SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ १ पा. ९ आ. शब्दकौस्तुभः लाघवार्थ छलेरेव लुकं विदध्यात् । एवं बभूदपादित्यादिसिद्धये ऽस्तिसिचोपृक्तइत्यत्र सकारान्तरप्रश्लेषक्लेशोपिनाश्रयणीय इति । न चैवं च्लेलुकि आत इति सूत्रं विध्यर्थमेव स्यान्न तु नियमार्थ तथा च तत्र लनिवृत्तये लिलुकीति वक्तव्यं स्यादिति विप. रीतगौरवापत्तिरिति वाच्यम् । डिन्त इत्यनुवन्यैव लटो व्युदस्तत्वात् । तस्मात्सर्वामन्त्रितस्वरवर्जमित्येवावश्यकम् । वार्तिकारम्भस्य प्रयोजनमाह । प्रयोजनमिति । बिनिशब्दयोरिकार उच्चारणार्थः सुतियोरिति वत् । एते स्वरा निवर्त्तमानतया प्र. योजनमित्यर्थः । प्रयोजनान्तरमाह । पथिमथोरिति । तदेवं व. चनबलेन त्रिसूत्र्या ऽतिव्याप्तिरुद्धर्तव्यतीह सूत्रे स्थितम् । वस्तुतस्तु नैतदर्थ वचनं क्रियते ज्ञापकालेनैव बिदा गर्गा इत्यादेः सिद्धत्वात् । तथा च संज्ञायामुपमानमिति सूत्रे वार्तिकम् । उपमानस्यायुदात्तत्वचनं ज्ञापकमनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्येति । अस्मिंश्च पक्षे पथिमथोः सर्वनामस्थाने लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वचनमेव कर्त्तव्यम् । न ह्ययमनुबन्धलक्षणः स्वरः, येनोक्तज्ञापकवलेन वार्येत । न च स्वरमात्रविषयकं ज्ञापकमिति वाच्यम् । आमन्त्रितस्वरसिज्लुकस्वरयोरसिद्धिप्रसङ्गात् । न चैवमपि सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं न भवतीति ज्ञाप्यतामिति वाच्यम् । सर्वस्तोम इ. त्यत्रायुदात्तासिद्धिप्रसङ्गात् । यद्वा । अस्तु सप्तमीनिर्दिष्टस्वरविषयकमेव ज्ञापकम् । सर्वस्य सुपीति सप्तमीमपनीय सुप इ. ति षष्ठी पाठ्या । तथा च पथिस्वरार्थ वचनं नारम्भणीयम् । निकित्स्वरार्थ तूभयथापि नारम्भणीयमिति सर्व सुस्थम् । पक्षद्वयमपीदं संज्ञायामुपमानमिति सूत्रे भाष्यकारैः स्पष्टमुक्तम् । तदयं निर्गलितोर्थः । त्रिसूत्र्यां शङ्कितस्यातिव्याप्तिदोषस्य
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy