SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २७६ शब्दकौस्तुमः । [१ अ. ज्ज्ञापकत्वसम्भवात् । तदेवं सर्वथापि वधेः परस्येडस्त्येवेति स्थितम् । अत एवानिदकारिकासु व्याघूभूतिनादन्तपयुदासः कु. तः अदन्तमूदन्तमृताञ्च वृबृजावित्यादिना । यत्तु कौमुद्या भावकर्मलकारव्युत्पादनावसरे घानिषीष्टेत्युदाहृत्य पक्षे वधादेश इत्युक्तं तत्तूक्तरीत्या भाष्यमते वार्तिकमते वा उभयथापि निर्बाधमेव । एवं स्थिते पक्षे वधादेश इति प्रतीकमुपादायेदन्तु सिद्धान्तविरुद्धंभाष्यादौ वधादशानभ्युपगमादिति वदन् प्रसादकारः प्रत्युत स्वस्यैव कलंकमाविरकरोत् । यदपि तेन स्वकीयभ्रमबीजभूतं वार्तिकमुदात्तं हनिणिडादेशप्रतिषेधश्चीत । नैतल्लिङि प्राप्तस्य निषेधपरं किं तु स्यादिष्वपि चिवदित्यतिदेशेन प्राप्तस्य । अत एवाङ्गाधिकारादाङ्गस्यैवातिदेशो न तु हनिणिङादेशानाम् अनाङ्गत्वादित्यङ्गाधिकारबलनैव भाष्ये तद्वार्तिकं प्रत्याख्यातम् । यद्यप्येतत्सिद्धान्तग्रन्थेष्वविवादमेव तथाप्यन्धस्येवान्धलग्नस्यति न्यायेन प्रसादग्रन्थं दृष्ट्वा बाला मा भ्राम्येयरित्येतदर्थमस्माभिः स्फुटीकृतम् । प्रकृतमनुसरामः । आकारान्तान्नुक्षुमतिषेधः । लोडादेशे शाभावजभावधित्त्व. हिलोपैत्वप्रतिषेधः । त्रयादेशे सन्तप्रतिषेधः । आमविधौ च । स्वरे च वस्वादेशे । एतान्यपि पञ्च वार्तिकानि प्रत्याख्यातानि। तथाहि । विलापयनि भापयतीत्यत्र नुक्षुको न भविष्यतः। ली ई भी ई इतीकारप्रश्लेषात् । हूस्वप्रश्लेषाद्वा । तथा । शिष्टात् हतात् भिन्तात् कुरुतात् स्तादित्यत्र परत्वात्ताताङि कृते शाहो, इन्तेजः, हुझल्भ्योहेद्धिः, उतश्चप्रत्ययादसंयोगपूर्वाद, घ्वसोरेद्धावित्येते विधयो यद्यपि प्राप्नुवन्ति तातङ: स्थानिवद्भावेन हिग्रहणेन ग्रहणात् । तथापि सकृद्गतौ विप्रतिषेधे यदाधितं तदाधितमेवेति न्यायान भावन्त । एवं पुष्णीता
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy