________________
शब्दकौस्तुभः । [१ अ. एव प्रबलः । इतरे पश्चापि हेया इति तदभिप्रायंकतयैव सूत्रं व्याख्यातम् । पचतीत्यादौ तु धातोर्द्वन्द्वादिप्रसक्तिरेव नास्ति यद्वाक्यशेषो मृग्येत । न च मिलिताल्लडादिप्रसङ्गः । धातोरित्यकत्वस्य विवक्षितत्वात् । न चैकस्मादेव कद्वये लद्वयं कर्तृबहुत्वे लकारबहुत्वञ्च स्यादिति वाच्यम् । इष्टापत्तेः । लस्येत्यत्र जातिविवक्षया लद्वयस्य तसादयः बहूनान्तु झिथादय इति सुवचत्वात् । वस्तुतस्तु वर्तमामाने लडित्यादौ व्यक्तिनिष्ठकत्वस्य विवक्षणान्न कश्चिद्दोषः । अत एव वृक्षवृक्ष सिञ्चतीत्यादौ नानकत्वाभिधानार्थ विभक्तिपरम्परा नेति दिक् । गर्गावित्यादावपि पितुरेकत्वात्प्रकृतिरेकाप्रत्ययास्तु बहवः । सर्वेषां प्रकृत्यान्विताभिधायितया विरूपाणामपि समानार्थानामिति गर्गयशब्दस्य शेषः । न च पक्षे यशब्दमात्रस्यापि तदापत्तिः । विकल्पस्याष्टदोषदुष्टत्वात् । न च विनिगमका• भावः । अणुरपीति न्यायेन स्पष्टप्रतिपत्तिसामर्थ्यस्यैव विनिगमकत्वात् । यद्वा । यत्र इत्यपि व्यक्त थैक्यं विवक्षितम् । प्रतिप्रधानञ्च गुणावृत्तिः । गार्यशब्दत्रयस्य चैकशेषः । उभयथा यजन्तं यद्बहुष्विति लुक् । न चैवं काश्यपस्य प्रतिकृतिः काश्यपः । ततः प्रतिकृतीनां सहविवक्षायां काश्यपा इत्यत्रापि अजन्तं बहुषु वर्ततइति लुक् स्यादिति वाच्यम् । यस्कादिभ्योगोत्रइत्यतो गोत्रइत्यनुवत्तेः । यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं तथापहि ऋषिप्रजन एव गोत्रं विवक्षितमिति स्त्रीपुंसाभ्यांनञ्स्नबाविति सूत्रे कैयटः । तेन पौत्रा दौहित्रा इत्यत्र न लुगित्यवधेयम् । एतेन संख्यया कर्मभेद इत्यस्य व्युत्पादनाय प्रवृत्ते पृथक्त्वनिवेशात्संख्यया कर्मभेदः स्यादित्यधिकरणे सप्तदश प्राजापत्यानित्युदाहृत्य, किं त्वयं तद्धितान्ता