SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १ पा. ३ आ. शब्दकौस्तुभः । .. ख्यातम्।न तु तत्रापि मरुत्त्वदादिशब्दानां तत्तद्वाच्ये लक्षणेति ग्रा-.. ह्यम् । उक्तरीत्या लक्षणां विनवोपपत्तेः । अत एवोद्भिदधिकरणे. विशिष्टविधिपक्षं मत्वर्थलक्षणाप्रसङ्गेन दूषयित्वा नामधेयस्वं सिद्धान्तितम् । अन्यथा नामधेयत्वेपि लक्षणायास्तुल्यतया ऽधिकरणस्यासम्भवदुक्तिकतापत्तेरिति दिक् । स्यादेतत् । किमादैज्मात्रस्य वृद्धिसंज्ञा आहोस्विद् वृद्धिशब्दमावर्त्य वृद्धिरिति ये आ.. दैचस्ते वृद्धिसंज्ञा इति व्याख्यानाल्लुकलुलुप्संज्ञावत्तद्भावितानामेवेति । नाद्यः । सर्वभासः सर्वकाक इत्यादावुत्तरपदवृद्धौ सर्व चेति सूत्रेण पूर्वपदान्तोदात्तत्वप्रसङ्गात् । इष्यते तु समासस्येत्यन्तोदात्तः । न च सर्वस्य सुपीत्यायुदात्तता शंक्या । सतिशिष्टेन समासस्वरेण बाधात् । सर्वस्तोम इत्यादौ तु बहुवीही प्रकृत्या पूर्वपदमित्यनेन समासान्तोदात्तत्वे बाधिते सर्वस्य सुपीति भवत्येव । इह तु कर्मधारयत्वात्समासान्तोदात्तत्वमेवेति बोध्यम् । किं च तावती भार्या यस्यति बहुव्रीही तावद्भायो न सिद्धयेत् । वृद्धिनिमित्तस्य च तद्धितस्येति पुंवद्भावप्रतिषेधप्रसङ्गात् । न द्वितीयः । शालीयो मालीय इत्यादौ वृद्धलक्षणस्य च्छप्रत्ययस्यासिद्धिप्रसङ्गात् । किं चैवमाममयं शालमयमित्यादौ नित्यं वृद्धशरादिभ्य इति नित्यो मयट् न स्यात् । किं चामगुप्तायनिः शालगुप्तायनिः, उदीचा वृद्धादगोत्रादिति वृद्धलक्षणः फिञ्न स्यात् । ननु प्राचामवृद्धात्फिन् बहुलमिति फिनाप्येतत्सिद्धम् । नात्र फिफिनोः स्वरे रूपे वा विशेषोस्ति । नित्यादिनित्यमित्यायुदात्तस्योभयत्राविशिष्टत्वात् । न चामगुप्तायनीभार्य इत्यत्र वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारइति पुंवद्भावप्रतिषेधसिद्धये फिलेव कर्त्तव्य इति वाच्यम् । जातेश्चेत्यनेनापि प्रतिषेधसिद्धेः। न चामगुप्तायनेश्छा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy