SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ २ पा. ३ आ. शब्दकौस्तुभः । नामेक शेषः कृतो भवेत् । किं वा कृतैकशेषाणां पश्चात्तद्धितसङ्गतिरिति वदतां भट्टानां ग्रन्थोपि व्याख्यातः । ण्यप्रत्ययान्तानामेकशेषः । ण्यप्रत्ययान्तानामेव वेति तदाशयात् । कृतैकशेषाणां प्रजापतिर्देवता येषामिति कृतैकशेषयच्छब्देनोपस्थापितानां तद्धितसङ्गतिस्तद्धितवाच्यता । तथा च मिलितानां देवतासम्बन्धं बोधयितुं लौकिकविग्रहे येषामिति निर्देशः । वृत्तौ तु देवतावद्वाचकस्य तद्धितस्यैकशेष इति मिलितेषु पशुषु देवतान्वयादेको यागः । अग्नीषोमीय इत्यादौ मिलितयोर्देवतायामभेदान्वये यथेत्युदात्तवार्तिकस्योत्तरार्थोध्यवसेयः । युक्तं चैतत् । प्रत्ययार्थबहुत्वं हि प्रत्यक्षमुपलभ्यते । तत्कृतं चैकशेषत्वमिति न प्रकृतौ भवेदित्युत्तरवार्तिकस्यानुगुण्यात् । स्यादेतत् । प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् । अभेदश्चेह सम्बन्ध आग्नेयादावियं स्थितिरिति पक्षे देवतावतां साहित्यं लभ्यते न तु सहितानां देवताक्त्वे देवतायां प्रदेये च खण्ड शः शक्तिरिष्यतइति पक्षेपि एकप्रत्ययोपात्तदेवतान्वयस्यान्तरङ्गत्वादेवमेवोत चेत्सत्यम् । प्रदेय एव शक्तिः प्रकृतेस्तु प्रत्ययसमभिव्याहारादेवतायां निरूढलक्षणेत्याशयेनायं ग्रन्थो नेयः । केवलादेवतावाची तद्धितोग्नेः समुच्चरन्नित्यादिग्रन्थास्तु मतान्तराभिप्रायेण नेयाः । न चैवमपि विरूपैक शेषपक्षे समानार्थतालाभार्थ प्रकृत्यर्थान्वयस्य प्राथमिकत्वं स्वीकार्यमेवेति वाच्यम् । ययय इत्येषा मेकविभक्ति प्रति प्रकृतित्वाभावे ऽपि: विभक्तौ परतः सारूप्यसम्भवेन सरूपैकशेष एवेत्याशयात् । प्रकृतमनुसरामः । स्वरभिन्नानां यस्योत्तरः स्वरविधिः स शिप्यतइति वक्तव्यम् । तेन पूर्वोदात्ते हरिण्यावित्यत्र ङीवन्तस्य पिन्त्वादनुदात्तप्रत्ययकस्य शेषः । न तु जातौ पुंयोग वा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy