________________
शब्दकौस्तुभः । [१ अ. वचनेनोद्धारमापातत उक्त्वा ज्ञापकनैवैष्टसिद्धिरिति निष्कर्षांने कृतः इति । एतच्च समाधानमङ्गाधिकारो निर्दिश्यतइति पक्ष इव वस्तुतोङ्गस्य यत्कार्यामति निष्कृष्टपक्षपि तुल्यम् । अत एव संज्ञायामुपमानमिति सूत्रे भाष्यकारैः पक्षद्वयसाधारण्येनैवोक्तज्ञापनवार्तिकं योजितम् । प्रकृतसूत्रस्थभाष्यकैयटयोस्तु निष्कृष्टपक्षे उक्तदोषप्रसङ्ग एव नास्तीति लभ्यते । तत्रेत्थमाशयमभियुक्ता वर्णयन्ति । ज्ञापकं द्विविधम् । सामान्यापक्षं विशेषापेक्षं च । तत्र यदा भीड़ीत्यत्र पूर्वग्रहणेन यत्र सप्तम्यर्थपक्षे तदन्तग्रहणपक्षे च फलभेदः तत्रैव सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति ज्ञाप्यते । यथा भीड़ीत्यत्रैव पूर्वग्रहणाभावे तदन्तस्य कार्य त्वे प्रत्ययान्तानां म्यादीनामुदात्त इत्यलोन्त्यपरिभाषया प्रत्ययान एवोदात्तः स्यात् । सप्तम्यर्थाश्रयणे तु पितमपहाय भ्यादीनामेवोदात्तः स्यादिति स्पष्टः फलभेदः । तथोपोत्तमं रिति, चङयन्यतरस्यापित्यत्रापि । नित्यादिनित्यं पथिमथोः सर्वनामस्थानइत्यादौ तु नास्ति फलभेदः ! तदन्तस्य हि कायित्वे प्रकृत्यादेरेवोदाचत्वं निदादिपूर्वस्यापि कार्यित्वे तथैचेति । तथा च तत्र सौवर्य इत्यस्याप्रवृत्त्या तदन्ताकार्यित्वादुक्तदोषस्याप्रसङ्ग एवति । संज्ञायामुपमानमित्यत्र भाष्यकैयटा. दिग्रन्थास्तु सामान्यापेक्षं ज्ञापकमाश्रित्य योजयितव्या इति । अत्रय इत्यत्र तु स्वरो न भवति । लुकि कृते कार्यिणो ऽभावात् । प्रत्ययलक्षणं हि यदन्यस्य कार्य तत्प्रत्ययलोपेपि भचति, न तु प्रत्ययस्यैव यत्कार्य तदपि । न च प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं स्यादिति वाच्यम् । येन विधिरिति सूत्रेणैव तल्लाभस्य वक्ष्यमाणत्वात् । विशेषणविशेष्यभावे च कामचारात् । नन्वेवमपि स्थानिवत्सूत्रेण स्यादेवोदात्ततेति चेन्न ।