SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०५ १ पा. ६ आ. शब्दकौस्तुमः । तत्र हि कुम्भकारीशब्दादेव ढगुत्पादयितव्यः । अन्यथा कुम्भेत्युकारस्य वृद्धिने स्यात् । तथा च विशिष्टस्य स्त्रीप्रत्ययान्तताप्येच्या सा च तदैव निर्वहति । यदि टिड्ढाणनिति सूत्रे प्रत्ययग्रहणपरिभाषया ऽणित्यनेनाणन्तग्रहणे तेन च प्रातिपदिकविशेषणादण्णन्तान्तं प्रकृतिः स्यात् । तच्च समासप्रत्ययविधौ प्रतिषेध इति ग्रहणवता प्रातिपदिकेन तदन्तविधि!त च प्रतिषेधाहुर्लभम् । अनुपसर्जनादित्युपसर्जननिषेधसामर्थ्यातु प्रधानेन तदन्तविधौ ज्ञापिते कौम्भकारेयः सिद्धयतीति स्पष्टमेव । न च कृद्रहणे गतिकारकपूर्वस्यापीति परिभाषया कुम्भकारशब्दादेव स्त्रीप्रत्ययोस्त्विति वाच्यम् । अणिति हि त. द्वितोपि गृह्यते । औपगवीति यथा । कृद्रहणइति परिभाषा तु कृन्मात्रग्रहणे प्रवर्त्तते न तु कुदकुद्हणे, प्येवमर्थमेवेदं सूत्रमिति भाष्यकृतैव चतुर्थे स्थापयिष्यते । तत्कथमिहोक्तमनुपसर्जनादित्ययं योगः प्रत्याख्यायतइति । अत्रोच्यते । चतुर्थेसूत्रकाराभिप्रायवर्णनमात्रं करिष्यते । निष्कर्षे तु क्रियमाणे मू वैयर्थ्यमेवायातीत्याशयेनेह भगवतोक्तं प्रत्याख्यायतइति । तथाहि । कारशब्दान्डीबुत्पत्तावपि कौम्भकारेयः सिध्यत्येव ष्यङः सम्प्रसारणमित्यत्र भाष्यकृता पठिष्यमाणया वाचनिक्या स्त्रीप्रत्यये चानुपसर्जनेनेति परिभाषयानुपसर्जने स्त्रीपत्यये तदादिनियमनिषेधेन कुम्भकारीशब्दाडगुत्पत्तेः । अत एव हि परमकारीषगन्धीपुत्र इत्यत्र व्यङन्तस्योच्यमानं सम्पसारणं परमकारीषगन्ध्याशब्दस्यापि भवत्येव । न चैवमतिकारीषगन्ध्यापुत्र इत्यादावतिप्रसङ्गः। अनुपसर्जनइत्युक्तत्वनापेसर्जने तदादिनियमनत्वात् । न चैवमर्धपिप्पलीत्यादी हल्ल्या . दिलोपो न स्यादिति वाच्यम् । हल्यादिसूत्रे दीर्घग्रहण
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy