SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २३४ | शब्दकौस्तुभः । [ १ अ० शि सर्वनामस्थानम् ।। शि इत्येतत्सर्वनामस्थान संज्ञं स्यात् । वारीणि, सर्वनामस्थाने चासम्बुद्धाविति दीर्घः । यदि तु प्रदेशेष्वेव शौ चेत्याद्युच्येत तर्हि सुटि न स्यात् । अथ शिसुटोरित्युच्येत तर्हि नपुंसकसुटोपि ग्रहणं स्यात् । शिग्रहणं तु शसर्वे स्यात् । तस्मात्संज्ञा तावत्प्रणेया महासंज्ञाकरणं तु पूर्वाचार्यानुरोधात् ॥ सुडनपुंसकस्य ॥ सुडिति प्रत्याहारः । नपुंसकभिन्नस्य स्वादिपञ्चवचनानि उक्तसंज्ञानि स्युः । राजा राजानौ राजान इत्यादि । प्राग्वद्दीर्घः । अनपुंसकस्येति किम् । सामनी । विभाषा ङिश्योरित्यल्लोपाभावे दीर्घो न भवति । अनपुंसकस्येति पर्युदासस्तेनास्य सूत्रस्य स्त्रीपुंसयोरेव प्रवृत्तिरिति नपुंसकेन विधिर्नापि प्रतिषेधः । तेन वनानि सन्तीत्यत्र पूर्वसूत्रेण प्राप्ता संज्ञा भवत्येव, प्रसज्यप्रतिषेधे तु सापि निषिध्येत । यद्यप्यनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति समाधातुं शक्यते तथापि असमर्थसमासो वाक्यभेदश्चेति गौरवं स्यादेव । यद्वा सुदस्त्रीपुंसयेोरिति वक्तव्ये ऽनपुंसकस्येति सूत्रयतः प्रसज्यप्रतिषेध एव संमतः । गौरवं च प्रामाणिकम् । एतेन हि के चिन्नन्समासा असामर्थ्यपि साधव इति ज्ञाप्यते । तेनाश्राद्ध भोजी ब्राह्मण इत्यादि सिद्धं भवति ॥ नवेति विभाषा ।। इतिशब्दः काकाक्षिन्यायेनोभाभ्यां संबध्यते । स च पदार्थविपर्यासकृत् । तेनार्थ एवेह संज्ञी संज्ञा च । निषेधविकल्पयोर्विकल्प संज्ञा स्यात् । न च तयोरपदार्थतया ऽनन्त्रयप्रसङ्गः । एतत्सूत्रारंभसामर्थ्यादेव विधिवाक्येषु विकल्पवाचिपदस्य लाक्षणिकत्वात् । उभयत्रविभाषार्थं चेदं सूत्रम् । प्रातविभाषायाममाप्तविभाषायां च नास्योपयोगः । तथाहि । विभाषो
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy