SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ २ पा. ३ आ. शब्दकौस्तुभः । 'ने दीर्घविधानादसारूप्यादेकशेषाभावः । न च वाचानकैकशेषविरहेपि श्लिष्टरूपकस्थलइव तन्त्रन्यायाश्रयेण पाक्षिक एकशेषो मातृमात्रोः स्यादेवोत वाच्यम् । यान्येकविभक्तौ सरूपाण्येव तेषामेवैकशेष इति नियमात् । न चैवं घटघटाविति पापाक्षिकं दुर्वारमिति वाच्यम् । तन्त्रावृत्त्याद्याश्रयणेन सरूपाणामेकशेष एवेत्यपरनियमाश्रयणात् । तस्मात् घटकुम्भौ कु. म्भकुम्भौ मातृभ्यां चेति पाक्षिकमनिष्टत्रितयं प्राप्त सूत्रेणानेन वार्यते । घटावित्यादिसिद्धिस्तु स्यादेवैतद्विनापि हि । जातिपक्षे व्यक्तिपक्षेपीति निष्कर्षसंग्रहः। स्यादेतत् । देवदेव इत्यादावपि तत्र्येकशेषः पामोति । न चैविभक्तावित्यनेन तद्वारणम् । तस्य सारूप्योपलक्षणत्वादेकशेषस्य चानैमित्तिकत्त्वात् । अथ वक्ष्यमाणरीत्या एकशेषविशेषणतां ब्रूषे, तथाप्यनिस्तारः । देवदेव इत्यत्रापि षष्ठीसमासादुपरि एकदिभक्तेः सत्वात् । अन्तर्वर्तिन्योस्तु लुका लुप्तत्वेन प्रत्ययलक्षणाभावात् । अत्राहुः । सहविवक्षायामेव एकशेषः । इतरेतरयोगद्वन्द्वस्य विषये इति यावत् । यत्र ह्यनेकस्यार्थस्य मिलितस्येतरान्वयः स तथाभूतो विषयः । उक्तञ्च । अनुस्यूतेव भिनानामेका प्रख्योपजायते । यदा सहविवक्षान्तामाईद्वन्दैकशेषयोरिति ॥ अयञ्च विषयनियमो ऽभिधानवलाल्लभ्यते वृद्धोयूनेत्यादिसूत्रेषु सहयोगे तृतीयायाः प्रयोगाच्च । यद्वा । पूर्वमूत्रात् द्वन्द्वे इत्यनुवर्तते । अाधिकाराचेतरेतरयोगद्वन्द्वावगमः। तेन द्वन्द्वे प्रसक्ते सतीति व्याख्यानादुक्तविषयनियमसिद्धिः । न च द्वन्द्वे कृतइत्येव व्याख्यायतामिति वाच्यम् । स्वरसमासान्तादिदोषप्रसङ्गेन कृतद्वन्द्वानामेकशेष इति पक्षस्य दूषयिष्यमाणत्वात् । एतेन सारवसारवोर्मिज इति श्रीहर्षप्रयागोपि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy