SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ १ पा. ९१ आ. शब्दकौस्तुभः । ३३५ अत्रीणां शृणुतं हवमिति च । त्रिनप्रत्ययान्तस्त्वन्तोदात्तो नकारान्तश्चेत्यन्यदेतत् । सोपि प्रयुज्यते । दूरे वा ये अन्ति वा के चिदत्रिण इति । तथा, पन्थाः प्रियो यस्य पथिप्रियः मथिप्रियः । सुपोधाविति सोलुकि पथिमयोः सर्वनामस्थानइत्याद्युदात्तता प्राप्नोति । न ह्येषा त्रिसूत्री अङ्गाधिकारस्था येन नलुमतेति निषेधः प्रवर्त्तेत । नाप्येतद्वस्तुताङ्गस्य कार्यम् । सुप्तिङन्तमिति पदसंज्ञावदुक्तस्वराणां प्रत्ययान्तकार्यत्वात् । नन्वस्तु कित इति तथा इतरत्तु द्वयं निति सर्वनामस्थान इति सप्तमीनिर्देशाद्वस्तुतोङ्गस्य कार्यम्भवत्येवेति चेन्न । निदन्तस्यादेरित्यादिक्रमेण प्रत्ययातस्यैव तद्विधानात् । सौवय्र्यः सप्तम्यस्तदन्तसप्तम्य इति सिद्धान्तात् । एतच्च भीहीभृहूमदजन धनदरिद्राजागरां प्रत्ययात्पूर्व पितीति पूर्वग्रहणेन ज्ञाप्यतइति तत्रैव भाष्ये स्पष्टम् । अत एवोपोत्तमं रितीत्याद्युदात्वमाहवनीयइत्यादौ रिददन्तस्योपोत्तमे नीशब्दस्येकारे प्रवर्त्तते चङयन्यतरस्यामिति च चङन्तस्य । न चैत्रं चतुरश्रासीत्युदात्तत्वं शसन्तस्य स्यात्तथा च षट्त्रिंशांश्च चतुरः कल्पयन्त इत्यादौ चतुर इति पदं मध्योदात्तमिष्यमाणं न सिद्धयेदिति वाच्यम् । तत्र शसग्रहणसाम - र्थ्यात्तदन्तसप्तमीत्ववाधात् । इतरथा ह्यूडिदम्पदायप्पुम्रै द्युचतुर्भ्य इत्येव ब्रूयात् । तत्र सर्वनामस्थानग्रहणानुवृत्तेः शस एव भविष्यति । षत्रिचतुभ्यो॑हलादीरीति हलावे: सिद्धान्तेप्युदात्तविधानात् । न चैवं स्वरविधिषु षष्ठयेव निर्दिश्यतामिति वाच्यम् । रितश्चङ इत्याद्यपेक्षया रिति चङीत्युक्ता वर्द्धमात्रालाघवसम्भवेन सप्तमीप्रयोगादिति । अत्रोच्यते । अङ्गाधिकारनिर्देशपक्षे तावदुक्तदोषपरिहाराय वार्त्तिकमारभ्यते । लुमतिप्रतिषेधे एकपदस्वरस्योपसंख्यानम् । सर्वामन्त्रितसिज्लुक् स्वर
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy