SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [ १ अ० त्यत्रान्तरङ्गत्वादृक्पूरिति समासान्ते कृते विभक्तेरकारेण व्यव धानादेकशेषो न स्यात् । समासान्तो हि समासभक्तस्तमेव न व्यवदध्यात् । स्वरूपं तु व्यवदधात्येव । समासार्थोत्तरपदस्यावयव इति भाष्यमतेपि विरूपत्वादेकशेषो दुर्लभः । त्रिरूपाणामपि समानार्थानामिति तु यद्यपि प्राप्नोति तथापि पक्षे ऋ च इत्यस्य शेषे टापि ऋचे ऋचा इत्याद्यपि स्यात् । एवं पथा पौ इत्याद्यपि पक्षे स्यात् । अपि च करौ करा इत्यादि न सिध्येत् । प्राण्यङ्गानां समाहार एवेति नियमात् । अपि च सर्वेचामित्यादौ द्वन्द्वे विभाषाजसीति प्रवर्त्तेत । अत एव विरूपैकशेषो न कृतद्वन्द्वानां तेषामित्यादौ त्यदादीनि सर्वैरित्येकशेषे सर्वनामत्वाभावप्रसङ्गात्तदेवं त्रयः पक्षा दृष्टा इति स्थितम् । सिद्धान्तस्तु त्रेधा । तथाहि । राम राम राम इत्यत्रावयवानामिव समुदायस्याप्येका प्रातिपदिकसंज्ञा तावदस्ति । मिलितेनार्थवत्वात् । न चार्यवत्समुदायानां समासग्रहणं नियमार्थमित्युक्तेः कथमेतदिति वाच्यम् । नियमस्य सजातीयविषयकत्वेन यत्र समुदाये पूर्वो भागः पदं तत्रैव प्रवृत्तेः । अत एव बहुपटव इत्यश्र प्रातिपदिकत्वं भवत्येवेत्युक्तमर्थवत्सूत्रे । तथा चैकाद्विर्वचनन्यायेन समुदायप्रातिपदिकादेव द्विवचनबहुवचनयोरुत्पत्तिः । तावताप्यवयवानां संख्यान्वयेनानुग्रहसम्भवात् । तथा च समुदायादेकविभक्तौ परत एकशेषः । रामकृष्णावित्यादौ तु यद्यप्युक्तरीत्या समुदायादेकविभक्तिः प्राप्ता तथापि द्वन्द्वविधा - घनेकं सवन्तमित्यस्यानुवृत्त्या बाध्यते । अस्मिन्पक्षे मातृमाश्रोरपि एकशेषः प्राप्तः । एकविभक्तावित्यस्यावृत्त्या एवकारस्य चानुकर्षणेन एकविभक्तौ यानि सरूपाण्येवेति व्याख्यानान भवति । यद्वा युगपदधिकरणवचनतायां द्विवचनबहुवचना ४३२
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy