________________
२५२ शब्दकौस्तुमः । [१ अ. अस्प कोन्तरतम इति परीक्ष्यते अवजात्यवच्छिन्नश्च कस्येति । सदाऽनुरूपमतिसंवन्धिराहित्येनैव धर्मेणैतयोरान्तर्यम् । न ह्यान्तर्य चतुर्देति मुनित्रयोक्तिरस्ति प्रत्युत सोष्मणः सोष्माण इति भाष्याद् वृत्तेश्चानियम एव लभ्यते । एवं च नष्टाश्वदग्धरथन्यायोपि जात्यवच्छेदेन परीक्षायामेव । व्यक्तिपुरस्कारेण परीक्षायां तूक्तरीत्या दुष्टोयं पक्षः । तथा चात्र सूत्रे वातिकम् । य उस्स्थाने ऽण् स रपर इति चेद् गुणवृद्धयोरवाप्रतिपत्तिरिति । किञ्चास्मिन्पक्षे क रेफपरत्वं क वा लकारपरत्वमिति व्यवस्थापि दुरुपपादा स्यात् । स्वतन्त्रः कति निर्देशान विनिमयो प्रोयङयचिविभाषेत्यारम्भाच्च न विकल्प इति समर्थनेपि प्रतिपत्तिगौरवं स्यादेव । रेफस्य पूर्वान्तता साधयितुमाद्यन्ताविति सूत्रात्समासैकदेशभूतमन्तग्रहणमनुवर्त्य तस्य रपर इत्यन्यपदार्थविशेषणीभूतेन रेफान्वयश्च वाच्य इति महान्लेशः । चतुर्थपक्षे तु नैतदुपयुज्यतइति वक्ष्यामः । तस्मानिर्दोषत्वाच्चतुर्थपक्ष एवाश्रितः । स चेत्थमुपपादनीयः । स्थाने शब्दद्वयमिहानुवर्तते तत्रैकमुः स्थाने यो ऽणित्यनुवादपि स्थानसम्बन्धलाभाय । द्वितीयं तु प्रसङ्गावस्थायामेव रपरो भपतीति कालविधानार्थम् । स्थानेन्तरतमसूत्रे स्थानशब्दस्य ताल्वादिपरत्वेपि शब्दाधिकाराश्रयणादिह प्रसङ्गपरत्वं बोध्यम् । एवं च गुणवृद्धयोः प्राप्तयवस्थायामेवाणो रपराः सम्पन्ना इति प्रमाणतोन्तरतमावैङावैचौ बाधित्वा स्थानतोन्तरतमोणेव भवतीति न कश्चिद्दोषः । एव मुदात्तादिविधिष्वप्यन्तरतमत्वाहकारो भवति नतु अर् इर् इत्यवधेयम् । न चैवं कर्नत्यादावनेका. ल्त्वात्सर्वादेशप्रसङ्गः । आनुपूर्येण सिद्धत्वात् । तथाहि । स्थानित्वमुपजीव्य प्रवृत्तं रपरत्वं सर्वादेशतां नापादयति ।