________________
२५६
शब्दकौस्तुभः
[ १ भ०
ति । अत्र पक्षे ङिच्चेत्यस्यायमर्थः यत्र ङिदादेशो विधीयते तत्र या षष्ठी सा अन्त्यस्याल इति । एवमग्रेपि ॥
1
ङिच्च ॥ ङिदने कालप्यन्त्यस्य स्यात् । दध्ना । दध्ने । अनन्यार्थङित्वेष्वनङादिषु चरितार्थमिदं तातङि परेणानेक्राशित्सर्वस्येत्यनेन बाध्यते । ननूत्सर्गापवादयोरयुक्तो विप्रतिषेध इति चेत् । सत्यम् । सर्वादेशेपि तातङि गुणवृद्धिप्रतिषेधरूपं प्रयोजनं सम्भाव्यते । तावता च किञ्चिद्विलम्बेन प्रवृत्तोयमपवादोप्यस्मिन्विषये उत्सर्गेण समकक्षतामापत्र इति युक्तो विप्रतिषेधः । यद्वा । एरुरित्यस्यानन्तरन्तिह्योस्तादिति वक्तव्ये ङित्करणं गुणवृद्धिप्रतिषेधार्थमेवेति विप्रतिषेधोपपत्तिः । अस्तु वा विनापि विप्रतिषेधं सर्वादेशः । प्रदर्शितस्य गुणवृद्धिप्रतिषेधार्थत्वस्य सर्वादेशतामन्तरेणानुपपत्तेः ॥
आदेः परस्य । परस्य यद्विधीयते तदादेरलो बोध्यम् । ईदासः । अत्र तस्मादित्युत्तरस्येत्युपतिष्ठते । तेनादेशकारः । आसीनः ॥
अनेकाल शित्सर्वस्य || अनेकाल् आदेशः शिच्च सर्वस्य स्यात् । अस्तेर्भूः । भविता । इदम इशू । इतः । ङिच्चोति नियमात्सिद्धे ऽनेकालग्रहणमपवादविप्रतिषेधार्थमित्युक्तम् । यत्तु वृत्तिकारैर्जश्शसोः शिरिति शित उदाहरणं दत्तम् । तच्चि - न्त्यम् । सर्वादेशतां विना तत्र शिवस्यैवालाभात् । सर्वादेशवाया श्रानृपूष्पादनेका लत्वेनैव जल्डादेशादिष्विव सिद्धत्वात् । तथाहि । णल्डाशिप्रभृतयो यदा सर्वादेशास्तदा प्रत्ययसंज्ञाः । ततः प्रत्ययादित्वप्रयुक्ता इत्संज्ञा । ततो लोपः । तत एकालत्वे सत्यपि न सर्वादेशत्वक्षतिः । उपजीव्यविरोधापत्तेः | अत एव हि कर्तेत्यादौ न सर्वादेशतेत्युक्तम् । शकारेणानुबन्धेन इश्य