SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ • २४६ शब्दकौस्तुभः । [ १ अ or नादवन्तश्च । ऊष्मा ऊष्मत्वं वर्णधर्मस्तत्सहिताः सोष्माणः । तथा च बह्वृचानां प्रातिशाख्यम् । वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोन्त्य इति । शादय ऊ ष्याणः सस्थानेन द्वितीया इकारेण चतुर्था इति शिक्षा । इह - त्रीणि वाक्यामि, ऊष्मशब्दश्च धर्मिवचनः । शषसहा ऊ - ष्माण इति प्रथमवाक्यार्थः । सस्थानेनेति । इत्थंभूतलक्षणे तृतीया । हशषसाः क्रमेण ख छ ठ थानां द्वितीयानां सस्थानाः । यथा हादय उष्माण स्तथैव खादयोपीत्यर्थः । फकारस्य तु यद्यपि सस्थान ऊष्मा नास्ति तथापि तस्य विशिष्यैव ऊष्मत्वं बोध्यम् । हकारेण चतुर्था इति । यथा हकार ऊष्मा एवं तेपीत्यर्थः । नन्वेवमिष्ट उप्स इत्यादावान्तर्यादर्धमात्रस्य यणः स्थाने अर्द्धमात्र इक् स्यात् । दध्यत्र सुध्युपास्य, इत्यादौ तु मात्रिकद्विमात्रिकयोरिकोस्तथाविध एव यण् स्यादिति चेन्न । अर्द्धमात्रस्येको मात्रिकाद्वमा त्रिकव्यंजनस्य च लोकवेदयोरप्रसिद्धत्वात् । योस्ति स एव भविष्यति । इह भाष्ये अन्तरतम इति सप्तम्यंतपाठोप्युपन्यस्य दूषितः । सथाहि । अन्तरतमउरण् रपर इति संहितया तावत्सूत्रकृदपाठीत् । पदकारास्तु व्याख्यातारः । तत्र सप्तम्यंतमपि श क्यं छेत्तुम् । षष्ठीति चानुवर्त्तते । अन्तरतमे स्थानिनि षष्ठी उपसंहर्त्तव्येति सूत्रार्थः । एवं चाकः सवर्णे दीर्घ इत्यत्र विधेयस्य दीर्घस्यान्तरतमे स्थानिन्यक इति षष्ठया उपसंहारात्सिद्धमिष्टम् । तथा वान्तो यि प्रत्ययइत्यत्र एच इत्यनुवृत्तायाः षष्ठया वांतादेशस्यांतरतमयोरोदौतोरुपसंहारात्सिद्धम् । अन्यथा एज्मात्रस्य वान्तादेशः स्यात् । अत्रेदं दूष ष्णम् । इको यणचीति यण दूस्वानामेव स्थान तु दीर्घाणाम् ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy