SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ २ पा. ३ आ. शब्दकौस्तुभः । मप्रातिपदिकसंज्ञाद्यर्थ तदारम्भात् । तदेवं सरूपाणां विरूपाणां च सर्वमेकशेषं प्रत्वाचक्षाणेनापि भगवता सरूपसूत्रमात्रं तु शास्त्रीये व्यवहारे संज्ञापरिभाषादिवद्विनापि सहविवक्षामेकशेष विधातुं भविष्यतीत्याशयेन द्विवचनेचीत्यत्र एकशेष इति भाष्यभिहितमिति दिक् । आरभ्यमाणे तु सूत्रे यद्यपि षट् प. क्षाः सम्भवन्ति तथापि तत्र त्रयो दुष्टा एव त्रयस्तु निर्दोषा इत्यवधेयम् । तथाहि । पृथक्सर्वेभ्यो विभक्तौ परत एकशेषः । एकवचनान्तानाश्चाकृतद्वन्द्वानां वा समुदायादेकविभक्तौ वा युगपदधिकरणवचने वा अनैमित्तिको वेति षट् पक्षाः । तत्राये एकशब्दः समानपर्यायस्तथा च वृक्ष स् वृक्ष स् इति स्थिते आधयोनिवृत्तौ स् स् वृक्ष स् इति स्थिते संयोगान्तस्य पदान्तस्य लोप इति व्याख्याने मध्यमस्य सोर्लोपः । संयोगान्तं यत्पदं तदन्तस्यति व्याख्याने तु हल्ङयादिलोपः तत्रापि सुतिसीति प्रत्ययैः प्रकृतेराक्षेप इति पक्षे तु न कस्य चिल्लोपः । सर्वथापीष्टरूपं न सिध्यत्येव । आद्यन्तयोनिवृत्तौ तु स् वृक्ष स् स् इति स्यात् । परयोनिवृत्तौ तु वृक्ष स् स् इति स्यात् । तथा वृक्षा अनित्या इत्यादावन्तसुप्रत्ययश्रवणं स्यादिति दुष्ट एव प्रथमः पक्षः। द्वितीये तु वृक्ष स् इति सविभक्तिकस्यावस्थानात् । द्विवचनबहुवचनयोरनुत्पत्तिरेकवचनश्रवणञ्च स्यात् । तृतीये तु द्वन्द्वे इति अनुवर्त्य अभिमतवाक्यार्थों यद्यपि लब्धं शक्यते तथापि अश्व अश्व औ इति स्थिते विभक्तयपेक्षाच्छेषात्पूर्वमन्तरङ्गत्वात्समासान्तोदात्ते कृते यदि पूर्वशेषस्तार्ह सर्वानुदात्तं पदं स्यात् । परशेषे त्वन्तोदात्तं स्यात् । इष्यते त्वाद्युदात्तम् । अशेः कनिब्व्युत्पादनात् । यो अश्वेभिर्वहतेविभवोह्यश्वा इत्यादौ तथैव प्रयोगाच्च । किञ्च ऋक्च ऋक्च ऋचावि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy