________________
१ पा. १ आ.
शब्दकौस्तुभः ।
१९
.:
जमानं हिनस्तीति । यथाध्वर्युकृताद्धोमाद्यजमाने धर्मोत्पत्तिः एवमध्वर्युकृतादप शब्दप्रयोगाद्यजमाने प्रत्यवाय इत्यर्थः । यथेत्युदाहरणे | इन्द्रशत्रुः । इन्द्रशत्रुशब्दः पुरा किल विश्वरूपाख्ये स्वष्टुः पुत्रे इन्द्रेण हते सति कुपितस्त्वष्टा इन्द्रस्य हन्तारं वृत्राख्यं पुत्रान्तरमुत्पिपादयिषुराभिचारिकं यागं कृतवान् । तत्र च इन्द्रस्य शातयिता शत्रुः हिंसक इति यावत् तथाभूतः सन् वर्षस्वेतिप्रतिपादितुं इन्द्रशत्रुर्वर्धस्वेतिं प्रयुक्तम् । प्रयन्ताच्छदरौणादिकः क्रुन्प्रत्ययः । प्रज्ञादिगणे निपाताद् ह्रस्वः । इन्द्रशत्रुत्त्वस्य विधेयत्वान्न सम्बोधनविभक्तिः । तस्या अनुवाद्यविषयक - त्वात् । अत एव राजन् युध्यस्व राजा भव युध्यस्वेत्यनयोर्व्यवस्थयैव प्रयोगः । राजत्वस्य सिद्धत्वे सम्बोधनविभक्तिर्न तु विधेयत्वेपीति । एवं स्थिते इन्द्रशत्रुशब्दे तत्पुरुषसमास प्रयुक्तेन्तोदात्ते वक्तव्ये प्रमादादाद्युदात्तः किलोक्तः । तथा च पूर्वपदप्रकृतिस्वरेण बहुव्रीह्यर्थो लब्धः । इन्देहि धातोरौणादिके ऋजे-: न्द्रेत्यादिना रन्प्रत्यये कृते इन्द्रशब्द आद्युदात्तो व्युत्पादितः । तेनेन्द्र एवास्य हिंसकः सम्पन्न इति श्रुतीतिहासपुराणादिषु प्र-: सिद्धम् । तदिहोदाहरणतयोक्तम् । स्यादेतत्, यज्ञकर्मणीह्येकश्रुत्येह भवितव्यम् । सा च तत्पुरुषबहुव्रीह्योरविशिष्टेति । अत्राहुः । जपादिपर्युदासेन मन्त्रेष्वेव एकश्रुतिर्विधीयते । स्वेच्छया प्रयुज्यमानश्च मन्त्रो न भवति । तदुक्तं भेदलक्षणे जैमिनि -: ना । अनाम्नातेष्वमन्त्रत्वमिति । आपस्तम्बवाह | अनाम्ना-: ता अमन्त्रा यथा प्रवरोहनामधेयग्रहणानीति । अत एव मन्त्रो हीन इति पाठस्य शिक्षायां प्रसिद्धेत्वपि ऊह्यमानस्यामन्त्रतया यथन्द्रेशत्रुरिति वाक्यशेषो ऽसङ्गतः स्यादतो मन्त्रशब्दः शब्दमापर इत्याशयेन भाष्ये दुष्टः शब्द इति पठितम् । ननु स्वाहें