________________
१ पा. १ आ. शब्दकौस्तुभः । मन्त्रेष्वाङयादेरात्मन इत्याकारलोपः। आगमो यथा । देवासः ब्राह्मणासः । आज्जसेरसुगित्यसुगागमः । लोपागमौ यथा । देवा अदुहू । अदुहतेत्यर्थः । दुहेर्लङो झस्यादादेशे कृते लोपतआत्मनेपदेष्विति तलोपः। बहुलंछन्दसीतिरुडागमः । एतेन नाशिरं द्रुहेविश्वाइत्ते धेनवो दुहू इत्यादिलडन्तमपि व्याख्यातम् । वर्णविकारो यथा । गृभ्णामितेसौभगत्वाय । हग्रहोर्भश्छन्दसि हस्येति वक्तव्यमिति भकारः । प्रत्ययोपि छान्दसो. स्ति, यथा । उदाभं च निग्राभं चेति । उदिग्रह इतिसूत्रे उदा. भनिग्राभौ च च्छन्दसि सुगुद्यमननिपातनयोरिति वचनादुन्निपूद्हेिन् । तत्र उत्पूर्वात्सूत्रेण लोकेपि सिद्धो घम् । निपूर्वात्तु वार्तिकोक्तश्छन्दस्येव । सनिवेशविशेषयुक्ताः पात्रविशेषाः सुचः । इह तु जुहूपभृतोरेव ग्रहणम् । उदाभं चेति जुहूमुद्यच्छति, निग्राभञ्चेत्युपभृतं नियच्छतीति वचनात् । भकारादेशः प्राग्वत् । ऊहोपि प्रयोजनम् । तथाहि । यत्रागजातं सम्पूर्णमुपदिष्टं सा प्रकृतिः । यथा दर्शपूर्णमासौ । यत्र नोपदिष्टं सा विकृतिः । यथा सौर्य चळं निर्वपेद् ब्रह्मवर्चसकाम इति विहितो यागः । तत्र वैकृतस्य विधेविषयभूतायां भावनायां करणीभूते यागे उपकारकाकांक्षायां तन्मुखेन प्राकृतमङ्गजातं प्राप्यते । वैदिके करणेतादृशानामेवानानामपेक्षितत्वात् । तेषामेव प्रकृतौ क्लतसामर्थ्यात् । तद्विशेषस्य चैकदेवतात्त्वादिना शक्यज्ञानत्वात् । तस्मात्प्रकृतिवद्विकृतिःकर्त्तव्येति पूर्वमीमांसायां स्थितम् । तत्र यस्याङ्गस्य प्रकृतीय उपकारः क्लुप्तस्तस्य विकृतावसंभवे निवृत्तिः। यथा प्रकृताववघातस्य वैतुष्यमुपकारतया क्लुप्तं तस्य कृष्णलेवसंभवादवघातस्य निवृत्तिः । मन्त्रा अप्यङ्गम् । तेषां चानुष्ठेयार्थप्रकाशनं कार्यम् । तत्र प्रकृवौ यस्य मन्त्रस्य यदभिधेयं तच्चे