________________
२०४
शब्दकौस्तुभः । [१ अ ० क्षे हि प्रत्याख्यातं सरूपसूत्रमिको गुणवृद्धीत्यादिवच्छास्त्रप्रक्रियार्थ सत्सहविवक्षां विनाप्येकशेषं विधत्ते । तदित्यं पश्चापि पसाः स्थिताः । संज्ञाभूतानां व्यावृत्तिस्तु गौणमुख्यन्यायेनापि सिद्धयति । न चासौ पदकार्येष्वेवेति वाच्यम् । विशिष्टरूपोपादाने सर्वत्र तत्पत्तरित्युपपादितमोत्सूत्रे । वार्तकरीत्या त्वेकसंज्ञाधिकारे सर्वनामसंज्ञानन्तरमेकद्रव्यानिवेशिनी संज्ञेति संज्ञासंज्ञया सर्वनामसंज्ञा वाध्यतइत्यपि समाधानान्तरं बो. दव्यम् । यद्वा । पूर्वपरावरेति गणसूत्रेऽसंज्ञायामिति योग वि. भज्य पूर्वोत्तरयोः शेषो व्याख्येयः । उक्ताः सर्वादयो वक्ष्यमा. णाः स्वादयश्चासंज्ञायामिति । तस्मादुपसर्जनव्यावृत्तिरेवान्वर्थसंज्ञाश्रयणस्य मुख्यं फलम् । नन्वनुपसर्जनादिति योग प्र. कारान्तरेण व्याख्याय तबलेनैवान्तर्गणकार्य पारितं भाष्ये । तद्यथा । अनुपसर्जनेति लुप्तषष्ठीकं पदम् । अः आदिति च च्छेदः । अश्व अच्च तयोः समाहारः आत् । अकारात्परौ अ अत् इत्यादेशौ यत्र क्रियते तत्रानुपसर्जनस्य ग्रहणमिति परिभाषार्थः । तेन त्यदायत्वमड्डतरादिभ्य इत्यदड्भावश्च गौणता. यां न भवति । अकारात्परत्वेन विशेषणत्वं किम् । पञ्चम्या अत् युष्मानतिक्रान्तेभ्योतियुष्मत् । एकवचनस्य च युष्मानतिक्रान्तादतियुष्मत् । न ह्ययमकारात्परो विधीयतइति । तथा चोपसर्जनव्यावृत्तेरप्यन्यथासिद्धौ कि महासंज्ञयति चेन्न । अतिसर्वायत्यादिवारणस्य तदेकसाध्यत्वात् । न हीदमनुपसर्जनादित्यनेन साधयितुं शक्यते । एतदपरितोषादेव हि भा. ध्ये पक्षान्तराश्रयणमिति दिक् । एवं चानुपसर्जनादिति सूत्रं परिभाषात्वेनापि नोपयुज्यतइत्यर्थात्प्रत्याख्यानमेव भवतीत्यवधेयम् । स्यादेतत् । कौम्भकारेयसिद्धये सूत्रमारम्भणीयम् ।