________________
शब्दकौस्तुभः। [१ भ० वर्जमाप्रयोजनं मिनिकिल्लुक्स्वरापथिमयो सर्वनामस्थाने लुकीति। अस्यार्थः। लुमति लुमत्संज्ञया प्रतिपादिते ऽदर्शने यः प्रतिषेधः तस्मिन्नेकपदाश्रयो यः स्वरस्तस्योपसंख्यानम् । प्रत्ययलक्षणेन प्राप्तोप्येकपदस्वरो न भवतीत्यर्थः । पदद्वयाश्रयस्तु स्यादेव । यथा दधि तिष्ठतीत्यत्र पदस्य पदादित्यधिकृत्य विहितस्तितिङ इति निघातः। अत्र हि दधीत्यस्य पदसंज्ञार्थप्रत्ययलक्षणमपेक्ष्यते। तथा इह तिष्ठत्यादौ तिङन्तत्वलाभायापि। नन्वेसर्वस्तोमोतिरात्र इत्यत्र सर्वस्य सुपीत्यायुदात्तत्वं न स्यात् । तथा सर्पिरागच्छ सप्तागच्छतेत्यत्रामन्त्रितस्य चेति षाष्ठमाद्युदात्तत्वं न स्यात् । तथा मा हि दातां मा हि धातामित्यत्रादिः सिचोन्यतरस्यामित्याघुदात्तत्वं न स्यादित्यत आहासर्वेत्यादि।इदं स्वरत्रयं विहाय स्वरान्तरे प्रतिषेध इत्यर्थः। न च सर्वस्तोम इत्यत्र बहुव्रीहौ प्रकृत्यापूर्वपदमिति पदद्वयस्वरोयमिति वाच्यम् । सर्वस्यसुपीति यदायुदात्तत्वं तस्यैव ह्यनेन प्रकृतिभावमात्रं कर्तव्यम् । तथा च तत्प्राप्तिरवश्योपपादयितव्येति भावात् । न च सर्पिश्शब्दस्यामन्त्रितस्वरं विनाप्यायुदात्तता लब्धं शक्या । अचिंशुचिहुसूपिछादिछर्दिभ्य इत्यौणादिके इसि प्रत्यये कृतेन्तोदात्तत्वात् । अव्यु. त्पत्तिपक्षेपि फिट्स्वरेण तथात्वात् । नच नविषयस्येत्याधुदात्तः । अनिसन्तस्येति पर्युदासात् । कैयटेन तु सर्पिःशब्दस्य घृतादित्वं किमर्थ कल्पितमिति चिन्त्यम् । ननु सप्तशब्दः सप्यशूभ्यांतु.
चेति कनिनन्तो व्युत्पादितः । तथा च नित्वादायुदात्तः । अ. व्युत्पत्तिपक्षेपि तथैव । न:संख्याया इति वचनादिति चेत् । न । उभयथापि घृतादित्वेनान्तोदात्तत्वात् । तथा च प्रयुज्यते । सप्त युञ्जन्ति रथमेकचक्रमिति । इह सिज्लुग्ग्रहणं मास्तु । गातिस्छेत्यत्र सिग्रहणसामर्थ्याल्लाकि स्वरः सिद्धः । अन्यथा हि