SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ २ पा. ३ आ. शब्दकौस्तुभः । न्तानामेकशेषः । द्वन्द्वोप्येवम् । अजहत्स्वार्थायां हि वृत्तौ रामकष्णावित्यादौ पूर्वपदमप्युभावभिधते तावेवोत्तरपदमपि । न चान्यतरवैयर्थ्यम् । परस्परसमभिव्याहारेणैवो भयार्थताध्यवसायात् । तथा च द्वन्द्वसत्तेः प्रागेकैकार्थतावगमोप वृत्तावुभयाभिधानात्मत्येकं द्विवचनाद्युत्पत्तिः । एवमकेशेषवृत्तावपि परार्थाभिधानं वृत्तिरिति सिद्धान्तात् । तथा च रामश्च कृष्णश्चेति लौकिकवाक्य. स्यादूरविप्रकर्षेण विग्रहतया प्रदर्शनपि अलौकिकदन्द्रकशेषयोः प्रक्रियावाक्ये राम औ कृष्ण औ इति प्रविशति । तथा च विभक्त्यन्तानामेकशेषोपि निधि एव । अथ वा उपक्रमएव यथा व्याख्यातं तद्रीत्या अनैमित्तिक एवैकशेषः । तथा च पक्षत्रयं स्थितं सिद्धान्ते । अत्रेदमवधेयम् । उक्तपक्षत्रयमध्योपि समुदायादेकविभक्ताविति पक्षस्तावत् दुष्ट एव मातृमातारावित्यत्रातिप्रसङ्गं वारयितुं एकविभक्तावित्यस्य सरूपाण्यवेत्येतद्विशेषणतया आवश्यकत्त्वे स्थिते एकशेषविशेषविशेषणत्त्वायोगात् । आवृत्तौ मानाभावात् फलाभावाच्च । न च पयः पयो जरयती. त्यादिव्यावृत्तिः फलम् । सहविवक्षायामित्यस्य द्वन्द्वग्रहणवले. 'नावश्यवाच्यत्त्वात् । अन्यथा पयः पयो नयतीत्यत्र गाणमुख्यकर्मणोरेकशेषापत्तेः । देवदेव इत्यादावतिप्रसङ्गाच्च । प्र. त्युत आवृत्त्योभयविशेषणत्वे भैक्षमिति न सिध्येत् । तथा हि । भिक्षा ३ आम् अ इति स्थिते अन्तरङ्गानपि विधीन्बहिरगोपीति लुकि छते लुका लुप्ते प्रत्ययलक्षणविरहादेक शेषो न स्यात् तथा युगपदधिकरणवचनतापक्षोपि दुर्बलः । जहत्स्वार्थायां वृत्तौ तदयोगात् । तथा च द्वितीये भाष्यम् । सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा चेति । तच्च तत्रैव स्फुटीकरिष्यामः । तस्मात्प्रागुक्तपटपक्षीमध्ये ऽनैमित्तिकत्वपक्ष
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy