________________
४२८
शब्दकौस्तुमः। [१ अ० इत्यादीन्यपीहोदाहरणानि । तत्रापि ऐच्छिकस्यानेकव्यक्तिबोधोद्देश्यकस्यानेकविशकलितशब्दप्रयोगस्य घटोयं घ. टोयमिति बहुशो दर्शनेन तद्वदेव सहविवक्षायां घटावित्यादिद्वन्द्वस्य दुवारत्त्वात् । एतेन व्यर्थेषु च मुक्तसंशयमिति वार्तिकं दृष्ट्वा नानार्था एवेहोदाहरणमिति भ्राम्यन्तः परास्ताः । न च पदार्थतावच्छेदकभेदाभावाद्घटावित्यादौ द्वन्दप्रसक्तिर्नेति वाच्यम् । चार्थेद्वन्द्व इति सूत्रेण साहित्यमात्रे तद्विधानात् । तस्य चेतरेतरयोगद्वन्द्वे एकशेषे च विशेषणत्वं प्रयोगोपाधित्वं वा । समाहारद्वन्द्वे तु प्राधान्येन भानमित्यन्यदेतत् । न चैमपि घटकलशावित्यादिद्वन्द्वापत्तिः । विरूपाणामपि समानार्थानामिति वार्तिकेन एकशेषात् । वस्तुतस्तु सौत्र एवायमर्थः । रूप्यते बोध्यते इति रूपम्, अर्थः समानं रूपं येषामिति सरूपाः । ज्योतिर्जनपदति समानस्य सभावः । सरूपाश्च सरूपाश्च तेषामिति एकशेषण व्याख्यानात् । न च स्वाङ्गे स्वव्यापारायोगः व्याक्यापरिसमाप्तिन्यायादिति वाच्यम् । उद्देश्यतावच्छेदकरूपाक्रान्ततया तुल्यास्यप्रयत्नमिति वत्स्वस्मिन्नपि प्रवृत्तेः । एतद्विषयविवेचनं तु अइउणित्यत्रैव कृतम् । अत एव जननीवाचिनो मातृशब्दस्य धान्यमापवाचिनस्तृजन्तस्य च एकशेष निषेद्धं प्रवृत्ते मातृमात्रोः प्रतिषेधः सरूपत्वादिति वार्तिके स्वान्तर्गते मातृमात्रोरित्यत्रापि निषेधप्रवृत्तिः । नन्वर्थविशेषोपहितयोरेव तत्रानुवादः । अन्यथा जननीवाचिनोरपि निषेधापत्तेः, तत्कथं शब्दरूपपरे स्वान्तर्गते निषेधप्रवृत्तिरिति चेत् । प्रकृतिवदनुकरणमित्यतिदेशादिति गृहाण । सूत्रमते तूत्तरसूत्रादेवकारोत्रानुकृष्यते । तेन एकविभक्ती यानि सरूपाण्येवेति व्याख्यानात्परिच्छेतृवाचिनश्चाप्तमिति सर्वनामस्था