SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [१ अ० व्याख्यातः । सरव्यां भवाः सारवाः । ते च ते आरवसहिताश्चेति कर्मधारये सहविवक्षाविरहात् । विद्वन्मानसराजहंसेत्यादिश्लिष्टरूपके तु मानसमेव मानसमिति तन्त्रेण प्रयोगो. न तु सौत्र एकशेषः । सहविवक्षाविरहात् । सारव इत्यत्रापि तथा स्यादिति चेत् । पक्षे एवमेव । तावतापि उभयप्रयोगस्य निर्वाह्यत्वात् । न चैवं समाहारद्वन्द्वविषये एकशेषानुशासनात्पाक्षिकं घटघटमित्यादि दुर्वारमेवेति वाच्यम् । तत्रानभिधानस्यैव शरणीकरणीयत्वात् । अस्तु वा तत्राप्येकशेषप्रवृत्तिः। न चैवं नपुंसकतापत्तिः । समाहारद्वन्द्व एव तदनुशासनात् । तथा च प्रत्यर्थ शब्दनिवेश इति पक्षे न ब्राह्मणं हन्यादित्यादौ सकलव्यक्तिसङ्ग्रहो भविष्यतीति प्रतिव्यक्तिलक्षणं नावतनीयम् । एकवच्चास्यान्यतरस्यामिति ज्ञापकादकशेषे कृते. एकवद्भावो नेति तु तत्त्वम् । एकश्च एकश्च द्वौ च द्वौ चेत्यादौ तु द्वन्द्वैकशेषौ उभावपि अनभिधानेनैव वारणीयौ । उत्सर्गतः संख्याशब्देप्येवमेवेति बोध्यम् । विंशतीत्यादौ त्वेकशेष इष्ट एवेति दिक् । एवं स्थिते सूत्रारंभपक्षेपि बहुशो ऽनभिधानस्यैवाश्रयणाद् घटघटावित्यादावपि तथैवास्तु किं तमिरासार्थ सूत्रारम्भेणेत्याशयेन भगवता एकशेषप्रकरणं प्रत्याख्या. तम् । न चैवं पितरावित्यत्र मातुः श्वशुरावित्यादौ श्वश्वादश्च प्रतीतिः कथं स्यादिति वाच्यम् । एकशेषारम्भेपि तौल्यात् । यः शिष्यते स लुप्यमानार्थाभिधायीति चेत्, तर्हि द्विवचनाद्युपाधिविशेषपुरस्कारेण पित्रादिशब्दानामेव मात्रादौ शक्तिनिरूढलक्षणा चेति फलितोर्थः । तथा च लोकव्यवहारादव तद्गहसम्भवे न किञ्चिदनुपपन्नम् । न चैवमग्निचिदित्यादौ किवादयोपि प्रत्याख्यायतामिति वाच्यम् । प्रत्ययलक्षणेन तुगाग
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy