________________
१८
शब्दकौस्तुभः ।
[ १ अ०
ति वाच्यम् । द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यादिति न्यायेन अपाप श्लोक श्रवणवत्प्राशस्त्यमात्रपरत्वात् । प्रकरणात्त्वङ्गो ह्ययन्निषेध इति यर्वाणस्तर्वाणो नामेत्यादावुत्तरग्रन्थे माष्यकारैरेव स्फुटीकरिष्यते । अत एव इहापि पराभूता मा भूत्यध्येयं व्याकरणमिति नोपसंहृतम् । किं तु म्लेच्छा मा भूमेत्येव । म्लेच्छा निन्द्याः । शास्त्रबोधितविपरीतानुष्ठानादिति भावः । अत्र है प्रयोगे हैहयोरितिप्लुते प्लुतत्वप्रयुक्ते प्रकृतिभावे च कर्त्तव्ये तदकरणं म्लेच्छनमित्येके । ननु सर्वः प्लुतः साहसमनिच्छता विभाषा कर्त्तव्य इति भाष्यकृता वक्ष्यमाणत्वान्नैष दोष इति चेत् । सत्यम् । अत एवापरितोषाद्वाक्यद्विर्वचनं म्लेच्छनमित्य परैर्व्याख्यातम् । सर्वस्य इत्यत्र पदग्रहणस्य चोदितत्त्वादिति तेषां भावः । ननु नेदं शास्त्रीयं द्विर्वचनं किं तु तात्पर्यद्योतनार्थमैच्छिकः पुनः प्रयोगः । अनावृत्तिः शब्दादिनावृत्तिः शब्दादिति वदिति चेत्, तह्यम्रेडितस्वरानुपपत्तिः । यदि तु तत्राम्रेडितस्वरविनिर्मुक्त एव पाठस्तर्हि अरिशब्दे रेफस्य लत्वमपशब्द इत्यवधेयम् । इदं च भाष्यादिषु प्र सिद्धं श्रुतिपाठमनुसृत्य व्याख्यातम् । अयं च पाठः क्व चिच्छाखायामन्वेषणीयः । माध्यन्दिनानां शतपथब्राह्मणे तु हेलवो हेलव इति वदत इति पठित्वा तस्माद् ब्राह्मणो न म्लेच्छेदिति पठ्यते । तत्र यकारस्थाने वकारोपशब्द इति स्पष्टमेव । तथा शिक्षासु पठ्यते । मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । सवाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधादिति । स्वरेण स्वरतः । हीयमानपापयोगाच्चेति तसिः । मिथ्याप्रयुक्तः । यदर्थप्रतिपादनाय प्रयुक्तस्ततोर्थान्तरं स्वरवर्णदोषात्प्रतिपादयन् । अत एव तमर्थं नाहेत्यर्थः । वागेव वज्रः हिंसकत्वात् । य