________________
शब्दकौस्तुभः । - [१ अ० द्विकृतौ साकल्येन नास्ति तदा कृत्स्नस्य मन्त्रस्य निवृत्तिः । यथा । अवरक्षो दिवः सपत्नं वध्यासमित्यवघातमन्त्रस्य कृ. ष्णलेषु । यस्य त्वेकदेशस्याभिधेयं नास्ति तस्य तावन्मात्रं निवर्तते । यथा । अग्नये त्वा जुष्टं निर्वपामीत्यस्य मन्त्रस्यावयवभूतं देवताभिधायि पदमौषधद्रव्यकत्वेन एकदेवताकत्वेन चाग्नेयविकारभूते सौर्ये निवर्तते अग्निशब्दे च लुप्तद्वारकतया निवर्तमाने एकारोपि निवर्त्तते । अकारान्तेतरप्रकृतिसन्निधानेनैव हि एकारस्य सम्पदानं वाच्यम् । अकारान्तात्तु यशब्दस्य । ततश्चतुर्थ्यन्तसूर्यायेत्यायुदात्तम् अग्नयइत्यस्य मध्योदात्त'स्य स्थाने ऊह्यम् । सोयं प्रकृत्यूहः। लिङ्गस्य कचिदूहः। यथा। दे. वीरापः शुद्धाः स्थेत्यप्सु विनियुक्तो मन्त्रः तस्याज्ये ऊहः । देवाज्यशुद्धमसीति । प्रत्ययमात्रस्य क्व चिदूहः । यथा । माभेमासं विक्था इति पुरोडाशेवदानमन्त्रः तस्य धानासूहः । माभैष्टमासंविजिध्वमित्यादिरित हरदत्तादयः । याज्ञिकास्तु संविग्ध्वमित्यूहमाहुः । युक्तं चैतत् । प्रकृतावनिदकतया विजिरपृथग्भावइत्यस्य प्रयोगो न तु ओविजी भयचलनयोरित्यस्येत्यवधारणात् । लाघवमपि प्रयोजनम् । तथाहि । अध्यापनं ब्राह्मणस्य वृत्तिः । तन्निर्वाहश्च वैदुष्याधीनः । वैदुष्यं च साध्वसाधुविवेकः । स च न प्रतिपदपाठादिना सम्भवति । शब्दानामानन्त्यात् । तस्मादुत्सर्गापवादरूपलक्षणद्वारा तबोधने लाघम् । अन्यथा तु गौरवम् । असन्देहोपि प्रयोजनम् । तथाहि । स्थूलपृषतीमनड्वाहीमालभेतेति श्रूयते । तत्र सन्देहः कर्मधारयोयं बहुव्रीहिर्वेति । तत्र कर्मधारयपक्षे पृषतीशब्देन मत्वर्थलक्षणया पृषत्त्वतीबिंदुमती गौरेवाभिधीयते स्थूलापि सैव बिन्दुना स्थौल्यं तानवं वा यथा तथास्तु । बहुव्रीहौ तु स्थौल्यं पृषत्स्वे