SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १. पा. ७ आ. शब्दकौस्तुभः । २५५ ष्ठीति किम् । आर्द्धधातुकस्येट्, तृच ऋकारात्पूर्वो मा भूत् । इदं च षष्ठीस्थानेयोगेति सूत्रस्यानुवृत्तेर्लभ्यते । अल इति किम् । पदस्येत्यधिकृत्य विधीयमानं वसुसंस्विति दत्वं परमानदुद्भयामित्यादावन्त्यस्य पदस्य मा भूत् । एतेनाल इति जसन्तमाश्रित्यालात्मका आदेशा अन्त्यस्य स्युरिति व्याचक्षाणाः परास्ताः । अन्त्यस्य पदस्यापि प्रसङ्गात् । किं चैवं लाघवार्थमलन्त्यस्येत्येव सूत्रयेत् । अपि चारुर्मनश्चक्षुश्चेतोर होरजसां लोपः पादशतस्य संख्यादेरिति लोपो ढकि लोपश्च सर्वादेशः स्यात् । ततश्च विरजीकरोतीत्यादि न सिध्येत् । यत्तु अल इति जसन्तमिति पक्षे अनेकाल्शित्सर्वस्येति सूत्रे अनेकाल्ग्रहणं न कर्त्तव्यमिति लाघवोपवर्णनं, तदपि न । षष्ठीति पक्षेपि ङिच्चेत्यत्र ङिदेवाने काल अन्त्यस्य स्यात् । न तु अङिदपीति नियमाश्रयणेनाने कालग्रहणप्रत्याख्यानसम्भवात् । वस्तुतस्तु पक्षद्वयेप्यनेकालग्रहणं कर्त्तव्यमेव । अन्यथा ऽतो भिस ऐसित्यादिपञ्चमीनिर्देशेष्वने कालप्यादेशः परस्यादेः स्यात्। सत्यनेकाल्ग्रहणे परत्वात्सर्वादेशः । अत एव तस्मादित्युत्तरस्यादेरिति न सूत्रितम् । तथाहि । अलोंत्यस्येत्यस्य द्वावपवादौ । आदेः परस्य, अनेकालशित्सर्वस्येति । तत्र प्रथमस्यावकाशः । ईदासः, बहोर्लोप इति । आसीनः, भूयान् । द्वितीयस्यावकाशः । अस्तेर्भूरित्यादि । अतो भिस इत्यादेः परत्वात्सर्वा - देशत्वे सिद्धं रामौरत्यादि । न चादेः परस्येत्यत्राल इति जसन्तमनुवर्त्य रामैरित्यादि साधनीयमिति वाच्यम् । तथा सति भूयान् भूमेत्याद्यसिद्धयापत्तेः । तदेवं कार्यस्यान्त्येल्यनुसंहारो व्याख्यातः । ङिच्चेत्याद्यग्रिमसन्दर्भानुगुणत्वात् । यद्वा । षष्ठया एवायमनुसंहारः । या स्थानेयोगा षष्ठी सान्त्यस्यालो बोध्ये ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy