SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ १ पा. ३ आ. शब्दकौस्तुभः । त fia इत्यत्र न इति मतेनाऽऽद्यः पक्षः । उपाधिस्थित्यधीन स्थिति को जीवब्रह्मभेदत्रदुपधेयेपि भेदोस्तीति मतेन द्वितीयः कल्प | नकोपधाया इति पुंवद्भावनिषेधस्तु नास्ति । तद्धितग्रहणं कर्त्तव्यमिति वक्ष्यमाणत्वात् । अवच्छेदः संकोचः भः स च यद्यपि शक्तेर्निरवयवतया न सम्भवति तथापि तदितरस्मिंस्तात्पर्यविरहएव शक्तिसङ्कोचोत्राभिमतः । सवाचा इत्यभ्युपगमेपि तात्पर्यं क चिदेवेत्यस्य निर्विवादति वात् । शक्तिः परं कारणतापरपर्याया सर्वत्र दुर्वारेत्युक्तम् । न चैवमन्यायश्वानेकार्थत्वमित्यस्य निर्विषयता । पौरुषयसङ्केनिरपेक्षस्य प्रसिद्धतरसम्बन्धस्य विना प्रमाणं बहुषु न कपनमिति तदर्थात् । गौणमुख्यविभागोपि प्रसिद्ध्यसिद्धिनिबन्धन एव । गाव्यादीनामसाधुतापि सङ्केतविरहे सत्येव । अत एव प्रसिद्धेपि पक्षे गोण्यादीनां गोण्यां साधुत्वमस्त्येवेत्यन्यत्र विस्तरः । उक्तं च । व्यवहाराय नियमः संज्ञायाः संज्ञिनि कचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवव् ! वृद्ध्यादीनां च शास्त्रेस्मिन् शक्तयवच्छेदलक्षणः । अकृत्रिमभिसम्बन्धो विशेषणविशेष्यवदिति ॥ वस्तुतस्तु साध्वसाधुवहिर्भावपक्षेप्येषामनुशासनविषयतास्त्येवेति पस्पशायां साधुत्वनिर्वचनप्रसङ्गेनोपपादितम् । तस्मात्सर्वथापि कुत्वं प्राप्नोत्येवेति चेत् । सत्यम् । अयस्मयादीनि छन्दसति भत्वप्रवृत्या कुत्वोपयोगिनी पदसंज्ञा प्रतिबध्यते । जश्त्वविध्येकवाक्यतापना तु पदसंज्ञास्त्येव । ससुष्टुभासऋकतागणेनेत्यत्र तु विपरीतम् । कुत्वं पदत्वमस्ति जस्त्वे तु नोत विषयभेदेन संज्ञाद्वयमस्तीत्यंशे परं दृष्टांतता बोद्धया । तेनोपदेशेजनुनासिक इदित्यादौ कुत्वाभावो जस्त्वं च सिद्धयति । ८७
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy