________________
१४
शब्दकौस्तुभः । [१ अ० रिशिष्टप्रायं बाहुलकादिसाध्यानां लोपागमविकारादीनां पायशस्तत्र संग्रहात् । छन्दोविचितिरपि गायत्र्यादिलक्षणद्वारा गायच्या यजतीत्यादिविध्यर्थनिर्णये उपयुज्यते । शिक्षापि वर्णोच्चारणपकारं दर्शयति । कल्पसूत्राण्यपि प्रकरणान्तरपठितस्य न्यायलभ्यस्य शाखान्तराधीतस्य चाङ्गजातस्योपसंहारेण प्रयोगं दर्शयन्ति । तस्मात्पडङ्गानि । तेष्वपि प्रधानं व्याकरणम् । पदपदार्थावगमस्य व्याकरणाधीनत्वात् । वाक्यार्थज्ञानस्य तन्मूलकत्वात् । अत एव तस्य शिक्षायां मुखत्वेन निरूपणं कृतम् । मन्वादिस्मृतिष्वपि अगाध्ययनविधयः प्रसिद्धा एव । तथा चाध्ययनविधिव्याकरणाध्ययनस्यानुष्ठापक इति स्थितम् । तथा च सन्थ्योपासनादेरभावे प्रत्यवायो ऽनुष्ठाने च पापक्षय इति यथाभ्युपेयते तथा व्याकरणाध्ययनस्याप्यननुष्ठाने अनुष्ठाने च बोध्यम् । रक्षाप्रभृतीनि फलान्तराण्यापि सन्ति । तथा च भाष्यम् । कानि पुनरस्य प्रयोजनानि । रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति। अत्र प्रयुज्यते प्रवर्त्यते ऽनेनेति करणल्युडन्तः । प्रयोजयतीति कतृव्युत्पत्त्या बाहुलकात्कतेल्युडन्तो वा । उभयथापि प्र. वर्तकविधिपरः पुल्लिङ्गः प्रयोजनशब्द एकः । फलपरः क्लीबो ऽपरः । उभयोनपुसकमितिनपुंसकैकशेषे एकवद्भावस्य वैकल्पिकतया प्रश्ने बहुवचनमुत्तरे एकवचनं च बोध्यम् । तत्र आगम: प्रवर्तकः । रक्षोहलाघवासन्देहास्तु फलानीति विवेकः । तत्र प्रवर्तक आगमो व्याख्यातः । फलानि व्याख्यायन्ते । तत्र रक्षा वेदसंरक्षणम् । तथाहि । भाषायामदृष्टा लोपागमवर्णविकाराश्छन्दसि दृश्यन्ते । ते केवलप्रयोगशरणैः प्रामादिकाः सम्भाव्येरन् । वैयाकरणस्तु लक्षणदर्शी तदेव रूपं स्थापयति । तत्र लोपोदाहरणम् । त्मना देवेषु विविदे मितद्रुः। त्मना, आत्मनेत्यर्थः ।