________________
१पा. ७ आ. शब्दकौस्तुभः ।
२५७ भ्रतीनामनेकालत्वादेव सिद्धे शिद्रहणं नानुबन्धकृतमनेकाल्त्वमिति ज्ञापनार्थम् । तेन दिवउत् अर्वणस्त्रसावित्यादेर्न सर्वादेशतेति बोध्यम् । ननु कथं ज्ञापकता घ्वसोरेद्धावभ्यासलोपश्चेत्येतदर्थतया शिद्ग्रहणस्य चरितार्थत्वात् । तत्र हि लोपश् इति छिद्यते संज्ञायां च कृतं शित्त्वं तत्रानुपयुक्तं सत्संज्ञिनि फलति, उन्मुटष्टित्ववदिति सिद्धान्त इति चेत् । सत्यम् । अनेकान्ता अनुबन्धाइति पक्षे नानुबन्धकृतमनेकाल्त्वमित्यत्य प्रयोजनाभावात्तदभिप्रायको लोपशितिच्छेद इति सिद्धान्तः । एकान्ता इति पक्षे तूक्तरीत्या ज्ञापकमावश्यकम् । ध्वसोरित्यत्र तु लोप इत्येव छेदः । लोपोयीति प्रकृते पुनर्लोपग्रहणसामर्थ्यात्सर्वादेशः । वार्तिकमते तु नानर्थकेलोन्त्यविधिरित्येव सिद्धम् । न चानभ्यासविकारेष्विति पर्युदासस्यायं विषयः। लोपस्य विकारत्वाभावात् । रूपान्तरापतिर्हि विकारः । यथा भृक्षामित् अतिपिपोश्चेत्यादिः । अत एव पस्पशायां लोपो विकारात्पृथगुपातः लोपागमवर्णविकारज्ञो हि वेदं परिपालयिष्यतीति । उक्तं च पृषोदरादीनीत सूत्रे कैयटेन । द्वौ चापरौ वर्णविकारनाशाविति । वस्तुतस्तूपदेशावस्थायामेवान्तरङ्गनयेत्संज्ञा । अत एवोच्चरितप्रध्वंसिनोनुबन्धाः स्मर्यमाणाः सन्त एव कार्य निर्वाहयन्तीति सिद्धान्तः। इदं चोत्तरसूत्रे एव कैयटे स्फुटम् । तथा च दिव उत् अर्वणस्त्रित्यादेरेकाल्त्वादेकान्तपक्षेपि न सर्वादेशता प्रसज्यते । एवं च नानुबन्धकृतमनेकाल्त्वमिति ज्ञापनं. व्यर्थम् । शिदहणं च.सुतराम् । इदम इश् इदं किमोरीशकीतीशीशोस्तु शकारोच्चारणसामर्थ्यात्सर्वादेशतायाः प्राङ् नलोपः। यत्तुं कृतेपि सर्वादेशे प्रयोजनाभावाच्छकारस्येत्संज्ञा न स्यादिति हरदत्तेनोक्तम् । तन्न । लोपस्यैव प्रयोजनत्वात् ।.
३३