________________
८८
शब्दकौस्तुभः । [१ अ० छन्दसि विहितस्य सूत्रे कथं प्रवृत्तिरित्याशङ्कय छन्दोवत्सूत्राणि भवन्तीति भाष्यम् । इष्टिरियं भाष्यकृतः। यद्वा । छन्दःशब्दः स्वर्यते । स्वरितेनाधिकारः, अधिक कार्य गौणस्यापि ग्रहणमित्यर्थः । तेन छन्दोङ्गेष्वपि तत्तत्कार्यप्रवृत्तिर्बोध्या । संज्ञाद्वयसमावेशस्तूभयसंज्ञान्यपीति वक्तव्यमिति वार्तिकवचनात् । षष्ठीयुक्त इति सूत्रे छन्दसि वेति विभज्य एका संज्ञेति । निय. मस्य छन्दसि विकल्पनाद्वा । यद्वा । अयस्मयादीनीत्यनेनो भयसंज्ञाप्रयुक्तकार्य भाजः समुदाया निपात्यन्ते । न तु प्रकृता भासंजैव विधीयते । अत एव कार्यविशेषपुरस्कारसम्भव इति बोध्यम् । तस्मात्कुत्वं नेति स्थितम् । कुशब्दस्याणुदिदित्यनेन सं ज्ञात्वेन विनियोगात्तत्र च प्रागुक्तरीत्या मतभेदसत्वाज्जातिविशेषः प्रवृत्तिनिमित्तम् । व्यक्तिविशेषोपहिता सत्तव वा । शब्दस्वरूपं वा। तस्यापिग्राह्यत्वं ग्राहकत्वं चेति पस्पशोक्तरीत्या व्यक्तिविशेषणतया भानाभ्युपगमात् । तथाचोक्तत्रितयान्यतममिह त्वप्रत्ययार्थः । प्रकृतिजन्यबोधे प्रकारीभूतत्वं प्रयोगोपाधिमाश्रित्य तथाभूतधर्मस्य त्वतलर्थताया वक्ष्यमाणत्वात्। यद्वा । प्रकृतिः शब्दस्वरूपपरा तत्प्रवृत्तिनिमित्तत्त्वे तु त्वतलादीनां शक्तिरेवेति मतान्तरमपि वक्ष्यते । उभयथापीह त्वमत्ययेन स्वार्थाश्रयः ककारोलक्ष्यते । तेन कुवं नेत्यस्य ककारादेशो नेति पर्यवसितार्थः । आह च। सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशेषिता । संज्ञाशब्दस्वरूपं वा प्रत्ययस्त्वतलादिभिरिति । इत्थं पदविभागः पदसाधुत्वं चोक्तम् । वाक्यार्थस्तु संज्ञासंज्ञिभावः । तथाहि । समानविभक्तिकनामार्थयोरभेदान्वयस्य व्युत्पन्नतयाऽऽकारादयो वृद्धि प्रत्यभेदेन संसर्गेण विशेष्याः । विरूपोपस्थिनिस्तु विशषणीभूतं शब्दस्वरूपमादाय बोध्या । एतेनेन्द्रो मरुत्वान्मघवेत्यादि व्या