________________
शब्दकौस्तुभः ।
[ १ अ०
सम्प्रसारणमित्यादाविवोभयथाप्यदोषात् । आदिति तपरकरमैजर्थ तेन त्रिमात्रचतुर्मात्राणामैचां संज्ञा न भवतीत्याद्ये ओडैऔचमूत्रयोः प्रपञ्चितम् । नचैवं तकारस्योत्तरशेषतैव स्यादिति पदान्तताविरहाज्जश्त्वं न स्यादिति वाच्यम् । असन्देहार्थतया ssकारशेषत्वस्यापि सम्भवात् । अस्तु वाजिति पदम् । ऋत इद्धातोरित्यादौ दपरत्वमेवाश्रित्य तपरसूत्रे दकारोपिलिप्यतइति तत्स्वरितमिति सूत्रे भाष्यकारैर्वक्ष्यमाणत्वात् । दात्परस्यापि तत्कालग्राहकत्वात् । वस्तुतस्तु दकारप्रश्लेषपक्षोभ्युच्चयमात्रम् । इह तु तपरकरणं स्पष्टार्थमेवेत्यादि प्रागेवोक्तं न विस्मर्त्तव्यम् । ननु चोः कुरिति कुत्वमैच्शब्दे प्राप्नोति चतुष्टयी शब्दानां प्रवृत्तिरिति पक्षे ऽस्य संज्ञाशदतया लौकिकत्वेनानुशासनविषयत्वात् । त्रयीपक्षेपि जातिशब्दत्वसम्भवात् । वैशेषिक परिभाषया द्रव्यत्वगुणत्वादिजातिस्वीकारे वैयाकरणपरिभाषयापि तत्स्वीकारस्य दुर्वारत्वात् । वस्तुतस्तु सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जातित्वस्वीकारादिहापि सास्तु । व्यक्तिविशेषाश्च स्वरूपसत्ता अतदेनानुगतीकृतास्स तोपधायकाः । तदुक्तम् । तस्यां सर्वे श ब्दा व्यवस्थिता इति । आद्यंतावयवद्वारा समुदायानुकरण ऐच वा शब्दः । अनुकरणशब्दाच जातिशब्दा एव । तत्रानुकार्यनिष्ठजातेः प्रवृत्तिनिमित्तत्वात् । न चाद्यपक्षे सूत्रवैयर्थ्यम् । मदीयशास्त्रे वृद्धिशब्देनादैच एक ग्राह्या इति नियमार्थ सूत्रारम्भात् । तदुक्तं कैयटेन, अनेकशक्तेः शब्दस्य शक्तयवच्छेदेन संज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसंज्ञानां लौकिकत्वादिति । अनेकस्मिन्ननेका वा शक्तिरस्येति विग्रहः । अवच्छेदकभेदेपि लाघवाच्छतिरेकैव, औपाधिको भेद इति प्रवादस्तु उपाधि
८६