SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १ पा. ७ आ. शब्दकौस्तुमः । २५२ उपजीव्यविरोधात् । तथा च पूर्वसूत्रे वार्षिकम् । सर्वादेशप्रसङ्गस्त्वनेकालत्वात् । न वानेकालत्वस्य तदाश्रयत्वाहवर्णादेशस्याविघात इति । अण्ग्रहणं किम् । रीझिकादीनां रपरस्वं मा भूत्। मात्रीयति। क्रियते । तथा ढकि लोपोपिरपरः स्यात् । एवे च सूत्रवैयापत्तौ सामर्थ्यादनेनालोन्त्यविधि बाधित्वा सर्वादेशः स्यात् । तथा होतापोतारावित्यत्रानकोप रपरत्वे संयोगान्तलोपे च कृते तस्यासिद्धत्वावलोपो न स्यादिति दिक् । अथ यो रिकादिष्वण स रपरः कुतो नेति चेत् । अनादेशत्वात् । आदेशत्वं हि समुदाये विश्रान्तम् । न चैवं कृष्णार्दिरित्यादौ रपरत्वं न स्यात्पूर्वपरसमुदायस्य स्थानित्वादिति वाच्यम् । पूर्वपरयोरिति द्विवचननिर्देशेन सहितयोरवयवयोरेव स्थानित्वावगमात् । अत एव द्वयोः स्थानिनो. भिन्नादिषु नत्ववद् द्वावादेशौ मा भूतामिति तत्रैकग्रहणं कृतम् । तस्माहकारस्यापि स्थानित्वमस्त्येव । तदुक्तम् । यो त्धुभयो। स्थाने भवति लभते ऽसावन्यतरतो व्यपदेशमिति । तस्मादेकादेशेपि रपरत्वं भवतीति स्थितम् । स्यादेतत् । उक्तरीत्या ऋत उदित्युकारादेशस्यापि रपरत्वं स्यात् । तथा च विभक्तिसकारस्य रुत्वे कृते पूर्वस्य रोरीति लोपे दूलोपइति दीर्पण मातूः पितू. रिति प्रामोतीति चेत् । मैवम् । रुत्वस्यासिद्धत्वेन रात्सस्यति सकारलोपे रेफस्य विसर्गेण रूपसिद्धेः। नन्वेवं मातुःकार्यमित्यत्र षत्वं स्यात् । इदुदुपधस्य चापत्ययस्येति सूत्रात् । न चायं प्रत्ययविसर्जनीय एवेति वाच्यम् । अकारस्य प्रत्ययावयवत्वेप्यात्ययतया तदादेशस्य सुतरामतथात्वादिति चेत् । उच्यते । ऋत उदित्येकादेशस्य परादिग्रहणेन ब्रहणादस्ति तावत्सान्तस्य प्रत्ययसंझ सकारे लुप्ते त्ववशिष्टस्यैव प्रत्ययसंज्ञा । एकदेशवि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy