________________
शब्दकौस्तुभः । [१ अ० द्रशत्रुद्ध स्वेति वेदे पठ्यतएवेति । सत्यम् । अहितं यदमन्त्रभूतं अनुकार्य तदनुकरणस्य पाठेपि अर्थपरस्यानुकार्यस्य लौकिकवानपायात् । नन्विन्द्रशत्रुशब्दस्य लौकिकत्वे कथं स्वरप्रयुक्तयोगुणदोपयोः प्रसक्तिः स्वरस्य वेदमात्रविषयकत्वादिति चेन्न । स्वरविधौ छन्दोधिकाराभावात् । एतावानेव हि भेदः । यच्छन्दसि त्रैस्वयमेकश्रुतिश्च व्यवस्थया ऽऽश्रीयते । लोके त्वैच्छिको विकल्पः । अत एव एकश्रुत्या सूत्रपाठस्वैस्वर्येण वेति पक्षद्वयमपि तत्रतत्रोपन्यस्तमिति वक्ष्यामः । नन्वेवं उच्चस्तरांवेतिसूत्राद्विकल्पानुवृत्त्यैव सिद्धौ विभाषाछन्दसीत्यत्र विभाषाग्रहो व्यर्थः स्यात् । प्रसज्यप्रतिषेधे तु नायं दोषः । यज्ञकर्मणीत्यस्य निवृत्तये पुनर्विभाषाग्रहणात् । न च पर्युदासपक्षेप्येवमेवास्त्विति वाच्यम् । नित्यविकल्पविध्योर्विषयभेदस्यावश्यकतया आरम्भसामर्थ्यादेव तनिवृत्तिसिद्धः । प्रसज्यप्रतिषेधे तु नारम्भसामर्थ, ऊहादिष्वमन्त्रेषु चरितार्थस्य पूर्वविधैरुत्त. रेण छन्दोमात्रविषयकेण बाधसम्भवात् । नराहादीनां छन्दस्त्वमस्ति । मन्त्रब्राह्मणेतरत्त्वात् । तस्मादसमर्थसमासमाश्रित्यापि प्रसज्यप्रतिषेध एवागत्या स्वीकर्तुमुचित इति चेन्न । पर्युदासपक्षेपि मन्त्रे नित्यं ब्राह्मणे वेति विषयविभागसंभवेन यज्ञकर्मनिवृत्तये विभाषाग्रहणसम्भवात् । उक्तापरितोषादेव तु के चिजपादिषु प्रसज्यप्रतिषेधमाश्रित्य इहाप्येकश्रुतेः प्राप्तौ सत्यांतदकरणं बहुव्रीहिस्वरकरणं च स्वरतोपराधादित्यस्यार्थ इत्याहुः । श्रूयते च यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनमाविव शुष्कैथो न तज्ज्वलति कर्हि चित् ॥ निगदेन, पाठमात्रेण । शुष्कैवइति सान्तेन क्लीबेन एधशब्देन अकारान्तेन वा पुल्लिंगेन निर्वाह्यम् । न ज्वलति, न प्रकाशते निष्फलं भवतीत्य