SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २५४ शब्दकौस्तुमः [१ अ. कृतस्योपसंख्यानात् । स्थानिवदादेश इत्यत्रादेशग्रहणाद्वा । अत एव यङो यकारे लुप्ते अकारस्य प्रत्ययसंज्ञेत्युक्तम् । तथाचामत्ययस्येति षत्वनिषेधः सिद्धः । न चैवं प्रत्ययाक्यवस्था. निकत्वेपि प्रत्ययस्थानिकत्वाभावात् षत्वं स्यादेवेति वाच्यम् । अप्रत्ययस्येत्यनुवादे परिभाषानुपस्थानेन स्थानेयोगस्य दुर्लभत्वात् । अवयवावयविभावस्य षष्ठयर्थत्वसम्भवात् । नन्वप्रत्ययस्येति पर्युदासः तथा च पूर्वान्तत्वेनैकादेशग्रहणात्पत्वं स्यादेव । किञ्च प्रसज्यप्रतिषेधपक्षेपि सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात् । अप्रत्ययो यो विसर्गस्तस्य पत्वं स्यादिति वाक्यार्थः। तथा चाग्निः करोतीत्यादौ स्थानिवद्भावेन विसर्गस्य प्रत्ययत्वान्मा भूत् षत्वम् । मातुःकार्यमित्यादौ तु स्यादेवेति चेत्। इहेदं तत्त्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठो ज्ञापकएकादेशशास्त्रेण नित्तात्परस्य षत्वं न स्यादिति । यद्वा प्रसज्यप्रतिषेधवैयधिकरण्यान्वयावेव ज्ञाप्यते । यत्तु भाष्यं लुप्यते प्रत्ययो रात्सस्यति । यच्च कैयटकृतं तव्याख्यानम् । उत्वे कृते ऽवशिष्टः सकार एव प्रत्ययसंज्ञः स च लुप्त इति । तदुभयमपि चिन्त्यम् । इह सिद्धं तु प्रसंगे रपरत्वादिति पक्षे यद्यप्यरारादिरूपेण विधानादभक्तत्वादिशकैव नास्ति तथापि संप्रयोगो वेति पूर्वसूत्रोक्तरीत्या तृतीयपक्षमाश्रित्य भाष्ये पक्षत्रयं चिन्तितम् । तत्राभक्तत्वपक्षे परादित्वपक्षे च ववे इत्यादावुरदत्वेरपरत्वे च कृते हलादिशेषेण रेफो न निवर्तेत । अभ्यासावयवस्यानादेहल एव तेन निवर्तनात् । तस्मादन्तग्रहणमनुवर्त्य पू. न्तिपक्ष एवेह स्थापित इति संक्षेपः॥ __ अलोन्त्यस्य ॥ स्थानषष्ठीनिर्दिष्टस्य यदुच्यते तत्तदन्त्यस्यालः स्थाने बोध्यम् । त्यदादीनामः । सः । यः । स्थानष
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy