________________
१ पा. १ आ. शब्दकौस्तुभः ।
१७ वेति । गौस्तु स्थूला कृशा वेत्यत्रानादरः । तत्र लकाराकारे उदात्तत्वं दृष्ट्वा पूर्वपदप्रकृतिस्वरेण बहुव्रीहिं वैयाकरणो निश्चिनोति । ततश्च निश्चयेन प्रतिबन्धात्संशयानुत्पादः । स एवासन्देहः । अर्थाभावेव्ययीभावादसन्देहमिति स्यादिति चेन्न । पोयेणाव्ययीभावतत्पुरुषसंज्ञाद्वयमपीह भवतीति द्वितीये उपपादयिष्यमाणत्वात् । अत एवोभयथा मुनिप्रयोगः । अद्रुतायामसंहितमिति, अथासंहितयेति च । एवं इन्द्रपीतस्योपहूतो भक्षयामीत्यादावपि स्वरेणैव बहुव्रीहिनिर्णये इन्द्रपीताधिकरणमवैयाकरणान्पति सार्थकम् । कृत्वाचिन्तान्यायेन वा नेयमिति दिक् । तदेवं रक्षोहलाघवासन्देहाख्यानि चत्वारि फलानि व्याख्यातानि । आगमस्तु प्रवर्तक इत्युक्तम् । भाष्ये तु. सन्दर्भशुध्यर्थं फलचतुष्टयस्य प्राक् पश्चाद्वा प्रवर्तके वक्तव्ये मध्ये तदुक्तया फलसन्दंशेन नित्यानामपि फलपर्यवसानमस्तीति सूचितम् । फलं तु पापक्षयः प्रत्यवायानुत्पत्तिा । धर्मेण पापमपनुदति । विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अ-.. निग्रहाचेन्द्रियाणां नरः पतनमिच्छतीत्यादिवचनानीह साधकानीति दिक् । इमानि च भूयइत्यादिभाष्येण प्रवर्तकवचनान्तराणि उदात्त्य व्याख्यातानि । तद्यथा । ते सुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुस्तस्माद् ब्राह्मणेनें न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्द इति ब्राह्मणम् । अत्र न म्लेच्छितवा एतस्य विवरणं नापभाषितवै इति । उभयत्रापि कृत्याथे तवैकेनकेन्यत्वन इति तवैप्रत्ययः । धातूनामनेकार्थतया निन्दावचनान्मेच्छधातोः कर्मणि घञ् । तेनापशब्दसामानाधिकरण्यं न विरुध्यते । अत्र न म्लेच्छितव्यमितिनिषेधस्य ते सुरा इत्यर्थवादः । न चेह रात्रिसत्रन्यायेन आर्थवादिकं फलमस्त्वि