________________
१ पा. ३ आ..
शब्दकौस्तुभः ।
सति कृतसमासान्तपाहत्मक्रमोपि न विरोत्स्यते । बहुव्रीहिभिन्न च समासान्तविरहादेव वारयिष्यते । ननु षष्ठीतत्पुरुषादि वा. रणाय बहुव्रीहिग्रहणमस्तु । तथाहि । द्वयोर्दन्ता इति विगृह्य द्विदतः पश्येति प्रयोगे पद्दनिति दतादेशः, स एवेह निरनुबन्ध. कत्वाद्वा गृत्येत । न च पदनिति सूत्रे तदन्तविधिदौर्लभ्यात्कथ. मेतदिति वाच्यम् । प्यङः सम्प्रसारणमितिसूत्रस्थपूर्वपक्षन्यायेन सिद्धं त्ववयवानन्यत्वादित्याष्टमिकभाष्यवार्तिकन्यायेन चावयवस्य कार्यलाभात् । अन्यथा हास्तिशीाउपैषीत्यादावगते. रिति वक्ष्यते । तस्मात्कथं बहुव्रीहिग्रहणं ज्ञापकमिति चेत् । न । पूर्वोत्तरसाहचर्यवलेनापि बहुव्रीह्यप्रविष्टस्य वारणसम्भवात् दत इति सानुबन्धस्यापि सुपठत्वाच्च । स्फिगपूतवीणां जोध्व- . कुक्षिसीरनामनामचेति सूत्रे ऽपाच्चेत्यनुवृत्या ऽपस्फिगमित्यादावुत्तरपदान्तोदात्तविधायके ऽध्व शब्दग्रहणमपीह लिङ्गम् । उपसगोदध्वन इत्यच्प्रत्ययस्य नित्यत्वे हि चित्वादेव सिद्धं स्यात् । तथा प्रतेरंवादयस्तत्पुरुषइति सूत्रे ऽश्वादिगणे राजनशब्दस्य पाठोपीह लिङ्गम् । अन्यथा राजाहः सखिभ्यष्टीजति ठचैव सिद्धे किन्तेन । यत्तु ऋक्पूरब्धः पथामित्यत्र टिलोपस्येव प्रकृतिवदनुकरणमित्यतिदेशेन प्रत्ययस्यापि प्राप्तौ तदकरणं ज्ञापकीमति । तन्न । अतिदेशो ऽयमनित्य इति ऋलक्सूत्रे प्रपञ्चितत्वादिति दिक् । कृतमनयोः साधुत्वमित्यादिभाष्यग्रन्थाश्चास्मिन्पक्षेनुकुलाः अनयोः पदयोरिति स्वरसात् । अथ वा ऽऽदित्यसमस्तमेव । पस्पशायां शब्दापतिपत्तिरिति वार्तिके भाष्यकारैरेव वृद्धिः आदैजिति पदविभागप्रदर्शनात् । अस्मिंश्च पक्षे अनयोः सूत्रखण्डयोरिति नेयम् । पक्षान्तराभिप्रायकमेव वा तत् । वृद्धिशब्दस्तु तन्त्रेणावृत्या वा योजनीयः । द्विवचनेचीग्यणः