघातो न भवति ॥
सुः पूजायाम् ॥ सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न पः । पूजायां किम् । सुषिक्तं किन्तवात्र । क्षेपोयं न पूजा । कथं तर्हि सुष्टुतिरिति । अतिशयमात्रं विवक्षितं न तु पूजेत्याहुः । पठन्ति च । प्रशंसानुमते पूजा भृशकुछमुखेषु सुरिति ॥
अतिरतिक्रमणे च ॥ अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अतिक्रमणमुचितादधिकस्यानुष्ठानम् । अतिसिक्तं अतिस्तु बहुतरं समीचीनं वा सिक्तम् स्तुतञ्चेत्यर्थः ॥ अपिः पदार्थसम्भावनान्ववसर्गगहसमुच्चयेषु ॥ एषु द्योत्ये
Page #574
--------------------------------------------------------------------------
________________
६७४
: शब्दकौस्तुमः । [१ अ. वपिरुक्तसंज्ञः । सार्पषोपि स्यात् । प्रार्थनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौलभ्यं द्योतयनपिशब्दः स्यादित्यनेन सम्बध्यते । अनुपसर्गत्वान्न पः। सर्पिष इति षष्ठी तु अपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । कर्मप्रवनीययुक्ते द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । सम्भावनं नाम शक्त्युत्कर्षमाविष्क मत्युक्तिः। अपिसिञ्चेन्मूलसहस्रम् । अपिस्तुयाद्विष्णुम् । अन्नवसर्गः का. मचारानुज्ञा । अपिसिश्च । अपिस्तुहि । गर्हायाम् । धिग्देवदत्तमापिस्तुयाद्वषलम् । समुच्चये । अपिसिञ्च । अपिस्तुहि । सिञ्च च स्तुहि चेत्यर्थः । यथायथमुपसर्गप्रादुर्ष्यामिति उपसर्गात्सु'नोतीति च प्राप्त पत्वं कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधितत्वान्न भवति ॥ .. अधिरीश्वरे ॥ स्वस्वामिभावे द्योत्ये ऽधिः कर्मप्रवचनीयः स्यात् । इह स्वात्स्वामिनो वा पर्यायेण कर्मप्रवचनीयविभक्तिः न तु हीने उपोधिकेचत्यत्रेवान्यतरस्मादेव । अधिभुवि रामः । अधिरामे भूः । एतच्च संज्ञासूत्रं नारम्भणीयम् । उत्तरार्थत्वे तु योगो न विभजनीय इति यस्मादधिकमित्यत्र वक्ष्यामः ॥ ___ विभाषा कृधि । अधिः करोतौ प्राक्संज्ञो वा स्यात् । ईश्व. रइत्यनुवर्तते । प्राप्तविभाषेयम् । यदत्र मामधिकरिष्यति । वि. नियोक्ष्यतइत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । कर्मत्वाद द्वितीया । इह तिङिचोदात्तवतीति निघातो न गतिसंज्ञाया बाधितत्वात् । किञ्च मामधिकृत्वेत्यत्र प्रादिसमासो न । कर्मप्रवचनीयानां प्रतिषेध इत्युक्तेः । पक्षे ऽधिकृत्येति बोध्यम् ॥ . _लः परस्मैपदम् ॥ लकारस्यादेशाः परस्पैपदसंज्ञाः स्युः ।
Page #575
--------------------------------------------------------------------------
________________
४पा.४ आ.
शब्दकौस्तुभः ।
५७५
पचन्तं पश्य ॥
तङानावात्मनेपदम् ॥ तङ्मत्याहारो लादेशावानौ च तत्संज्ञाः स्युः । पूर्वसंज्ञापवादः । आस्ते । आसीनः । चक्राणः। शानच्कानचोरेवेह ग्रहणम् । लादेशत्वात् । न तु शानन्चानशोः ,तेन पूल्य जोः शानन् यजेरकर्तृगपि फले भवति रसमानसारसेनेत्यादौ परस्मैपदिभ्योपि चानश् भवति ॥
तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः ॥ कृतद्वन्द्वानामेकशेषात् प्रथमेत्यादयः षट् संज्ञाःतिङः षद् त्रिकाः क्रमात्प्रथमादिसंज्ञाः स्युः। शतृत्वस्वोः सावकाशापि परस्मैपदसंज्ञा प्रथमादिसंज्ञाभिर्न बाध्यते सिचिवृद्धिःपरस्मैपदेष्विति लिङ्गात् । तथा परस्मैपदे लब्धावकाशापि प्रथमादिसंज्ञा तह्वात्मनेपदसंज्ञया न बाध्यते कृतद्वन्द्वानामेकशेषेण तङ्क्ष प्रतिपदविधेरुक्तत्वात् । न चैवमपि परस्मैपदात्मनेपदसंज्ञाभ्यां पुरुषसंज्ञायाः पर्यायः स्यादिति वाच्यम् । णलुत्तमोवेत्यस्य सामान्यापेक्षज्ञापकत्वात् । इह सूत्रत्रयेपि महासंज्ञाकरणं पूर्वाचार्यानुरोधात् । इह त्रीणित्रीणीत्येकं पदम् । द्वे वेति हरदत्तः । तत्र सत्यामप्यवान्तरपदसंज्ञायां महापदसंज्ञामाश्रित्य संहितैकपदे नित्येत्यस्य प्रवृत्तेः । अन्यथा समासादावपि पृथक्छेदापत्तेः । द्विरुक्तमध्ये पदान्तरप्रयोगापत्ते च । अत एव ताता पिण्डानामित्यादौ वेदे ऽवग्रहः क्रियते । यथा च द्विरुक्ते महापदसंज्ञाऽवान्तरसंज्ञा च तथा नित्यवीप्सयोरित्यत्र वक्ष्यामः ॥ ___ तान्येकवचन द्विवचनबहुवचनान्येकशः ॥ तानि लब्धपुरुपसंज्ञानि त्रीणित्रीणि एकशः क्रमेण एकवचनादिसंज्ञानि स्युः । तानीत्युक्तिः समावेशार्था । अन्यथा पुरुषवचनसंज्ञयोः पर्यायः स्यात् ततश्चात्तमस्येत्यादिकार्य पक्षे न प्रवर्तत । एकश
Page #576
--------------------------------------------------------------------------
________________
शब्द कौस्तुभः ।
।
५७६
इति प्रथमान्ताद्वीप्सायां शम् ॥
1
सुपः ॥ सुपस्त्रीणित्रीणि क्रमादेकश उक्त संज्ञानि स्युः । इहान्वर्थतामाश्रित्य येकयोर्द्विवचनैकवचने बहुषुबहुवचनमिति शक्यं त्यक्तुम् । एकवचनस्यौत्सर्गिकत्वेपि उपसर्जनकर्मप्रवचनीयादिसंज्ञावद्यथासम्भवमन्वर्थतायाः सुवचत्वात् ॥
विभक्तिश्च ॥ सुप्तिङौ विभक्तिसंज्ञौ स्तः । चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः । तिङां विभक्तिसंज्ञायाः प्रयोजनं नविभक्तौतुस्मा इति, सुपां तु त्यदाद्यत्वादिकमपि ॥
[ १ अ०
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ लकारेण समानाधिकरणे युष्मदि प्रयुक्ते प्रयुक्तेपि मध्यमः स्या | त्वं पचसि दृश्यसे च । समानाधिकरणे किम् | त्वां पश्यति । त्वया दृश्यते । इह युष्मदि मध्यमो ऽस्मद्युत्तम इत्येवास्तु युष्मद्यस्मादि चयो लकार इत्यर्थे सर्वसामञ्जस्यात् । तथा तु न कृतमित्येव । अत्वं त्वं भवति त्वद्भवतीत्यत्र तु न । मध्यमविकृतेरकर्तृत्वात् । प्रकृतिरेव हि विकाररूपापत्तौ कर्त्री । तथा च मन्त्रः । यदस्यामहं त्वं त्वंवाधास्या अहमिति । अहं त्वं स्याम् । त्वं वा अहं स्या इति प्रकृत्याश्रय एवेह पुरुषः । स्यादेतत् । भवान् करोतीत्यत्रापि स्थानिन्यपीति मध्यमः स्यात् । अत्राहुः । अलिङ्गः सम्बोधनैकविषयश्च युष्मदर्थः । सलिङ्गः सम्बोध्या सम्बोध्यसाधारणश्च भवदर्थ इति । न च युष्मदः सम्बोधनैकविषयत्वे ततः सम्बोधनएव प्रथमा स्यात् । ततश्च आमन्त्रितानुदात्तत्वं पदात्परत्वेन निघातश्च स्यादिति वाच्यम् । सम्बोधनस्य प्रातिपदिकार्थ एवान्तर्भावात् । सम्बोधनेचेति सूत्रं हि सम्बोधनाधिक्यार्थमिति वक्ष्यते । यत्तु के चिदिटापत्ति कुर्वाणाः पठन्ति । सम्बोधनार्थः सर्वत्र मध्यमे कैश्चिदि
-
Page #577
--------------------------------------------------------------------------
________________
४पा. ४ आ. शब्दकौस्तुभः । प्यते । तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः ॥ युष्मदर्थस्य सिद्धत्वानियता चाादात्तता । युष्मदः प्रथमान्तस्य परश्चेन पदादसाविति ॥ तन्न । उक्तन्यायविरोधात् । लक्ष्यविरोधाच्च । दृश्यते हि पादादावप्यन्तोदात्तत्वं पदात्परत्वेप्यनिघातश्च । तद्यथा, युवं ह गर्भञ्जगतीषु धत्थः । यूयं यातस्वस्तिभिः । ह ये देवा यूयमिदापयः स्थति ॥
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ मन्यधातु. रुपपदं यस्य धातोस्तस्मिन्प्रकृति मते सति मध्यमः स्यात् परिहासे गम्यमाने मन्यतस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् । द्वयोर्बहुषु च मन्तृषु एकवचनमेव स्यादिति फलितोर्थः । एकवच्चेत्यन्वाचये चकारः । तेनैकवद्भावाभावेपि प्रधानशिष्टौ मध्यमोत्तमौ स्त एव । सत्यप्योदने परिहासशीलः शालकादिः प्रतारयन्प्रयुङ्क्ते । एहि मन्ये ओदनं भोक्ष्यसे भुक्तः सोतिथिभिः । एतम् एत वा मन्ये ओदनं भोक्ष्येथे भोक्ष्यध्वे । ओदनं भोक्ष्ये भोक्ष्यावहइत्यादि मन्यसे मन्येथे इत्यादिरर्थः । युष्मद्युपपदइत्यायनुवर्तते तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्यइति । श्यना निर्देशान्नेह । एहि मनुषे रथेन यास्यामिति । महासे किम् । यथार्थकथने मा भूत् । एहि मन्यसे ओदनं भोक्ष्यइति भुक्तः सोतिथिभिः ॥
अस्मद्य तमः ॥ लकारसमानाधिकरणे ऽस्मदि स्थिते स्थानिन्यप्युत्तमः स्यात् । अहं पश्यामि दृश्ये वा । युष्मदस्मद्भ्यां सामानाधिकरण्ये तु परत्वादुत्तम एव । अहं च त्वं च वृत्रहत्स्वयुज्यावसनिभ्यआ॥
शेषे प्रथमः ॥ मध्यमोत्तमविषयादन्यत्र प्रथमपुरुषः स्यान् । पचति पचतः पचन्ति ॥
Page #578
--------------------------------------------------------------------------
________________ 57 शब्दकौस्तुभः / [1 : -. परः सन्निकर्षः संहिता // अतिशयितः सनिधि र्णानां य: स संहितासंज्ञः स्यात् / संज्ञाप्रदेशाः संहिताय मित्यादयः // विरामोवसानम् / / वर्णानामभावोवसानसंज्ञः स्यात् / / ज्ञाप्रदेशा वावसानइत्यादयः / अभावस्यापि बुद्धिकृतं पौर्वा र्यमस्त्येव / यथोच्चरितप्रध्वंसिनां नित्यविभूनां वा वर्णानाम् यद्वा / विरम्यते ऽनेनेति करणे घञ् चरमवर्णश्च संज्ञी / 3 स्मिन्पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते / ख रि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति / अ वार्तिकम् / संहितावसानयोलोकविदितत्वात्सिद्धमिति / तथ च सूत्रद्वयं मास्त्वित्यर्थः // इति श्रीपदवाक्यप्रमाणपारावारपारीणस्य लक्ष्मीधरसूरेः सूनुना भट्टोजीभट्टेन कृते शब्दकौस्तुभे प्रथमस्याध्या... यस्य चतुर्थे पादे चतुर्थमान्हिकम् // पादश्चाध्यायश्च समाप्तः // ..