SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ८४ शब्दकौस्तुभः । [१ अ० तस्मिन् भूतपूर्वेण तेन सहित आदिः संज्ञा भविष्यति । अन्तःपातिनां तु लुप्तानां न संज्ञा । श्रूयमाणेष्विकारादिषु सावकाशत्वादिति । ननु हल्पत्याहारे ऽकारस्य प्रवेशो दुर्वारः । नहि तत्र लोपो लभ्यते । ततः प्रागच्संज्ञाविरहेणोपदेशेजितीत्संज्ञाया अप्रवृत्तेः । एवं चाद्यसमाधानमपि दुरुपपादम् । उदाहतस्याचारस्य लोपश्च बलवत्तर इत्यनेनैव गतार्थत्वादिति चे. म । सोस्यादिरितिनिर्देशेन प्रथमस्य गुणानां भेदकत्वेन च. रमस्य च समाधानस्य सूपपादत्वादिति दिक् ॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे द्वितीयमान्हिकम् ॥ २॥ वृद्धिरादैच् ॥ आकार ऐकार औकारश्च वृद्धिसंज्ञः स्यात् । संज्ञाप्रदेशा वृद्धिरेचीत्यादयः। तदुदाहरणमवास्याप्युदाहरणं बोध्यम् । इहाच्च ऐच्चेतरेतरयोगद्वंद्वः सुपां सुलुगिति सुलुग्वा । अथवा समाहारे द्वंद्वः । नचैवं द्वंद्वाच्चुदषहान्तादिति टच् स्यादिति वाच्यम् । समासांतविधेरनित्यत्वात् । अत्र ज्ञापकं तु द्वित्रिभ्यां प मूर्ध्न इति षविधानाम् । तद्धि बहुव्रीहौ स. क्थ्यक्ष्गोरिति पचि प्रकृतपि क्रियते । पचश्चित्वसामर्थ्याज्जायमानमन्तोदात्तत्त्वं बहुव्रीहित्वप्रयुक्तं पूर्वपदप्रकृतिस्वरं यथा बाधते तथा द्वित्रिभ्यां पाहन्मूर्ध्नसु बहुव्रीहाविति विधीयमानमन्तोदात्तत्वविकल्पं मा बाधिष्टेत्येवमर्थम् । तच्च द्वित्रिभ्यामित्यस्य क्व चिल्लब्धावकाशत्वे सत्येव सङ्गच्छते न त्वन्यथा । अवकाशश्च समासान्तानामनित्यतायां सत्यामेव लभ्यते । त्रिमूर्द्धानं सप्तरश्मि गृणीष इति यथा। तस्मात्प्रत्ययावधानं ज्ञापकमिति स्थितम् । तथा द्वित्रिभ्यामिति सूत्रे बहुव्रीहिग्रहणमपीह ज्ञापकम् । अन्यथा पादनमूद्धेष्वित्येव निर्दिशेत्। एवं हि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy