SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १.पा. ७ आ. शब्दकौस्तुमः । .२४५ रूपालामात् । इको हि षष्टिः यणस्तु सतेति वैषम्यात् । अथेक्शब्दाचण्शब्दाच्च प्रथमं चतुर्णी चतुर्णामुपस्थितेरस्त्येव साम्यमिति चेतहि सुध्युपास्थेति दीर्घस्य कथं यणादे. शः। इकारेण ग्रहणादिति चेत्तहि तृतीयेन ऋकारेण चतुर्थेन लकारेण च परस्परस्य ग्रहणाल्लाकृतौ रेफप्रसङ्गः धात्रंशे च लकारप्रसङ्गः, यवौ च सानुनासिकनिरनुनासिको न व्यवतिष्ठेयातामिति दिक् । दैत्यारिः श्रीश इत्याधपीहोदाहरणम् । अर्थतो यथा । वातंड्ययुवतिः । वतंड शब्दाद्वतंडाच्चेत्यपत्ये यञ् । तस्य लुखियामिति लुक् । सारिवादित्वान् कीन् । वतंडी चासो युवतिश्चति विग्रहे पोटायुवतीत्यादिना समासः। पुंवत्कर्मधारयेत्यतिदिश्यमानः पुंशब्दो वडापत्यवाचिनो वतंडीशब्दस्य तदपत्यवाची वातंड्यशब्दो भवति । गुणतो यथा। पाकः। त्यागः। चजोः कुघिण्ण्यतोरति चकारस्याल्पप्राणस्याघोषस्य तादृश एव ककारः। जकारस्य तु घोषस्याल्पप्राणस्य नादवतः स्थाने तादृगेव गकारः । प्रमाणतो यथा । अमुम् । अमू। अमून् । अदसो. सेरित्यनेन स्वस्थ हुस्खो दीर्घस्य दीर्घ उकारः । इह स्थाने इत्यनुवर्तमाने पुनः स्थानेग्रहणादन्योपि वाक्यार्थः सम्मतः । ताल्वादिरूपे स्थाने योन्तरतमस्तत्मयुक्तान्तर्यवानिति यावत् । स प्राप्यमाणानां मध्ये स्यादिति । तदुक्तम् । यत्रानेकविधमान्तर्य तत्र स्थानत आन्तय बलीय. इति । तेन चेता स्तोतेत्यादौ प्रमाणत आन्तर्यवानप्यकारो न भवति । वाक्यभेदे च तमग्रहणमेव लिङ्गम् । एकस्मिन्नेव वाक्यार्थे संमते हि स्थानेंतरइत्येव ब्रूयात् । सिद्धान्ते तु वाग्घरिरित्यादौ सोष्मणः सोष्माण इति द्वितीया प्रसक्ताः। नादवतो नादवन्त इति तृतीयाः प्रसक्ताः । तमग्रहणास्तु चतुर्थी भवन्ति । ते हि सोष्मा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy